← सूक्तं ३.०२ अथर्ववेदः - काण्डं ३
सूक्तं ३.३
अथर्वा
सूक्तं ३.०४ →
दे. १ अग्निः, २ इन्द्रः, ३ वरुणः, सोमः, इन्द्रः, ४ श्येनः अश्विनौ, ५ इन्द्राग्नी विश्वेदेवाः, ६ इन्द्रः। त्रिष्टुप्, ....

अचिक्रदत्स्वपा इह भुवदग्ने व्यचस्व रोदसी उरूची ।
युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम् ॥१॥
दूरे चित्सन्तमरुषास इन्द्रमा च्यावयन्तु सख्याय विप्रम् ।
यद्गायत्रीं बृहतीमर्कमस्मै सौत्रामण्या दधृषन्त देवाः ॥२॥
अद्भ्यस्त्वा राज वरुणो ह्वयतु सोमस्त्वा ह्वयतु पर्वतेभ्यः ।
इन्द्रस्त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः ॥३॥ {४}
श्येनो हव्यं नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम् ।
अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम् ॥४॥ {५}
ह्वयन्तु त्वा प्रतिजनाः प्रति मित्रा अवृषत ।
इन्द्राग्नी विश्वे देवास्ते विशि क्षेममदीधरन् ॥५॥ {६}
यस्ते हवं विवदत्सजातो यश्च निष्ट्यः ।
अपाञ्चमिन्द्र तं कृत्वाथेममिहाव गमय ॥६॥ {७}


सायणभाष्यम्

'अचिक्रदत्' इति सूक्तेन शत्रूत्सादितस्य राज्ञः पुनः स्वराष्ट्रप्रवेशार्थं शत्रुसेनाकारं पुरोडाशम् उदकेषु दर्भान् संस्तीर्य तत्र निनयेत् । ततो निमज्जनार्थं तं पुरोडाशं लोष्टेन पूरयेत् ।

तथा अनेन सूक्तेन स्वराष्ट्रप्रवेशार्थं क्षीरोदनं संपात्य अभिमन्त्र्य राजानम् आशयेत् ।

अत्र सूत्रम् -- " 'अचिक्रदत्' (अ ३,३), 'आ त्वा गन्' ( अ ३,४ ) इति यस्माद् राष्ट्राद् अवरुद्धस्तस्याशायां 'सेनाविधं पुरोडाशं दर्भेषूदके निनयति' ( कौसू १६,३० ) इत्यादि ।

अत्र ‘अचिक्रदत्' इत्यस्य साकमेधाख्यपर्वणि पूर्वेद्युः क्रियमाणायाम् आग्नेय्याम् इष्ट्यां प्रधानयागानुमन्त्रणे विनियोगः । उक्तं वैताने -- “कार्तिक्यां साकमेधाः। पूर्वेद्युरिष्ट्याम् अग्नेरनीकवतः ‘अचिक्रदत् (वैताश्रौ ९,१;२ ) इति ।


अचिक्रदत्स्वपा इह भुवदग्ने व्यचस्व रोदसी उरूची ।

युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम् ॥१॥

अचिक्रदत् । स्वऽपाः। इह । भुवत् । अग्ने । वि । अचस्व । रोदसी इति । उरूची इति ।

युञ्जन्तु । त्वा । मरुतः । विश्वऽवेदसः । आ । अमुम् । नय । नमसा । रातऽहव्यम् ॥ १॥

हे अग्ने असौ स्वराष्ट्रात् प्रच्युतो राजा अचिक्रदत् पुनः स्वराष्ट्रप्रवेशाय त्वाम् आह्वयति । प्रार्थयत इत्यर्थः । कदि क्रदि क्लदि आह्वाने रोदने च। अस्माद् ण्यन्तात् लुङि चङि रूपम् । 'अनित्यम् आगमशासनम्' इति नुमभावः । स त्वदनुग्रहात् इह स्वराष्ट्रे स्वपाः स्वकीयानां प्रजानां पालकः सुकर्मा वा भुवत् भवतु । भवतेर्लेटि अडागमः। छान्दसः शपो लुक् । 'भूसुवोस्तिङि' ( पा ७,३,८८ ) इति गुणप्रतिषेधे उवङ्। तद्रक्षणार्थं त्वं च उरूची उरूच्यौ उर्वञ्चने। व्यापनशीले इत्यर्थः। उरुपूर्वाद् अञ्चतेः *[क्विन् ] 'अञ्चतेश्चोपसंख्यानम्' ( पावा ४,१,६) इति ङीप् । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । ईदृशौ रोदसी द्यावापृथिव्यौ 'व्यचस्व व्याप्नुहि । व्यचतिर्व्याप्तिकर्मा । अपि च विश्ववेदसः सर्वविषयज्ञानयुक्ता मरुतः एतन्नामान एकोनपञ्चाशत्संख्याका देवाः हे अग्ने त्वा त्वां युञ्जन्तु प्राप्नुवन्तु । त्वत्सहाया भवन्तु इत्यर्थः । विश्ववेदस इति । विद ज्ञाने इत्यस्माद् भावे असुन् । 'बहुव्रीहौ विश्वं संज्ञायाम्' (पा ६,२,१०६ ) इति पूर्वपदान्तोदात्तत्वम् । नमसा नमस्कारेण युक्तं रातहव्यम् दत्तहविष्कम् अमुम् उक्तलक्षणं राजानम् आ नय पुनः स्वराष्ट्रं प्रापय।


दूरे चित्सन्तमरुषास इन्द्रमा च्यावयन्तु सख्याय विप्रम् ।

यद्गायत्रीं बृहतीमर्कमस्मै सौत्रामण्या दधृषन्त देवाः ॥२॥

दूरे। चित् । सन्तम् । अरुषासः । इन्द्रम् । आ । च्यवयन्तु । सख्याय । विप्रम् ।

यत् । गायत्रीम् । बृहतीम् । अर्कम् । अस्मै । सौत्रामण्या । दधृषन्त । देवाः ॥ २ ॥

अरुषासः आरोचमानाः दीप्यमानाः । अरुषीरारोचनाद् इति यास्कः ( नि १२,७)। ऋत्विजः दूरे चित् सन्तम् । चित्शब्दः अप्यर्थे । स्वर्गे वसन्तं विद्यमानमपि विप्रम् । मेधाविनामैतत् । मेधाविनम् इन्द्रं सख्याय अस्य राज्ञः सखिकर्मणे साहाय्याचरणाय । 'सल्युर्यः' (पा ५,१,१२६ ) इति यः। आ च्यावयन्तु आगमयन्तु। आनेतव्यस्येन्द्रस्य आधिक्यं दर्शयति -- यत् यस्मात् कारणाद् देवाः प्रसिद्धाः अस्मै इन्द्राय गायत्रीम् सोमाहरणादिना प्रख्यातवीर्यं गायत्र्याख्यं छन्दः बृहतीम् अस्मान्न्यूनाधिकाक्षराणाम् अन्येषां छन्दसां प्रधानभूताम् । बृहत्याः प्राधान्यं च अन्यत्र श्रूयते-- 'यानि च च्छन्दांस्यत्यरिच्यन्त । यानि च नोदभवन् तानि निर्वीर्याणि हीनान्यमन्यन्त। साब्रवीद् बृहती । मामेव भूत्वा माम् उपसंश्रयतेति' (तैब्रा १,५,१२,३ ) । 'बृहती छन्दसां स्वाराज्यं परीयाय' (तु. तांब्रा २४,६,३) इति । अर्कम् अर्चनसाधनभूतं मन्त्रात्मकं बृहदुक्थात्मकं शस्त्रम् सौत्रामण्या। सुष्टु त्रायत इति सुत्रामा इन्द्रः । तद्देवत्यया क्रियया दधृषन्त अधारयन् । गायत्र्यादिभिरिन्द्रम् अतिशयितवीर्यम् अकुर्वन्नित्यर्थः । यद्वा गायत्र्यादिकम् अस्मा इन्द्राय । प्रायच्छन् इति शेषः । तथा सौत्रामण्या एतन्नामकेन हविर्यज्ञेन देवा दधृषन्त । पूर्वं विस्रस्तावयवम् इन्द्रं पुनः सर्वावयवोपेतम् अकुर्वन्नित्यर्थः। श्रूयते हि--'इन्द्रस्य सुषुवाणस्य दशधेन्द्रियं वीर्यं परापतत् । तद् देवाः सौत्रामण्या समभरन्' (तै ५,६,३,४ ) इति । तस्माद् अतिशयितवीर्ययोगात् तमेव आ च्यावयन्तु इति संबन्धः।


अद्भ्यस्त्वा राज वरुणो ह्वयतु सोमस्त्वा ह्वयतु पर्वतेभ्यः ।

इन्द्रस्त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः ॥३॥ {४}

अत्ऽभ्यः । त्वा । राजा । वरुणः । ह्वयतु । सोमः । त्वा । ह्वयतु । पर्वतेभ्यः । इन्द्रः । त्वा । ह्वयतु । विट्ऽभ्यः । आभ्यः । श्येनः । भूत्वा । विशः ।आ। पत। इमाः ॥३॥ हे परैरवरुद्धराष्ट्र राजन् त्वा त्वां वरुणो राजा अद्भ्यः स्वसंबन्धिनीभ्यः सकाशाद् ह्वयतु आकारयतु । अद्भ्य इति । 'अपो भि' (पा ७,४,४८) इति तकारः । तथा सोमः लतारूपेणावस्थितः पर्वतेभ्यः स्वनिवासस्थानेभ्यः त्वा त्वां हयतु । इन्द्रश्च विट्पतिः । 'स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः' ( अ १,२१,१) इति श्रूयते । आभ्यः या प्रजासु त्वम् इदानीं निवससि आभ्यो विड्भ्यः प्रजाभ्यः सकाशात् त्वा त्वां ह्वयतु । राज्यभ्रष्टस्य राज्ञः त्रीणि निवासस्थानानि संभावितानि । समुद्रमध्यं पर्वताः देशान्तरं वा । तेभ्यः सर्वेभ्यः स्वकीयेभ्यो वरुणादयस्त्वाम् आह्वयन्तु । पुनः स्वराज्यप्रवेशायेत्यर्थः । एवं तैर्देवैराहूतस्त्वम् इमाः स्वकीयाः पूर्वं पालिता विशः प्रजाः श्येनो भूत्वा । श्येनः पक्षिविशेषः । स इव शीघ्रगतिः परैरनाधर्षितश्च भूत्वा आ पत आगच्छ ! पत्लृ गतौ । लोटि 'अतो हेः' (पा ६,४,१०५ ) इति हेर्लुक् ।


श्येनो हव्यं नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम् ।

अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम् ॥४॥ {५}

श्येनः । हव्यम् । नयतु । आ । परस्मात् । अन्यऽक्षेत्रे । अपऽरुद्धम् । चरन्तम् । अश्विना । पन्थाम् । कृणुताम् । सुऽगम् । ते । इमम् । सऽजाताः । अभिऽसंविशध्वम् ॥ ४ ॥ श्येनः शंसनीयगतिः द्युस्थानो देवः अन्यक्षेत्रे परराष्ट्रे अवरुद्धम् शत्रुभिर्निरुद्धं चरन्तम् वर्तमानम् अत एव हव्यम् ह्वातव्यम् । 'बहुलं छन्दसि' (पा ६,१,३४ ) इति ह्वः संप्रसारणम् । ईदृशं तं राजानं परस्मात् परराष्ट्राद् आ नयतु स्वदेशं प्रति प्रापयतु । तथा हे राजन् ते तव अश्विना अश्विनौ देवौ । 'सुपां सुलुक्' (पा ७,१,३९) इत्याकारः। पन्थाम् पन्थानम् । छान्दसम् आत्वं नलोपो वा । आगमनमार्गं सुगम् सुखेन गन्तुं योग्यं निरोधकशत्रुशून्यं कृणुताम् कुरुताम् । सुगम् इति । 'सुदुरोरधिकरणे' ( पावा ३,२,४८) इति डः । हे सजाताः समानजन्मानो बन्धवः यूयम् इमम् पुनः स्वराष्ट्रं प्रविष्टं राजानम् अभिसंविशध्वम् अभितः सर्वतः प्रविश्य संविशध्वम् उपविश्य सेवध्वम् । विशेर्व्यत्ययेन आत्मनेपदम्।


ह्वयन्तु त्वा प्रतिजनाः प्रति मित्रा अवृषत ।

इन्द्राग्नी विश्वे देवास्ते विशि क्षेममदीधरन् ॥५॥ {६}

ह्वयन्तु । त्वा । प्रतिऽजनाः । प्रति । मित्राः । अवृषत ।

इन्द्राग्नी इति । विश्वे । देवाः । ते । विशि । क्षेमम् । अदीधरन् ॥ ५ ॥

प्रतिजनाः हे राजन् त्वा त्वां वयन्तु सांतत्येन सेवन्ताम् । वेञ् तन्तुसंताने इत्यस्मात् लोट् । कर्तरि शप् । तथा प्रतिमित्राः प्रतिकूलानि मित्राणि अवृषत विरोधं परित्यज्य संभजन्ताम् । वृङ् संभक्तौ इत्यस्मात् छान्दसे लुङि 'लिङ्सिचोरात्मनेपदेषु' (पा ७,२,४२) इति पक्षे इडभावः । 'उश्च' (पा १,२,१२) इति सिचः कित्त्वाद् गुणाभावः । इन्द्राग्नी विश्वे देवाश्च विशि । जातावेकवचनम् । विक्षु प्रजासु ते तव क्षेमम् रक्षणम् अदीधरन् धारयन्तु कुर्वन्तु । धारयतेर्ण्यन्तात् लुङि चङि रूपम् ।।


यस्ते हवं विवदत्सजातो यश्च निष्ट्यः ।

अपाञ्चमिन्द्र तं कृत्वाथेममिहाव गमय ॥६॥ {७}

यः । ते । हवम् । विऽवदत् । सऽजातः । यः । च । निष्ट्यः ।

अपाञ्चम् । इन्द्र । तम् । कृत्वा । अथ । इमम् । इह । अव । गमय ॥ ६ ॥

हे राजन् ते तव हवम् स्वराष्ट्रप्रवेशविषयं पुनराह्वानं यः सजातः समानजन्मा । समबल इत्यर्थः। यश्च निष्ट्यः नीचः। निकृष्टबल इत्यर्थः । 'अव्ययात् त्यप्' (पा ४,२,१०४) इत्यत्र ‘निसो गते' इति वचनात् त्यप् । 'ह्रस्वात् तादौ तद्धिते' (पा ८,३,१०१ ) इति सकारस्य मूर्धन्यः। अनयोरन्यतरः कश्चिद् विवदत् विवदेत् नानुमन्येत । विपूर्वाद वदेर्लेटि अडागमः। हे इन्द्र तम् उभयविधं शत्रुम् अपाञ्चम् अपगतं बहिष्कृतं कृत्वा अथ अनन्तरम् इमम् प्रकृतं राजानम् इह अस्मिन् राष्ट्रे अव गमय बोधय । अस्य राष्ट्रस्य अयमेव राजेति प्रख्यापयेत्यर्थः।

इति प्रथमेऽनुवाके तृतीयं सूक्तम् ।