इन्दुदूतम्
[[लेखकः :|]]
१९३८

इन्दुदूतम् । 1इन्दुदूतम् । स्वस्ति श्रीणां भवनमवनीकान्तपतिप्रणम्यं प्रौढप्रीत्या परमपुरुष पार्श्वनाथं प्रणम्य । श्रीपूज्यानां गुरुगुणवतामिन्दुदूतं प्रभूतो- दन्तं लेख लिखति विनयो लेखलेखानतानाम् ॥ १ ॥ यत्र व्योमव्यतिगशिखरेप्वहता मन्दिरेषु मूर्तीजैनीर्नयनमुभगाश्चन्द्रशालानिविष्टाः । दर्शं दर्शं विनयविनतोऽधो विमानावतार- क्लेशं नासादयति निकरो हृद्यविद्याधराणाम् ॥ २ ॥ यत्रोत्सर्पच्छिकरकिरणः शोभयन्नभ्रदेशं साक्षाल्लक्ष्मीवसतिरनिशं राजते राजलोकः । मेर्वारूढत्रिदशनगरस्पर्धयेवाधिरूढं शैलाग्रण्यं कनकनिकषस्निग्धभं पञ्चकूटम् ॥ ३॥ यत्रेभ्यानां भवनततयः काश्चिदद्रेतटाग्रं प्राप्ताः काश्चित्पुनरनुपदं सन्ति तासामधस्तात् । काश्विद्भूमावपि भृशवलत्केतवः कान्तिदृप्ता निर्जेतुं द्यामिव रुचिमदात्यस्थिता निर्व्यवस्थम् ॥ ४ ॥ यत्र क्रीडोपवनपदवीक्रीडतां नागराणां विष्वक्तूर्यत्रिकपरिचयपीतिमाविष्करोति । नृत्यत्केकिमकरसुभगा भृङ्गगुङ्जद्विरेफा वातोद्धृतद्रुमदलततिध्वानवादित्रह्रद्या ।। ५ ।। १. एतद्ग्रन्थकर्तुर्नाम ग्रन्थदर्शननेन तु स्फुटं नोपलभ्यते. पुस्तकमप्यस्याष्ट- पत्रात्मकमेकं प्रायोऽशुद्धमुपलभ्यम् १६ श्यामं यस्मिन्नुपलरचितं दन्तिनं मत्तरूपं पुंरूपाभ्यामुपरि कलितं वीक्ष्य शङ्केऽद्रिशृङ्गे । उत्तीर्यैतत्पुरमनुपमं स्वर्गलोकादिहेन्द्रो- डदाक्षील्लोकैरिति विरचितं चिह्नमेतच्चकास्ति ॥ ६ ॥ स्थास्नुः शुण्डायुध इव मदात्कुण्डलीकृत्य दन्तो कृत्वोत्तानावुपलरचितो यत्र हस्त्यद्रिशृङ्गे । स्वर्गं जेतुं नभसि रभसादारुरुक्षोरमुष्य 1द्रङ्गस्येव स्फुटयति महाधीरनासीरभावम् ।। ७ ।। तसिन्योधाभिधपुस्वरे श्रीमदाचार्यपादा- देशान्मासांश्चतुर उषितो यो विनीतो विनेयः । साधुः सैष प्रहरविगमे भाद्रराकारजन्या प्राचीशैलोपरि परिगतं शीतरश्मिं ददर्श ॥ ८ ॥ दृष्ट्वा चैनं स पुरमगुरुध्यानसंधानलीन- स्वान्तःकान्तं तमिति रजने: स्वागतं व्याजहार । सद्यः साक्षाद्गुरुपदयुगं नन्तुमुत्कण्ठितोऽपि द्रागेतेन स्थितिपरवशो वन्दनां प्रापयिष्यन् ॥ ९ ॥ दिष्ट्या दृष्टः सुह्रदुडुपतेऽस्माभिरद्यातिथिस्त्वं पीयूषोधैर्भृशमुपचरन्प्राणिनामीक्षणानि । पुण्यैः प्राच्यैः फलितमतुलैरस्मदीयैरुपेया- न्नापुण्यानां नयनविषयं यत्प्रियः स्मर्यमाणः ॥ १० ॥ देहे गेहे कुशलमतुलं वर्तते कञ्चिदिन्दो नीरोगाङ्गी सुभग गृहिणी रोहिणी तेऽस्त्यभीष्टा । १. 'द्रङ्गपुर्याम्' इति हेमचन्द्रः, अन्याः सर्वा अपि सकुशला दक्षजाः सन्ति पत्न्यः पञ्चार्चिः शं कलयति हृदानन्दनो नन्दनस्ते ॥ ११ ॥ यद्वायं ते स्फुटमनुचितो वार्तवार्तानुयोग- स्त्वय्यायत्तां जगति सकले जानतो मे सुखाप्तिम् । मन्तव्योऽयं तदापि सरसः नेहसाराञ्चितत्वा- त्स्वादीयः स्यात्कदशनमपि स्नेहधारोपसिक्तम् ॥ १२ ॥ क्वाहो शीतोषगतमतनु पाक्तनार्धं विदेह- क्षेत्र क्वायं चरमभरतक्षेत्रयाम्यार्धभागः । मागोंऽतीतः कथमयभियान्कोमलैः स्वच्छ पादैः प्रौढप्रौढैः शिखरिशिखरैर्दन्तुरीभूतदेशः ।। १३ ।। मार्गश्रान्तः क्षणमिह सुखं तिष्ठ विश्रामहेतो- रुतुङ्गेडस्मिशिखरिशिखरे दत्तपादावलम्बः । हृद्यः पद्माभिधवरसरः संभवस्त्वां समीरः सर्पन्नुचैः सुखयतु सखे केतकीगन्धबन्धुः ॥ १४ ॥ नत्वा सीमंधरजिनपतिं प्राप्तपुण्यप्रकर्षो भूयो नन्तुं त्रिभुवनगुरूं बाहुदेवं सहर्षः । मार्गे तीर्थप्रणतिविगलत्पापपङ्कः स्वमौला- वर्हच्चैत्याश्चित इति जगद्वन्द्य वन्दामहे त्वाम् ॥ १५ ॥ स्विन्नां तीव्रातपपरिचयात्तोयदस्तोयवृष्ट्या सिञ्चन्यद्वत्सुखयति कृषिं शोषकालोपपन्नः । प्रीर्ति तद्वत्प्रियसख मम प्रापिता चित्तवृत्तिं ...."तोत्पत्तौ रहसि भवता गच्छता बन्धुना द्राक् ।। १६॥ शान्ति नीते श्रम इति ततश्चेतसि स्वास्थ्यमाप्ते दत्वा कर्णावहितमनाः श्रोष्यसि प्रार्थनां मे। काव्यमाला न श्रान्तानां सुखयति कथा स्निग्धवर्गोदितापि स्वस्थे चित्ते प्रणयमधुरा बुद्धयो ह्युद्भवन्ति ।।१७ ॥ श्रुत्वा याच्ञां मम हिमरुचे न प्रमादो विधेयो नो वावज्ञाभ्यधिकविभवोन्मत्तचित्तेन कार्या। प्रेमालापैश्चतुरवनितानिर्मितैविस्मृतिं न प्राण्याः प्रायः प्रथितयशसः प्रार्थनाभङ्गभीताः॥१८॥ आतस्तातस्तव गुणनिधिः पश्य रत्नाकरोऽसौ वर्षे वर्षे नवजलधरप्रापितैरम्बुपूरैः । विश्व विश्वं तरुणतपनोद्दामतापाभितप्तं सेकंसेकं सुखयति सदाभीष्टविश्वोपकारः ॥ १९॥ किं नु ब्रूमस्तव जनयितुस्तस्य दानप्रियत्वं यो देवानां सततममृतैः कल्पयामास वृत्तिम् । अश्वं चोच्चैःश्रवसमसमं नागमैरावतं च दत्वेन्द्रस्य त्रिभुवनपतेः पूरयामास वाञ्छाम् ।। २० ॥ कन्यां दत्त्वा जगति विदितां यौतके कौतुकी च योऽदान्मोदाद्युगपदमलं कौस्तुभं पाञ्चजन्यम् । एवं विश्वंभरमतितमां प्रीणयामास लोभा- द्यन्नाद्यापि श्वशुरवसतिं संत्यजत्युत्तमोऽपि ॥ २१ ॥ जीयासुस्ते जगति विदिता भ्रातरः पञ्च चञ्च- न्माहात्म्यास्ते वितरणभटाः पारिजातद्रुमाद्याः । द्राक्संकल्पोपनतसकलाभीप्सिता अप्यभीष्टं याचन्ते यान्विनयविनता नाकिनो वासवाद्याः ॥ २२ ॥ मूर्ख प्राज्ञीयति च कुतनुं कामरूपीयति द्रा- ग्दीनं शूरीयति च कुटिलं प्राञ्जलीयत्यवश्यम् । इन्दुदूतम् । क्रूर शान्तीयति गतकलं सत्कलीयत्यजस्रं लोकं सोऽयं जयति निखिलस्त्वद्भगिन्यः प्रभावः ।। २३॥ याते श्यामा सुभग दयिता वर्धयत्युग्रलक्ष्मीं पङ्कं पर्णं तुलयसि यया विप्रयुक्तस्त्वमिन्दो । सापि श्रान्तं भुवनमखिलं स्वस्वकर्मश्रमेण निद्रादानात्सुखयति सदाभीष्टविश्वोपकारा ॥२४॥ पीयूषार्द्रैस्त्वमपि किरणैर्जङ्गमस्थावराख्यं भूतग्रामं सुखयसि सुतं संस्पृशन्द्राक्पितेव । क्रूरैः शूरप्रकटितकरौर्निर्भरं क्लिष्टलोकां विष्वग्निर्वापयसि वसुधां सत्यमेवासि राजा ॥ २५ ॥ एवं विश्वोपकृतिकुशलः कः कुटुम्बे न तेऽस्ति प्रायः सद्भिः प्रथितचरितैस्त्वादृशैर्वर्णनीये। यद्वा रत्नाकर इति यशः प्राप युष्माभिरेवा- म्भोधिर्वप्रुर्भवति महिमोदारसत्त्वैस्तनूजैः ॥ २६ ॥ तस्माद्बन्धो जलधितनय प्रार्थनां मे समर्थ व्यर्थीकर्तुं न खलु कथमप्यर्हसि प्रौढवंश्य। येनोत्कृष्टं जगति विदितं याचमानस्य जन्तो- र्याच्ञाभङ्गे भवति लघुता नैव सात्किं त्वमुष्य ॥ २७ ॥ नाशक्यं ते भुवनवलये मित्र पश्यामि किंचि- त्तेजःपुञ्जैरनतिजरठैरक्रमाक्रान्तविश्व । पादान्मूर्ध्नि त्रिपुरजयिनः कौतुकेनोपधाया- ह्नाय स्मेरीकृतततजगद्व्यापि शौर्यप्रतापः ॥ २८॥ कामं क्षामाकृतिमपि जगद्यज्जयन्तं न कोऽपि छेत्तुं शक्तस्तदिह भवतो मातुलस्यानुभावात् । ४ चतुर्दशगु० काव्यमाला। गोपालोऽपि त्रिभुवनमिदं क्रान्तवान्यत्रिपद्या तत्राप्येतत्प्रभवति तव श्यालकस्यैव तेजः ॥ २० ॥ या चाञ्चल्याद्भुवि विजयते विद्युतो नीचसङ्गा- त्सिन्धुरन्धंकरणगुणतो श्यामलां धूमलेखाम् । सापि भ्रातुर्भवति भवतो माननीयानुभावा- द्विश्ये दोषान्गणयति जनो को हि राज्ञो भगिन्याः । गन्तव्यस्ते तपनतनयातीरकोटीरमिन्दो सूर्यद्रङ्गो गुरुपदयुगस्पर्शसंप्राप्तरङ्गः । गत्वा तत्र त्रिभुवनजनध्येयपादारविन्दो द्रष्टव्यः श्रीतपगणपतिर्भाग्यसंभारलभ्यः ॥ ३१ ॥ मार्गं तस्य प्रचुरकदलीकाननैः कान्तदेशं स्थाने स्थाने जलधिदयितासंततिध्वस्तखेदम् । आकर्ण्यान्तःकरणविषये(?) स्त्वापयोक्तं मयेन्दो- ऽभीष्टं स्थानं व्रजति हि जनः प्राञ्जलेनाध्वना द्राक् ॥३ शैलादत्मादुपसर पथा दाक्षिणात्येन बन्धो गन्धोद्रेकोल्लसितकुसुमस्तम्भितेन्दिन्दिरेषु । स्थाने स्थाने सरससरसः काननेष्वंशुपूरै- र्मोदं संपादय कुमुदिनीफुल्लपुष्पेक्षणानाम् ॥ ३३ ॥ तुङ्गे तिष्ठ क्षणमुडुपते त्वं सुवर्णाचलस्य क्रीडावापी सवनसरसैर्मारुतैः शान्ततापः । तत्रत्यानां सकलदिवसक्षुद्वयथापीडितानां सौहित्यं त्वत्किरणकवलैः स्ताच्चकोराङ्गनानाम् ।। ३४ तस्मिशैलेऽन्तिमजिनवरा वामवामेयदेव- प्रासादौ यौ तरुणकिरणैः संगरं निर्मिमाते । मध्यस्थः सन्सुघटितरुची तौ कुरु प्रायशो य- त्प्रोत्तुङ्गानां भवति महतैवापनेयो विरोधः ।। ३ ।। तत्र क्रीडोपवनसरसीस्वच्छनीरान्तरेषु स्नात्वा स्वैरं प्रतिकृतिमिपान्नव्यधातांशुकः सन् । ज्योत्स्नाजालैः स्वपय मधुरैर्वीरवामेयदेवौ कर्पूराच्छैस्तदनु च करैरर्जयाभ्यर्य पुण्यम् ।। तस्याधस्तान्नगरमपरः स्वर्ग एवास्ति यस्य प्रौढेभ्यानां भवननिकरैर्ध्वस्तमाना विमाना। क्वाप्येकान्ते कृतवसतयः सज्जलज्जाभिभूता भूमीपीठावतरणविधौ पङ्गुतामाश्रयन्ति ।। ३ । यद्यप्याशु ग्लपितनयना हस्तविन्यस्तवक्रा दूयन्ते चेत्किरणनिकरैर्निभरं, विप्रयुक्ताः । विघ्नो (१) यद्यभिसृतिकृतिकृतां योगिनां च त्वदीये- ज्योत्स्नाजालैस्तिमिरनिकरा निवासिन मान ।। न प्रस्थेयं तदपि भवता वीक्ष्य दक्षेक्षणीय द्रङ्गं शृङ्गारितकुवलयं चित्रसंपूर्णमेतम् । विप्वग्दत्त्वा नयनयुगलं सम्यगालोकनीय पश्चात्तापस्तुदति हृदयं दर्शनीय स्। २॥ तस्माज्जालंधरपुरबरादुत्पतञ्शीघ्रगामी श्रीरोहिण्याः परिसरमथ प्रायसि मत्वं निमेषा ! स्थित्वा तत्र क्षणमियमपि प्रेक्षणीया समन्ता- न्नान्तःशल्यं स भवति सतां मार्थको यो विलम्बः । तस्यां चैकं सुखमुडुपते धार्मिकाणां महीयो यच्चैत्यानां शुचिरुचिमतामस्ति पङ्क्तिव्यवस्था । ५२ ग तन्मध्यस्थे न भवति पथि प्रस्थितानां प्रयासो दूरादेव प्रणतशिरसां देवदेवप्रणामे ॥ ४१ ॥ तेनैवाथ त्वमपि विचारष्यत्यवश्यं पथेन्दो श्रद्धाशाली स्फुटमुभयतश्चैत्यमालाञ्चितेन । नामं नामं जिनभगवतामाकृतीश्चैत्यसंस्थाः पश्यन्नेकान्तरमवहितः सुष्टु सव्यापसव्यम् ।। ४२॥ एकं चैतद्वचनममलं मामकीनं न चित्ता- दुतार्य स्वीकृतनिजसुहृत्कार्यसिद्धे निदानम् । पण्यस्त्रीणामिह हि नगरे संनिवेशो गरीया- नास्ते तस्माद्धृतिमतिहराद्दूरमेवामिगच्छेः ।। ४३ ॥ काचिन्नाग्याः श्रयति समतां भोगिलोकोपगूढा हबी काचित्कलयति कलां तत्र किंपाकवल्याः । काचिद्गतां तुलयति युवभ्रंशहेतुः पणस्त्री काचिद्वान्ध्यप्रथननिपुणा याति वात्यासस्वीत्वम् ॥ ४ ॥ काचित्तीक्ष्णैर्नयनविशिखैर्मर्म यूनां भिनत्ति नर्मालापैर्हरति हृदयं काचिद्राकृतह्रद्यैः । काचित्साचिस्मितविकसितैर्मोहयत्यल्पबुद्धी- न्धैर्यं काचित्पटुकुचतटोद्धातनैर्लुण्ठति द्राक् ॥ ४५ ॥ तस्मादासां युवजनपृषद्वागुराणामवश्यं दूरात्यागो भवति हि नृणां श्रेयसेऽमुत्र चात्र । तत्राप्यङ्गीकृतनिजसुहृयाहृतेस्त्वादृशस्य व्यासङ्गो नोचित इति हितं द्विस्त्रिरेतद्वदामि ॥ ४६॥ तस्याः पुर्या भवति पुरतो नातिदूरेऽम्बुदाद्रि- र्द्रष्टव्योऽसौ तरुपरिवृतोदभ्रमभंकषाग्रः । इन्दुदूतम् । नादैर्गीतैरिव जनमनांस्याहरन्कीचकानां गन्धर्वाणामिव नवमरुच्चालनाद्धूर्णमानैः ॥ ४७ ।। शृङ्गेऽमुप्योन्नतिभृति सरस्तीरभूमिप्ररूढा- न्दूर्वाङ्कूरान्किल कवलयिष्यत्यसो ते कुरङ्गः । भूयः कालक्षुदुदयकृशश्चारणीयोऽयमिन्दो सामश्रम्भोभरतृणततेर्दुर्लभारखेटतोऽस्य ॥ ४८ ॥ कृजद्भिर्ये श्रुतिसुखकरा कोकिलैमल्लिकाना- मामोदैश्च प्रसृमरतरैः प्राणिनो मोदयन्ति । उद्गच्छद्भिर्नवनवतृणैर्वय(?)वैडूर्यबद्ध- क्षोणीपीठा इव विदधते शं निकुञ्जा द्रुमाणाम् ॥ ४५ ॥ तेषूच्चैर्भा स्म भवदभितः स्वर्वधूप्रस्तुतैस्तै- र्वीणानादैरपहृतमना दूरकृष्टो मृगस्ते । मा भूत्स्वेदस्तदनु च तदन्वेषणे वा विलम्बो गन्तुं त्यक्त्वाश्रितमणुमपि त्वादृशा नोत्सहन्ते ।। ५ ।। तस्मात्स्वस्मान्नयनविषयान्नायमत्यन्तदूरं गन्तुं सह्यो नवधनतृणावादविक्षिप्तचेताः । यन्निर्मग्ना अपि करिवरा अर्बुदाद्रेः कुडङ्गे- ष्वप्राणाः स्युर्बहलविदपिष्वन्यजन्तोः कथा का ॥ ५१ ।। (त्रिभिर्विशेषकम्) यद्यप्येतद्धनवनगतं नान्धकारं करास्ते हन्युर्मा भूत्तदपि हि भवान्स्वे मृदुत्वे विपण्णः । येषूष्णांशोरपि 'कराः कुण्ठतामाश्रयन्ते- ऽनङ्गक्रीडासदसि दिविषत्पुंश्चलीनां दिवापि ॥ १२ ॥ तत्र श्रीमान्विमलवसतौ भाति नाभेयदेव- सेवायातत्रिदशनिकरः पूर्णपादोपकण्ठः । नेमिस्वामी दिशति च शिवान्यानतानां निविष्टः साक्षादिन्द्रालय इब वरे वस्तुपालस्य चैत्ये ।। ५३ । रूप्यस्वच्छोपलदलमयो चित्रदोत्कीर्णचित्रौ चञ्चञ्चन्द्रोदयचयचितौ कल्पितानीलशिल्पौ ! जीयास्तां तौ विमलनृपतेर्वस्तुपालस्य चौच्चौ प्रासादौ तौ स्थिरतरयशोरूपदेहाविव द्वौ ।। ५४ ॥ एषा भूमिर्विमल विभुना ब्राह्मणेभ्यो गृहीता चैत्यं कर्तुं रिपुसुरजिता सप्यमास्तीर्य विष्वक् । ऐतिह्यानि त्वमिति जरतां कुर्वतां मित्रगोष्ठीं तत्र श्रोष्यस्यनुसृतभवच्चन्द्रिकाणां मुखेभ्यः ।। १५ ।। द्रष्टव्यः स्यादयमपि सखे भीमसाधोर्विहार- स्तार्तीयोकस्त्रिदशसदनम्फानिगर्वापहश्रीः । एवं चैतत्त्रिभुवनमतिक्रम्य शोभाविशेषैः प्रासादानामिह समुदितं प्रीतिगोष्ट्ये त्रिकं किम् ॥ ५६ आस्ते चैत्यं स्वरतरकृतं नातिदूरे यदेषां तत्रोत्तुङ्गश्चतसृषु दिशास्वर्हतो वन्दमानः । साक्षादृष्टं समवसरणं यद्विदेहावनीषु तत्संस्कारोदयसहकृतं संस्मरिष्यस्यवश्यम् ॥ १७ ॥ अन्ये चात्रामृतकरहरिद्वाससां ये विहारा द्रष्टव्यास्ते न खलु भवता तत्र वन्द्या जिनाची । दिग्वेलानां कटुकमतिनां (2) द्रव्यलिङ्गस्पृशां य-

न्नार्हद्विम्बं सुविहितमुनेर्वासयोगं विनार्च्य॑म् ।। ५८ ।।

इन्दुदूतम् ।
N
किंचिद्दूरे भवति च ततस्तत्र दुर्गोऽचलाख्यो
मौलौ तस्मिन्विलसति चतुर्द्वारमुत्तुङ्गचैत्यम् .
यादृक्तत्रोच्छ्रितमनुपमस्वर्णरीरीविमिश्रं
न क्ष्मापीठे क्वचिदधिगतं तागर्चाचतुष्कम् ।। ... !
नीचैः किंचिद्भवति च ततः कान्तमर्हन्निशान्तं
श्रान्तं तारादिव नवरुचां गन्तुमूर्ध्वं...
दुर्गस्याधोऽप्यथ जिनगृहं श्रीकुमारक्षितीन्दो-
र्वन्देथास्तेष्वनुपममते भावतः श्रीजिनार्चा ॥६॥
अस्त्येषोऽद्रि....मुपचितो भूरिदिव्यौषधीभि-
स्तस्मादस्योपरि किर रसं चन्द्रिकाणां विशिष्य ।
एताः पुष्टिं दधतु च रयादौषधीश... तेऽङ्ग--
स्पर्शात्स्त्रीणां परममुदितं यौवनं भर्तृ सङ्गः ॥२१॥
शैलेऽस्त्यस्मिन्प्रतिपदमहो लौकिकी तीर्थराजी
मिश्यादृष्टिक्षितिपतिनतिप्राप्तमिथ्यानुभावाम
न द्रष्टव्या सुभग भवता कौतुकादप्यसौ य-
न्मालिन्यं स्यात्तदभिगमनाच्छुद्धसम्यक्त्वरत्नैः १२ ॥
इत्थं स्थित्वा स्थिरतरधियां लोकनीयोऽर्बुदाद्रि-
रस्या दृष्टा जगति हि जनो गण्यते गर्भ एव :
दृष्ट्वा चैनं व्रज गजपते सत्वरैः पादपातै-
र्नीलस्यं स्थादुपकृतिकृतां त्वादृशां ह्युत्तमानाम्
ग्राम्यामस्माद्रज नगवरान्मारवीनां नवीनां
श्रीखण्डार्चां वपुषि रचयंश्चन्द्रिकाणां तरङ्गैः
सिद्धद्रङ्गे क्षणमथ सरस्वत्युपेते विलम्ब्य
राजद्रङ्गं भुवनविदितं यास्यसि व निमेषात्

काव्यमाला।

तत्रालोक्य स्वपतितनयं राजतेजोऽभिरामं दर्भाङ्कूरच्छलपुलकिता त्वामुपस्थास्यतेऽसौ । आमूलाग्रं तरलिततनुर्वीचिहस्तैरुदस्तै- र्दूरादालिङ्गितुमिव रसात्साभ्रमत्यब्धिकान्ता ।। ६५ ।। एषा क्वापि प्रचुरतरमैः काननैः कनकूला क्वापि क्रीडद्युवतिनिकरैरप्सरःसेवितेव । सद्वेषेव क्वचन विततैरम्बरैर्धौतमुक्तै- र्मुक्ताशुक्त्यावलिरुचितरैः क्वाप्यलंकारितेव ।। ६६ ॥ प्रीणात्येषाखिल... रजनान्सत्पयःपानदाना- दुत्सङ्गस्थान्रमयति च तान्केलिलीलाविलोलान् । दूरादालिङ्गति च विततैर्वीचिहस्तैः पुनीते पूतान्नास्याः कथमभिहिता(?)नेयगादानगर्याः ॥ ६७ ।। नद्याश्चास्याः सुचिरमुभयोः कूलयोः संनिविष्टा- श्चक्राह्नानां हृदयदयिताश्चाश्रुभिः क्लिन्ननेत्राः । पादैर्मा स्मारतिमुपनयैर्विप्रयुक्ताः प्रसह्यैः कण्ठप्राणा नहि विरहिणः कृच्छूमीषत्सहन्ते ॥ ६८ ॥ आरूढानां भवनवलभीं गौर्जरीणां त्वदीक्षा फुल्लाक्षीणां प्रियतमकरन्यस्तहस्तोत्पलानाम् । पश्यन्तीनां नगरमभितोऽलंकृतं चन्द्रिकाभि- र्बन्धो निर्वापय निजकरैः सुष्टु दृक्कैरवाणि ॥ ६९ ॥ क्रीडाहर्म्यं प्रियसहचरीप्रेरणाभिः प्रविष्टाः शय्योत्सङ्गं प्रणयचटुभिः प्रेयसा प्रापिताश्च । व्रीडोद्रेकाद्गृहमणिमुपाहत्य कर्णोत्पलेन कान्तोपान्ते तमसि कथमप्यासते या विमुग्धाः ॥ ७० ॥ इन्दुदूतम् । मा कार्षीस्त्वं तरुणकिरणर्जालमार्गप्रविष्टे- स्तासां कान्तप्रसभहृतसच्चीवराणां प्रकाशम् । किं कुर्युः संवरितुमनलं भूष्णवस्तारस्त्वदंशू- न्मौरध्यादेवानवगतधवाक्ष्यब्जसंवृत्युपायाः ॥७॥ (युग्मम्) तत्राट्टानां ततिषु निहिता भूरिरत्नप्रकाश- स्तारास्ताराधव तव करैः सुष्टु संयोगमेत्य । प्राप्तोल्लासा इव नवरुचो दर्शनीया भविष्य- न्युल्लासं हि प्रथयति चिराबन्धुवाहानुषङ्गः ॥ ७२ ॥ लक्ष्मीस्तत्रारमति सततं भूरि कोटिध्वजानां गेहे गेहे बहुविधधनैः क्लृप्तनानास्वरूपा । दृष्ट्वा चैनां सुभग भगिनीं त्यक्तचाञ्चल्यदोषां चिन्तातीतं नियतमतुलं प्राप्स्यसि त्वं प्रमोदम् ॥ ७३ ॥ पकैकोऽस्य ध्रुवमुडुपते पाटकोऽन्यैः पुराणां वृन्दैस्तुल्यो जनपदसमान्येव शाखापुराणि । "मैकैकं पृथुतरमुरुग्रामतुल्यं तदस्य माहात्म्यं कः कथयितुमलं प्राप्तवाग्वैभवोऽपि ॥ ७४ ॥ मुक्तापुञ्जान्प्रतिपद रून्रत्नराशीन्प्रवाला- ङ्कूराञ्शङ्खान्मृगमदसरान्वीक्ष्य भूयो वरांश्च । मा ज्ञासीस्त्वं स्वपितुरुदधेर्हन्त सर्वस्वभात्त- द्रङगो ह्येष प्रकृतिगुणतो ज्येष्ठरत्नाकरोऽस्ति ।। ७५ ।। अस्य व्यक्त्या निशमनमहो वर्षलक्षानुपाति सामान्येनामृतकर ततश्चैकदेशो विलोक्यः । तस्मिन्दृष्टे निखिलमपि तदृष्टमेवावधेयं सर्वं दृष्टं वदति हि जनो वर्णिकादर्शनेन !! ७६ ॥ काव्यमाला। रत्नज्योतिः कनकरजतज्योतिरट्टावलीषु स्त्रीपुंसाङ्गाभरणतरुणज्योतिरत्र प्रदोषे । दीपश्रेणीप्रकटितपटुज्योतिरिन्दोस्त्वदीय- ज्योतिर्योगे भवतु विविधज्योतिषां संनिपातः ।। ७७ ।। तत्र प्रत्यापणमनुगृहं दीपकानां कदम्बे स्तोकं पौराणिक इव निशि व्यञ्जयत्यर्थजातम् । गत्वा प्रामाणिक इव महाव्यञ्जयन्सर्वतोऽर्थ वैलक्ष्यं तं तरलितकरः प्रापयिष्यत्यवश्यम् ।। ७८ ! तस्माद्दङ्गाच्छमनककुभिः प्रस्थितस्यान्तरा ते स्वर्गाकारं नगरमपरं लाटदेशस्य पुण्ड्रम् । दर्श दर्श मनसि परमप्रीतिरापत्स्यते य- न्नानालक्ष्मीरुचिरवपुषां तत्र वासो जनानाम !! लङ्काशङ्कां मनसि दधती तोयराशौ ममज्जा- तीते दृग्भ्यो वसति च पदे हन्त वखोकसाग । पातालं प्राविशदपमदा सापि भोगावती मां दृष्ट्वा रम्यामनुपमतमां वाटपद्रीमभिग्व्याम् ।। ८ ।। मध्येऽस्त्यत्र प्रचुरसुख(प)मो मण्डपोऽत्यन्ततुङ्ग- स्तत्र स्थित्वा चतसृषु दिशास्वीक्षणीयं त्वयेन्द्रो। द्रष्टासि द्राक्श्रियमनुपमामस्य विष्वक्पुरस्य रम्यं ह्येतच्छुचिरुचिचतुर्द्वारचैत्यानुकारम् ।। ८१ ।। अत्यासन्नं भृगुपुरमितो यास्यसि प्रौढदुर्गां दुर्गन्धाशोज्झितमतिसुरैर्भूरि पौरेः परीतम् । भूपीठे मत्सदृशमपरं वर्तते वा न वेति द्रष्टुं रङ्गान्तरमिव समारूढमुञ्चप्रदेशम् ।। ८२ ॥ इन्दुदूतम् । तस्योपान्ते सुखयति नदी नर्मदा नर्मदोर्मि- स्तोमै रोमोद्गममतिहिमैः कुर्वती नौस्थितानाम् । क्रीडद्गन्धद्विपमदरसोद्दामगन्धिप्रवाहा चञ्चत्क्रीडावनघनतटा नाव्यनीरा गभीरा ।। ८३ ॥ आलोक्य द्राग्भुवनममृतैस्तर्पयन्तं भवन्तं तातं भ्रातर्भवतु मुदिता नर्मदा ते तनूजा । प्राप्तोल्लासो भवतु च भवानप्यपेत्य क्षणेन संसारे यज्जनितजनकप्रेमबन्धो गरीयान् ।। ८४ ॥ तत्र स्थित्वा भृगुपुरमहावप्रवातायनाग्रे दृष्ट्वा हृष्टो निजतनुभुवो धावनोद्वल्गनानि । गच्छेः स्वच्छे तरणिनगरोपान्तभूमिप्रदेशे श्रीश्रीपूज्यक्रमविहरणध्वस्तपापप्रवेशे ।। ८५ ॥ खर्जूरीणां विपिनपटलीतुङ्गतालद्रुमाणां तत्र श्रेणिस्तपनतनयातीरभूमिप्ररूढा । मन्दं मन्दं प्रसृमरमरुत्कम्पितां मौलिकम्पैः श्लाघामन्तः सृजति नगरस्यास्य लोकान्तरस्य ।। ८६ ।। पोतश्रेणीपरिचयमिषात्तीरवेल्लद्विमाना मज्जद्वृन्दारकवरवधूर्नागरैर्नागरीभिः । स्वादुस्वच्छस्फटिकरुचिराम्भोभरैरुत्तरङ्गा तापी तत्र श्रयति तटिनी स्वर्गगङ्गानुकारम् ॥ ८७ ।। एनां संगच्छति जलनिधिः प्रत्यहं द्विस्त्रिरस्याः सौभाग्येनातिशयगुरुणा कार्मणेनेव वश्यः । अभ्रच्छन्नस्त्वमपि भवितास्येतयोर्योगकाले पित्रोः पश्यन्क इह सुरतं लज्जते नेजडोऽपि ॥ ८८॥ काव्यमाला। तत्र श्रीमत्तपगणपतेः सद्विहारानिलोर्मि- प्लुष्टातङ्कां फलदलसुमस्फातिसंपन्नवृक्षाम् । इष्टानेहः परिगतधनोद्भासि भूयिष्ठसस्यां द्रक्ष्यस्यर्हत्समवसरणापास्तदोपामिव क्ष्माम् ॥ ८९ ।। नम्रीभूताः प्रतिपदमहो लुम्बिवृन्दैः फलानां स्वणैर्योषा इव धनवतां सन्ति कम्राः कदल्यः । स्निग्धच्छायैर्मधुरफलदैर्मण्डपैर्गोस्तनींना गेहैर्ग्रामा इव सुमनसां तत्र कान्ता वनान्ताः ॥ १० ॥ दीप्ताः पुष्परविरलदला मण्डली चम्पकानां तत्रोद्याने तुलयति फलैर्लक्षिता पलवैश्च । नागश्रेणीममसृणसृणिं हेमघण्टावलीढां ..... 0-40 उद्यानानां नगरमभितः संततिर्भाति नाना- वृक्षैर्लक्षैर्विविधसुमनःसंवितानां लतानाम् । क्रीडद्दम्पत्युचितकदलीमन्दिरैर्बालकानां गेहैः क्रीडाभवनसरसी दीर्घिकावापिकाभिः ॥ ९.२ ।। पोतान्पोतानिव जलनिधेः कुक्षिनिक्षिप्तनाना- वस्तुस्तोमांश्चतुर भविता पश्यतस्ते विलम्बः । जाग्रज्जैत्रध्वजपरिगताञ्जङ्गमद्रङ्गतुल्या- पश्यन्नेतान्न भवति जनः कोऽत्र विक्षिप्तचेताः॥ १३ ॥ दुर्गो भर्गोज्ज्वलवपुरिहोत्कन्धरश्चन्द्रशाला- दम्भात्सौधच्छदिरुपचितो मौक्तिकच्छत्रशाली । नानायनप्रहरणधरो युद्धसज्जोप्रशस्त्रः क्षत्रस्यैष श्रयति सुखिनां धैर्यगर्वोद्धुरस्य ।। ९४ ।। इन्दुदूतम् । गोपीनाम्नः किमिह सरसो वर्णयामो महत्त्वं यत्क्षीराब्धेः कलयति कलां मथ्यमानस्य नो चेत् । आस्ते कुक्षौ किमिह निहिता मेरुरद्यापि किंवा वीचिक्षोभो मथनजनितत्रासतोऽत्रागतस्य ।। ९५ ॥ नीलच्छायां क्वचिदविरलैर्नागवल्लीदलौघैः शुभ्रच्छायं क्वचन कुसुमैर्विस्मृतैर्विक्रयाय । पिङ्गे चङ्गैरतिपरिणतैः कुत्रचिच्चेक्षुदण्डै- नानावर्णं पुरमिदमिति द्योतते सर्वदापि ॥ ९६ ।। पोतोत्तीर्णाम्बुधिपरतटोद्भाविनो वस्तुवृन्दा- न्द्राक्संख्यातुं क इह गणनाकोविदोऽपि क्षमेत । इष्टे मातुं क इव .. रजःस्वर्णमाणिक्यपुञ्जा- न्गुञ्जानेमारुणतररुचींश्चाङ्कुरान्विद्रुमाणाम् ॥ ९७ ॥ रूप्यस्वर्णप्रकरघटनप्रोत्थितैष्टङ्कशाला- गर्भोद्भूतप्रतिरवशतैस्तारतारैष्टकारैः । नात्र क्वापि प्रभवितुमलं दुष्टदौर्गत्यभूतः पूतः क्षौद्रे ह्युपशमविधौ मन्त्रसारष्टकारः ॥ ९८ ॥ यत्र श्राद्धास्ततसुमनसो विश्वमान्या वदान्याः संख्यातीता अमितविभवाः प्रौढशाखाः प्रशाखाः। कुत्राप्याद्याध(१)रकजनिताः संस्थिताः कल्पवृक्षाः प्रादुर्भूतास्तपगणपतिप्रौढपुण्यानुभावात् ॥.९९ ।। शिल्पिप्रष्टै रचितविविधानेकविज्ञानहृद्यं हिङ्गुल्वाद्यैः कनकखचितैर्वर्णकैर्वर्णनीयम् । दत्तानन्दं स(ह्र]दयहृदां वृन्दमर्हद्गृहाणां चित्रैश्चित्रं क इह न जनो वीक्ष्य चित्रीयतेऽन्तः ॥१०॥ ६२ काव्यमाला मध्ये गोपीपुरमिह महान्श्रावकोपाश्रयोऽस्ति कैलासाद्रिप्रतिभट इव प्रौढलक्ष्मीनिधानन् । अन्तर्वर्त्यार्हतमतगुरुप्रौढतेजोमिरुद्य- ज्योतिर्मध्यस्थितमघवता ताविषणोपमेयः ।।१० भित्तौ भित्तौ स्फटिकसरुचौ कुट्टििमे कुट्टिमे च संक्रामस्त्वं सुभग भविता स्यात्तलक्षस्वरूपः । युक्तं चैतत्तरणिनगरोपाश्रयस्यान्यथाश्री- र्द्रष्टुं शक्या न खलु वपुषैकेन युष्मादृशापि ॥ १०२ ।। तस्य द्वाराङ्गणभुवि भवान्स्थैर्यमालम्ब्य पश्य- न्साक्षाद्देवानिव नृजनुषो द्रक्ष्यति श्राद्धलोकान् । हस्त्यारूढानथ रथगतान्सादिनश्वार्थपौ....(!)- प्यर्थाश्रोतुं रसिकहृदयाशीघ्रमाटीकमानान् ॥ १७३ ॥ माद्यद्भूरिद्विपमदरसाश्चीयलालानिपात- क्लिन्नां खिन्नामिव धनजनवातसंमर्दखेदात् । द्वारं स्वस्याङ्गणभुवमतिप्रेङ्खितैस्तोरणानां स्नेहादाश्वासयति मरुतां प्रेरणेनेव शश्वत् ॥ १०४ ॥ मध्ये तस्याः श्रमणवसतेर्मण्डपो यः क्षणस्य सोऽयं कान्त्यानुहरति सतां तां सुधा मघोनः । मुक्ता चन्द्रोदयपरिचितस्वर्णमाणिक्यभूषा- श्रेणीदीप्तो विविधरचनाराजितरतम्भशोभी ।। १०५ ।। मध्ये सिंहासनमनुपमं तस्य शक्रासनाभं चेतश्चैतत्सखयति सतां हृद्यपद्यानुकारम् । सालंकारं सुघटितमहासंधिबन्ध सुवर्णं स्वच्छच्छायं सुललितचतुःपादसंपन्नशोभम् ।। १०६॥ इन्दुतम् । दीप्रोपान्तः स्वसदृशरुचा पादपीठेन नम्र- क्ष्माच्छेणीमुकुट घटनाक्रोमलीभूतधाम्ना । पङ्कयोडूनामिव गुणयुजा मौक्तिकस्वस्तिकेन व्योम्नो लक्ष्मी किल निदधतोपेन्द्रपादाञ्चितेन १०७(युग्मम्) तत्रासीनं परिणततपस्तेजसा पीनमन्तः- शुक्लध्यानोद्भवनवमहोझ्योतितात्मस्वरूपम् । साक्षात्तीर्थंकरमिव जगज्जन्तुजीवातुभूतं मूर्त्या शान्ताद्भुतमधुरया दत्तभव्यप्रमोदम् ॥ १०८ ।। अभ्यस्तानां गुरुमुखकजादागमानां निधानं साक्षादाद्यं गणधरमिवानेकलब्धिप्रधानम् । ज्ञानालोकप्रकटितजगत्तत्त्वदत्तावधानं ध्यानं धर्म्यं हृदि निदधतं सिद्धिशय्योपधानम् ॥ १०९ ॥ आकर्षन्तं कठिणतपसा लीलया सिद्धिराज्यं स्वर्गादीनां सुखमनुपमं मन्यमानं तृणाय । आ."माम्लाद्यतिपृथुतपः कार्श्यतः श्वेतकान्तिं सम्यग्लिप्तं किल धवलया लेश्ययान्तर्बहि फुल्लाम्भोजश्वसितमसिति श्मश्रुकूर्चाङ्कुरोद्या- नाबिभ्राणं सितमुखपटीं चाननाम्भोजहंसीम् । हस्ताम्भोजे दधतममलां वैद्रुमीमक्षमालां रागं प्राप्तामिव गुरुगुणैर्धूर्णमानां च चित्रे ।। १११ ॥ अङ्के धर्मध्वजमुरुमहः शोभमानं दधानं श्रेयोलक्ष्या प्रहितमिव सस्नेहया पुण्डरीकम् । प्रायः पद्मासनपरिचितं राजहंसोपसेव्यं खाध्यायेनानुगतवदनं ब्रह्म सब्रह्मरूपम् ।। ११२ ॥ ६४ काव्यमाला। कर्णोपान्ते पलितकपटात्सुष्टु विज्ञप्यमानं स्थानभ्रंशव्यथितजरसैकान्तमेकान्तकान्तम् । स्वामिंल्लोकानजरममरं स्थानकं प्राप्तुमर्ह- न्कुर्वन्भूमौ विहरसि मया स्थीयतां क्वाधुनेति ॥ ११३ ॥ स्फूर्जद्भाग्यान्कतिचन दृशा स्निग्धयालोकयन्तं कांश्चिच्चेषत्स्मितकलनया स्वायतीन्प्रीणयन्तम् । पूर्वोपात्तास्खलितसुकृतश्रेणिसौभाग्यभाजः कांश्चिन्मौलौ करघटनया लब्धसिद्धीन्सृजन्तम् ॥ ११ ॥ आशीर्दम्भान्नमदसुमतां हस्तविस्तारणेन हस्तन्यस्ताविव निजवशौ धर्मलाभौ ददानम् । कल्याणानां निधिमिव महावारपारं महिम्ना- माचाराणां भवनमवनावाकरं सत्क्रियाणाम् ॥ ११५॥ अर्हद्धर्मं तनुभृतमिवास्तोकलोकोपकृत्यै कैवल्यं वा विदितभुवनं पुंस्वरूपोयपन्नम् । प्रत्यक्षं वा सुकृतनिचयं शासनस्यार्हतस्य मूलं निःश्रेयसपदतरोर्जङ्गमं कल्पवृक्षम् ॥ ११६ ॥ कष्टव्रातं नतसुमनसां जापमौनप्रयुक्तै- र्घ्नन्तं मन्त्रैरिव पटुतरैर्हारिहुंकारनादैः । सम्यग्नामस्मरणशमिताशेषपापोपतापं लक्षोष्णांशुपतिभटजगव्द्यापि तेज:प्रतापम् ।। ११७ ।। धैर्येणातिप्रथितयशसा स्वर्णशैलं जयन्तं गां तीर्थेनातिशयगुरुणाम्भोनिधिं लज्जयन्तम् । सौन्दर्येणाप्रतिममहसा मन्मथं तर्जयन्तं चारित्राद्यैः सुविहितगुणैर्विश्वमावर्जयन्तम् ॥ ११८ ।। ६५ इन्दुदूतम् । मौनध्यानाधमलविविनाराधिताचार्थमनं सेव्यं देवरुपपदगतैर्ब्रह्मचर्यानुरक्तैः । नम्रप्राणिप्रकरविविधप्रार्थनाकामकुम्भं दान्तं शान्तं मृदुमपमदं निःस्पृहं वीतदम्भम् ।। ११०।। विद्यावद्धिः सुभगतनुभिश्चारुचारित्रवः श्रीगुर्वाज्ञाविनयनिपुणैः सेवितं साधुवर्यैः । श्रद्धालूनां पृथुपरिषदि पौढधाम्ना निषण्णम् त्रायस्त्रिंशैरिव परिगतं संपदीन्द्रं सुराणाम् ॥ १२० । वन्देथाः श्रीतपगणपतिं सार्वमैदंयुगीनं पीतं पुण्यप्रभवमुदधेर्नन्दनत्वं लभेथाः । प्राच्यैः पुण्यैः फलितमतुलैस्तावकीनैः सुलब्ध- जन्मैतत्ते नभसि च गतित्नाविनीते कृतार्था ॥ २२२ ।। (चतुर्दशभिः कुमान अद्यानथैर्गलितमकलैः पापशङ्कैर्विलीनं क्षीणं दोषैर्गलितमशिवैर्दुष्टकष्टैः प्रणष्टम् । रुग्णं रोगैर्म॒तमनुशयैर्विप्रयोगैर्विनष्टं सर्वातङ्कोपशमनिपुणं द्रक्ष्यसि श्रीगुरुं यत् ।। १२ ।। पुण्यादस्माद्भृशमुपचितात्किंवदन्तीकलङ्क- स्यैषा यास्यत्यमृतकर भो निष्कलङ्कं भवन्तम् । मन्येऽवश्यं शतगुणवृणिं सत्वरं वीक्षिनादे सर्वाभीष्टं फलति न चिराद्दर्शनं हीदृशानाम् ।। १२३ ।। हृद्यातोद्यैर्मुखरमुरजैर्गायनानां च गीतै. र्गायन्तीनां गुरुगुणगुणांश्चारर्वैः श्राविकाणाम् । ५ चतुर्दशगु० काव्यमाला। स्वाध्यायैश्च श्रमणकृतिनां तर्कचर्चाविचारैः शब्दाद्वैते भवति भवता स्थैर्यमानस्य तत्र ।। १२४ ॥ विज्ञप्तिर्नो यदपि भवता दुष्करानाप्तपुंसा पार्थे किं चामरहिमकराः पाठकास्ते सगोत्राः । संवीक्ष्यैवावसरमुचितं तत्र वाच्यं तथापि नेतारो हि ध्रुवमवसरे प्रेक्षिणि प्रीतचित्ताः ॥ १२५ ॥ स्थित्वा तस्माद्विजनसमये श्रीगुरोः पादपद्मं स्पृष्ट्या स्वच्छैर्हिमकरकरैर्विज्ञ विज्ञप्यमेवम् । शिष्योऽणीयान्विनयविजयो द्वादशावर्तभाजा विज्ञप्ति व्याहरति महता वन्दनेनाभिवन्द्यम् ॥ १२६ ।। यच्छीपूज्यक्रमयुगमिलादुर्गमध्ये नतोऽहं प्रागासं नोयकृतिमिव तद्विस्मरामि क्षणार्धम् । श्रीतातानां यदुरुकृपया भाषणं स्मर्यमाणं सर्वाङ्गीणं सपदि पुलकोद्भेदमाविप्करोति ॥ १२७ ॥ तुप्यत्युल्लासयति करणान्युल्लसन्त्येव भूयो भूयो गच्छत्युपगुरुपदं गाढमुत्कण्ठते च । बाष्पक्लिन्ने सृजति नयने गद्दान्कण्ठनादा- नेतच्चेतः प्रणयरसतश्चेष्टते नैकधामे ॥ १२८ ॥ निद्रादोषो जगति विदितो जागरश्चाप्रमादः संप्रत्येतन्मम तु हृदये वैपरीत्येन भाति । निद्रां याते गुणमनुगुणं दर्शनं वो ददानां जागर्यां च प्रगुणमगुणं तत्र विघ्नं सृजन्तीम् ॥ १२९ ॥ सुदर्शनचम्पूकाव्यम् । जागर्यायां जपति रसना युष्मदाख्यां यथा मे निद्रायामप्युपहितमनास्त्वेन शश्वत्तथैव । तस्मात्संप्रत्यहनिशि """"वा जागरानिद्रयोर्मे भेदं लोका अपि पटुधियो जानते नापरीक्ष्यम् ॥ १३०॥ शङ्कातकर्मलिनमगुणैरुत्सृजन्पूर्वपक्षं सिद्धान्तं सद्विभव भवदाराधनं संश्रितोऽसि । संभाव्यस्तत्परमगुरुभिः स्निग्धया प्रेमदृष्ट्या येनात्यर्थं फलितसकलप्रार्थितोऽर्थो भवेयम् ॥ १३१ ।। इति श्रीमेघदूतच्छायाकाव्यमिन्दुदूताभिधं काव्यं समाप्तम् ।

"https://sa.wikisource.org/w/index.php?title=इन्दुदूतम्&oldid=309164" इत्यस्माद् प्रतिप्राप्तम्