← सूक्तं १.१८१ ऋग्वेदः - मण्डल १
सूक्तं १.१८२
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१८३ →
दे. अश्विनौ। जगती, ६-८ त्रिष्टुप्।


अभूदिदं वयुनमो षु भूषता रथो वृषण्वान्मदता मनीषिणः ।
धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता ॥१॥
इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा ।
पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना ॥२॥
किमत्र दस्रा कृणुथः किमासाथे जनो यः कश्चिदहविर्महीयते ।
अति क्रमिष्टं जुरतं पणेरसुं ज्योतिर्विप्राय कृणुतं वचस्यवे ॥३॥
जम्भयतमभितो रायतः शुनो हतं मृधो विदथुस्तान्यश्विना ।
वाचंवाचं जरितू रत्निनीं कृतमुभा शंसं नासत्यावतं मम ॥४॥
युवमेतं चक्रथुः सिन्धुषु प्लवमात्मन्वन्तं पक्षिणं तौग्र्याय कम् ।
येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः ॥५॥
अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि प्रविद्धम् ।
चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति ॥६॥
कः स्विद्वृक्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत् ।
पर्णा मृगस्य पतरोरिवारभ उदश्विना ऊहथुः श्रोमताय कम् ॥७॥
तद्वां नरा नासत्यावनु ष्याद्यद्वां मानास उचथमवोचन् ।
अस्मादद्य सदसः सोम्यादा विद्यामेषं वृजनं जीरदानुम् ॥८॥

सायणभाष्यम्

‘अभूदिदम्' इत्यष्टर्चं तृतीयं सूक्तम् आश्विनं जागतम् । “ अवविद्धम्' इति षष्ठी ‘तद्वां नरा नासत्यौ' इत्यष्टमी च उभे त्रिष्टुभौ । ‘अभूदिदमष्टौ षष्ठ्यन्त्ये त्रिष्टुभौ' इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दस्यस्य विनियोगः । तथा च सूत्रितम्- ‘अभूदिदं यो वां परिज्मेति त्रीणि ( आश्व. श्रौ. ४. १५ ) इति ॥ ।


अभू॑दि॒दं व॒युन॒मो षु भू॑षता॒ रथो॒ वृष॑ण्वा॒न्मद॑ता मनीषिणः ।

धि॒यं॒जि॒न्वा धिष्ण्या॑ वि॒श्पला॑वसू दि॒वो नपा॑ता सु॒कृते॒ शुचि॑व्रता ॥१

अभू॑त् । इ॒दम् । व॒युन॑म् । ओ इति॑ । सु । भू॒ष॒त॒ । रथः॑ । वृष॑ण्ऽवान् । मद॑त । म॒नी॒षि॒णः॒ ।

धि॒य॒म्ऽजि॒न्वा । धिष्ण्या॑ । वि॒श्पला॑वसू॒ इति॑ । दि॒वः । नपा॑ता । सु॒ऽकृते॑ । शुचि॑ऽव्रता ॥१

अभूत् । इदम् । वयुनम् । ओ इति । सु । भूषत । रथः । वृषण्वान् । मदत । मनीषिणः ।

धियम्ऽजिन्वा । धिष्ण्या । विश्पलावसू इति । दिवः । नपाता। सुऽकृते । शुचिऽव्रता ॥१।।

हे “मनीषिणः मनस्विनो मेधाविन ऋत्विजः अस्माकम् “इदं “वयुनं प्रज्ञानम् “अभूत् उत्पन्नम् । कीदृशं तदिति । उच्यते । “वृषण्वान् अभिमतवर्षणवान् “रथः अश्विनोः संबन्धी गमनसाधनो रथ आगत इति शेषः । तत्स्थावश्विनौ “ओ “षु “भूषत । ओ इति निपातद्वयसमुदायात्मकः एको निपातः । सुष्ठु आभूषत । अभिमुखा भवत स्तोतुम् । तादृशौ महानुभावावश्विनौ “मदत ।। अन्तर्भावितण्यर्थोऽयम् ॥ मदयत संभावयत । अश्विनौ विशेष्येते । “सुकृते सुष्टु कृतवते मह्यं “धियंजिन्वा कर्मणो बुद्धेर्वा प्रीणयितारौ “धिष्ण्या धिषणार्हौ स्तुत्यौ “विश्पलावसू विशां प्रजानाम् अस्माकं पालयितृधनौ विश्पलाख्यायाश्छिन्नजङ्घाया हिरण्मयजङ्घाप्रदानेन तथाभूतौ । ‘सद्यो जङ्घामायसीं विश्पलायै ' ( ऋ. सं. १. ११६. १५ ) इत्यादिनिगमः । “दिवः आदित्यस्य “नपाता नप्तारौ नपातयितारौ वा “शुचिव्रता दीप्तकर्माणौ । ईदृशावश्विनौ मदत ॥


इन्द्र॑तमा॒ हि धिष्ण्या॑ म॒रुत्त॑मा द॒स्रा दंसि॑ष्ठा र॒थ्या॑ र॒थीत॑मा ।

पू॒र्णं रथं॑ वहेथे॒ मध्व॒ आचि॑तं॒ तेन॑ दा॒श्वांस॒मुप॑ याथो अश्विना ॥२

इन्द्र॑ऽतमा । हि । धिष्ण्या॑ । म॒रुत्ऽत॑मा । द॒स्रा । दंसि॑ष्ठा । र॒थ्या॑ । र॒थिऽत॑मा ।

पू॒र्णम् । रथ॑म् । व॒हे॒थे॒ इति॑ । मध्वः॑ । आऽचि॑तम् । तेन॑ । दा॒श्वांस॑म् । उप॑ । या॒थः॒ । अ॒श्वि॒ना॒ ॥२

इन्द्रऽतमा । हि । धिष्ण्या । मरुत्ऽतमा । दस्रा । दंसिष्ठा । रथ्या । रथिऽतमा ।

पूर्णम् । रथम् । वहेथे इति । मध्वः । आऽचितम् । तेन । दाश्वांसम् । उप । याथः । अश्विना ॥२॥

हे अश्विनौ युवाम् “इन्द्रतमा “हि ईश्वरतमौ खलु । एवं प्रतिविशेषणं हिः संबन्ध्यः । तथा “धिष्ण्या स्तुत्यर्हौ “मरुत्तमा मरुद्वद्वेगगामिनौ मितरागिणौ मितराविणौ वा “दस्रा उपक्षपयितारौ शत्रूणां “दंसिष्ठा अतिशयकर्माणौ “रथ्या रथार्हौ रथवन्तौ “रथितमा । रथिनो नेतारः । तेषां श्रेष्ठौ । ‘रथीरध्वराणाम् ' ( ऋ. सं. ८. ११. २) इति नेतृपरतया व्याख्यातत्वात् । ईदृशौ युवां “मध्वः मधुसदृशस्य उदकस्यामृतस्य वा “पूर्णं पूरितम् “आचितं सर्वतः संनद्धं “रथं “वहेथे नयथः । “तेन उक्तगुणविशिष्टेन रथेन हे “अश्विना अश्विनौ उक्तगुणविशिष्टौ सन्तौ “उप “याथः यज्ञमभिप्राप्नुथः ।।


किमत्र॑ दस्रा कृणुथ॒ः किमा॑साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते॑ ।

अति॑ क्रमिष्टं जु॒रतं॑ प॒णेरसुं॒ ज्योति॒र्विप्रा॑य कृणुतं वच॒स्यवे॑ ॥३

किम् । अत्र॑ । द॒स्रा॒ । कृ॒णु॒थः॒ । किम् । आ॒सा॒थे॒ इति॑ । जनः॑ । यः । कः । चि॒त् । अह॑विः । म॒ही॒यते॑ ।

अति॑ । क्र॒मि॒ष्ट॒म् । जु॒रत॑म् । प॒णेः । असु॑म् । ज्योतिः॑ । विप्रा॑य । कृ॒णु॒त॒म् । व॒च॒स्यवे॑ ॥३

किम् । अत्र । दस्रा । कृणुथः । किम् । आसाथे इति । जनः । यः । कः । चित् । अहविः । महीयते ।।

अति । क्रमिष्टम् । जुरतम् । पणेः । असुम् । ज्योतिः । विप्राय । कृणुतम् । वचस्यवे ॥३॥

हे “दस्रा उपक्षपयितारौ युवाम् “अत्र अस्मिन् मनुष्ये “किं “कृणुथः कुरुथः । हविषोऽभावादिति भावः । तत्रैव किमासाथे किं तिष्ठथः । अत्रेत्युक्तं कुत्रेत्याह । “यः “कश्चित् “जनः जन्मवान् "अहविः यज्ञार्थहवीरहितः “महीयते पूज्यते स्वयं न युष्मान् पूजयति । तं जनम् "अति “क्रमिष्टं पराभूय तिष्ठतम् । न केवलमतिक्रममात्रं किंतु “पणेः वणिग्भूतस्य लुब्धकस्यायष्टुः तस्य “असुं प्राणं "जुरतम् अहिंसिष्टम् अनीनशतम् । “विप्राय मेधाविने “वचस्यवे वचसः स्तोत्ररूपस्य युवाभ्यामिच्छते मह्यं "ज्योतिः “कृणुतं युष्मद्यजनविषयज्ञानं कुरुतम् ॥


ज॒म्भय॑तम॒भितो॒ राय॑त॒ः शुनो॑ ह॒तं मृधो॑ वि॒दथु॒स्तान्य॑श्विना ।

वाचं॑वाचं जरि॒तू र॒त्निनीं॑ कृतमु॒भा शंसं॑ नासत्यावतं॒ मम॑ ॥४

ज॒म्भय॑तम् । अ॒भितः॑ । राय॑तः । शुनः॑ । ह॒तम् । मृधः॑ । वि॒दथुः॑ । तानि॑ । अ॒श्वि॒ना॒ ।

वाच॑म्ऽवाचम् । ज॒रि॒तुः । र॒त्निनी॑म् । कृ॒त॒म् । उ॒भा । शंस॑म् । ना॒स॒त्या॒ । अ॒व॒त॒म् । मम॑ ॥४

जम्भयतम् । अभितः । रायतः । शुनः । हतम् । मृधः । विदथुः । तानि । अश्विना ।।

वाचम्ऽवाचम् । जरितुः । रत्निनीम् । कृतम्। उभा । शंसम् । नासत्या । अवतम् । मम ॥४॥

हे अश्विनौ “रायतः निन्दितं शब्दयतः अस्मान् हन्तुमागच्छतो वा “शुनः श्वसदृशान् “अभितः “जम्भयतं नाशयतम् । तथा "मृधः तेषां संग्रामान् संग्रामं कुर्वतो वा “हतं मारयतम् । “तानि हननोपायान् “विदथुः जानीथः । किंच “जरितुः युष्मान् स्तोतुः “वाचंवाचं तां तां स्तुतिलक्षणां वाचं “रत्निनीं “कृतं सर्वामपि स्तुतिं रमणीयफलवतीं कुरुतम् । हे “नासत्या सत्यभूतौ युवाम् “उभा उभौ मम मदीयां “शंसं स्तुतिम् “अवतं रक्षतम् ॥


यु॒वमे॒तं च॑क्रथु॒ः सिन्धु॑षु प्ल॒वमा॑त्म॒न्वन्तं॑ प॒क्षिणं॑ तौ॒ग्र्याय॒ कम् ।

येन॑ देव॒त्रा मन॑सा निरू॒हथु॑ः सुपप्त॒नी पे॑तथु॒ः क्षोद॑सो म॒हः ॥५

यु॒वम् । ए॒तम् । च॒क्र॒तुः॒ । सिन्धु॑षु । प्ल॒वम् । आ॒त्म॒न्ऽवन्त॑म् । प॒क्षिण॑म् । तौ॒ग्र्याय॑ । कम् ।

येन॑ । दे॒व॒ऽत्रा । मन॑सा । निः॒ऽऊ॒हथुः॑ । सु॒ऽप॒प्त॒नि । पे॒त॒थुः॒ । क्षोद॑सः । म॒हः ॥५

युवम् । एतम् । चक्रथुः । सिन्धुषु । प्लवम् । आत्मन्ऽवन्तम् । पक्षिणम्। तौग्र्याय । कम्।

येन । देवऽत्रा । मनसा । निःऽऊहथुः । सुऽपप्तनि । पेतथुः । क्षोदसः । महः ॥ ५ ॥

हे अश्विनौ "युवं युवां “सिन्धुषु समुद्रोदकेषु “एतं "प्लवं प्रसिद्धं प्लुतिसाधनं प्लवं नावम् “आत्मन्वन्तं दार्ढ्यवन्तं “पक्षिणं पक्षवद्गतिसाधनरथवन्तं “तौग्र्याय तुग्रनाम्नो राज्ञः पुत्राय भुज्युनाम्ने राज्ञे “कं सुखकरं “चक्रथुः। तौग्र्यो भुज्यू राजा समुद्रवर्ती ससेनः परचक्रं प्रमथितुं प्रस्थितः । तं प्रतीपबलानि आगत्यापातयन् स च प्रसादफलकराश्विनौ स्तुत्वा स्वात्मानं ररक्ष इत्ययमितिहासो बहुधा पूर्वं प्रपञ्चितः। यद्वा । कमिति पूरणः । तस्य जलसंचारिरथस्य सहायभूतान् बहून् रथादीनकुरुतमित्यर्थः । अयमर्थस्तु ‘तमूहथुर्नौभिः' (ऋ. सं. १. ११६. ३ ), ‘चतस्रो नावः' (. सं. १. १८२. ६ ), 'त्रिभी रथैः' (ऋ. सं. १. ११६. ४ ) इत्यादिमन्त्रान्तरेषु प्रसिद्धः । “येन युष्मद्दत्तेन प्लवेन “देवत्रा देवेषु मध्ये “मनसा अनुग्रहयुक्त्या बुद्ध्या । येन मनसेति वा योज्यम् । “निरूहथुः निर्गमनं कुरुथः । तथा “सुपप्तनि शोभनपतनं यथा भवति सुपतनौ वा युवां “महः महतः “क्षोदसः । उदकनामैतत् । उदकात् "पेतथुः तदधः पतथः उत्तरीतुम् ॥ ॥ २७ ॥


अव॑विद्धं तौ॒ग्र्यम॒प्स्व१॒॑न्तर॑नारम्भ॒णे तम॑सि॒ प्रवि॑द्धम् ।

चत॑स्रो॒ नावो॒ जठ॑लस्य॒ जुष्टा॒ उद॒श्विभ्या॑मिषि॒ताः पा॑रयन्ति ॥६

अव॑ऽविद्धम् । तौ॒ग्र्यम् । अ॒प्ऽसु । अ॒न्तः । अ॒ना॒र॒म्भ॒णे । तम॑सि । प्रऽवि॑द्धम् ।

चत॑स्रः । नावः॑ । जठ॑लस्य । जुष्टाः॑ । उत् । अ॒श्विऽभ्या॑म् । इ॒षि॒ताः । पा॒र॒य॒न्ति॒ ॥६

अवऽविद्धम् । तौग्र्यम् । अप्ऽसु । अन्तः । अनारम्भणे । तमसि । प्रऽविद्धम् ।।

चतस्रः । नावः । जठलस्य । जुष्टाः । उत्। अश्विऽभ्याम् । इषिताः । पारयन्ति ॥६॥

“अप्स्वन्तः मध्ये "अवविद्धम् अवस्ताच्छत्रुभिः पातितम् “अनारम्भणे अनालम्बने आलम्बनरहिते “तमसि । तमोवत्तमः । दृष्टिश्वासादिप्रतिबन्धके जलमध्ये “प्रविद्धं प्रकर्षेण पीडितं तौग्र्यं भुज्युं “जठलस्य जठरवदुदकधारकस्य मध्ये "जुष्टाः सेविताः । यद्वा ॥ कर्मणि षष्ठी ॥ जठरं प्राप्ताः अन्तर्जलं प्रविष्टाः । "अश्विभ्यामिषिताः चतस्रो "नावः “उत् पारयन्ति उत्तारयन्ति प्रापयन्ति ॥


कः स्वि॑द्वृ॒क्षो निष्ठि॑तो॒ मध्ये॒ अर्ण॑सो॒ यं तौ॒ग्र्यो ना॑धि॒तः प॒र्यष॑स्वजत् ।

प॒र्णा मृ॒गस्य॑ प॒तरो॑रिवा॒रभ॒ उद॑श्विना ऊहथु॒ः श्रोम॑ताय॒ कम् ॥७

कः । स्वि॒त् । वृ॒क्षः । निःऽस्थि॑तः । मध्ये॑ । अर्ण॑सः । यम् । तौ॒ग्र्यः । ना॒धि॒तः । प॒रि॒ऽअस॑स्वजत् ।

प॒र्णा । मृ॒गस्य॑ । प॒तरोः॑ऽइव । आ॒ऽरभे॑ । उत् । अ॒श्वि॒ना॒ । ऊ॒ह॒थुः॒ । श्रोम॑ताय । कम् ॥७

कः । स्वित्। वृक्षः । निःऽस्थितः । मध्ये । अर्णसः । यम् । तौग्र्यः । नाधितः । परिऽअसस्वजत् ।

पर्णा । मृगस्य । पतरोःऽइव । आऽरभे। उत् । अश्विनौ । ऊहथुः । श्रोमताय । कम् ॥ ७ ॥

“कः “स्वित् कश्चिदनुग्राहकः “वृक्षः वृक्षविकारो रथः । विकारे प्रकृतिशब्दः । यद्वा । संस्तवाभिप्रायमेतत् । स्तोत्राख्यो वृक्ष इत्यर्थः । कीदृशो रथः । “निष्ठितः निश्चलं वर्तमानः । कुत्रेति उच्यते । "अर्णसः उदकस्य “मध्ये । "यं वृक्षं "तौग्र्यः तुग्रपुत्रो भुज्युः "नाधितः याचमानः “पर्यषस्वजत् परिष्वक्तमकरोत् । आलम्बने दृष्टान्तः । “पतरोः पतनशीलस्य मृगस्य मार्जयितुः शोधयितुर्हिंसादेः “आरभे आलम्बनाय पर्णानीव । तानि यथा आलम्बनाय प्रभवन्ति तद्वत् । हे “अश्विनौ "श्रोमताय कीर्तिमत्त्वाय "उत् “ऊहथुः उर्ध्वं प्रापयथः । स्तुतिपक्षे स्तोत्राख्यं वृक्षमाश्रितवन्तं तमूहथुरित्यर्थः ॥


तद्वां॑ नरा नासत्या॒वनु॑ ष्या॒द्यद्वां॒ माना॑स उ॒चथ॒मवो॑चन् ।

अ॒स्माद॒द्य सद॑सः सो॒म्यादा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥८

तत् । वा॒म् । न॒रा॒ । ना॒स॒त्यौ॒ । अनु॑ । स्या॒त् । यत् । वा॒म् । माना॑सः । उ॒चथ॑म् । अवो॑चन् ।

अ॒स्मात् । अ॒द्य । सद॑सः । सो॒म्यात् । आ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥८

तत् । वाम् । नरा । नासत्यौ । अनु । स्यात् । यत्। वाम् । मानासः । उचथम् । अवोचन् ।

अस्मात् । अद्य । सदसः । सोम्यात् । आ । विद्याम । इषम् । वृजनम्। जीरऽदानुम् ॥८॥

हे "नरा नेतारौ कर्मणो नराकारौ वा हे “नासत्यौ असत्यरहितौ सत्यफलौ वा "वां युवां “तत् तादृशं स्तोत्रम् “अनु “स्यात् अनुकूलं भवतु अनुभवतु वा वाम् । तदित्युक्तं यदित्याह । “वां प्रति “मानासः पूजावन्तोऽस्मदीया होत्रादयः “यत् “उचथं स्तोत्रम् “अवोचन् अकुर्वन् तद्वाम् अनु ष्यात् । हे अश्विनौ “अद्य अस्मिन् प्रधानयागदिने "अस्मात् अस्माभिः क्रियमाणात् “सदसः संबन्धिनः “सोम्यात् सोमयागसंपादकात् । “आ इति अप्यर्थे । अस्माभिर्यजमानैः अद्य क्रियमाणादपि स्तोत्रात् प्रीणयतमिति । विद्यामेति गतम् ॥ ॥ २८ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८२&oldid=402124" इत्यस्माद् प्रतिप्राप्तम्