← सूक्तं १०.६८ ऋग्वेदः - मण्डल १०
सूक्तं १०.६९
सुमित्रो वाध्र्यश्वः
सूक्तं १०.७० →
दे. अग्निः। त्रिष्टुप्, १-२ जगती


भद्रा अग्नेर्वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः ।
यदीं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत् ॥१॥
घृतमग्नेर्वध्र्यश्वस्य वर्धनं घृतमन्नं घृतम्वस्य मेदनम् ।
घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः ॥२॥
यत्ते मनुर्यदनीकं सुमित्रः समीधे अग्ने तदिदं नवीयः ।
स रेवच्छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ॥३॥
यं त्वा पूर्वमीळितो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व ।
स न स्तिपा उत भवा तनूपा दात्रं रक्षस्व यदिदं ते अस्मे ॥४॥
भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीदभिमातिर्जनानाम् ।
शूर इव धृष्णुश्च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ॥५॥
समज्र्या पर्वत्या वसूनि दासा वृत्राण्यार्या जिगेथ ।
शूर इव धृष्णुश्च्यवनो जनानां त्वमग्ने पृतनायूँरभि ष्याः ॥६॥
दीर्घतन्तुर्बृहदुक्षायमग्निः सहस्रस्तरीः शतनीथ ऋभ्वा ।
द्युमान्द्युमत्सु नृभिर्मृज्यमानः सुमित्रेषु दीदयो देवयत्सु ॥७॥
त्वे धेनुः सुदुघा जातवेदोऽसश्चतेव समना सबर्धुक् ।
त्वं नृभिर्दक्षिणावद्भिरग्ने सुमित्रेभिरिध्यसे देवयद्भिः ॥८॥
देवाश्चित्ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन् ।
यत्सम्पृच्छं मानुषीर्विश आयन्त्वं नृभिरजयस्त्वावृधेभिः ॥९॥
पितेव पुत्रमबिभरुपस्थे त्वामग्ने वध्र्यश्वः सपर्यन् ।
जुषाणो अस्य समिधं यविष्ठोत पूर्वाँ अवनोर्व्राधतश्चित् ॥१०॥
शश्वदग्निर्वध्र्यश्वस्य शत्रून्नृभिर्जिगाय सुतसोमवद्भिः ।
समनं चिददहश्चित्रभानोऽव व्राधन्तमभिनद्वृधश्चित् ॥११॥
अयमग्निर्वध्र्यश्वस्य वृत्रहा सनकात्प्रेद्धो नमसोपवाक्यः ।
स नो अजामीँरुत वा विजामीनभि तिष्ठ शर्धतो वाध्र्यश्व ॥१२॥


सायणभाष्यम्

षष्ठेऽनुवाके षोडश सूक्तानि । “ भद्राः' इति द्वादशर्चं प्रथमं सूक्तं वध्र्यश्वपुत्रस्य सुमित्रस्यार्षम् । आदितो द्वे जगत्यावथ दश त्रिष्टुभः । अग्निर्देवता। तथा चानुक्रम्यते- भद्राः सुमित्रो वाध्र्यश्व आग्नेयं द्विजगत्यादि ' इति । गतो विनियोगः ॥


भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो॑ वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः ।

यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इं॒धते॑ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ॥१

भ॒द्राः । अ॒ग्नेः । व॒ध्रि॒ऽअ॒श्वस्य॑ । स॒म्ऽदृशः॑ । वा॒मी । प्रऽनी॑तिः । सु॒ऽरणाः॑ । उप॑ऽइतयः ।

यत् । ई॒म् । सु॒ऽमि॒त्राः । विशः॑ । अग्रे॑ । इ॒न्धते॑ । घृ॒तेन॑ । आऽहु॑तः । ज॒र॒ते॒ । दवि॑द्युतत् ॥१

भद्राः । अग्नेः । वध्रिऽअश्वस्य । सम्ऽदृशः । वामी । प्रऽनीतिः । सुऽरणाः । उपऽइतयः ।

यत् । ईम् । सुऽमित्राः । विशः । अग्रे । इन्धते । घृतेन । आऽहुतः । जरते । दविद्युतत् ॥१

“अग्नेः वक्ष्यमाणगुणस्य “संदृशः संदृष्टयः “वध्र्यश्वस्य एतन्नामकस्य मम पितुः “भद्राः कल्याणकारिण्यो भवन्तु । यद्वा । वध्र्यश्वस्य वध्र्यश्वकुले जातस्याग्नेः संदृष्टयो भजनीया भवन्तु । “प्रणीतिः तस्य प्रणयनं “वामी कल्याणं च भवतु । तथा “उपेतयः यज्ञं प्रत्युपगतयः “सुरणाः शोभनरमणा भवन्तुः । “सुमित्राः एतन्नामधेयाः “विशः अमी मनुष्याः “ईम् एनमग्निम् “अग्रे प्रथमं “यत् यदा “इन्धते हविर्भिर्दीपयन्ति तदा “घृतेनाहुतः हविर्भिश्च “दविद्युतत् भृशं द्योतमानः । ' दाधर्ति दर्धर्ति° ' इत्यादिना निपातितः । सोऽग्निः "जरते अस्माभिः स्तूयते ॥


घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं॑ घृ॒तम्व॑स्य॒ मेद॑नं ।

घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा॑सुतिः ॥२

घृ॒तम् । अ॒ग्नेः । व॒ध्रि॒ऽअ॒श्वस्य॑ । वर्ध॑नम् । घृ॒तम् । अन्न॑म् । घृ॒तम् । ऊं॒ इति॑ । अ॒स्य॒ । मेद॑नम् ।

घृ॒तेन॑ । आऽहु॑तः । उ॒र्वि॒या । वि । प॒प्र॒थे॒ । सूर्यः॑ऽइव । रो॒च॒ते॒ । स॒र्पिःऽआ॑सुतिः ॥२

घृतम् । अग्नेः । वध्रिऽअश्वस्य । वर्धनम् । घृतम् । अन्नम् । घृतम् । ऊं इति । अस्य । मेदनम् ।

घृतेन । आऽहुतः । उर्विया । वि । पप्रथे । सूर्यःऽइव । रोचते । सर्पिःऽआसुतिः ॥२

“वध्र्यश्वस्य संबन्धिनः “अग्नेः “घृतं दीयमानं हविः “वर्धनं भवतु । तथा “घृतमन्नम् अदनीयं भवतु । तथा “अस्य अग्नेः "घृतमु घृतमेव “मेदनं पुष्टिकरं भवतु । येनाग्निः पुष्टो भवति तन्मेदनम् । तेन “घृतेनाहुतः अग्निः “उर्विया उर्वत्यन्तं "वि “पप्रथे स्वतेजसा विप्रथितो भवति । तथा “सर्पिरासुतिः सर्पिरासूयते यस्मिन्निति सोऽग्निः “सूर्य इव “रोचते दीप्यते ॥


यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः ।

स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व॒ स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ॥३

यत् । ते॒ । मनुः॑ । यत् । अनी॑कम् । सु॒ऽमि॒त्रः । स॒म्ऽई॒धे । अ॒ग्ने॒ । तत् । इ॒दम् । नवी॑यः ।

सः । रे॒वत् । शो॒च॒ । सः । गिरः॑ । जु॒ष॒स्व॒ । सः । वाज॑म् । द॒र्षि॒ । सः । इ॒ह । श्रवः॑ । धाः॒ ॥३

यत् । ते । मनुः । यत् । अनीकम् । सुऽमित्रः । सम्ऽईधे । अग्ने । तत् । इदम् । नवीयः ।

सः । रेवत् । शोच । सः । गिरः । जुषस्व । सः । वाजम् । दर्षि । सः । इह । श्रवः । धाः ॥३

हे “अग्ने “ते त्वदीयं “यत् “अनीकं रश्मिसंघं “मनुः एतन्नामकः यथा “समीधे हविर्भिः सम्यग्दीपयति “सुमित्रः एतन्नामकोऽहं समीधे सम्यग्दीपयामि। ‘ ञिइन्धी दीप्तौ'। लिटि ‘ इन्धिभवतिभ्यां च' इति कित्त्वान्नलोपः । “तदिदं सोऽयं रश्मिसंधः “नवीयः नवतरो भवतु । “सः त्वं “रेवत् धनयुक्तं यथा भवति तथा “शोच प्रज्वल । “सः एव त्वं “गिरः अस्मदीयाः स्तुतीः “जुषस्व सेवस्व । “सः त्वं “वाजं शत्रुबलं “दर्षि विदारय । तथा “इह मयि “श्रवः अन्नं “धाः धेहि ॥


यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व ।

स नः॑ स्ति॒पा उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते॑ अ॒स्मे ॥४

यम् । त्वा॒ । पूर्व॑म् । ई॒ळि॒तः । व॒ध्रि॒ऽअ॒श्वः । स॒म्ऽई॒धे । अ॒ग्ने॒ । सः । इ॒दम् । जु॒ष॒स्व॒ ।

सः । नः॒ । स्ति॒ऽपाः । उ॒त । भ॒व॒ । त॒नू॒ऽपाः । दा॒त्रम् । र॒क्ष॒स्व॒ । यत् । इ॒दम् । ते॒ । अ॒स्मे इति॑ ॥४

यम् । त्वा । पूर्वम् । ईळितः । वध्रिऽअश्वः । सम्ऽईधे । अग्ने । सः । इदम् । जुषस्व ।

सः । नः । स्तिऽपाः । उत । भव । तनूऽपाः । दात्रम् । रक्षस्व । यत् । इदम् । ते । अस्मे इति ॥४

“ईळितः । व्यत्ययेन कर्तरि क्तः । स्तोता “वध्र्यश्वः मम पिता “पूर्वं पूर्वस्मिन्काले संजातं “यं “त्वा त्वां “समीधे हविर्भिः सम्यगदीपयत् “सः त्वमिदानीं मया क्रियमाणम् “इदं स्तोत्रं “जुषस्व सेवस्व । यद्वा । वध्र्यश्वस्तस्य पुत्रोऽहं सम्यग्दीपितवानस्मि । “सः त्वं “नः अस्माकं “स्तिपाः। पृषोदरादिः । पस्त्यं गृहम् । तस्य रक्षकः “भव । यद्वा । उपस्थितान् ज्योतिष्टोमादीन्यागान् पालयतीति स्तिपाः । अस्मदीयानां यज्ञानां पालयिता भव। “उत अपि च “तनूपाः स्वाङ्गानां रक्षको भव। किंच “दात्रं तद्धनं “रक्षस्व "यदिदं धनं “ते तव स्वभूतेषु “अस्मे अस्मासु तिष्ठति ॥


भवा॑ द्यु॒म्नी वा॑ध्र्यश्वो॒त गो॒पा मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नां ।

शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो॑चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ॥५

भव॑ । द्यु॒म्नी । वा॒ध्रि॒ऽअ॒श्व॒ । उ॒त । गो॒पाः । मा । त्वा॒ । ता॒री॒त् । अ॒भिऽमा॑तिः । जना॑नाम् ।

शूरः॑ऽइव । घृ॒ष्णुः । च्यव॑नः । सु॒ऽमि॒त्रः । प्र । नु । वो॒च॒म् । वाध्रि॑ऽअश्वस्य । नाम॑ ॥५

भव । द्युम्नी । वाध्रिऽअश्व । उत । गोपाः । मा । त्वा । तारीत् । अभिऽमातिः । जनानाम् ।

शूरःऽइव । घृष्णुः । च्यवनः । सुऽमित्रः । प्र । नु । वोचम् । वाध्रिऽअश्वस्य । नाम ॥५

हे “वाध्र्यश्व वध्र्यश्वकुले जाताग्ने “द्युम्नी । 'द्युम्नं द्योततेर्यशो वान्नं वा'। तद्वान् “भव । “उत अपि च “गोपाः गोपयिता भव । किंच “त्वा त्वाम् कश्चिदपि “मा “तारीत् मा हिनस्तु । यतः “जनानां शत्रूणाम् “अभिमातिः अभिभवनशीलमानयुक्तोऽभिभविता भवसि । किंच शूरइव बलवानिव “धृष्णुः शत्रुधर्षणशीलः तस्मात् “च्यवनः तेषां च्यावयिता भवसि । अथ “वाध्र्यश्वस्य अग्नेस्तव “नाम अग्निर्जातवेदा वैश्वानर इत्यादीनि नामानि “नु क्षिप्रं “सुमित्रः “अहं “प्र “वोचं प्रब्रवीमि । तस्मान्मेऽन्नादियुक्तो भव ॥


सम॒ज्र्या॑ पर्व॒त्या॒३॒॑ वसू॑नि॒ दासा॑ वृ॒त्राण्यार्या॑ जिगेथ ।

शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना॑नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः॑ ॥६

सम् । अ॒ज्र्या॑ । प॒र्व॒त्या॑ । वसू॑नि । दासा॑ । वृ॒त्राणि॑ । आर्या॑ । जि॒गे॒थ॒ ।

शूरः॑ऽइव । घृ॒ष्णुः । च्यव॑नः । जना॑नाम् । त्वम् । अ॒ग्ने॒ । पृ॒त॒ना॒ऽयून् । अ॒भि । स्याः॒ ॥६

सम् । अज्र्या । पर्वत्या । वसूनि । दासा । वृत्राणि । आर्या । जिगेथ ।

शूरःऽइव । घृष्णुः । च्यवनः । जनानाम् । त्वम् । अग्ने । पृतनाऽयून् । अभि । स्याः ॥६

हे “अग्ने अज्र्या। अजन्ति गच्छन्तीत्यज्रयो जनाः। तेभ्यो हितानि “पर्वत्या पर्वतभवानि “वसूनि गवादिलक्षणानि “सं “जिगेथ शत्रुभ्यः संजितवानसि । तथा “आर्यां बलवद्भिः कृतान् “दासा दासैरसुरैः कृतान “वृत्राणि उपद्रवान् “सं “जिगेथ । तान् हतवानसीत्यर्थः।' जि जये । लिटि रूपम्। “शूरइव “धृष्णुः “जनानां “च्यवनः “त्वं पृतनायून् संग्रामकामान् “अभि “ष्याः अभिभब । पृतनायूनित्यत्र लोपाभावश्छान्दसः । ‘ अश्वाघस्यात्' इत्यात्वं विधीयमानमस्मादपि व्यत्ययेन भवति ॥ ॥ १९ ॥


दी॒र्घतं॑तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी॑थ॒ ऋभ्वा॑ ।

द्यु॒मांद्यु॒मत्सु॒ नृभि॑र्मृ॒ज्यमा॑नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ॥७

दी॒र्घऽत॑न्तुः । बृ॒हत्ऽउ॑क्षा । अ॒यम् । अ॒ग्निः । स॒हस्र॑ऽस्तरीः । श॒तऽनी॑थः । ऋभ्वा॑ ।

द्यु॒ऽमान् । द्यु॒मत्ऽसु॑ । नृऽभिः॑ । मृ॒ज्यमा॑नः । सु॒ऽमि॒त्रेषु॑ । दी॒द॒यः॒ । दे॒व॒यत्ऽसु॑ ॥७

दीर्घऽतन्तुः । बृहत्ऽउक्षा । अयम् । अग्निः । सहस्रऽस्तरीः । शतऽनीथः । ऋभ्वा ।

द्युऽमान् । द्युमत्ऽसु । नृऽभिः । मृज्यमानः । सुऽमित्रेषु । दीदयः । देवयत्ऽसु ॥७

“दीर्घतन्तुः । यैर्यज्ञं संतनोति ते तन्तवः स्तोत्रादयः। प्रभूतस्तुतिमान् "बृहदुक्षा। उक्षा सेचको रश्मिः । प्रभूतरश्मियुक्तः “सहस्रस्तरीः हवीरूपबह्वाच्छादनः “शतनीथः आहवनीयादिद्वारेण बहुविधनयनः “ऋभ्वा महान् “द्युमत्सु दीप्तिमत्सु मध्ये “द्युमान् अतिशयेन दीप्तिमान् “अयमग्निः "नृभिः कर्मनेतृभिर्ऋत्विग्भिः मृज्यमानः अलंक्रियमाणो भवति । ' मृजू शौचालंकारयोः । स त्वं “देवयत्सु देवान् कामयमानेषु “सुमित्रेषु अस्मासु "दीदयः दीप्यस्व । दीदयतिर्दीप्तिकर्मा ॥


त्वे धे॒नुः सु॒दुघा॑ जातवेदोऽस॒श्चते॑व सम॒ना स॑ब॒र्धुक् ।

त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भिः॑ ॥८

त्वे इति॑ । धे॒नुः । सु॒ऽदुघा॑ । जा॒त॒ऽवे॒दः॒ । अ॒स॒श्चता॑ऽइव । स॒म॒ना । स॒बः॒ऽधुक् ।

त्वम् । नृऽभिः॑ । दक्षि॑णावत्ऽभिः । अ॒ग्ने॒ । सु॒ऽमि॒त्रेभिः॑ । इ॒ध्य॒से॒ । दे॒व॒यत्ऽभिः॑ ॥८

त्वे इति । धेनुः । सुऽदुघा । जातऽवेदः । असश्चताऽइव । समना । सबःऽधुक् ।

त्वम् । नृऽभिः । दक्षिणावत्ऽभिः । अग्ने । सुऽमित्रेभिः । इध्यसे । देवयत्ऽभिः ॥८

हे "जातवेदः जातप्रज्ञ “अग्ने “त्वे त्वयि “सुदुघा सुष्ठु पयसो दोग्ध्री काचिद्धोमसाधनभूता “धेनुः अस्ति । कीदृशी। “असश्चतेव संगवर्जितेनेवैकत्र स्थित्यभावात्कुत्रापि न संयुक्तेनादित्येन “समना संगता “सबर्धुक् अमृतं दुहाना गोरूपा माध्यमिका वाग्वैद्युते त्वय्यस्तीति भावः । तादृशः “त्वं “नृभिः कर्मनेतृभिः “दक्षिणावद्भिः ऋत्विग्भ्यो देयत्वेन तद्वद्भिः “देवयद्भिः देवकामैः “सुमित्रेभिः अस्माभिः “इध्यसे हविर्भिर्दीप्यसे ॥


दे॒वाश्चि॑त्ते अ॒मृता॑ जातवेदो महि॒मानं॑ वाध्र्यश्व॒ प्र वो॑चन् ।

यत्सं॒पृच्छं॒ मानु॑षी॒र्विश॒ आयं॒त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ॥९

दे॒वाः । चि॒त् । ते॒ । अ॒मृताः॑ । जा॒त॒ऽवे॒दः॒ । म॒हि॒मान॑म् । वा॒ध्रि॒ऽअ॒श्व॒ । प्र । वो॒च॒न् ।

यत् । स॒म्ऽपृच्छ॑म् । मानु॑षीः । विशः॑ । आय॑न् । त्वम् । नृऽभिः॑ । अ॒ज॒यः॒ । त्वाऽवृ॑धेभिः ॥९

देवाः । चित् । ते । अमृताः । जातऽवेदः । महिमानम् । वाध्रिऽअश्व । प्र । वोचन् ।

यत् । सम्ऽपृच्छम् । मानुषीः । विशः । आयन् । त्वम् । नृऽभिः । अजयः । त्वाऽवृधेभिः ॥९

हे "जातवेदः हे “वाध्र्यश्व अग्ने “ते तव “महिमानम् “अमृताः देवाश्चित् देवा अपि “प्र “वोचन् प्रब्रुवन्ति । “यत् यदा “मानुषीः मनुष्यसंबन्धिन्यः “विशः प्रजाः “संपृच्छं देवैः सह को वा असुरान् हन्तीत्येवमादिकं संप्रश्नम् “आयन प्राप्तवन्तः तदा “त्वं “नृभिः सर्वस्य नेतृभिः “त्वावृधेभिः त्वया वर्धितैर्देवैः सह कर्मविघ्नकारिणस्तान “अजयः जितवानसि ॥


पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् ।

जु॒षा॒णो अ॑स्य स॒मिधं॑ यविष्ठो॒त पूर्वाँ॑ अवनो॒र्व्राध॑तश्चित् ॥१०

पि॒ताऽइ॑व । पु॒त्रम् । अ॒बि॒भः॒ । उ॒पऽस्थे॑ । त्वाम् । अ॒ग्ने॒ । व॒ध्रि॒ऽअ॒श्वः । स॒प॒र्यन् ।

जु॒षा॒णः । अ॒स्य॒ । स॒म्ऽइध॑म् । य॒वि॒ष्ठ॒ । उ॒त । पूर्वा॑न् । अ॒व॒नोः॒ । व्राध॑तः । चि॒त् ॥१०

पिताऽइव । पुत्रम् । अबिभः । उपऽस्थे । त्वाम् । अग्ने । वध्रिऽअश्वः । सपर्यन् ।

जुषाणः । अस्य । सम्ऽइधम् । यविष्ठ । उत । पूर्वान् । अवनोः । व्राधतः । चित् ॥१०

हे “अग्ने “त्वाम् “उपस्थे पृथिव्या उपस्थान उतरवेद्यां “सपर्यन् । परिचर्याकर्मा । परिचरन् “वध्र्यश्वः मम पिता “अबिभः धृतवान् हविर्भिः पोषितवान्वा । कथमिव । “पितेव यथा पिता समीपे “पुत्रं स्थापयति पोषयति वा । ‘ डुभृञ् धारणपोषणयोः । लङि तिपि गुणे कृते हल्ङ्यादिना तिपो लोपः । हे “यविष्ठ युवतमाग्ने “उत अपि च “अस्य वध्र्यश्वस्य पितुर्वा मम वा “समिधं “जुषाणः सेवमानः सन् “पूर्वान् प्रत्नान “व्राधतश्चित् बाधकानपि शत्रून् “अवनोः अवधीः । वनतिर्हिंसयां भौवादिकः । व्यत्ययेनोप्रत्ययः ॥


शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो॑मवद्भिः ।

सम॑नं चिददहश्चित्रभा॒नोऽव॒ व्राधं॑तमभिनद्वृ॒धश्चि॑त् ॥११

शश्व॑त् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । शत्रू॑न् । नृऽभिः॑ । जि॒गा॒य॒ । सु॒तसो॑मवत्ऽभिः ।

सम॑नम् । चि॒त् । अ॒द॒हः॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । अव॑ । व्राध॑न्तम् । अ॒भि॒न॒त् । वृ॒धः । चि॒त् ॥११

शश्वत् । अग्निः । वध्रिऽअश्वस्य । शत्रून् । नृऽभिः । जिगाय । सुतसोमवत्ऽभिः ।

समनम् । चित् । अदहः । चित्रभानो इति चित्रऽभानो । अव । व्राधन्तम् । अभिनत् । वृधः । चित् ॥११

सः “अग्निः “वध्र्यश्वस्य “सुतसोमवद्भिः अभिषुतसोमैः । अनुवादको मत्वर्थीयः । तैः “नृभिः ऋत्विग्भिः “शश्वत् सर्वदा “शत्रून् “जिगाय जितवान् । अथ प्रत्यक्षः । हे “चित्रभानो नानातेजस्क चायनीयदीप्तिमन् वाग्ने त्वं “समनं “चित् । समनमिति संग्रामनाम । तमपि “अदहः स्वतेजोभिः । अथ तव स्तोता वाध्र्यश्वः “वृधश्चित् स्वयं वृद्धो भवन “व्राधन्तं वर्धमानं हिंसकं वा “अव “अभिनत् अवाङ्मुखं कृत्वा अच्छिनत् । यद्वा त्वमेव तमवाभिनत् । अवाङ्मुखं कृत्वाभिनः अच्छिनः। प्रथममध्यमयोः समानमेतद्रूपम् ॥


अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ ।

स नो॒ अजा॑मीँरु॒त वा॒ विजा॑मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ॥१२

अ॒यम् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । वृ॒त्र॒ऽहा । स॒न॒कात् । प्रऽइ॑द्धः । नम॑सा । उ॒प॒ऽवा॒क्यः॑ ।

सः । नः॒ । अजा॑मीन् । उ॒त । वा॒ । विऽजा॑मीन् । अ॒भि । ति॒ष्ठ॒ । शर्ध॑तः । वा॒ध्रि॒ऽअ॒श्व॒ ॥१२

अयम् । अग्निः । वध्रिऽअश्वस्य । वृत्रऽहा । सनकात् । प्रऽइद्धः । नमसा । उपऽवाक्यः ।

सः । नः । अजामीन् । उत । वा । विऽजामीन् । अभि । तिष्ठ । शर्धतः । वाध्रिऽअश्व ॥१२

“वृत्रहा शत्रूणां हन्ता “अयमग्निः “सनकात् चिरादारभ्य “वध्र्यश्वस्य हविषा “प्रेद्धः प्रकर्षेण दीपितो भवति । तथा तस्य “नमसा नमस्कारेण सह “उपवाक्यः उपस्तोतव्यो भवति । हे “वाध्र्यश्व वध्र्यश्वकुले मथनेन समुत्पन्नाग्ने “सः त्वं “नः अस्माकम् “अजामीन् अज्ञातीन शत्रून् "उत “वा अपि वा “शर्धतः हिंसतः “विजामीन विविधान् ज्ञातीनपि “अभि “तिष्ठ अभिभव ॥ ॥ २०॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.६९&oldid=208161" इत्यस्माद् प्रतिप्राप्तम्