उणादिकोशः
प्रथमपादः-१
[[लेखकः :|]]
द्वितीयपादः-२ →

                         
                      अथोणादिकोषः
                       ---------
                     [अथ प्रथमपादारम्भः]
कृवापाजिमिस्वदिसाध्यशूभ्य उण्।।1।।



कारुः। वायुः। पायुः। जायुः। मायुः। स्वादुः। साधुः। आशुः आशुः।।1।।
1.करोतीतिर कारुःकर्त्ता शिल्पी वा। वाति गच्छति जानाति वेति वायुः पवनः परमेश्वरो वा। पाति रक्षति स पायुः रक्षकः गुदेन्द्रियं वा। जयत्यभिभवति तिरस्करोति शत्रूनिति जायुः शून जयति रोगानिति जायुरौपधं वैद्यो वा। यो मिनोति प्रक्षिपति स मायुः,अथवा मिनोति प्रक्षिपत्यूष्माणमिति मायुः पित्तम्। गां विकृतां वाचं मिनोतीति गोमायुः' श्रृगालः। स्वद्यते भोक्तुमभीप्स्यते तत् स्वादु भोज्यमन्नं वा। साध्नोति धर्म्यं कर्मेति साधुः सज्जनः। त्र्प्रश्नुते व्याप्नोति तत् त्र्प्राशुः शीघ्रम्; त्र्प्रश्नुते सद्योऽध्वानमिति त्र्प्राशुः अश्वः वाऽश्यते भुज्यते शीघ्रमित्याशुर्धान्यं व्रीहिः।
बहुलवचनात्--स्नाति शोधयत्यङ्गानीति स्नायुः नाडी वा। कक्यते लोलश्चञ्चलो भवतिये नेति काकुः भयादिः ध्वनेर्विकारो वा। हल्यते छिद्यतेऽन्नमनेनेति हालुः दन्तो वा। वसति जगदस्मिन् वा सर्वस्मिन् यो वसति स वासुः ईश्वरः,इत्यादि।।
2.छन्दसीणाः।।2।।
आयुः।।2।।
2.वेद इण् धातोरुण। एति प्राप्नोति सर्वानिति त्र्प्रायुः जीवनकालः सान्तस्तु द्वितीयपादे वक्ष्यते।।
3.दॄसनिजनिचरिचटिरहिभ्यो ञुण्।।3।।
दारु। सानुः। जानु। चारु। चाटु। राहुः।।3।।
3.दीर्यते भिद्यत इति दारु काष्ठं वा। सनति सम्भजति सनोति ददाति वा स सानुः; पर्वतैकदेशश्रृङ्गवुधमार्गवात्यापर्णवनानि च सानूनि वा। जायन्तेऽम्मात्तत् जानु जङ्धाया उपरिभागो वा। जनिवध्योश्च। [7। 3। 35] इति प्रतिषिद्वाऽप्यनुबन्धद्वयसामर्थ्याद् वृद्धिर्भवति। चरति चक्षुरादिष्विति चारु शोभनम्। चटति भिनत्तीति चाटु प्रियं वचो वा। रहति त्यजति दोषानिति राहुः ग्रहविशेषो वा।।
4.किंजरयोः श्रिणः।।4।।
किंशारुः। जरायुः।।4।।
4.किं शीर्यतेऽनेनेनि किंशारुः धान्यविशेषो वा। जरां चीर्णतामेतीति जरायुः गर्भाश्यो गर्भावणं वा।।
त्रो रश्च लः।।5।।
5.`तॄ' धातोर्ञुण रेफस्य लत्वम्। तरन्ति निः सरन्ति वर्णा यत इति तालुः मुखैकदेशः।
तालुः ।।5।।
   बाहुलकात्--अर्यते प्राप्यत इति त्र्प्रालु भक्ष्यं कन्दं वा। भृणाति स्वतापेन छेदयति पदार्थानिति भालुः सूर्यः। श्रृणाति चित्तं हिनस्तीति शालुः कषायद्रव्यं वा,इत्यादि।।
6.कृके वचः कश्च।।6।।
कृकवाकुः।।6।।
6.कृकोपपदाद्वचधातोर्ञुण्। कृकेन कण्ठेन वक्तीति कृकवाकुः यवनादिर्मयूरो वा।।
7.भृमृशीङ्तॄचरित्सरितनिधनिमिमस्जिभ्य उः ।।7।।
भरुः। मरुः। शयुः। तरुः। चरुः। त्सरुः। तनुः । धनुः। मयुः। मद्गुः।।7।।
7.भरति विभर्त्ति वेति भरुः स्वामी। म्रियन्ते भूतान्यस्मिन्निति मरुः निर्जलो देशो वा। शेतेऽसौ शायुः शयनशीलः यस्तरति येन वा स तरुः वृक्षो वा। चरति चर्यतेऽग्निना भक्ष्यत इति चरुः यज्ञपाको वा। त्सरति कुटिलं गच्छतीति त्सरुः खड्गमुष्टिर्वा। तन्यन्ते कर्माण्यनेनेति तनुः शरीरं स्वल्पं वा। धन्यते धनं प्राप्यतेऽनेनेति धनुः शास्त्रं शस्त्रं वा। मिनोति सुशब्दं प्रक्षिपतीति मयुः वानरो वा। मजति शुद्धोति भवतीति मद्गुः जलप्लवी पक्षी वा। न्यङ्क्वादित[7। 3। 53] कुत्वम्।
 बाहुलकात्--गण्डति स गण्डुः वदनैकदेशः, उपधानम्---तकिया इति प्रसिद्धं तैलं वा।।
8.अणश्च।।8।।
अणुः ।।8।।
8.अणति शब्दयतीति त्र्प्रणुः अतिसूक्ष्मं वा।
9.धान्ये नित्।।9।।
   अत्र चकारग्रहणाद् वा कटति विकारयतीति कटुः रसः। वटति गुणकर्माणि विभजतीति वटुः द्विजसुतो वा।।
अणवः।।9।।
9.त्र्प्रणन्ति शब्दायन्ते यैस्तऽणवोऽन्नविशेषा वा। नित्करणमाद्युदात्तस्वरार्थम्।।
10.शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च।।10।।
अरुः। स्वरुः। स्नेहुः। त्रपु। असुः। वसु। हनुः। क्लेदुः। बन्धुः। मनुः।।10।।
10.अत्र चादुप्रत्ययो निदिति सम्बन्धः, एवमर्थ एव पृथक्पाठः। श्रृणाति हिनस्ति येनेति शरुः आयुधं कोपो वा। स्वर्यन्त उपतप्यन्ते प्राणिनोऽनेनेति स्वरुः वज्रम्। स्निह्यति यस्मिन् स स्नेहुः व्याधिर्वा। अग्निं प्राप्य यत्त्रपते लज्जितमिव भवतीति तत् त्रपु सीसकं रगं वा। अस्यति प्रक्षिपति वायुमिति त्र्प्रसुः प्राणः। त्र्प्रसु प्राणं राति ददातीत्यसुरो मेघः वस्त आच्छादयति दुखं येन तद् वसु वनं वा; वसन्ति प्राणिनो येषु ते वसवोऽग्नादयोऽष्टौ। हन्यतेऽनेनेति हनुः कपोलावयवः प्रहरणं मृत्युर्वा। विलद्यत्याद्रीकरोति चित्तमिति क्लेदुः चन्द्रमा वा। प्रेम्णा बध्नातीति बन्धुः सजनो वा। मन्यते चराचरं जगज्जानातीति ईश्वरः; मनुतेऽवुध्यते शास्त्रमिति मनुर्विद्वान् राजर्षिः।
बहुलवचनात्--विन्दत्यवयवीभवतीति बिन्दुः परिमाणं जलादिकणो वा।
11.स्यन्देः सम्प्रसारणं धश्च ।।11।।
सिन्धुः ।।11।।
11.स्यन्दन्ते प्रस्रवन्त्युदकान्यस्मिन्निति सिन्धुः
12.उन्देरिच्चादेः ।।12।।
इन्दुः।।12।।
12.उन्द धातोरुः प्रत्यय आदिवर्णस्येकारादेशश्च। उनत्त्यार्द्रीकरोति पदार्थानिति इन्दुः चन्द्रमा वा।।
13.ईषेः किच्च ।।13।।
13.त्र्प्रत्र चकारादिच्चेत्यनुवर्त्तते, तेन दीर्घस्य ह्रस्वो भवति। ईषति गच्छति हिनस्ति वा शत्रूनिति इषुः वाणो वीरो वा। कित्वाद् गुणाभावः।।
इषुः।।13।।
14.स्कन्देः सलोपश्च ।।14।।
कन्दुः।।14।।
14.स्कन्दति गच्छति शुष्यति वा येन स कन्दुः कुमाराणां क्रीडायै गेंद इति प्रसिद्धं वा।।
15.सृजेरसुम् च ।।15।।
कन्दुः।।15।।
15.त्र्प्रत्र पूर्वसूत्रात्सलोप इत्यनुवर्तते। धातोरसुमागम त्र्प्रादिसकारलोपश्च। पुनर्ऋ कारस्य यणादेश त्र्प्रागमसकारस्य जश्त्वं च। सृजन्त्युदकनिस्सारणायेति रज्जुः जलोद्धरणं वा।।
16.कृतेराद्यन्तविपर्ययश्च ।।16।।
तर्कुः।।16।।
16.आद्यन्तविपर्ययोऽर्थदादौ तकारोऽन्ते ककारः,उश्च प्रत्ययः। कृन्तति छिनत्ति वस्त्रादिकमनेन स तर्कुः कर्तनी वा।।
17.नावञ्चेः ।।17।।
न्यङ्कुः।।17।।
17.ये नितरामञ्चन्ति गच्छन्ति ते न्यङ्कवः जातिविशेषाः हरिणा वा।।
18.फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च ।।18।।
कल्गुः। पटुः। नाकुः। मधुः। जतुः।।18।।
18.उप्रत्यये `फल'धातोर्गुगागमः। फलति निष्पद्यते स फल्गुः त्र्प्रसारो वा। नपुं सके `फल्गु' फलम्। `पाटि'धातोः पटिरादेशः। पाटयति ज्ञापयति सदसत्पदार्थान् स पटुः वाग्मी विशारदो वा। `नम'धातोर्नाकिरादेशः। नमतीति नाकुः बल्मीको वा। `मन' धातोर्ध कारादेशः। मन्यन्ते विशेषेण जानन्ति यस्मिन् स `मधुः' चैत्रो मासः मधूको मद्यं क्षौद्रं पुष्परसो वा। `जन'धातोस्तकारादेशः। जायते प्रादुर्भूयतेऽनेनेति जतुः लाक्षा वा।।
19.बलेर्गुक् च ।।19।।
बल्गुः।।19।।
19.बलते प्राणयतीति बल्गुःनुपंसके`बल्गु'शोभनम्।।
20.शः कित्सन्वच्च ।।20।।
शिशुः।।20।।
20.सन्वद्भावाद् द्वित्वादिकम्। श्यति तनूकरोति पित्रोः शरीरमिति। शिशुः बालको वा।।
21.यो द्वे च ।।21।।
ययुः।।21।।
21.अत्र सन्वदित्यनुवर्तमानेऽपि द्वेग्रहणमभ्यासेत्वनिवृत्त्यर्थम्। यान्ति प्राप्नुवन्ति देशान्तरमनेनेति ययुः अश्वो वा।।
22.कुर्भ्रश्च ।।22।।
22.बभ्रुः।।22।।
22.त्र्प्रत्र द्वे इत्यनुवर्त्तते। `भृ'धातोः कुः प्रत्ययो द्वित्वं च। बिभर्ति सर्वमिति बभ्रुः नुकलः पिङ्गलो वा।
सूत्रे चकारग्रहणादन्यधातुभ्योऽपि कुः प्रत्ययस्तेषां द्वित्वं च भवति। तद्यथा-करोतीति चक्रः कर्त्ता। हन्तीति जघ्नुः हन्ता। पाति रक्षतीति पपुः पालकः,इत्यादि।।
23.पॄभिदिवल्यधिगृधिधृषिहृषिभ्यः ।।23।।
पुरुः। भिदुः। विधुः। गृधुः। धृषुः। हृषुः।।23।।
23.एभ्यः कुः। पिपर्त्ति पालयति पूरयति वा स पुरुः बहुरिन्द्रियं वा। भिनत्तीति भिदुः वज्रं वा। विध्यति दुर्गन्धिं दिवसं वेति विधुः कर्पूरं चन्द्रमाः वा। व्यधेः ग्रहिज्या[6। 1। 16]इति सम्प्रसारणम्। गृध्नोत्यभिकाङ्क्षते येन स गृधुः कामो वा। धृष्णोति प्रगल्भो भवतीति धृषुः दक्षः। हृष्यति स हृषुः हर्षकः दृशि इति पाठान्तरे दृशुः दर्शकः।।
24.कृग्रोरुच्च ।।24।।
कुरुः। गुरुः।।24।।
24.यः करोति येन वा स कुरुः कुरवो राजानो वा। गृणात्युपदिशति वेदशास्त्रविद्यामाचारं च स गुरुः सर्वषां गुरुत्वादीश्वरः त्र्प्राचार्यः पिता वा।।
25.अपदुःसुषु स्थः।।25।।
अपष्ठु। दुष्ठु। सुष्ठु।।25।।
25.त्र्प्रप,दुः,सु इत्येतेषूपपदेषु `स्था' धातोः कुः। त्र्प्रपतिष्ठतीति त्र्प्रपष्ठु वामभागः प्रतिकूलः पदार्थो वा। निन्दितस्तिष्ठतीति दुष्ठु त्र्प्रविनीतः। सुतिष्ठतीति सुष्ठु शोभनम्। सर्वत्र सुषामादित्वात् [8। 3। 98]षत्वम्।।
26.रपेरिच्चोपधायाः।।26।।
रिपुः।।26।।
26.त्र्प्रनिष्टं रपति वदतीति रिपुः शत्रुः। चकारग्रहणात्क्रुप्रत्यये परे इकारादेश एव समुञ्चीयते।।
27.अर्जिदृशिकम्यमिपंसिबाधामृजिपशितुक्धुक्दीर्घहकाराश्च।।27।।
ऋजुः। पशुः। कन्तुः। अन्धुः। पांसुः। वाहुः।।27।।
27.कुप्रत्यये सति त्र्प्रर्ज्यादिप्रकृतीनामृज्यादय अदिशा भवन्ति। अर्जयति सञ्चिनोति गुणानिति ऋजुः कोमलो वा। पश्यति सर्वमिति पशुः पश्यन्ति येनवा स पशुः त्र्प्रग्निः। पश्यति जानाति स्वार्थमिति पशुः गवादिः। `कम'धातोस्तुक्। कामयन्ते यं स कन्तुः कामो वा। `अम'धातोर्धुक्। अमति रुजति गच्छति वेति त्र्प्रन्धुः कूपो वा।
त्र्प्रस्मिन् सूत्रे चकारग्रहणाद् बहुलवचनाद्वा `अम'धातोर्वुगागमोऽपि भवति। त्र्प्रमन्ति गच्छन्ति चेष्टन्ते प्राणिनो येन तद् त्र्प्रम्बु जलम्। पंसयति नष्टमिव भवतीति पांसुः धूलिर्वा। `पंस'धातोर्दीर्धः। क्षेत्रार्थ चिरकालात्सञ्चितं गोमयं वा,इत्याद्येवार्थेषु पांशुरिति तालव्यान्तोऽपि शब्दो दृस्यते। बाध्यन्ते विलोड्यन्ते पदार्था याभ्यां तौ बाहू भुजौ। प्रायेणाऽयं द्विवचनान्तः।।
28.प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च।।28।।
पृथुः। मृदुः। भृगुः।।28।।
28.प्रथ्यादिभ्यः कुः प्रत्ययः,तस्मिन् सति प्रथिम्रद्योः सम्प्रसारणं सलोपश्च। प्रथते। कीर्तिःFN:(*) वा विस्तारयति स पृथुः राजविशेषो विस्तीर्णः पदार्थो वा। म्रदते म्रदितुं शक्यते स मृदुः मादकः कोमलं वा। भृज्जति तपसा शरीरमिति भृगुः ऋषिः प्रतापी वा। न्यङ्क्वादित्वाद्[7। 3। 56] कुत्वम्।।
FN:(*)द्विo संo में कीर्ति वा प्रख्यापयति स पृथूराजविशेषो प्रख्यातः पदार्थो वा।
29.लङ्धिबंह्योर्नलोपश्च।।29।।
लघुः। बहुः।।29।।
29.लंघिबहिभ्यां कुरनयोर्नलोपश्च। लङ्घति गन्तुं शक्नोतीति लघुः
30.ऊर्णोतेर्नुलोपश्च।।30।।
उरुः।।30।।
30.ऊर्णोत्याच्छादयति या सा ऊरुः जङ्घा। कुप्रत्यये नु भागलोपः।।
31.महति ह्रस्वश्च।।31।।
उरु।।31।।
31.`ऊर्णु' धातोः कुप्रत्ययस्तस्मिन् नुभागलोप ऊकारस्य ह्रस्वत्वं च। ऊर्णोत्याच्छादयत्यल्पानिति उरु महत्।।
32.श्लिषेः कश्च।।32।।
श्लिकुः।।32।।
32.श्लिष्यति पदार्थैथः सह सम्बध्यते स श्लिकुः परवशो ज्योतिषं वा।।
33.आङ्परयोः खनिशॄभ्यां डिच्च।।33।।
त्र्प्राखुः। परशुः।।33।।
33.आसमन्तात्खनति भूमिमिति त्र्प्राखुः मूषको वराहो वा। परान् शत्रून् श्रृणाति हिनस्ति येन स परशुः शस्त्रभेदः कुठारो वा। पृषोदरादित्वात् [6। 3। 109] त्र्प्रकारलोपे पूर्वाथं एव पर्शुः अपि दृश्यते।।
34.हरिमितयोर्द्रुवः।।34।।
हरिद्रुः। मितद्रुः।।34।।
34.हरिणाऽश्वेन वा द्वति गच्छतीति हरिद्रः दारुहरिद्रा वा। मितं परिमितं द्रवतीति मितद्रुः शोभनगमनो वा।।
35.शते च।।35।।
शतद्रुः।।35।।
35.शतधा बहुप्रकारैर्द्रवति गच्छतीति शतद्रुः नदीभेदो गङ्गा वा।।
त्र्प्रत्र बाहुलकात्केवलादपि `द्रु'धातोः कुप्रत्ययो दृश्यते। यं द्रवन्ति कार्याथं प्राणिनः प्राप्नुवन्तीति स द्रुः वृक्षः शाखा वा। द्रुवः शाखा त्र्प्रस्मिन् सन्तीति द्रुमः वृक्षः(द्युद्रुभ्यां मः)[5। 2। 108] इति सूत्रेण मत्वर्थीयो मः प्रत्ययः।।
36.खरुशङ्कुपीयुनीलङ्गलिगु।।36।।
36.खरु इत्येवमादयश्शब्दाः कुप्रत्ययान्ता निपात्यन्ते। `खन'धातोः कुःनस्य रः। खनति शरीरमिति खरुः कामो दन्तः संहर्त्ता दर्पोऽश्वो वा। श्वेतार्थे तु वाच्यवत्,यथा खरुरियं ब्राह्मणी,खरु कुलम्,खरुः पुमान्। यं दृष्ट्वा शङ्कते सन्दिग्धो भवतीति तत् शङ्कु विषं कीलं शस्त्रं संख्या वृक्षभेदो जलभेदः पापं स्थाणुर्वा। पिवति पाति वा स पीयुः कालः काको वा। कुप्रत्यये धातोरीकारादेशो युगागमश्च। नितरां लङ्गति गच्छतीति नीलङ्गुः क्रिमिजातिर्भ्रमरः पुष्पं वा। कुप्रत्यये उपसर्गस्य दीर्घत्वम्। सर्वत्र लगति संगच्छते तत् लिगु चित्तं वा। `लगे' धातोरुपधाया इत्वम्।
बाहुलकात्---खञ्जति गमने विकलो भवतीति पङ्गुः गतिहीनो वा। कुप्रत्यये खञ्च'धातोः पङ्गादेशः। स्वगन्धेनान्यगन्धान् हन्तीति हिङ्गुः वणिग्द्रव्यम्।।
37.मृगय्वादयश्च।।37।।
मृगयुः। देवयुः। मित्रयुः।।37।।
37.मृगयुप्रभृतयः कुप्रत्ययान्ता निपात्यन्ते। मृग,देव,मित्र,कुमार,अध्वर इत्येतेषूपपदेषु `या प्रापणे'इत्यस्मात् कुप्रत्ययो भवति। मृगान् याति प्राप्नोतीति मृगयुः व्याधः। देवान् विदुषो याति स देवयुः धार्मिकः। मित्रान् यातीति मित्रयुः लोकव्यवहारवित्। कुमारावस्थां यातीति कुमारयुः राजपुत्रो वा। अध्वरं यज्ञं यातीति त्र्प्रध्वर्युः याजकः। त्र्प्रध्वरस्यान्त्यलोपश्च।
बहुलवचनात्---कोहयति विस्मापयतीति कुहुः। यस्यां चन्द्रो न दृश्यते साऽमावास्या वा कुहूः। पण्डति गच्छतीति पाण्डुः रङ्गविशेषो राजविशेषो वा। पीलति प्रतिष्टभ्नोति निरुणद्धि जीवानिति पीलुः हस्ती वृक्षः काणुः परमाणवः पुष्पाणि वा। `मंजिः' सौत्रो धातुस्तस्मात् कुः। म़ञ्जति चित्तं प्रसादयतीति म़ञ्जुः शोभनम्। एवं निघण्टु पलाण्डु कर्करेटु करेटु डमरु प्रभृतयः शब्दा अप्यत्रैव द्रष्टव्याः,त्र्प्राकृतिगणत्वादस्य।।
38.मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच्।।38।।
मन्दुरा। वाशुरा। मथुरा। चतुरः। अङ्कुरः।।38।।
38.मन्दते स्तौति माद्यति वा यस्यां सा मन्दुरा त्र्प्रश्वशाला वा। वाश्यते शब्दं करोतीति वाशुरा रात्रिर्वा। मथति विलोडयतीति मथुरा नगरी वा। चतते याचते स चतुरः दक्षः कुशलो वा। `चङ्क'इति सौत्रो धातुः,चङ्कति सर्वतो भ्रमति येन स चङ्कुरः रथो वा। अङ्क्यते लक्ष्यते निःसृतं दृश्यते सः त्र्प्रङ्कुरः बीजोत्पादो वा। अत्र खर्जूरादि वक्ष्यमाणगणेन ऊरप्रत्यये त्र्प्रङ्कूर इत्यपि। अर्थः स एव।।
39.व्यथेः सम्प्रसारणं धः किच्च।।39।।
विधुरः।।39।।
39.व्यथते बिभेति यस्मात् स विधुरोऽत्यन्तवियोगः शरीरत्यागो वा। संप्रसारणे स ति गुणनिषेधाय कित्वम्। बाहुलकात्थकारस्य धकारो न,तेन `विथुरः' इत्यपि सिद्धं भति। विथुरः चौरो दुष्टो वा।।
40.मकुरदर्दुरौ।।40।।
[मकुरः। दर्दुरः।।40।।]
40.मकुरदर्दुरावुरच्प्रत्ययान्तौ निपात्येते। मङ्कतेऽलङ्करोति येन स मकुरः दर्पणो वा। `मङ्कधातोर्नलोपः बाहुलकाद्धातोरकारस्योकारे कृते दर्पणार्थ एव मुकुरइत्यपि सिद्धम्। दृणाति बिदारयत्युष्णमिति दर्दुरः मेघो मण्डूको वाद्यभेदः पर्वतभेदो वा। उरचि `दृ'धातोर्द्विवचनमभ्यासस्य रुगागमो धातोष्टिलोपश्च निपात्यते।।
41.मद्गुरादयश्च।।41।।
मद्गुरः। कर्बुरः। बन्धुरः। [चिकुराः] कुक्कुरः;। कुकुरः।।41।।
41.मद्गुरप्रभृतयः शब्दा उरजन्ता निपात्यन्ते। माद्यति हृष्यतीति मद्गुरः मत्स्यभेदो वा। धातोर्गुगागमः। कबते वर्णविशेषो भवतीतिं स कर्बुरः श्वेतो दुष्ट
ो वा। धातोरुमागमः..। बघ्नाति मार्दवेन स बन्धुरः नम्रः सुन्दरो वा। खर्जूरादित्वाद्रूरप्रत्यये बन्धूरोऽपि उक्तार्थ एव। चिन्वन्त्येकीकुर्वन्ति याँस्ते चिकुराः त्र्प्रत्र धातोः कुगागमः। कोकत त्र्प्रादते परपदार्थमिति कुक्कुरः; कुकुरः श्वा, एकार्थौ। पक्षान्तरे कुगागमो निपात्यते।
अतति निरन्तरं गच्छतीति त्र्प्रातुरोऽशान्तः। धातोरादौ दीर्घः। वान्ति मृगान् प्राप्नुवन्ति यया सा वागुरा मृगबन्धनी मृगबन्धनार्थं जालम्। त्र्प्रत्र धातोर्गुगागमो निपात्यते.। शक्नोति तरितुमिति शकुलः मत्स्यः। वङ्कते कुटिलो भवतीति वकुलः वृक्षभेदो वा। त्र्प्रत्रोभयत्र प्रत्ययरेफस्य लत्वम्,वङ्केर्नलोपश्च।।
42.असेरुरन्।।42।।
त्र्प्रसुरः।।42।।
42.अस्यति प्रक्षिपति धर्मं शुभगुणांश्च सः त्र्प्रसुरः मेघो दुर्जनादिर्वा। नित्करणमाद्युदात्तस्वरार्थम्।।
43.मसेश्च।।43।।
मसुरा।।43।।
43.मस्यन्ति सुष्ठुतया परिणमन्ते ते मसुराद्विदलविशेषाः। त्र्प्रत्रैव पञ्चमपादे `मस' धातोरूरन् प्रत्यये `मसूर' इत्यपि सिद्धम्। एकार्थाविमौ। द्विदलान्नेषु `मसूर'इति प्रसिद्धम्।।
44.शावशेराप्तौ।।44।।
श्वशुरः।।44।।
44.शु इति शीघ्रार्थवाचिन्युपपद त्र्प्राप्तौ गम्यमानायां `अशूङ्'धातोरुरन्। शु शीघ्रमश्नुत त्र्प्राप्नोति जामाता यं स श्वशुरः दम्पत्योः पिता।।
45.अविमह्योष्टिषच्।।45।।
अविषः। महिषः।।45।।
45.अवन्ति नद्यो गच्छन्ति यस्मिन् स त्र्प्रविषः समुद्रः। महति पूजयति स्वपुरुषार्थेन इति महिषः महान् राजा वा, तद्योगात् `महिषी' राज्ञी पशुविशेषो वा। त्र्प्रवति प्रीणाति प्राणिन इति त्र्प्रविषी नदी वा।।
46.अमेर्दीर्घश्च।।46।।
आमिषम्।।46।।
46.टिषच्। त्र्प्रमन्ति गच्छन्ति येन तत् त्र्प्रामिषं मांसं वा। त्र्प्रथवाऽमन्ति रोगिणो भवन्ति येन भक्षितेन तदामिषम्,इत्येकार्थः।।
47.रुहेर्वृद्धिश्च।।47।।
रोहिषम्।।47।।
47.टिषच्। रुहन्त्युत्पद्यन्ते यानि तानि रौहिषाणि तृणानि। रौहिषो मृगभेदो वा।।
48.तवेर्णिद्वा।।48।।
ताविषीः;ताविषी।।48।।
48.`तव' इति सौत्रो घातुस्तम्माट्टिषच् णिद्विकल्पेन भवति। तवतीति ताविषी;तविषी नदी वलं सेना भूमिर्वा।।
49.नञि व्यथेः।।49।।
अव्यथिषः।।49।।
49.न व्यथत इति त्र्प्रव्यथिषः समुद्रः सूर्यो वा। त्र्प्रव्यथिषी पृथिवी रात्रिर्वा।।
50.किलेर्बुक् च।।50।।
किल्बिष्म्।।50।।
50.किलति क्रीडति विचारशूत्यतया कार्येषु प्रवर्त्तते येन तत् किल्बिषं पापम्।।
51.इषिमदिमुदिखिदिछिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुछिबन्धिशुषिभ्यः किरच्।।51।।
इषिरः। मदिरा। मुदिरः। खिदिरः। छिदिरः। भिदिरम्। मन्दिरम्। चन्दिरम्। तिमिरम्। मिहिरः। मुहिरः। मुचिरः। रुचिरम्। रुधिरम्। बधिरः। शुषिरम्।।51।।
51.इष्यादि षोडशधातुभ्यः किरच्। इच्छन्तीष्टं साध्नुवन्त्यनेनेति इषिरः त्र्प्रग्निः। माद्यति मत्तो भवति यया सा मदिरार सुरा मद्यम्। मोदतेऽसौ मुदिरः कामुको वा। मोदन्तेऽनेनेति मुदिरो मेघः। खिद्यति येन स खिदिरः चन्द्रमा वा। छिनत्ति येन छिदिरः असिः कुठारो वा। भिनत्ति येनेति भिदिरंवज्रम्। मदन्ते स्तुवन्ति स्वपन्ति वा यस्मिंस्तत् मन्दिरं गृहं नगरं वा। चन्दन्त्याह्लादयन्ति येन स चन्दिरः चन्द्रमा हस्ती वा। तेमत्यार्द्रीभवत्यस्मिन् तत् तिमिरम् नेत्ररोगो वा। यो मेहयति सेचयति पृथिवीं मेघजलेन स मिहिरः सूर्य्यो वा। मुह्यति यस्मै वा यो मुह्यति स मुहिरः काम्यः पदार्थोऽसभ्यो जनो वा। यो मुञ्जति स्वपदार्थमन्येभ्यो ददाति स मुचिरः दानशीलो वा। यद्रोचते प्रीतिकरं भवति तद् रुचिरं शोभनम्। रुचिरं वस्त्रं रुचिरः पुत्रो रुचिरा कन्या वा। रुध्यते चर्म्मणा यत्तत् रुधिरं शोणितम्। बध्यते शब्दश्रवणान्निरुध्यते स बधिरः श्रोत्रविकलः। किलच् प्रत्ययम्य कित्वात् त्र्प्रनिदिताम्[6। 4। 24] इति नलोपः। शुष्यन्ति पदार्था येन तत् शुषिरं छिद्रमाकाशो वा।।
52.अशेर्नित्।।52।।
अशिरः।।52।।
52.त्र्प्रश्नाति यः पदार्थान् सः त्र्प्रशिरः त्र्प्रग्निः। घुष्टतयाऽश्नाति वाऽशिरो दुर्जनः।।
53.अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिरा।।53।।
53.अजिर
53.्जिरादयः सप्त किरच्प्रत्ययान्ता निपात्यन्ते। त्र्प्रजन्ति गच्छन्ति यत्र तत् त्र्प्रजिरम् त्र्प्राङ्गनं गृहाग्रभागः। त्र्प्रांगन इति प्रसिद्धम्। शशति दिनाल्पत्वाच्छीघ्र गच्छति तत् शिशिरम् ऋतुर्हिमं शीतलं वस्तु वा। श्रथति विमुञ्चति पुरुषार्थमिति शिथिलः पुरुषः,शिथिला कन्या,शिथिलानि तृणानि मृदूनीत्यर्थः। धारोरुपधाया इत्वं रेफस्य लोपः प्रत्ययस्थस्य रेफस्य लत्वं च निपात्यते। गमनागमनवनिवृत्त्या तिष्ठतीति स्थिरं निश्चलम्। धातो राकारलोपः। स्फायते प्रवर्द्धते स स्फिरः प्रभावो वा। आयभागस्य लोपो निपातनम्। गमनेऽसमर्थत्वातिष्ठतीति स्थविरः वृद्धो भिक्षुको वा। धातोर्वुक् ह्रस्वत्वञ्च। खदति हिनस्तीति खदिरः वृक्षभेदो वा।
बाहुलकात्--यः शेते स शिविरः,शेरते यस्मिन् तत् शिविरं स्थानं वा `शीङ्' धातोर्वुक् ह्रस्वत्वञ्च।।
54.सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्।।54।।
सलिलम्। कलिलम्। अनिलः। महिलः। भडिलः। भण्डिलः। शण्डिलः। पिण्डिलः। तुण्डिलः। कोकिलः। भविलः।।54।।
54.सल्यादिभ्य इलच्। सलति गच्छतीति सलिलं जलं वा। कलति सङ्ख्याति तत् कलिलं मिश्रं दुखेन साध्यं गहनमिति वा। त्र्प्रनिति जीवति जीवयति वा स त्र्प्रनिलः वायुर्वा। यो मह्यति यं महयन्ति येन वा मह्यते पूज्यते स महिलः पुमान्,महिलं स्थानम्, महिला स्त्री वा। बाहुकादिलच्, इकारस्यैकारे सति महेला स्त्री इत्यपि सिद्धं भवति। `भड'इति सौत्रो धातुः। भडति हिनस्तीति भडिलः शूरो वा। भडति परिचरति स्वामिनमिति भडिलः रोगयुक्तो भवतीति शण्डिलः ऋषिविशेषो वा,यस्य गोत्रापत्यं `शाण्डिल्य' इति प्रसिद्धम्। पिण्डति मङ्घातं करोति स पिण्डिलः गणको वा। तुण्डति तोडति पऋक् करोति से तुण्डिलः उञ्चनाभिर्जनो वा। कोकत त्र्प्रादत्तेऽसौ कोकिलः पक्षिविशेषो वा। य भवति स भविलः भवितुं योग्यो वा।
बाहुलकात्----कुटति कौटिल्यं करोति स कुट
िलः क्रूरकर्मा वा।।
55.कमेः पश्च।।55।।
कपिलः।।55।।
55.कमेरिलच् मस्य पः। कामयतेऽसौ कपिलः वर्णभेदो मुनिविशेषो षा।।
56.गुपादिभ्यः कित्।।56।।
गुपिलः। तिजिलः। गुहिलम्।।56।।
56.इलचः कित्व गुणनिषेधार्थम्। गोपायति रक्षति प्रजा इति गुपिलः राजा वा। तेजते तीक्ष्णीकरोति वा तिज्यते सह्यते सर्वैः स तिजिलः चन्द्रमा वा। गूहते वृक्षैराच्छादितो भवतीति गुहिलं वन वा।।
  अन्येपि----पूजितुमादर्त्तु योग्यः पूजिलः विद्वान्। शोषयति सर्वमिति शुषिलः वायुः। देवते प्रकाशयति धर्ममिति देविलः धार्मिको वा।।
57.मिथिलादयश्च।।57।।
मिथिला।।57।।
57.मिथितादय इलच्प्रत्ययान्ता निपात्यन्ते। मथ्यते या सा मिथिला। मथ्यन्ते शत्रवो यत्र सा मिथिला विदेहानां राज्ञानं नगरी वा। त्र्प्रकारस्येत्वं निपात्यते। गच्छन्ति प्राप्नुवन्ति यां सा गतिला वेत्रलता वा। गमेस्तकारान्तादेशः। या तङ्कति कृच्छ्रेण जीविति मा तिकला त्र्प्रोषधिर्वा। नलोपः। चमति भक्षयतीति चण्डिला काचिन्नदी वा। धातोर्डुगागमः। यः पथति निरन्तरं गच्छति स पथिलः पथिको वा,इत्यादि।।
58.पतिकठिकुठिगडिगुडिदंशिभ्य एरक्।।58।।
पतेरः। कठेरः। कुठेरः। गडेरः। गुडेरः। दशेरः।।58।।
58.पतति गच्छतीति पतेरः गन्ता पक्षी वा। कटति कृच्छ्रेण जीवतीति कठेरः कारागारिको वा। कुठेरः त्र्प्रपि कृच्छ्रजीवी पर्णाशो वा। `कटहर' इति प्रसिद्धम्। गडति सिञ्चतीति गडेरः मेघो वा। गुडति रक्षति स गुडेरः रक्षकः। दशति दंष्ट्राभ्यामिति दशेरः हिंसको जीवो वा। अनुनासिकलोपः।।
59.कुम्बेर्नलोपश्च।।59।।
कुबेरः।।59।।
59.कुम्बत्यन्यानाऽऽतच्छादयतीति कुबेरः धनाध्यक्षो विद्वान् वा। इदित्वादप्राप्तो नलोपः एरकि विधीयते।।
60.शदेस्तश्च।।60।।
शतेरः।।60।।
60.शीयते शातयति दुःखाकरोतीति शतेरः शत्रुर्वा धातोर्दकारस्य तकारादेशः।।
61.मूलेरादयः।।61।।
मूलेर-। गुधेरः। गुहेरः। मुहेरः।।61।।
61.मूलेरादय एरक्प्रत्ययान्ता निपात्यन्ते। यो मूलति सर्वोपरि तिष्ठति स मूलेरः भूपतिर्वा। गुधति सर्वतो वेष्टयतीति गुवेरः रक्षको वा। गूहते येन स गुहेरः लोहघातनो वा। मुह्यति विक्षिप्त इव भवतीति मुहेरः मूर्खः। मुह्यत्यनेन वृषभादिरिति वा मुहेरः कणमर्दनादौ वृषभमुखबन्धनम्। `मुहेर' इत्येव भाषायां प्रसिद्धम्।।
62.कबेरोतच् पश्च।।62।।
कपोतः।।62।।
62.ओतच्प्रत्ययो वकारस्य पकारः। कबते विचित्रवर्णो भवतीति कपोतः पक्षिभेदो वा।।
63.भातेर्डवतुप्।।63।।
भवान्।।63।।
63.भाति दीप्तो भवति दीपयति वा स भवान्। सर्वनामवाचकः सर्वनामसंज्ञकश्चायं शब्दः।।
64.कठिचकिभ्यामोरन्।।64।।
कठोरः। चकोरः।।64।।
64.कठति कृच्छ्रेण जीवति येन स कठोरः कठिनः पूर्णो वा। चकते तृप्यति स चकोरः पक्षिविशेषो वा।।
65.किशोरादयश्च।।65।।
किशोरः। सहोरः।।65।।
65.किशोरादय ओरन् प्रत्ययान्ता निपात्यन्ते। किं श्रृणाति हिनस्तीति किशोरः त्र्प्रश्चशावको वा। किमो मलोप`शृ'धातोष्टिलोपश्च निपातनम्। सोढु शीलः सहोरः साधुर्वा। गायति शब्दं करोतीति गौरः। त्र्प्ररुणो श्वेते पीति निर्मले च वाच्यलिङ्गः। गौरः कुमारः,कौरी कन्या,गौरं कुलम्,गौरं कमलम्,गौरः सर्षपः,इत्यादि। `गै'घातोराकाराददेशे कृ त्र्प्रोरना सह बृद्ध्योकादेशः।। त्र्प्रायदेशस्त्वात्वाप्राप्तौ भवति।।
66.कपिगडिगण्डिकटिपटिभ्य ओलच्।।66।।
कपोलः। गडोलः। गण्डोलः। कटोलः। पटोलः।।66।।
66.कम्पते चलतिर स कपोलः वदनैकदेशो वा। सूत्रे निर्देशादेव नलोपः। गडति सिंचति स गडोलः। गण्डति स गण्डोलः वदनैकदेशो वा। गडोलगण्डोलौ गुडकपर्यायौ वा। कटति वर्षत्यावृणोति वा स कटोलः कटुश्चालो वा। पटति गच्छति स पटोलः फलविशेषो वस्त्रविशेषो वा।
बाहुलकात्- कण्डति माद्यतीति कण्डोलः चाण्डालो वा।।
67.मीनातेरूरन्।।67।।
मयूरः।।67।।
67.मीनाति हन्तीति मयूरः पक्षिविशेषो वा। धातोर्गणादेशः। बहुलवचनात्-- मीनातेरात्वनिषेधः।।
68.स्यन्देः संप्रसारणं च।।68।।
सिन्दूरम्।।68।।
68.स्यन्द्रते प्रस्रवति तत् सिन्दूरम् रक्तचूणं वृक्षभेदो वा,इत्यादि। ऊरन्प्रत्यये याकरस्य संप्रारणम्।।
69.सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्।।69।।
सेतुः। तन्तुः। गन्तुः। मस्तुः। सक्तुः। ओतुः। घातुः। क्रोष्टुः।।69।।
69.सिनोति बध्नातीति सेतुः समुद्रो वा। (तितुत्रतथo[7। 2। 9])इतीट् निषेधः। तनोति विस्तृणोतीति तन्तुः सूत्रं वा। वरामुत्तमां विद्यां तनोति स वरतन्तुर्मु निः। वरतन्तुनाप्रोक्तो वारतन्तवीयो ग्रन्थः। गच्छतीति गन्तुः पथिको वा। समन्ताद् गच्छति भ्रमतीति त्र्प्रागन्तुरभ्यागतो वा। मस्यति परिणमतीति मस्तुः दधनि निस्सृतमुदकं वा। सच्यन्ते समवेताः। क्रियन्ते ते सक्तवः पक्वयवादिचूर्णं वा। अवति रक्षणादिकं करोति स त्र्पोतुः। विडालो वा। `अव' धातोः ज्वरत्वरo[6। 4। 20]इति सूत्रेणोपधावकारयोरूठ्। दधाति धरति पोषति वा स धातुः विकारः सुवर्णादिः शरीरन्थवातादिर्वा। क्रोशत्याह्वयति रोदिति वा सक्रोष्टुः क्रोष्टा श्रृगालो वा।।
70.बसेरगारे णिच्च।।70।।
वास्तुः।।70।।
70.वसन्ति प्राणेनो यत्र तद् वास्तु गृहं वा। त्र्प्रगारादन्यत्र णित्त्वाभावः। वसन्ति येन तद् वस्तु द्रव्यं वा।।
71.पः किच्च।।71।।
पीतुः।।71।।
71.पिबत्युदकादिकं पाति प्राणिनो रक्षति वा स पीतुः अग्निः सूर्यो वा। कित्त्वादीत्वम्।।
72.अर्त्तेश्च तुः।।72।।
ऋतुः।।72।।
72.चकारातुः किद्भवति। पुनः पुनर्ऋच्छति गच्छत्यागच्छतीति ऋतुः वसन्तादिः स्त्रीणां रजः पतनकालो वा।।
73.कमिमनिजनिगामायाहिभ्यञ्च।।73।।
कन्तुः। मन्तुः। जन्तुः। गातुः। भातुः। यातुः। हेतुः।।73।।
73.कामयते येन स कन्तुः कामश्चित्तं वा। मन्यते जानाति वा येन स मन्तुः त्र्प्रपराधो वा। जन्यते शरीरादिधारणेन प्रार्दुर्भवति स जन्तुः जीवः। गायति षड्जादिस्वरानालापयति स गातुः गाथकः। गाते गच्छतीति गातुः पथिको रा भृङ्गगन्धर्वौ वा। भाति प्रकाशयतीति भातुः सूर्यो वा। याति प्रापयतीति यातुः त्र्प्रध्वगः कालो वा। हिनोति येन यो वा कार्यरूपेण वर्धतेऽसौ हेतुः कारणम्।।
74.चायः की।।74।।
केतुः।।74।।
74.चायते पूजयति निशामयति श्रावयति वा स केतुः ग्रहः पताका वा। धूमकेतुरुत्पातः।।
75.आप्नोतेर्ह्रस्वश्च।।75।।
त्र्प्रप्तुः।।75।।
75.त्र्प्राप्नोति व्याप्नोति सर्वान् पदार्थानिति त्र्प्रप्तुः शरीरं वा। तुप्रत्यये `त्र्प्राप्लृ'धातोर्ह्रस्वत्वम्।।
76.कृञः कतुः।।76।।
क्रतुः।।76।।
76.`कृञ्'धातोः कतुः प्रत्ययो भवति। यः क्रियते यया करोति वेति क्रतुः प्रज्ञा यज्ञो वा। कित्वाद् यण् गुणाभावश्च।।
77.एधिवह्योश्च तुः।।77।।
एधतुः। वहतुः।।77।।
77.एधते वर्द्धतेऽसौ एधदुः पुरुषो वा। वहति भारमिति वहतुः त्र्प्रनड्वान् वा। चित्करणमन्तोदात्तार्थम्।।
78.जीवेरातुः।।78।।
जीवातुः।।78।।
78.जीव्यते येन यो वा जीवति स जीवातुः जीवनमौषधं वा।।
79.आतृकन् वृद्धिश्च।।79।।
जैवातृकः।।79।।
79.`जीव'धातोरातृकन् प्रत्ययस्तस्मिन् सति वृद्धिश्च भवति। यो जीवति पूर्णावस्थापर्यन्तं स जैवातृक त्र्प्रायुष्मान् निशाकरो वा।।
80.कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः स्त्रियाम्।।80।।
कर्पूः। चमूः। तनूः। धनूः। सर्जूः। खर्जूः।।80।।
80.कृष्यादिभ्य ऊः प्रत्ययः। कर्षत्याकर्षति पदार्थानिति कर्षूः शुष्कगोमयोऽग्निर्नदी वा। चमति भक्षयतीति चमूः शत्रुभक्षिणी सेना वा। तनोति कार्याणि येनं सा तनूः शरीरं वा। दधाति धनमर्जयति स धनूः शस्त्रं वा। सर्जति उपार्जति कार्याणीति सर्जूः वैश्यो वा। खर्जति पीड्यतीति खर्जूः कण्डूर्वा।।
81.मृजेर्गुणश्च।।81।।
मर्जुः।।81।।
81.मार्ष्टि शोधयतीति मर्जूः शुद्धिर्वा। ऊप्रत्ययन्याकित्वान्नित्यापि प्राप्ता वृद्धिर्गुणेन वाध्यते।।
82.खडेर्डुड् वा।।82।।
खड्डूः;खडुः।।82।।
82.खडति भिनत्तीति खड्डूः; खडूः बाहुजङ्घयोराभूषणं मृतशय्या वा।।
83.वहेर्धश्च।।83।।
वधूः।।83।।
83.वहति सुखानि प्रापयतीति वधूः नवोढा स्त्री वा।।
84.कषेश्छश्च।।84।।
कच्छूः।।84।।
84.कषति हिनस्ति दुःखयतीति कच्छूः पामा वा। खाज इति प्रसिद्धा। षकारस्य छकारः।।
85.णित्कशिपद्यर्त्तेः।।85।।
काशूः। पादूः। त्र्प्रारूः।।85।।
85.कश्यादिभ्य ऊ णिद्भवति। कष्टे गच्छति शास्ति वेति काशूः विकलधातुर्जनः शक्तिर्वा। पद्यन्ते गच्छन्ति यया सा पादूः उपानहौ वा। ऋच्छति प्राप्नोति स त्र्प्रारूः पिङ्गलो वा।।
86.अणो डश्च।।86।।
आडूः।।86।।
86.त्र्प्रणति शब्दयतीति त्र्प्राडूः जलगामिद्रव्यं वा। णस्य डः।।
87.लम्बेर्नलोपश्च।।87।।
अलाबूः।।87।।
87.ऊप्रत्ययये लम्बधातोर्न लोपो भवति। न लम्बतेऽधो न स्रवति गच्छति सा त्र्प्रलाबूः तुम्बी वा।।
88.के श्र एरङ् चास्य।।88।।
कशेरूः।।88।।
88.ककारोपपदात् `शृ' धातोरूप्रत्ययस्तस्मिन् प्रकृतेरेङादेशः। कष्टे शास्ति स कशेरूः तृणकन्दं वा। बहुलवचनादूप्रत्ययस्य ह्रस्वे कृते कशेरुः इति ह्रस्वान्तोऽपि दृश्यते।।
89.त्रो दुट् च।।89।।
तर्दूः।।89।।
89.तरति येन यया वा स तर्दूः दारुहस्तः पुरुषो यष्टिर्वा। `तृ' धातोर्दुगागमः।।
90.दरिद्रातेर्यालोपञ्च।।90।।
दर्द्रूः।।90।।
90.`दरिद्रा'धातोरूप्रत्यये `इ;त्र्प्रा' इत्येतयोर्वर्णयोर्लीपः। दरिद्राति दुर्गतिं करोतीति दर्द्रूः कुष्ठभेदो वा मृगय्वादित्वात् `रि;त्र्प्रा'इत्यनयोर्लोपे दद्रूः इत्यपि सिद्धम्। त्र्प्रत्र सूत्रेऽपि `रि;त्र्प्रा' इत्येतयोर्लोपे ददरिति भवति।।
91.नृतिशूध्योः कूः।।91।।
नृतूः। श्रृधूः।।91।।
91.नृत्यतीति नृतूः नर्त्तकः। शर्धते कुत्सितं शब्दयतीति श्रृधूः त्र्प्रपानवायुर्वा। प्रत्ययस्य कित्वाद् गुणनिषेधः।।
92.ऋतेरम् च।।92।।
रतूः।।92।।
92.`ऋतं' इति सौत्रो धातुः। ऋतीयते घृणां करोतीति रतूः सत्यं दिव्यनदी वा। धातोरमागमः।।
93.अन्दूदृम्फुजम्बूकफेलूकर्कन्धूदिधिषूः।।93।।
93.त्र्प्रन्दूप्रभृतयः शब्दाः कूप्रत्ययान्ता निपात्यन्ते। त्र्प्रन्दति बध्नाति येन यया वा सा त्र्प्रन्दूः हस्तिबन्धनी श्रृङ्घला वा। जंजीर इतिप्रसिद्धा। दृम्फत्युत्कृष्टं क्लेशं ददातीति दृम्फूः सर्पजातिर्वा। जमन्ति भक्षयन्ति यां सा जम्बुः वृक्षविशेषजातिर्वा। धातोर्वुगागमः। बाहुलकादूप्रत्ययस्य ह्रस्वे कृते जम्बुः
इत्यपि दृश्यते। कामयते स कम्बूः परद्रव्यापहारी वा। धातोर्वुक्। कफं श्लेष्माणं लात्याददातीति कफेलूः त्र्प्रोषधिविशेषो वा। एकारान्तत्वं कफशब्दस्य निपातनम्। कर्कं कण्टकं दधाति धरतीति कर्कन्धूः वदरीफलं वा। कित्त्वादाकारलोपः उपपदस्य नुगागमो निपातनम्। दिधिं धैर्यमिन्द्रियदौर्वल्यात् स्यति त्यजतीति दिधिषूः पुनर्भूर्वा। निपातनात् षत्वम्।।
94.मृग्रोरुतिः।।94।।
मरुत्। गरुत्।।94।।
94.म्रियते मारयति वा। स मरुत् मनुष्यजातिः भवनो वा। गिरति निगलतीति गरुत् पक्षी वा।।
95.ग्रो मुट् च।।95।।
गर्मुत्।।95।।
95.गिरति येन तत् गर्मुत् सुवर्ण तृणजातिभेदो वा।।
96.हृषेरुलच्।।96।।
हर्षुलः।।96।।
96.हृष्यति तुष्टो भवतीति हर्षुलः मृगः कामो वा।
  बाहुलकात्- चटति वर्षत्यावृणोति वा स चटुलः शोभनो वा।।
97.हृसृरुहियाषिभ्य इतिः।।97।।
हरित्। सरित्। रोहित् योषित्।।97।।
97.त्र्प्राहरति गृह्णाति द्रव्यमिति हरित् दिक् वर्णस्तृणमश्वविशेषो वा। सरति गच्छतीति सरित् नदी वा। रोहति प्रादुर्भवतीति रोहित् लताविशिष्टा हरिणी वा। `युष'इति सौत्रो धातुः। त्र्प्रथवा `जुष' इत्यस्य वर्णविकारेण पाठः। जुष्यते सेव्यते प्रीणयति वा सा योषित् स्त्री वा।।
98.ताडेर्णिलुक् च।।98।।
तडित्।।98।।
98.ताडयति पीडयतीति तडित् विद्युद्वा। प्रत्ययलक्षणेन णिलोपेऽपि वृद्धिः स्यादिति लुग्विधीयते।।
99.शमेर्ढः।।99।।
शण्ढः।।99।।
99.शाम्यति शान्तो भवतीति शण्ढ) स्वतन्त्रो वृषभः `सांड' इति प्रसिद्धथः नपुंसकं वा।।
100.कमेरठः।।100।।
कमठः।।100।।
100.कामयतेऽसौ कमठः कच्छपो वा। कमठमिति भाण्डभेदो वा। बाहुलकात्। जीर्यत्यवस्थाहीनो भवतीति जरठः पाण्डुरङ्गो वा। शमठः शान्तो वा।।
101.रमेर्वृद्धिच।।101।।
रामठम्।।101।।
101.रमतेऽस्मिन्निति रामठं हिङ्गुर्वा। त्र्प्रठ प्रत्यये `रम' धातोर्वृद्धिः।।
102.शमेः खः।।102।।
शङ्खः।।102।।
102.शाम्यतीति शङ्खः निधिभेदः जलजं ललाटास्थि वा। बहुलवचनात्---खारस्येत्संज्ञां न भवति।।
103.कणेष्ठः।।103।।
कण्ठः।।103।।
103.कणति येन शब्दं करोतीति कष्ठः गलो ध्वनिर्वा।।
104.कलस्तृपश्च।।104।।
तृपला।।104।।
104.`तृप'धातोः कलप्रत्ययः। तृप्यति यया सा तृपला लता वा। त्र्प्रत्र सूचे चकारग्रहणात् तृफधातोरपि कलप्रत्ययस्तेन तृफला इत्यपि सिद्धम्। तृफला त्रिफला इत्योषधिविशेषपर्यायौ।
बाहुलकात्----काम्यतेऽसौ कमलः कमलं पद्मं वा; उदकं ताम्रमौषधं च। मृगभेदः कमलः। कमला श्रीपतिप्रिया वा। मण्डति भूषयति प्रतिपादयति वा स मण्डलः। मण्डलं चक्राकारं देशभेदो बिम्बं कदम्बः यज्ञभेदः श्वा च। कुण्डति दहतीति कुण्डलम् वलयं पाशं कर्णबूषणं वा। पटति गच्छतीति पटलः त्र्प्रक्षिरोगस्तिलकं वा,इत्यादि। छयति छिनत्ति पराभिप्रायमिति छलम्।।
105.शमेर्बश्च।।105।।
शबलः।।105।।
105.शपत्याक्रोशति स शबलः वर्णभेदो वा।।
106.वृषाधिभ्यश्चित्।।106।।
वषलः।।106।।
106.वृषादिधातुभ्यः कलप्रत्ययश्चिद्भवति। वर्षति सिञ्चतीति वृषलः शूद्रो वा। तस्य स्त्री वृषली। कोशति श्लिष्यति कोशति व्यवहर्त्तुं जानातीति वा कुशलः निपुणः कुशलं क्षेममिति वा। बाहुलकाद् गुणे कोशलः इति देशभेदो वा। पलति गच्छति येन तत् पललम् तिलचूर्णं पङ्कं मांसं वा। दीव्यत्यधर्मिणो विजिगीषतीति देवलः धार्मिकः। सरति सर्वत्र गच्छतीति सरलः त्र्प्रकुटिल उदारो वा। धावति गच्छति शुद्धो भवति वा स धवलः श्वेतः शुद्धो वा। `धावु'धातोर्वाहुलकाद्ध्रस्वत्वम्। वृषोदेराकृतिगणत्वात् केवलकबलतरत्नानलजम्भलपेशलमर्दलादयोऽपि शब्दा द्रष्टव्याः। मुस्यति खण्डयति मोषयति चोरयति वा स मुसलः मुषलो वा। मुशलं मुसलमिति लोहाग्रभागिकुट्टनसाधनम्,मुषलश्चौरो वा।।
107.कमेर्बुक।।107।।
कम्बलः।।107।।
107.काम्यतेऽभीप्स्यते यः स कम्बलः ऊर्णाविकार उदकं वा। `कम' धातोः कलप्रत्यये वुक्।।
108.लङ्गेर्वृद्धिश्च।।108।।
लाङ्गलम्।।108।।
108.लङ्गन्ति प्राप्नुवन्त्यन्नादिकं येन तत् लाङ्गलम् हलं वा।
बहुलवचनात्-कन्दत्याह्वयति सा कदली वृक्षभेदः `केला' इति प्रसिद्धा वा। बाहुलकाद्धातोर्नलोपः।।
109.कुटिकशिकौतिभ्यो मुट् च।।109।।
कुट्मलम्। कश्मलम्। कोमलम्।।109।।
109.कुटादिभ्यो विहितस्य कलप्रत्ययस्य मुट्। कुटनीति कुट्मलः। बाहुलकात्---कुण्डति दहतीति कुड्मलः[कुण्मलः] किंचिद्विकसितपुष्पनाम्नी वा। कष्टे गच्छति शास्ति वा सा कश्मलः कश्मलं कल्मषं पापं वा। कौति शब्दयतीति कोमलः कोमलं मृदु जलं वा।।
     बाहुलकात्---पिङ्क्ते वर्णयतीति पिङ्गलः वर्णभेदो वा।।
110.मृजेष्टिलोपश्च।।110।।
मलम्।।110।।
110.यन् मृज्यते शोध्यते तत् मलम् पुरीषं पापं कृपणाः। पुरुषो वा। `मृज'धातोष्टिलोपः।।
111.चुपेरच्चोपधायाः।।111।।
चपलम्।।111।।
111.चोपति मन्दं मन्दं गच्छति सचपलःक्षणिकं शीघ्रं वा। चपलां पिप्पली विद्युद्वा। धातोरुकारस्याकारादेशः।।
112.शकिशम्योर्नित्।।112।।
शकलम्। शमलम्।।112।।
112.शक्नोतीति शकलः खण्डो मत्स्यभेदो वा। शाम्यतीति शमलः त्र्प्रशुद्धं वा।।
113.छो गुग्घ्रस्वश्च।।113।।
छगलः।।113।।
113.छ्यति छिनत्तीति छगलः छागो वर्करो वा। धातोर्गुगागमो ह्रस्वश्च।।
114.ञमन्ताड् डः।।114।।
दण्डः। रण्डा। खण्डाः। मण्डः। बण्डः। अण्डः। षण्ड-। गण्डः। चण्डः। पण्डः पण्डा।।114।।
114.ञमिति प्रत्याहारग्रहणम्। ञ,म,ङ,ण,न इत्येते वर्णा त्र्प्रन्तेऽस्य तस्माड्डः प्रत्ययो भवति। बहुलवचनादित्संज्ञानिषेधः। दाम्यन्त्युपशाम्यन्त्यनेन स दण्डः यष्टिभेदो वा। रमतेऽसौ रण्डा विधवा नारी वा। खण्डतेऽवदीर्यतेऽसौ खण्डः विभागो मिष्टभेदो वा। `खाण्ड' इति प्रसिद्धः भिन्नः। पदार्थो वा। मन्यते जानातीति मण्डः `मण्डा धात्री समाख्याता,मण्डं पक्वौदनोदकम्'। वनति शब्दयति सम्भजति वा स वण्डः छिन्नहस्तको वा। त्र्प्रमन्ति संप्रयोगं प्राप्नवन्ति येन स त्र्प्रण्डः प्राण्यङ्गावयवो वा। सनोति ददातीति षण्डः नपुंसको वनं गोपः सङ्घातो वा। गच्छतीति गण्डः कपोलव्याधिविशेषो वा। चणति ददातीति चण्डः हिंसकस्तीव्रो वा। कोपना स्त्री चण्डी। `चडि कोपे' इत्यस्य घञन्तोऽपि चण्डः क्रोधी। पणयति व्यवहरति स्तौति वा स पण्डः नुपंसक पण्डा वुद्धिर्वा। फणति गच्छत्यत्रेति फण्डः पन्था फण्डमुदरं वा।
115.क्वादिभ्यः कित्।।115।।
कुण्डम्। काण्डम्। गुडः घुण्डः।।115।।
115.कवर्गादिधातुन्यो डः किद् भति। कुणति शब्दयत्युपकरोति वा स कुण्डः पत्यौ जीवति पुरुषान्तरादुत्पन्नः पुत्रो जलाधारविशेषो वा,कुण्डा कुण्डिका वा। काम्यते जनैस्तत् काण्डम् ग्रन्थैकदेशः परिमाणविशेषो वाणोऽवसरो वा। गवतेऽव्यक्तशब्दं करोतीति गुडः गोल इक्षुपाको वा। घोणते भ्राम्यतीति घुण्डः भ्रमरो वा।।
116.स्थाचतिमृजेरालज्वालञालीयचः।।116।।
स्थालम्। चात्वालः। मार्जालीयः।।116।।
116.तिष्ठन्त्यस्मिन् तत् स्थालम् पात्रभेदो वा `थाल' इति प्रसिद्धम्। स्थाली सूपादिपचनी। गौरादिन्वान् ङीप्। `चत्'धातोर्वालञ्। चतते याचतेऽसौ चात्वालः चात्वालं यज्ञकुण्डं दर्भो वा। `मृजे'रालीयच्। मार्ष्टीति मार्जालीयः विडालो वा।।
117.पतिचण्डिभ्यामालञ्।।117।।
पातालम्। चण्डालः।।117।।
117.पतन्ति गच्छन्ति यत्र स पातालः देशः, पादस्य तले वर्तते इति वा पातालः। पृषोदरादित्वात् सिद्धः। चण्डति कुप्यतीति चण्डालः मातङ्गो वा। चण्डं कुपितमलं भूषणमस्येति समासेऽपि चाण्डालः सिद्धः।।
118.तमिविशिविडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन्।।118।।
तमालः। विशालः। विडालः। मृणालम्। कुलालः। कपालम्। पलालम्। पञ्चालः।।118।।
118.ताम्यन्ति काङ्क्षन्ति यं स तमालः वृक्षभेदो वा। विशति सर्वत्रेति विशालः`विशाला मानिनी भार्या विशालः सुन्दरः पुमान्। विशालोज्जयिनी प्रोक्ता विशालं च वृहद् गृहम्।'विडत्यक्रोनतीति विडालः मार्जारो वा। स्त्री विडाली। मृणति हिनस्तीति मृणालः कुम्भकारो वा। कम्पते येन तत् कपालम् नृशिरो घटखण्डो वा। पल्यते प्राप्यतेऽसौ पलालः निष्फलानि व्रीहितृणानि वा`प्यार' इति प्रसिद्धम्। पञ्चति व्यक्तं करोतीति पञ्चालः देवविशेषो वा।
    बहुलवचनात्---`शो'धातोरपि कालन्। श्यन्ति सूक्ष्माणि कार्याणि कुर्वन्त्यत्र सा `शाला' गृहम्।।
119.पतेरङ्गच् पक्षिणि।।119।।
पतङ्गः।।119।।
119.पक्षिण्यभिधेय `पत'धातोरङ्गच् प्रत्ययो भवति। पतति गच्छतीति पतङ्गः पक्षी। पक्षिणीत्युच्यमानेऽपि बाहुलकात्---`पतङ्गः सूर्योऽग्निरश्वः शलभः शालिभेदो वा'इत्यादीनामपि नामानि भवति।।
120.तरत्यादिभ्यश्च।।120।।
तरङ्गः। लवङ्गः।।120।।
120.तरति प्लवत्यनेन स तरङ्गः जलोर्मिर्वस्त्रं भङ्गा वा। लुनात्यनेन स लवङ्गः त्र्प्रोषधिर्वा तरत्याद्याकृतिगणः।।
121.विडादिभ्यः कित्।।121।।
विडङ्गः। मृदङ्गः। कुरङ्गः।।121।।
121.विडत्याक्रोशतीति विडङ्गः त्र्प्रोषधिविशेषो वा। मृद्नाति यं स मृदङ्गः वाद्यभेदो वा। किरति विक्षिपतीति कुरङ्गः हरिणो वा। कुरङ्गी हरिणी। स्त्रियां गौरादित्वान् ङीष्। बाहुलकाद् ऋकारस्योत्वं रपरत्वं च।।
122.सृवृञोर्वृद्धिश्च।।122।।
सारङ्गः। वारङ्गः।।122।।
122.सृवृञ्भ्यामङ्गच् धातोर्वृद्धिश्च। सरति सर्वत्र गच्छ.तीति सारङ्गः पक्षी हरिणो भृङ्गो वा। यो वृणोति गृह्णाति स वारङ्गः खड्गादिमुष्टिर्वा।
बाहुलकात्---नृणाति नयति स नारङ्गः रसः पिप्पली वृक्ष फलभेदो वा।।
123.गन् गम्यद्योः।।123।।
मङ्गाः। अद्गः।।123।।
123.गच्छतीति गङ्गा नदीभेदो वा। त्र्प्रत्ति वाऽद्यते भक्ष्यतेऽसौ त्र्प्रद्गः पुरोडाशो वा।
बाहुलकात्`त्र्प्रम गत्यादिषु' इत्यस्मादपि गन्। [त्र्प्रमति] गच्छति प्राप्नोति कर्माणि विषयान् वा येन तत् त्र्प्रङ्गम् गात्रमुपायः प्रतीकमप्रधानं देशविशेषो वा।।
124.छापूखडिभ्यः कित्।।124।।
छागः। पूगः। खड्गः।।124।।
124.धादिभ्यो गन् किद् भवति। छिनत्तीति छागः वर्करो वा। पूयते मुखं येन सपूगः क्रमुकः फलविशेषः `सुपारी' इति प्रसिद्धः समूहो वा। खडति भिनत्ति येन स खड्गः शस्त्रं गण्डकः `गेडा' इति प्रसिद्धः।।
बाहुलकात्---सेटत्यनाद्रियते स षिड्गः चञ्चलमाना हारमध्यस्थो मणिर्वा। बहुलवचनादेव सत्वनिषेधः।।
125.भृञः किन्नुट् च।।125।।
भृङ्गः।।125।।
125.भृञ्धातोर्गन् प्रत्ययः कित् तस्य च नुट्। बिभर्ति धरति पुष्यति वा स भृङ्गः भ्रमरो वा।।
126.शृणातेर्ह्रस्वश्च।।126।।
शृङ्गः।।126।।
126.कित् नुट् चेत्यनुवर्त्तते। श्रृणाति हिनस्ति येन् तत् श्रृङ्गम् विषाणं पर्वताग्रं मत्स्यभेद ओषधिभेदः सुवर्णभेदो वा।।
127.गण् शकुनौ।।127।।
शार्ङ्गः।।127।।
127.गण्प्रत्ययस्यणित्वाद्धातोर्वृद्धिः पूर्ववन्नुट् च। श्रृणातीति शार्ङ्गः पक्षी।
  बाहुलकात्---प्रत्ययम्यादावकारागमेन शारङ्गः इत्यपि सिद्धं भवति।।
128.मुदिग्रोर्गग्गौ।।128।।
मुद्गः। गर्गः।।128।।
128.`मुद्'धातोर्गक्। मोदतेऽसौ मुद्गः त्र्प्रन्नभेदो वा। मुद्गान् लाति गृह्णातीति `मुद्‌गलो'मुनिः, यस्य गोत्रापत्यं मौद्गल्य' इति प्रसिद्धम्। गृणात्युपदिशतीति गगः ऋषिविशेषो वा। `गृ'धातोर्गः प्रत्ययः।।
129.अण्डन् कृसृभृवृञः।।129।।
करण्डः। सरण्डः। भरण्डः। वरण्डः।।129।।
129.कृञादिभ्योऽण्डन् प्रत्ययः। क्रियतेऽसौ करण्डः पुष्पभाण्डभेदः, करण्डो वंशविकारपात्रम् `पिटारी' इति प्रसिद्धा। सरति गच्छतीति सरण्डः पक्षी वा। बिभर्ति पुष्यतीति भरण्डः स्वामी। वृणोति स्वीकरोतीति वरण्डः मुखरोगः सन्दोहो वा।
बाहुलकात्---तरति ये स तरण्डः जलतरणसाधनं वा वनति संभजति धर्ममिति वतण्डः ऋषिविशेषो वा। धातोस्तकारान्तादेशः। छमति भक्षयतीति छमण्डः मातापितृशून्यो वा। शेतेऽसौ शयण्डः विपयो वा। इत्यादयः शब्दा बहुलवचनादेव सिद्धा भवन्ति।।
130.शॄदृभसोऽदिः।।130।।
शरत्। दरत्। भसत्।।130।।
130.शॄदॄभसधातुभ्योऽदिः प्रत्ययः। श्रृणाति हिनस्त्यस्मिन्निति शरत् कालविशेष ऋतुर्वा। दीर्यतेऽसौ दरत् हृदयं कूलं वा। बिभस्ति भर्त्सयति प्रकाशते वा स भसत् जघनं वा।
    बाहुलकात्-पर्षति स्निह्यति प्रीतिकरं प्रसन्नं भवति चित्तमस्यां सा पर्षत् सभा समाजो वा।।
131.दृमातेः षुग्घ्रस्वश्च।।131।।
दृषत्।।131।।
131.दीर्यतेऽसौ दृषत् पाषाणो वा। त्र्प्रदिप्रत्यये धातोः षुक् ह्रस्वागमश्च भवति।।
132.त्यजितनियजिभ्यो।।132।।
त्यद्। तद्। यद्।।132।।
132. त्यजति क्लेशादिहीनो भवतीति त्यद् तनुते विस्तृतो भवतीति तद्। यजति सर्कैः पदार्थैः सङ्गतो भवतीति यद्। ब्रह्मणो नामानि त्रयाणि। त्यदादीनां सर्वनामसञ्ज्ञा भवति, तेन सामान्यवाचकास्त्यदादयः।।
133.एतेस्तुट् च।।133।।
एतद्।।133।।
133.`इण्'धातोरदिः प्रत्ययस्तस्य तुडागमश्च। एति प्राप्नोतीति एतत्। त्र्प्रस्यापि सर्वनामसञ्ज्ञा।।
134.सर्त्तेरटिः।।134।।
सरट्।।134।।
134.सरति गच्छतीति सरट् वायुर्मेघो वा। `सृ'धातोरटिः प्रत्ययः।।
135.लङ्घेर्नलोपश्च।।135।।
लघट्।।135।।
135.लङ्घति शोषयतीति लघट् वायुर्वा। धातोर्नलोपः।।
136.पारयतेरजिः।।136।।
पारक्।।136।।
136.पारयति कर्म समापयतीति पारकं सुवर्णं वा। चौरादिकात् `पारि'धातोरजिः प्रत्ययः।।
137.प्रथेः कित्सम्प्रसारणं च।।137।।
पृथक्।।137।।
137.प्रथयति सङ्घाताद्विस्तृतो भवतीति पृथक् नानात्वं वा। स्वरादिपाठादव्ययत्वम्।।
138.भियः षुग्घ्रस्वश्च।।138।।
भिषक्।।138।।
138.बिभेत्यसौ भिषक् वैद्यो वा। सुमङ्गलभेषजाच्चेति निपातनाद् गुणे कृते भेषजम्। भेषजमेव भैषज्यम्।।
139.युष्यसिभ्यां मदिक्।।139।।
युष्मद्। अस्मद्।।139।।
139.योपति सेवतेऽसौ युष्मद्। `युष' सौत्रो धातुः। त्र्प्रस्यति प्रक्षिपत्यन्यमिति त्र्प्रस्मद्। सर्वनामवाचाकाविमौ।।
140.अर्त्तिस्तुसुहुसृधृक्षिक्षुभायावापदियक्षिनीभ्यो मन्।।140।।
अर्म्मः। स्तोमः। सोमः। होमः। सर्मः। धर्मः। क्षेमम्। क्षोमम्। भामः। यामः। वामः। पद्मम्। यक्ष्मः। नेमः।।140।।
140.ऋच्छति प्राप्नोति सः त्र्प्रर्मः चक्षूरोगो वा। स्तौति येन स स्तोमः सङ्घातो वा। सवत्यैश्‌वर्यहेतुर्भवतीति सोमः कर्पूरश्चन्द्रमा वा। हूयते दीयतेऽसौ होमः यज्ञो वा। त्रियते गम्यते स सर्मः गमनम्। ध्रियते सुखप्राप्तये सेव्यते स धर्मः पक्षपातरहितो न्यायः सत्याचारो वा। क्षयत्यज्ञानं नाश्यतीति क्षेमम् कुशलं वा। क्षौति शब्दयतीति क्षोमम् वस्त्रभेदो वा। दुकूलमतसीकुसुमं च। भाति प्रकाशतेऽसौ भामः क्रोधः सूर्यो दीप्तिर्वा। यायते प्राप्यते स यामः प्रहरो वा। वाति गच्छति ग्रन्थं वा गृह्णातीति वामः शोभनः दुष्टः पार्श्वभेदो वा। पद्यते प्राप्नोतीति पद्मं कमलं निधिः शङ्खो वा। यक्षयते पूजयतीति यक्ष्मः राजरोगो वा। नयतीति नेमः प्रकारमूलं वा। त्र्प्रर्द्धवाची तु सर्वनामसञ्ज्ञकः।।
141.जहातेः सन्वदाकारलोपश्च।।141।।
जिह्यः।।141।।
141.मनित्यनुवर्तते। जहाति त्यजतीति जिह्मः कुटिलो मन्दो वा।।
142.अवतेष्टिलोपश्च।।142।।
त्र्प्रोम्।।142।।
142.मन्प्रत्ययस्य टिलोपो धातोरुपधावकारयोरूठ्। अवति रक्षादिकं करोतीति त्र्प्रोम् प्रणव् त्र्प्रारम्भोऽनुमतिर्वा। चादिषु पाठादस्याव्ययत्वम्।।
143.ग्रसेरा च।।143।।
ग्रामः।।143।।
143.मन्। ग्रसतेऽत्ति यो वा ग्रम्यते स ग्रामः शालासमुदायः प्रणिनिवासो वा,सङ्ग्रामो युद्धं वा। शालीनां ग्रामः समूहः `शालिग्रामः'। एवं शब्दग्रामः ग्रामो गानविद्यायां स्वरभेदश्च।।
144.अविसिविसिशुषिभ्यः कित्।।144।।
ऊमम्। स्यूमः। सिमः। शुष्मम्।।144।।
144.मन् कित्। त्र्प्रवति रक्षणादिकं भवति यत्र तत् ऊमम् नगरंर वा। टापि कृते बाहुलकाद्ध्रस्वे च `उमा'विशिष्टा स्त्री वा। सीव्यति तन्तून् संतनोतीति स्यूमः रश्मिर्वा। सिनोति बध्नातीति सिमः सर्वनामसंज्ञः सर्वपर्य्यायः। शुष्यति निस्सारं करोतीति शुष्मम् त्र्प्रग्निर्वायुर्वा।।
145.इषियुधीन्धिदसिश्याधूसूभ्यो मक्।।145।।
इष्मः। युध्मः। इध्मः। दस्मः। श्यामः। धूमः। सूमः।।145।।
145.य इच्छति य इष्यते स इष्मः कामो वसन्त ऋतुर्वा। युध्यते यो येन वा स युध्मः वाणो वा। य इन्धे दीप्यते वा येनेन्धे स इध्मः समिद्धः। दस्यत्युपक्षयति दुःखयति वा स दस्मः यजमानो वा। श्यायति गच्छति प्राप्नोति वा स श्यामः हरितः कृष्णो वा। त्र्प्रप्रसूता स्त्री `श्यामा' लतौषधी वा, इत्यादि। धूनोति कम्पयतीति धूमः त्र्प्रग्निसम्भवो वा। सूते जनयति प्राणिगर्भं विमुञ्चतीति`सूमः' त्र्प्रन्तरिक्षं वा।।
    बाहुलकात्---ईर्त्ते गच्छति कम्पते वा तत् ईर्मम् वणं वा। क्षौति शब्दयतीति सा क्षुमा त्र्प्रतसी वा। जजन्ति जायते तत् जन्म उत्पत्तिर्वा।।
146.युजिरुचितिजां कुश्च।।146।।
युग्मम्। रुक्मम्। तिग्मम्।।146।।
146.मक्। युज्यते तत् युग्मम्। द्वयोरेककर्मणि सम्बन्धः। रोचते प्रदीप्तवर्णो भवति स रुक्मः वर्णभेदो वा। तद्वर्णयोगाद्रु कमं सुवर्णम्। रुक्मो वर्णोऽस्यास्तीति `रुक्मिणी' स्त्री। तेजते छिनत्तीति तिग्मम् तीक्ष्णम्। विशेष्यलिङ्गोऽयं शब्दः। तिग्मा धीः। तिग्मस्तीव्रो वा।।
147.हन्तेर्हि च।।147।।
हिमम्।।147।।
147.मक्। हन्त्युष्णं दुर्गधि वा तत् हिमम् हेमन्त ऋतुस्तुषारश्चन्दनं वा। महत् हिमं `हिमानी'। ङीष् त्र्प्रानुक्।।
148.भियः षुग् वा।।148।।
भीमः। भीष्मः।।148।।
148.बिभेति बिभ्यति वा यस्मात् यस्या वा स भीमः भीमा वा। भीष्मः भीष्मा वा। भीमो भयानकः पाण्डुपुत्रो वा। भीमा भयानका सेना यस्य स `भीमसेनः'। एवं `भीष्यसेनो' वा।।
149.घर्मग्रीष्मौ।।149।।
149.मक्प्रत्ययान्तौ निपात्येने। जिघर्ति क्षरति नश्यति दीप्यते वा प्राणिनो जगद्वा येन स घर्म्मः यज्ञ त्र्प्रातपो ग्रीष्म ऋतुः स्वेदो वा। ग्रसते शीतं रसादिकां वा स ग्रीष्माः त्र्प्रत्युष्माकालो वा। `ग्रस' धातोर्ग्रीभावः षुगागमश्च निपातनात्।।
150.प्रथेः षिवन्षवन्ष्वनः संप्रसारणं च।।150।।
पृथिवी। पृथवी। पृथ्वी।।150।।
150.प्रथते विस्तीर्णा भवतीति पृथवी;पृथिवी;पृथ्वी। इत्येकार्थास्त्रयः। भूमिरन्तरिक्षं वा।।
151.अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्।।151।।
त्र्प्रश्वः। प्रुष्वः। लट्वा। कण्वम्। खट्वा। विश्वः।।151।।
151.त्र्प्रश्नुते व्याप्नोतीति त्र्प्रश्वः तुरङ्गो वह्निर्वा। त्र्प्रजादिपाठात स्त्रियामश्वा। यः प्रुष्णाति स्निह्यति सिञ्चति पूरयति वा स प्रुष्वः ऋतः सूर्य्यो वा। लटति बाल इव भवति सा लट्वा। नियतस्त्रीलिङ्गः। करञ्जभेदः फलं वाद्यं पक्षिभेदो वा। कणति निमीलति चेष्टतेऽसौ कण्वः कण्वं पापं कण्वो मुनिर्वा। येनादावध्यापिता काण्वी शाखेति प्रसिद्धा वा। खट्यते काङ्क्ष्यते या सा खट्वा शय्याभेदो वा। विशति सर्वत्र स विश्वः विश्वं जगत्,विश्वाऽतिविषया वा। सर्वादिपाठात्सर्वनामसंज्ञश्च।।
152.इण्शीभ्यां वन्।।152।।
एवः। शेवः।।152।।
152.एति प्राप्नोतीति एवः। बाहुलकात्---एवेत्यवधारणेऽव्ययम् शेतेऽसौ शेवः मुखं मेढ्र वा।।
153.सर्वनिघृष्वरिष्वलष्वशिवपट्वप्रह्वेष्वा अतन्त्रे।।153।।
153.सर्वादयो वन्प्रत्ययान्ता निपात्यन्ते। सरतीति सर्वः सपूर्णवाची सर्वनामसंज्ञी विशेषणम्। नितरां घर्षति पिनष्टीति निघृष्वः। गुणाभावः। खुरं वा। रेषति हिनस्तीति रिष्वः हिंसकः। लषति कामयतेऽसौ लष्वः नर्त्तको वा। शेतेऽसौ शिवः। धातोर्ह्रस्वत्वम्। शिव ईश्वरः शिवं भद्रंर सुखमुदकं च। स`शिवा' हरीतकी। पट्यन्ते गच्छन्त्यत्रेति पट्वः भूलोको वा। प्रजहाति त्यजति स प्रह्वः तम्रो वा। अकारलोपो निपातनम्। ईषतेर हिनस्त्यज्ञानमिति ईष्वः त्र्प्राचार्यो वा। `त्र्प्रतन्त्र' इति किम्? सर्त्ता, सारक इत्यादिसूत्रेषु पठिताः सर्वादिशब्दा यौगिका मा भूवन्।
बाहुलकात्---ह्रसति शब्दयतीति ह्रस्वः वामन एकमात्रो वर्णो वा।।
154.शेवायह्वजिह्वाग्रीवाऽप्वामीवाः।।154।।
154.शेवादयो वन्नन्ता निपात्यन्ते। शेतेऽसौ शेवा लिङ्गाकृतिवर्वा। यजतीति यह्वः यजमानो वा। जकारस्य हकारः। जयति यया सा जिह्वा इन्द्रियं वा। धातोर्हुक्। निगलति यया मा ग्रीवा शरीराङ्गं वा। धातोर्ग्रीभावः। त्र्प्राप्नोति यया सा त्र्प्रप्वा कण्ठस्थानं वा। मीनाति हिनस्तीति मीवः उदरकृमिर्वां।।
155.कॄगॄशॄदॄभ्यो वः।।155।।
कर्वः। गर्वः। शर्वः। दर्वः।।155।।
155.किरति विक्षिपति चित्तमिति कर्वः कामो वा। गिरतीति गर्वः त्र्प्रहङ्कारो वा। क्षृणाति दुःखमिति शर्वः परमेश्वरः सुखं वा। दृणाति विदारयति प्राणिन इति दर्वः हिसको जनो वा।।
156.कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः।।156।।
युवा। वुषा। तक्षा। राजा। धन्वा। द्युवा। प्रतिदिवा।।156।।
156.यौति मिश्रयत्यमिश्रयति वा स युवा मध्यावस्थस्तुरुणो जनो वा। वर्षतीति वृषा सूर्यो वा। तक्षति तनूकरोति न तक्षा वर्धकिर्वा। राजते प्राप्तो भवतीति राजा भूपतिश्चन्द्रमार वा। धन्वति गच्छतीति धन्वा वाणक्षेपणं वा। द्यौत्यभिगच्छतीति द्युवा सूर्यो वा। प्रतिदीव्यन्ति यस्मिन् स प्रतिदिवा दिवसो वा।
बहुलवचनात्---केवलादपि `दिव'धातोः कनिन्। तेन दिवा,दिवानौ इत्याद्यपि सिद्धम्। दशतीति दशन् संख्याविशेषो वा। नौतीति नवन् संख्या वा। बाहुलकाद् गुणः।।
157.सप्यशूभ्यां तुट् च।।157।।
सप्त। अष्ट।।157।।
157.सपति समवैतीति सप्तन् संख्याभेदो वा। त्र्प्रश्नुते व्याप्नोतीति त्र्प्रष्टन् संख्या वा।
   बाहुलकात्---पञ्चति व्यक्तीकरोतीति पञ्चन् संख्यावाचको वा।।
158.नञि जहातेः।।158।।
अहः।।158।।
158.जहाति त्यजति पृथक्करोत्यन्धकारमिति त्र्प्रहः दिनम्।।
159.श्वन्नुक्षन्पूषन्पलीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्वन्मातरिश्वन्मघवन्निति।।159।।
श्वा। उक्षा। पूषा। प्लीहा। क्लेदा। स्नेहा। मूर्द्धा। मज्जा। अर्यमा। विश्वप्सा। परिज्वा। मातरिश्वा। मघवा।।159।।
             इत्युणादिषु प्रथमः पादः ।।1।।
159.श्वनादयस्त्रयोदश शब्दाः कनिनन्ता निपात्यन्ते। श्वयति गच्छति वर्द्धतेऽसौ श्वा कुक्कुरो वा। स्त्रियां ङीष् `शुनी'। उक्षति सिञ्चतीति उक्षा बलीवर्दो वा। पूषति वर्धतेऽसौ पूषा सूर्यो वायुर्वा। प्लिह्यते प्राप्यतेऽन्तरिति प्लीहा कुक्षिव्याधिर्वा। धातोरुपधादीर्धत्वम्। किलद्यत चन्द्रमा वा। धातोर्गुणः। स्निह्यति प्ीतिं करोतीति स्नेहाः व्याधिर्वा। धातोर्गुणः। मूर्वति बघ्नाति स मूर्द्धा शिरो वा। उकारस्य दीर्घो वकारस्य धकारश्च। मज्जति शुन्धतीति मज्जा त्र्प्रस्थिसारो वा। त्र्प्रर्यं स्वामिनं मिमीते विश्वप्सा त्र्प्रग्निर्वा। परितो जवति वेगवान् भवतीति परिज्वा चन्द्रमाः `जु'इति सौत्रो धातुस्तस्य यणादेशः। मातिरि त्र्प्रन्तरिक्षे श्वयति गच्छति वर्द्धते पूज्यतेऽसौ मघवा सूर्यो वा। `मह' धातोर्हकारस्य घत्वं वुगागमश्च। मघवदिति तकारान्तोऽप्ययं शब्दो दृश्यते। तत्र मघं धनमस्यास्तीति मघवान्। मघवन्तौ। मघवन्तः, इति मतुबन्तः। कनिनन्तस्तु---मघवा। मघवानौ। मघवानः। मघवन्।मघवानम्। मघवानौ। मघोनः।
      त्र्प्रस्मिन् सूत्र `इति' शब्दः प्रकारार्थे। एवंविधा त्र्प्रन्येऽपि कनिनन्ता शब्दा यथाप्रयोगं साध्याः। पादसमाप्यर्थो वेति शब्दः।।
     इत्युणादिव्याख्यायां वैदिकलौकिककोषे प्रथमः पादः।।1।।