करुणापुण्डरीकसूत्रम्

करुणापुण्डरीकसूत्रम्
[[लेखकः :|]]


(१)
करुणापुण्डरीकसूत्रम्
धर्म-चक्र-प्रवर्तनो नाम प्रथमः परिवर्तः


ओं नमः
श्रीसर्वबुद्धबोधिसत्त्वेभ्यः ॥


बुद्धं प्रणम्य सर्वज्ञं धर्मं सङ्घं गुणाकरम् ।
करुणापुण्डरीकाख्यं प्रवक्ष्ये बोधिसूत्रकम् ॥

एवं मया श्रुतम् । एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसङ्घेन सार्धं द्वादशभिर्भिक्षुशतैः सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिताप्राप्तैरभिज्ञानाभिज्ञातैर्महाश्रावकैः । (२) तद्यथा, आयुष्मता चाज्ञातकौण्डिन्येन आयुष्मता चास्वजिता आयुष्मता च बाष्पेण आयुष्मता च महास्थाम्ना आयुष्मता च भद्रिकेण आयुष्मता च महाकाश्यपेन आयुष्मता चोरुविल्वाकाश्यपेन आयुष्मता च गयाकाश्येपेन आयुष्मता च शारिपुत्रेण आयुष्मता च महामौद्गल्यायनेन आयुष्मता च महाकात्यायनेन आयुष्मता चानिरुद्धेन आयुष्मता च रेवतेन आयुष्मता च कंफिल्लेन आयुष्मता च गवांपतिना आयुष्मता च पिलिन्दवत्सेन आयुष्मता च बकुलेन आयुष्मता च महाकौष्ठिलेन आयुष्मता च भरद्वाजेन आयुष्मता च महानन्देन आयुष्मता चोपनन्देन आयुष्मता च सुन्दरनन्देन आयुष्मता च पूर्णेन आयुष्मता च सुभूतिना आयुष्मता च राहुलेन । एवं प्रमुखैश्चानेकैर्महाश्राकैरायुष्मता चानन्देन शैक्षेण, अन्याभ्यां भिक्षुसहस्राभ्यां शैक्षाशैक्षाभ्याम् । महाप्रजापतीप्रमुखैश्च षड्भिक्षुणीसहस्रैः, यशोधरया च भिक्षुण्या राहुलमात्रा सपरिवारया । अशीतिभिश्च बोधिसत्त्वसहस्रैः सर्वैरवैवर्तिकैरेकजातिप्रतिबद्धैर्यदुतानुत्तरायां सम्यक्संबोद्धौ धारणीप्रतिलब्धैर्महाप्रतिभानप्रतिष्ठितैरवैवर्त्यधर्मचक्रप्रवर्तकैर्बहुबुद्धशतसहस्रपर्युपासितैर्
(३) बहुबुद्धशतसहस्रावरोपितकुशलमूलैर्बहुबुद्धशतसहस्रसंस्तुतैर्मैत्रीपरिभावितकायचित्तैस्तथागतज्ञानावतारणकुशलैर्महाप्रज्ञैः प्रज्ञापारमितागतिंगतैर्बहुलोकधातुशतसहस्रविश्रुतैर्बहुप्राणकोटीनियुतशतसहस्रसंपालकैः । तद्यथा, मञ्जुश्रिया च कुमारभूतेन बोधिसत्त्वेन महासत्त्वेन अवलोकितेश्वरेण च महास्थामप्राप्तेन च सर्वार्थनाम्ना च नित्योद्युक्तेन च अनिक्षिप्तधुरेण च रत्नपाणिना च भैषज्यराजेन च भैषज्यसमुद्गतेन च व्यूहराजेन च प्रदानशूरेण च रत्नचन्द्रेण च पूर्णचन्द्रेण च महाविक्रमिणा च अनन्तविक्रमिणा च त्रैलोक्यविक्रमिणा च महाप्रतिभानेन च सततसमिताभियुक्तेन च धरणिंधरेण च अक्षयमतिना च महामतिना च शान्तमतिना च नक्षत्रराजेन च रत्नवैरोचनेन च मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन सिंहेन च बोधिसत्त्वेन महासत्त्वेन । भद्रपालपूर्वंगमैश्च षोडशभिः सत्पुरुषैः सार्धम् । तद्यथा, भद्रपालेन च रत्नाकरेण च सुसार्थवाहेन च नरदत्तेन च गुहगुप्तेन च वरुणदत्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेषमतिना च वर्धमानमतिना च अमोघदर्शिना च सुसंप्रस्थितेन च सुविक्रान्तविक्रमिणा (४) च अनुपममतिना च सूर्यगर्भेण च धरणिंधरेण च । एवं प्रमुखैरशीतिभिर्बोधिसत्त्वसहस्रैः सार्धम् । शक्रेण च देवानामिन्द्रेण विंशतिदेवपुत्रसहस्रपरिवारेण । तद्यथा, चन्द्रेण च देवपुत्रेण सूर्येण च समन्तगन्धेन च रत्नप्रभेण च अवभासप्रभेण च । एवं प्रमुखैश्चान्यैर्देवपुत्रैः । चतुर्भिश्च महाराजैः सार्धं सपरिवारैः । ब्रह्मणा च सहापतिना सार्धं द्वादशब्रह्मकायिकासहस्रेण शिखिना च ब्रह्मणा ज्योतिःप्रभेण च ब्रह्मना । एवं प्रमुखैर्द्वादशभिश्च ब्रह्मकायिकदेवपुत्रसहस्रैः । अष्टाभिश्च नागराजैः सार्धं बहुनागकोटीशतसहस्रपरिवारैः । चतुर्भिश्च किन्नरराजैः सार्धं बहुकिन्नरकोटीशतसहस्रपरिवारैः
। चतुर्भिश्च गन्धर्वकायिकैर्देवपुत्रैः सार्धं बहुगन्धर्वशतसहस्रपरिवारैः । चतुर्भिश्चासुरेन्द्रैः सार्धं बह्वसुरकोटीशतसहस्रपरिवारैः । चतुर्भिश्च गरुडेन्द्रैः सार्धं बहुगरुडकोटीनियुतशतसहस्रपरिवारैः । राज्ञा चाजातशत्रुणा मागधेन वैदेहीपुत्रेण सार्धं बहुमनुष्यराजसामात्यपौरजानपदपरिवारैः ॥

तेन खलु पुनः समयेन भगवांश्चतसृभिः पर्षद्भिः परिवृतः पुरस्कृतः सत्कृतो गुरुकृतो मानितः (५) पूजितोऽर्चितोऽपचायितः, तदा बोधिसत्त्वविषयसंदर्शनप्रणिधानव्यूहसमाधिविषयधारणीमुखव्यूहं समाधानमुखनिर्देशं चर्यावैशारद्यं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वानुगतं सर्वबुद्धपरिग्रहं भाषितुमारब्धवान्, तदा नानावर्णरश्मयो निश्चरिता यत्प्रभाभिरयं त्रिसाहस्रमहासाहस्रो लोकधातुर्महतावभासेन स्फुटोऽभूत् । तेन चावभासेन लोकान्तरिका अघा अघस्फुटा अन्धकारतमिस्राः, यत्रेमौ चन्द्रसूर्यौ एव महर्द्धिकौ महानुभावौ महेशाख्यौ नाभिपततो न विरोचतस्तत्र ये सत्त्वा उपपन्नास्ते स्वकस्वकमपि बाहुप्रसारितं न पश्यन्ति स्म, तत्रापि तेनावभासेन परिस्फुटाः समाना अन्योन्यं पश्यन्ति स्मान्योन्यं संजानन्ते स्म । सर्वाणि बुद्धक्षेत्राणि च परिस्फुटानि संदृश्यन्ते स्म यावदवीचिर्महानिरयो यावद्ब्रह्मलोकं परिस्फुटं दृश्यते स्म । ये च तेषु सर्वेषु क्षेत्रेषु षट्सु गतिषु सत्त्वास्ते सर्वे संदृश्यन्ते स्म । ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तस्तिष्ठन्तो ध्रियन्तो यापयन्तो यं धर्मं भाषन्ते स्म स च सर्वो निखिलेन श्रूयते स्म । ये च तेषु बुद्धक्षेत्रेषु भिक्षुभिक्षुण्युपासकोपासिका योगिनो योगाचाराः प्राप्तफलाश्चाप्राप्तफलाश्च तेऽपि (६) सर्वे संदृश्यन्ते स्म । ये च तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा महासत्त्वा अनेकविविधाश्रवणारम्बणाधिमुक्तिहेतुकारणोपायकौशल्यैर्बोधिचर्याचारिणस्तेऽपि सर्वे संदृश्यन्ते स्म । ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तः परिनिर्वृतास्तेऽपि सर्वे संदृश्यन्ते
स्म । ये च तेषु परिनिर्वृतानां बुद्धानां भगवतां रत्नमयधातुस्तूपास्तेऽपि सर्वे संदृश्यन्ते स्म । अन्तरीक्षाच्च पुष्पवर्षमभिप्रावर्षत्, मनोज्ञशब्दा अमारदुन्दुभ्यः प्रसस्वनुः ; सर्वश्चायं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारमष्टादशमहानिमित्तमकम्पत्प्राकम्पत्संप्राकम्पत्, अवेधत्प्रावेधत्संप्रावेधत्, अचलत्प्राचलत्संप्राचलत्, अक्षुभ्यत्प्राक्षुभ्यत्संप्राक्षुभ्यत्, अरणत्प्रारणत्संप्रारणत्, अगर्जत्प्रागर्जत्संप्रागर्जत् । तस्मिन् क्षणे सर्वतो लोकेषु हर्षणीयास्तोषणीयाः प्रसादनीया अवलोकनीयाः प्रह्लादनीया मनोज्ञाः शब्दाः श्रूयन्ते स्म । न च कस्यचित्सत्त्वस्य विहेठा वा त्रासो वा भयं वा स्तम्भितत्वं वा । न चान्यदेवलोकानां प्रभाः प्रज्ञायन्ते । सर्वनरकतिर्यग्योनियमलोकोपपन्नाः सत्त्वा विगतदुःखाः सर्वसुखसमर्पिताश्चाभुवान् । न च कस्यचित्सत्त्वस्य रागो वा द्वेषो वा मोहो वा मात्सर्यो (७) वा ईर्ष्या वा मानो वा म्रक्षो वा मदो वा क्रोधो वा व्यापादो वा परिदाहो वा बाधते । सर्वसत्त्वाश्च परस्परमित्रचित्ता हितचित्ता मातृपितृसंज्ञिनोऽभूवन् ॥

अथ रत्नवैरोचनो नाम बोधिसत्त्वो महासत्त्वस्तं महानिमित्तप्रातिहार्यं दृष्ट्वा सहसोत्थायैकांशमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् । "परमाश्चर्याद्भुतप्राप्तोऽहं भगवन्, कुत इमे रश्मय आगताः?, कस्यैष प्रभावः?, को न्वत्र भगवन् हेतुः?, कः प्रत्ययो भविष्यति?"

अथ खलु भगवान् रत्नवैरोचनं बोधिसत्त्वं महासत्त्वमेतदवोचत्- "शृणु कुलपुत्र साधु च सुष्ठु च मनसिकुरु भाषिष्येऽहं ते" । "साधु साधु भगवन्" निति रत्नवैरोचनो भगवतः प्रत्यश्रोषीत् । भगवान् रत्नवैरोचनं बोधिसत्त्वं महासत्त्वमेतदवोचत् ।

"अस्ति कुलपुत्र पूर्वदक्षिणस्यां दिशि, इतो बुद्धक्षेत्रकोटीशतसहस्रगङ्गानदीवालुकासमान् बुद्धक्षेत्रानतिक्रम्य पद्मा नाम लोकधातुर्नानागुणविभूषिता नानापुष्पसमीरिता नानागन्धैश्च स्फुटा रत्नवृक्षैरलङ्कृता रत्नपर्वतैराकीर्णा; नीलवैडूर्यमयी तत्र भूमिर्(८) बोधिसत्त्वैराकीर्णा धर्मशब्देन स्फुटा; सा च पुनर्वैडूर्यमयी भूमिर्मृदुकाचलिन्दिकसुखसंस्पर्श, निक्षिप्ते च चरणे चतुरङ्गुलमवनमति, उत्क्षिप्ते च चरणे चतुरङ्गुलमुन्नमति, नानापद्मैश्चाकीर्णा । तत्र च सप्तरत्नमया वृक्षाः सप्तयोजनान्युच्चत्वेन; तेषु च वृक्षेषु दिव्यकाषायवस्त्राणि प्रलम्बन्ते, दिव्यानि च वाद्यानि मनोज्ञानि संप्रवाद्यन्ते; तेषु च वृक्षेषु नानाशकुन्ता इन्द्रियबलबोध्यङ्गमनोज्ञां शब्दां प्रव्याहरन्ति; तेषां वृक्षाणां पत्राणि परस्परं स्पृश्य दिव्यातिक्रान्तं पञ्चाङ्गिकतूर्यशब्दं निश्चारयन्ति; एकैकस्य च वृक्षस्य दिव्यातिक्रान्तेनोदारेण गन्धेन योजनसहस्रं स्फुरति; तेषु च वृक्षेषु दिव्यान्यलङ्काराण्यभिप्रलम्बन्ते स्म । तेषु च वृक्षान्तरेषु सप्तरत्नमयाः कूटागाराः, पञ्चयोजनशतमुच्चत्वेन सपादशतयोजनं विस्तारेण । तेषु च कूटागारेषु समन्ताच्चतुर्दिशं तोरणाः । तेभ्यश्च तोरणाग्रेभ्यो बहिर्धा कूटागारेभ्यः पुष्करिण्यः, अशीतियोजनानि दीर्घत्वेन पञ्चाशद्योजनानि विस्तारेण । ताभ्यश्च पुष्करिणीभ्यः समन्ताच्चतुर्दिशं सोपानाः सप्तरत्नमयाः । सामन्तकाश्च पुष्करिण्यः सप्तरत्नमयैः पद्मैः पूर्णाः, एकैकं च पद्मं (९) योजनं विस्तारेण । तेभ्यश्च पुष्पकेशरेभ्यो बोधिसत्त्वा महासत्त्वाः प्रजायन्ति; ते रात्र्याः प्रथमे यामे तेषु
पद्मकेशरेषुपपद्यन्ते, तां च रात्रिं पर्यङ्केनातिनामयन्ति, विमुक्तिप्रीतिसुखं च प्रतिसंवेदयन्ति । तत्र च रात्र्याः प्रत्यूषकालसमये शीतला वायवः सुगन्धिका मृदुकाः सुखसंस्पर्शचलिताः प्रवायन्ते, ते च संकुचितानि पुष्पाणि रोहयन्ति । ते च बोधिसत्त्वाः समाधितो व्युत्थाय विमुक्तिप्रीतिसुखं प्रतिप्रस्रभ्य पद्मकेशरेष्ववतीर्या, तेषु च कूटागारेषु प्रविश्य सप्तरत्नमयेष्वासनेषु पर्यङ्केण निषण्णा धर्मं शृण्वन्ति स्म । तेषु च वृक्षकूटागारान्तरितेषु च चतुर्दिशं जाम्बुनदमयाः पर्वता, विंशतियोजनान्युच्चत्वेन त्रीणि योजनानि विस्तारेण; तेषु च पर्वतेषु अनेकशतसहस्राणि सूर्यकान्तचन्द्रकान्तेन्द्रनीलज्योतीरसाश्च मणयोऽन्तरान्तरे दृश्यन्ति स्म । पद्मोत्तरस्य बुद्धस्याभा तेषु पर्वतेमणिषु निपत्या तया च बुद्धाभया च मणिप्रभया सर्वा सा पद्मा लोकधातुर्नित्योदारेणावभासेन स्फुटा । न च तत्र चन्द्रसूर्ययोः प्रभा प्रज्ञायते, नान्यत्र यदा पद्माः संकुचन्ति पक्षिणश्चाल्पशब्दा भवन्ति तदा रात्रीति संज्ञा भवति, विपर्ययाद्दिवसम् । तेषां च (१०) पर्वतानामुपरि नीलवैडूर्यमयाः कूटागाराः षष्टियोजनान्युच्चत्वेन विंशतियोजनानि विस्तारेण, तेभ्यश्च कूटागारेभ्यश्चतुर्दिशं सप्तरत्नमयास्तोरणास्तेभ्यः कूटागारेभ्यश्च सप्तरत्नमयाः पर्यङ्का यत्रैकजातिप्रतिबद्धा बोधिसत्त्वा धर्मं शृण्वन्ति । पद्मायां कुलपुत्र लोकधातौ इन्द्रो नाम बोधिवृक्षस्त्रीणि योजनसहस्राण्युद्वेधेन पञ्चयोजनशतानि विस्तारेण, योजनसहस्रं शाखापत्रपलाशं सुसंस्थितम् । तस्य च बोधिवृक्षस्य मूले पद्मो रौप्यमयो नालः पञ्चयोजनशतान्युद्वेधेन, तस्य कोटीशतसहस्रसुवर्णमयानि पत्राणि पञ्चदशयोजनान्युद्वेधेन । सर्वेषु च
केशरेष्वश्मगर्भमयानि किञ्जल्कानि, सप्तरत्नमयाः केशरा दशयोजनान्युद्वेधेन सप्तयोजनानि विस्तारेण । तत्राद्यरात्रौ पद्मोत्तरेण तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिरभिसंबुद्धा, तस्य बुद्धासनपद्मस्य समन्ततः पद्मा यत्र बोधिसत्त्वा निषण्णाः पद्मोत्तरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रातिहार्याणि पश्यन्ति स्म" ।

एवमुक्ते, रत्नवैरोचनो बोधिसत्त्वो भगवन्तमेतदवोचत्- "कियद्रूपाणि भगवान् पद्मोत्तरस्तथागतो (११) महाप्रातिहार्याणि कृतवान्?" । एवमुक्ते, भगवान् रत्नवैरोचनं बोधिसत्त्वमेतदवोचत्- "अद्यरात्र्याः पश्चिमे यामे पद्मोत्तरेण तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिरभिसंबुद्धा, रात्र्याः प्रत्युशकालसमये तद्रुपमृद्ध्यभिसंस्कारमभिसंस्कृतवान्, यावद्ब्रह्मलोकमात्मानमभिनिर्माय उष्णीषमूर्ध्नः षष्टिरश्मिकोटीनयुतशतसहस्राणि प्रमुच्यते, रश्मिभिरूर्ध्वाया दिशो बुद्धक्षेत्रपरमाणुरजःसमान् लोकधातूनवभासयति । ये पुनस्तस्मिन् समये ऊर्ध्वायां दिशि स्थिता बोधिसत्त्वा अधोदिशमवलोकयन्ति, तेषां न सुमेरुरवभासमागच्छति, न चक्रवाडमहाचक्रवाडा न कालपर्वताः । ये च बोधिसत्त्वास्तेभ्यो लोकधातुभ्यो व्याकृता ये समाधिप्रतिलब्धा ये धारणीप्रतिलब्धा ये क्षान्तिप्रतिलब्धा ये च भूम्यतिक्रान्ता ये चैकजातिप्रतिबद्धा बोधिसत्त्वा महासत्त्वास्तेऽपि तेनावभासेन स्फुटा, अञ्जलिं प्रगृह्य पद्मोत्तरस्य तथागतस्यात्मभावं व्यवलोकयित्वा द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलङ्कृतगात्रमशीतिभिश्चानुव्यञ्जनैर्दृष्ट्वा च तां बोधिसत्त्वपर्षदं पद्मां च लोकधातुं बुद्धक्षेत्रगुणव्यूहांश्च दृष्ट्वा परमप्रीतिसौमनस्यजातास्ते (१२) च बोधिसत्त्वा महासत्त्वा बुद्धक्षेत्रपरमाणुरजःसमेभ्यो लोकधातुभ्यो गणनासमतिक्रान्ता बोधिसत्त्वास्तांस्तां लोकधातूनपहाय ऋद्धिबलेन पद्मां लोकधातुमनुप्राप्ताः पद्मोत्तरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजनाय वन्दनाय पर्युपासनाय । स च कुलपुत्र पद्मोत्तरस्तथागतो जिह्वेन्द्रियं मुखान्निर्नामयित्वा सर्वावतीमिमां चातुर्द्वीपिकां लोकधातुं निषण्णाः स्थिताश्चङ्क्रमन्तो जिह्वेन्द्रियेण परिच्छादितवान् । ये चात्र
बोधिसत्त्वाः समापन्नास्ते समाधिभ्यो व्युत्थाय सर्वावती सा पर्षत्पद्मोत्तरस्य तथागतस्य पूजाकर्मणे उद्युक्ता । अथ कुलपुत्र पद्मोत्तरस्तथागतो जिह्वेन्द्रियमृद्ध्यभिसंस्कारेण प्रतिप्रस्रम्भयित्वा, पुनरपरं पद्मोत्तरस्तथागतः सर्वावन्तात्कायात्सर्वरोमकूपेभ्य एकैकस्माद्रोमकूपविवरात्षष्टिरश्मिकोटीनयुतशतसहस्राणि निश्चारयित्वा दशसु दिक्ष्वेकैकस्यां दिशि बुद्धक्षेत्रपरमाणुरजःसमां लोकधातूनुदारेणावभासेन स्फुरित्वा, बोधिसत्त्वा महासत्त्वास्तेभ्यो लोकधातुभ्यो व्याकृता ये समाधिप्रतिलब्धा इति तेऽपि बोधिसत्त्वा महासत्त्वाः स्वकस्वकबुद्धक्षेत्राभया ऋद्धिबलेन पद्मां लोकधातुं संप्राप्ताः पद्मोत्तरस्य (१३) तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पूजनाय पर्युपासनाय ।

अथ खलु कुलपुत्र पद्मोत्तरस्तथागतोऽर्हन् सम्यक्संबुद्धो ऋद्ध्यभिसंस्कारं प्रतिप्रस्रभ्य सर्वावत्यां बोधिसत्त्वपर्षदि अवैवर्तिकचक्रं नाम धार्मिकं धर्मचक्रं प्रवर्तितवान् बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै, अर्थाय हिताय सुखाय देवानां च मनुष्याणां च महायानस्य परिपूरणार्थं" ॥
इति श्रीकरुणापुण्डरीके महायानसूत्रे धर्मचक्रप्रवर्तनो नाम प्रथमः परिवर्तः ॥ १ ॥


(१४)
द्वितीयो धारणीमुखपरिवर्तः

अथ खलु रत्नवैरोचनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- "कथं भदन्त भगवन् पद्मायां लोकधातौ रात्रिंदिवं प्रज्ञायते?, कियद्रूपाश्च तत्र शब्दाः श्रूयन्ते?, कियद्रूपेण ते बोधिसत्त्वाश्चाशयेन समन्वागताः?, कतमेन वा विहरेण विहरन्ति?" भगवानाह - "नित्यावभासिता कुलपुत्र पद्मा लोकधातुर्बुद्धाभया । तत्र यदा पुष्पाः संकुचन्ति, पक्षिणश्चाल्पशब्दा भवन्ति, भगवांश्च ते च बोधिसत्त्वा ध्यानैः क्रीडन्ति विमुक्तिप्रीतिसुखं प्रतिसंवेदयन्ति, तदा रात्रीति प्रज्ञायते । यदा पुनस्ते पुष्पा वातेनेरिता भवन्ति, शकुनाश्च मनोज्ञानि कूजन्ति, पुष्पवृष्टिश्चाभिप्रवर्षति, चतुर्दिशं परमसुगन्धा मनोज्ञा मृदुकाः सुखसंस्पर्शा वायवः प्रवायन्ति, भगवांश्च समाधेर्व्युत्थाय पद्मोत्तरो बोधिसत्त्वानां महासत्त्वानामतिक्रम्य श्रावकप्रत्येकबुद्धकथां बोधिसत्त्वपिटकं धर्मं देशयति, तेन च तत्र दिवसः प्रज्ञायते । अविरहिताश्च तत्र कुलपुत्र बोधिसत्त्वा महासत्त्वा बुद्धशब्देन धर्मशब्देन (१५) सङ्घशब्देन, वैशारद्यशब्देनानभिसंस्कारशब्देनानुत्पादशब्देनानिरोधशब्देन शान्तशब्देनोपशान्तशब्देन प्रशान्तशब्देन महामैत्रीशब्देन महाकरुणाशब्देनानुत्पत्तिकधर्मशब्देनाभिषेकभूमिप्रतिलाभशब्देन बुद्धबोधिसत्त्वशब्देनाविरहिता, नित्यं ते बोधिसत्त्वा एवंरूपं शब्दं शृण्वन्ति स्म । पुनरपरं कुलपुत्र ये बोधिसत्त्वा महासत्त्वाः पद्मायां लोकधातौ प्रत्याजाताः प्रत्याजायिष्यन्ति वा सर्वे ते द्वात्रिंशद्भिर्महापुरुषलक्षणैः समन्वागता योजनप्रभा ह्यविनिपातधर्माणो यावद्बोधिपर्यन्तात् । सर्वे ते बोधिसत्त्वा मैत्रचित्ताः स्निग्धचित्ता अकलुषचित्ता दान्तचित्ताः क्षमाचित्ताः समाहितचित्ताः प्रसन्नचित्ता अप्रतिहतचित्ताः शुद्धचित्ताः कल्याणचित्ता धर्मप्रीतिचित्ताः सर्वसत्त्वानां
क्लेशप्रशमनचित्ताः पृथिवीसमचित्ता लौकिकायां कथायामनभिरतचित्ता लोकोत्तरायां कथायां साभिरतचित्ताः सर्वकुशलधर्मपर्येष्टिचित्ता निरुपधौ (१६) सदाप्रयुक्तचित्ता व्याधिजरामरणेभ्यः प्रशान्तचित्ताः सर्वक्लेशदहनचित्ताः सर्वसंयोजनप्रशमनचित्ताः सर्वधर्मामन्यनचित्ताः, आशयबलिनः प्रयोगबलिनः प्रत्ययबलिनः प्रणिधानबलिनोऽसारभिन्नाच्चालनबलिनो निध्यप्तिबलिनः कुशलमूलबलिनः समाधानबलिनः श्रुतबलिनः शीलबलिनः त्यागबलिनः क्षान्तिबलिनो वीर्यबलिनो ध्यानबलिनः प्रज्ञाबलिनः शमथबलिनो विपश्यनाबलिनोऽभिज्ञाबलिनः स्मृतिबलिनो बोधिबलिनः सर्वमारविध्वंसनबलिनः सर्वमारबलप्रमर्दनबलिनः सर्वपरप्रवादिनां सहधर्मेण निग्रहबलिनः सर्वक्लेशप्रमर्दनबलिनः । ते च बोधिसत्त्वा ये पद्मायां लोकधातौ प्रत्याजाताः प्रत्याजायिष्यन्ति वा बहुबुद्धशतसहस्रकृताधिकारा हि अवरुप्तकुशलमूला; ये च तत्र पद्मायां लोकधातौ बुद्धक्षेत्रे बोधिसत्त्वाः प्रत्याजाताः प्रत्याजायिष्यन्ति वा ध्यानाहारास्ते बोधिसत्त्वा धर्माहारा गन्धाहारास्तद्यथापि नाम देवा (१७) ब्रह्मकायिका, न च तत्र कवडिकाहाराः प्रज्ञायन्ते । सर्वशश्च तत्राकुशलस्य नामापि नास्ति; सर्वशश्च तत्र मातृग्रामस्य नामापि नास्ति, प्रज्ञप्तिरपि नास्ति; सर्वशश्च तत्र दुःखशब्दो नास्ति; सर्वथा प्रियाप्रियशब्दो नास्ति, पेयालं न क्लेशशब्दो न परिग्रहो न चात्रान्धकारं न दुर्गन्धं न चित्तक्लमता न कायक्लमता न नरकतिर्यग्योनियमलोकशब्दः, अपायप्रज्ञप्तिरपि नास्ति, न कण्टकगहनपाषाणशर्करा न चाग्निर्न चन्द्रसूर्या न तारकारूपा न महासमुद्रा न सुमेरुचक्रवाडा न लोकान्तरिका न कालपर्वता न मीढपाषाणा न पांशुपर्वताः, न मेघवर्षशब्दो न कलुषवायुशब्दः,
सर्वथापायशब्दो नास्ति, सर्वथाक्षणशब्दो नास्ति । अथ च पुनः पद्मा लोकधातुर्नित्यं बुद्धाभया बोधिसत्त्वाभया पुण्याभया रत्नाभया उदारेणावभासेन स्फुटा । सफलाश्चात्र नाम पक्षिणोमनोज्ञाः स्निग्धाः स्वकस्वकेन स्वरेण इन्द्रियबलबोध्यङ्गानि प्रव्याहरन्ति स्म"

अथ खलु रत्नवैरोचनो बोधिसत्त्वो भगवन्तमेतदवोचत्- "कियन्महती भगवन् सा पद्मा लोकधातुः?, (१८) कियच्चिरमसौ पद्मोत्तरस्तथागतस्तिष्ठति ध्रियते यापयति धर्मं च देशयति येनाद्यरात्रावनुत्तरा सम्यक्संबोधिरचिराभिसंबुद्धा?, कियच्चिरं च परिनिर्वृतस्य सद्धर्मः स्थास्यति?, कियच्चिरस्थायिनस्ते बोधिसत्त्वा ये पद्मायां लोकधातौ बुद्धक्षेत्रे प्रत्याजाताः प्रत्याजायिष्यन्ति वा?, किन् ते बोधिसत्त्वा विरहिता बुद्धदर्शनेन धर्मश्रवणेन सङ्घोपस्थानेन उताहोस्विन्नेति?, किं नाम चासीत्पूर्वे सा पद्मा लोकधातुः?, कियच्चिरेण वा तत्र जिनसूर्यास्तंगतः यस्यानन्तरेण पद्मोत्तरेन तथागतेनानुत्तरा सम्यक्संबोधिरभिसंबुद्धा?, किं प्रत्ययमप्येकत्या बुद्धविकुर्वाणान् बुद्धप्रातिहार्यान् पश्यन्ति ये दशसु दिक्ष्वन्येषु बुद्धक्षेत्रेषु बुद्धा भगवन्तः प्रातिहार्यान् कुर्वन्ति, एकत्या न पश्यन्ति?" ।

भगवानाह - "तद्यथापि नाम कुलपुत्र सुमेरुः पर्वतराजा, अष्टषष्ठियोजनसहस्राण्युद्वेधेन चतुरशीतियोजनसहस्राणि विस्तारेण । कश्चिदेव पुरुष आगच्छेत्वीर्यवान् बलवान्, समाधिबलेन वा तं सुमेरुं पर्वतराजं सर्षपमात्रप्रमाणं भिन्द्यात्; गणनातिक्रान्तास्ते सर्षपा भवन्ति, न शक्यं ते सर्षपाः (१९) केनचिद्गणयितुं स्थाप्य सर्वज्ञज्ञानेन; यावन्तस्ते सर्षपफला भवन्ति तावन्तश्चातुर्द्वीपिका प्रमाणा । पद्मा बुद्धक्षेत्रमेवाकीर्णा बोधिसत्त्वैः तद्यथा सुखावती लोकधातुर्बोधिसत्त्वैराकीर्णा । पद्मोत्तरस्य कुलपुत्र तथागतस्यार्हतः सम्यक्संबुद्धस्य त्रिंशदन्तरकल्पान्यायुःप्रमाणं तिष्ठतो ध्रियतो यापयतो धर्मं च देशयतः । पद्मोत्तरस्य कुलपुत्र तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य दशान्तरकल्पान् सद्धर्मः स्थास्यति । तेषां च बोधिसत्त्वानां महासत्त्वानां ये पद्मायां लोकधातौ प्रत्याजाताः प्रत्याजायिष्यन्ति वा तेषां चत्वारिंशदन्तरकल्पायुःप्रमाणम् ।

पूर्वं च कुलपुत्र सा पद्मा लोकधातुश्चन्दना नाम बभूव, न त्वेवं परिशुद्धाभून्न त्वेवमाकीर्णा शुद्धसत्त्वैर्बभूव यथैतर्हि पद्मा लोकधातुः । चन्दनायां कुलपुत्र लोकधातौ चन्द्रोत्तमो नामाभूत्तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्, स चापि विंशत्यन्तरकल्पान् धर्मं देशितवान् । परिनिर्वाणकालसमये (२०) चाप्येकत्या बोधिसत्त्वाः प्रणिधानवशितयान्यद्बुद्धक्षेत्रं संक्रान्ताः । ये चावशिष्टा बोधिसत्त्वास्तेषामेतदवोचन् - "अद्यरात्रौ मध्यमे यामे चन्द्रोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धः परिनिर्वास्यति, परिनिर्वृतस्य भगवतो दशान्तरकल्पान् सद्धर्मः स्थास्यति । कः सद्धर्मान्तर्धानस्यानन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते?"

तेन खलु पुनः समयेन गगनमुद्रो नाम बोधिसत्त्वः, स पूर्वप्रणिधानेन चन्द्रोत्तमेन तथागतेनार्हता सम्यक्संबुद्धेन व्याकृतः । "भविष्यसि त्वं कुलपुत्र मम परिनिर्वृतस्य दशाभ्यन्तरकल्पान् सद्धर्मः स्थास्यति । रात्र्याः प्रथमे यामे मम सद्धर्मोऽन्तरहास्यति, तत्रैव रात्र्याः पश्चिमे यामे त्वमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, पद्मोत्तरो नाम भविष्यसि तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसम्पन्नो यावद्बुद्धो भगवांस्" । तत्कालं ते बोधिसत्त्वा महासत्त्वा येन चन्द्रोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धो भगवांस्तेनोपजग्मुः, उपेत्य चन्द्रोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वे ते बोधिसत्त्वाः समाधानबलेन नानाप्रकारैर्बोधिसत्त्वविकुर्वैश्चन्द्रोत्तमस्य (२१) तथागतस्य पूजां कृत्वा त्रिस्कृत्वश्च प्रदक्षिणीकृत्वा भगवन्तमेतदवोचन् - "इच्छामो वयं भदन्त भगवन्निमे दशाभ्यन्तरकल्पा निरोधमवहितेन चित्तेनातिनामयितुं" ।

तत्र खलु कुलपुत्र चन्द्रोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धो गगनमुद्रं बोधिसत्त्वं महासत्त्वमामन्त्र्यैतदवोचत्- "उद्गृह्ण त्वं कुलपुत्रेमं सर्वज्ञाताकारधारणीमुखप्रवेशं सर्वातीतानागतैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्यौवराज्याभिषिक्तानां बोधिसत्त्वानां देशितं, ये चैतर्हि दशसु दिक्षु सर्वलोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति तेऽपि बुद्धो भगवन्तो यौवराज्याभिषिक्तानां बोधिसत्त्वानां देशयन्ति, येऽपि ते भविष्यन्त्यनागतेऽध्वनि बुद्धा भगवन्तस्तेऽपि यौवराज्याभिषिक्तानां बोधिसत्त्वानामिमं सर्वज्ञताकारधारणीमुखप्रवेशं देशयिष्यन्ति । तद्यथा;

जलिजलिनि महाजलिनि फुत्के बुत्के सम्मदे महासम्मदे देवामटि चटि टके ठरठक्के अमिमकसि (२२) हिलिचिलितिलि रुरुके महारुरुके जये दुर्जये जयमति शान्ते शान्तनिर्घोषणि अमूले अले अमूलपरिछिन्ने मारसैन्य वित्रासने मुक्ते मुक्तपरिशुद्धे अभीते भयमोचने भारद्रोहरणा दान्त विद्याविद्या वरुत्तमे, निग्रहं परवादिनां धर्मवादिनामनुग्रहमारक्षा धर्मवादिनां चतुर्णां स्मृत्युपस्थानानामधिमुक्तिपदप्रकाशनपदमिदम् ।

बुद्धकाशये अमम निमम अवेवि अर्थे अर्थनि स्तीरणे लोकाधिमुक्ते सन्दध परिभावने, चतुर्णामार्यवंशानामधिमुक्तिपदप्रकाशनपदा ।

भाषीथे भाषणे धारे धारयति गुप्ते शुभे शुभप्रदे तत्फले अग्रफलेऽनिष्फले निलह समुक्त अमुक्त निर्मुक्ते अत्रवित विमुक्तवति विलफल अयुक्त इविति दिविति रतितुल तुलममहिंसाम इतिताव अत्वानत्वान सर्वलोक अनक लिविन्ध अभूसरे हतमत्ते वेशाग्रवते अफल कफल, त्रयाणामारक्षितानामधिमुक्तिपदमिदम् ।

(२३)
जडतः अनिहरववतव्यो इदं फलं नियोमफलं समुदानाय विभुष पश्य सामन्त्र अनुमन्तो अकुमन्तो छेदावने मन्त्रस्ता दशबल विग्रहस्था इसुस्थित सुनिखम तीक्ष्णमति आलोको अतितृष्णा अदिमति, प्रत्युत्पन्नबुद्धपूर्वप्रहारे चतुर्णां सम्यक्प्रहाणानामधिमुक्तिपदप्रकाशनपदमिदम् ।

अन्ये मन्ये मने ममने विरे विरते शमे शमिता विशान्ते मुक्ते निरक्षमे समे समसमे क्षये अक्षये अजिति शान्ते समिष्ठे धारणी आलोकावभासे रत्नव्रते रश्म्यवते ज्ञानवते मेरुवते क्षयनिदर्शने लोकप्रदीपनिदर्शने, चतुर्णां प्रतिसंविदामधिमुक्तिपदप्रकाशनपदमिदम् ।

चक्ष आभासनिदर्शने ज्ञानालोकनिदर्शनं च प्रभासने सर्वेन्द्रिय भूमातिक्रन्ते सर्वसर्वे वमां सर्वे प्राथवा क्षयं करे गोकाह वदने लोकानुदर्शन विभू, चतुर्णामृद्धिपादानामधिमुक्तिपदप्रकाशनपदमिदम् ।

(२४)
अचले बुद्धे दृधप्रचले सत्त्वे गृह्न सिद्धि कंपति निसिद्ध स्महिद्धे परेकसिरे सोमे चण्डे दत्वे अचले अचले अपरे विचिवले निपरे प्रचचले प्रसरे अनयन् प्रभ्यासे कंकमे प्रभाविनि समे निजसे ग्रक्रमे नयुते, इन्द्रियाणां बलानामधिमुक्तिपदप्रकाशनपदमिदम् ।

पुष्पे सुपुष्पे द्रुमपरिहारे अभयरुचिरे चेकरत्के अक्षयमस्तु निनिले ममले पञ्चशिशिरे लोकस्य विज्ञाने नयसंगृहीते च युक्ते सुच्चेन्देन, सप्तानां बोध्यङ्गानामधिमुक्तिपदप्रकाशनपदमिदम् ।

चक्रवज्रे मैत्र समापदे क्रान्ते केते करुण रुदीक्षयि प्रीतिरूपे क्षमसंपन्ने अरके वरते खरो खरे अमूले मूले साधने, चतुर्णां वैशारद्यानामधिमुक्तिपदप्रकाशनपदमिदम् ।

वर्त्ते चक्रे चक्रधरे वरचक्रे वरे प्ररे हिले हिले धरे आरूपावते हुहुरे यथा जिभंग निंबरे यथाग्ने यथापरं चरिनिशे यथा भयरिरिशि (२५) सत्यनिर्हार जरचविल वीर्यनिर्हार चुरे मार्गनिर्हार समाधिनिर्हार प्रज्ञानिर्हार विमुक्तिनिर्हार विमुक्तिज्ञानदर्शननिर्हार नक्षत्रनिर्हार चन्द्रनिर्हार सूर्यनिर्हार पदाश्चतुरुत्तरतथागतेन अद्भुतं निरद्भुतं संबुद्धमबुद्ध इहबुद्धं तत्रबुद्धं निहंगमपरे अलह दलह पण्डरे पण्डरे तत्रान्तलु मांगघरणि पूटनि संपूटनि गतप्रंगमनुनिरुव नाशनि नाशबन्धनि चिच्छिनि चिच्छिद्र मयोव हिदिंगमा वरे मरे हनने भरं भरे भिन्दे भिरे भिरे रुषरे शरणे दरने प्रवर्त्ते वरणाडये विद्रन्वुमा वरखुमा ब्रह्मचारिण इन्द्रवनि धिधिरायनि महेश्वरललनि ममसुमे अलमिनि एकाक्षरचि वंचनि चरस्ति आभिचण्डाल सूरे सर्वसुरा आवरसुरा पुनकनितां पण्डितामायिनकण्डि जभामे गन्धरे अत्र रुनिमकरे भिरोहिणी सिद्धमत्ते विलोकमते, बुद्धाधिष्ठिते धारणीमुखे दशानां बलानामधिमुक्तिप्रकाशनपदमिदं" ॥

(२६)
समनन्तरारब्धे खलु पुनर्भगवता अस्मिन् सर्वज्ञताकारधारणीमुखप्रवेशे अथ तावदियं त्रिसाहस्रमहासाहस्रलोकधातुः षड्विकारं कंपिता प्रकंपिता संप्रकंपिता चलिता प्रचलिता संप्रचलिता क्षुभिता प्रक्षुभिता संप्रक्षुभिता गर्जिता प्रगर्जिता संप्रगर्जिता, उन्नमति प्रणमति संप्रणमति । तथारूपश्चावभासः प्रादुर्भूतः यद्दशसु दिक्षु गणनासमतिक्रान्ता गङ्गानदीवालिकासमा लोकधातवः उदारेणावभासेन स्फुटा बभूव । नैव तस्मिन् समये सुमेरुचक्रवाडमहाचक्रवाडः चक्षुष आभासमागच्छन्ति । दशसु दिक्षु गणनासमातिक्रान्ता लोकधातवः समापाणितलजाता संदृश्यन्ते । येऽपि ते बोधिसत्त्वा महासत्त्वा दशसु दिक्षु गणनासमतिक्रान्तासु लोकधातुषु प्रतिवसन्ति, ये समाधिधारणीक्षान्तिप्रतिलब्धाः, ते तथागतबलेन स्वकस्वकेषु बुद्धक्षेत्रेष्वन्तर्हिता इमां सहां लोकधातुमागत्वा गृध्रकूटे पर्वते भगवतः सकाशमुपसंक्रान्ता, उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा नानाप्रकारैर्विविधैर्बोधिसत्त्वविकुर्वितैर्भगवतः पूजां कृत्वा तत्रैव निषेदुः सर्वज्ञताकारधारणीमुखप्रवेशश्रवणार्थम् । गणनासमतिक्रान्ताश्च देवनागयक्षासुरकुम्भाण्डपिशाचा (२७) येन गृध्रकूटः पर्वतो येन च भगवांस्तेनोपजग्मुः, उपेत्य भगवतः पादौ शिरोभिरभिवन्द्य, एकान्ते निषेदुरिमं च सर्वज्ञताकारधारणीमुखप्रवेशं श्रवणार्थाम् । ये चात्र बोधिसत्त्वा महासत्त्वाः सन्निपतितास्ते सर्वे पद्मां बुद्धक्षेत्रं पश्यन्ति स्म, पद्मोत्तरं च तथागतमर्हन्तं सम्यक्संबुद्धं महता बोधिसत्त्वगणेन परिवृतम् । समनन्तरोदाहृतस्य चास्य भगवता सर्वज्ञताकारधारणीमुखप्रवेशस्य
द्वासप्तभिर्गङ्गानदीवालिकासमैर्बोधिसत्त्वैर्महासत्त्वैरियं धारणी प्रतिलब्धा, धारणीप्रतिलब्धाश्च ते बोधिसत्त्वा दशसु दिक्षु गणनासमतिक्रान्तान् लोकधातुस्थान् बुद्धान् भगवतः पश्यन्ति स्म, सर्वांश्च बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति स्म । आश्चर्यप्राप्तास्ते समाधिबलेन बोधिसत्त्वविकुर्वितेन च बुद्धपूजां कृत्वा तस्थुः ।

भगवांस्तानेवमाह - "इमं कुलपुत्र सर्वज्ञताकारधारणीमुखप्रवेशं बोधिसत्त्वो
महासत्त्वो भावयमानश्चतुरशीतिधारणीमुखशतसहस्राणि प्रतिलभते, द्वासप्ततिश्च धारणीमुखसहस्राणि प्रतिलभते, षष्टिं च समाधिमुखसहस्राणि प्रतिलभते । इमां च धारणीं (२८) प्रतिलब्धो बोधिसत्त्वो महासत्त्वो महामैत्रीं प्रतिलभते महाकरुणां प्रतिलभते । केवलमस्य समाधेः प्रतिलाभाय बोधिसत्त्वो महासत्त्वः सप्तत्रिंशद्बोधिपक्षान् धर्मानवबुध्यते सर्वज्ञज्ञानं च प्रतिलभते । इह च सकलबुद्धधर्माणां परिग्रहः । इमां च धारणीं स्वभावेन बुद्ध्वा बुद्धा भगवन्तः सत्त्वानां धर्मां देशयन्ति, न चातिक्षिप्रं परिनिर्वायन्ति ।

पश्यत कुलपुत्रास्याः सर्वज्ञताकारधारणीमुखप्रवेशाया धारण्या अनुभावेनायं महतः पृथिवीचालस्य प्रादुर्भूतः, महांश्चाभासो येनावभासेनानन्तापर्यन्ता बुद्धक्षेत्रा उदारेणावभासेन स्फुटा, येनावभासेनानन्तापर्यन्तेभ्यो बुद्धक्षेत्रेभ्य इमेऽनन्तापर्यन्ता बोधिसत्त्वा अभ्यागताः, इमं सर्वज्ञताकारधारणीमुखप्रवेशं श्रवणार्थम् । ये चेह सहायां लोकधातावनन्तापर्यन्ता देवाः कामावचरा रूपावचरा नागा यक्षासुरमनुष्यामनुष्या वा इमां सर्वज्ञताकारधारणीमुखप्रवेशं श्रोष्यन्ति, ते सहश्रवणेन सर्वज्ञताकारधारणीमुखप्रवेशस्यावैवर्तिनो भवन्त्यनुत्तरायां सम्यक्संबोधौ । लिखमानश्चाविरहितो भवति बुद्धदर्शनेन धर्मश्रवणेन सङ्घोपस्थानेन यावदनुत्तरेण परिनिर्वाणेन; (२९) स्वाध्यायमानश्च बोधिसत्त्व इमं सर्वज्ञताकारधारणीमुखप्रवेशं सर्वाणि गाढकर्माणि निरवशेषं क्षपयति, जन्मपरिवर्तेन च प्रथमां भूमिमाक्रामति; भावयमानश्च बोधिसत्त्वो महासत्त्व इमं सर्वज्ञताकारधारणीमुखप्रवेशं, यदि तस्य बोधिसत्त्वस्य पञ्चानन्तर्याणि कर्माणि कृताणि स्युरुपचिताणि तान्यप्यस्य परिक्षयं गच्छन्ति, येन जन्मपरिवर्तेन च प्रथमां भूमिमवक्रामति; यस्य नास्त्यनन्तर्याणि तस्य तेन जन्मना सर्वाण्यन्यानि कर्माणि निरवशेषं परिक्षयं गच्छन्ति, जन्मपरिवर्तेन च प्रथमां भूमिमवक्रामति । योऽपि न भावयति न स्वाध्यायति शृण्वनश्च धर्मभाणकस्य पट्टं बन्धति, तस्य गङ्गानदीवालिकासमा बुद्धा भगवन्तस्तिष्ठन्तो ध्रियन्तो यापयन्तः अन्यलोकधातुस्थाः साधुकारमनुप्रदास्यन्ति, तेऽपि बुद्धा भगवन्तो व्याकरिष्यन्त्यनुत्तरायां सम्यक्संबोधौ, न चिरेण चासौ बोधिसत्त्वः पट्टपरित्यागेन यौवराज्येऽभिषिच्यते, एकजातिप्रतिबद्धश्च भवत्यनुत्तरायां सम्यक्संबोधौ ।
एवमेव यः कश्चिद्गन्धेन पूजां करोति सोऽपि न चिरेणानुत्तरां सम्यक्संबोधिगन्धस्य लाभी भवति, पुष्पेण पूजां कृत्वा (३०) धर्मभाणकस्यानुत्तराणि ज्ञानपुष्पाणि प्रतिलभते, भक्ष्यान्नपानं दत्त्वा धर्मभाणकस्यानुत्तरस्य तथागताहारस्य लाभी भवति बोधिसत्त्वः, वस्त्रेणाच्छाद्य धर्मभाणकमनुत्तरतथागतवर्णलाभी भवति; यश्च धर्मभाणकं रत्नैराच्छादयति सोऽप्यचिरात्सप्तत्रिंशतां बोधिपाक्षिकधर्मरत्नाणां लाभी भवति ।
तदेवं महार्थिकः कुलपुत्र बोधिसत्त्वानां महासत्त्वानामयं सर्वज्ञताकारधारणीमुखप्रवेशः । तत्कस्माद्धेतो? यस्मादत्र साकल्येन बोधिसत्त्वपिटकमुपदिष्टम् । अनेन च सर्वज्ञताकारधारणीमुखप्रवेशेन बोधिसत्त्वो महासत्त्वः असङ्गप्रतिभानतां प्रतिलभते, मनोज्ञधर्मचतुष्कं च प्रतिलभते ।
एभिः कुलपुत्र सर्वज्ञताकारधारणीमुखप्रवेशैश्चन्द्रोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धो यदा गगनमुद्रं बोधिसत्त्वं महासत्त्वमवादत तथैव पृथिवीचालोऽभूत्, महतश्चावभासस्य लोके प्रादुर्भावोऽभुत्, गणनातिक्रान्तानि च दशसु दिक्षु बुद्धक्षेत्राण्युदारेणावभासेन स्फुटान्यभूवन् । एवमेव समानि पाणितलोपमानि विषमानि पृथिवीप्रदेशानि दृश्यन्ते । ये च तत्र बोधिसत्त्वाः सन्निपतितास्ते दशसु दिक्षु गणनासमतिक्रान्तेषु बुद्धक्षेत्रेषु (३१) बुद्धान् भगवतः पश्यन्ति । एवमेव दशभ्यो दिग्भ्यो गणनासमतिक्रान्तेभ्यो बुद्धक्षेत्रेभ्यो गणनासमतिक्रान्ता बोधिसत्त्वाश्चन्दनां लोकधातुमुपसंक्रान्ताश्चन्द्रोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य वन्दनाय पर्युपासनाय, इदमेव सर्वज्ञताकारधारणीमुखप्रवेशं श्रोतुं" ॥

तत्र कुलपुत्र चन्द्रोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वान्महासत्त्वानामन्त्रयते - "अभिजानाम्यहं कुलपुत्र ये बोधिसत्त्वा एकजातिप्रतिबद्धास्त इमान् दशान्तरकल्पान्निरोधामवहितेन चेतसा विहरित्वावशिष्टा बोधिसत्त्वा अस्य गगनमुद्रस्य बोधिसत्त्वस्य सकाशादिमान् दशान्तरकल्पानिममेव सर्वज्ञताकारधारणीमुखप्रवेशं बोधिसत्त्वपिटकं श्रुतवन्तोऽभूवन्" । इमान् दशान्तरकल्पान् धर्मं श्रुत्वा दशसु दिक्षु तेषु गणनासमतिक्रान्तेषु बुद्धक्षेत्रेषु तेषां गणनातिक्रान्तानां तिष्ठतां ध्रियतां यापयतां भगवतामन्तिके चित्तमभिप्रसाद्य तेन चित्तप्रसादहेतुनावरुप्तकुशलमूला भूत्वा नानाविधैर्बोधिसत्त्वविकुर्वितैः चन्द्रोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजां कृत्वा, भगवन्तमेतदवोचन् - "एषां भदन्त (३२) दशानामन्तरकल्पानामत्ययेन गगनमुद्रो बोधिसत्त्वो महासत्त्वोऽनुत्तरं धार्मिकं धर्मचक्रं प्रवर्तयिष्यति?" । चन्द्रोत्तम आह - "एवमेव कुलपुत्रेमम्, एषां दशानामन्तरकल्पानामत्ययेन गगनमुद्रो बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, तस्यामेव रात्र्यामत्ययेन धार्मिकं धर्मचक्रं प्रवर्तयिष्यति, बोधिसत्त्वानामिह दशान्तरकल्पानिदमेव सर्वज्ञताकारधारणीमुखप्रवेशं देशयिष्यति । तत्र यो बोधिसत्त्वो महासत्त्वस्तस्यान्तिकाद्धर्मं श्रोष्यति तं धर्मं श्रुत्वा कुशलमुलान्यवरोपयित्वा, यस्मिन् समये गगनमुद्रो बोधिसत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते; सोऽभिसंबुद्धबोधिं धार्मिकं धर्मचक्रं प्रवरचक्रमवैवर्तिकचक्रं प्रवर्तयित्वा बहुबोधिसत्त्वकोटीनयुतशतसहस्रावैवर्तिकां स्थापयित्वा, ये बोधिसत्त्वा इह दशान्तरकल्पान् तस्य सकाशादिमं सर्वज्ञताकारधारणीमुखप्रवेशं
धर्मं देशामानं श्रोष्यन्ति ते तस्मिन् समये धर्मं श्रुत्वा एकजातिप्रतिबद्धा भविष्यन्ति, ये तु कल्पं श्रोष्यन्ति ते बोधिसत्त्वास्तस्मिन् समये भूमिमवक्रमिष्यन्ति, अवैवर्तिकाश्च भविष्यन्ति (३३) अनुत्तरायां सम्यक्संबोधौ, तस्मिन्नेव समये इमां धारणीं पर्यन्ततो लप्स्यन्ते" इत्युक्त्वा, चन्द्रोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वानां महासत्त्वानां विविधानि बुद्धविषयप्रातिहार्याणि संदर्शयित्वा, गगनमुद्रस्य बोधिसत्त्वस्य महासत्त्वस्य नारायणं समाधिं निदर्शयित्वा, वज्रमयमात्मभावमधितिष्ठति प्रभाव्यूहं समाधिं निदर्शयति स्म । येन प्रवर्तितं धर्मचक्रमिह दशान्तरकल्पान् बोधिसत्त्वानामिदं सर्वज्ञताकारधारणीमुखप्रवेशं धर्मं देशयति, सर्वबुद्धक्षेत्रेषु बुद्धानुभावेन लक्षणानुव्यञ्जनैरवभासितः संदृश्यते, वज्रमण्डलसमाधिं निदर्शयति । येन बोध्यासने सुप्रवर्तितधर्मचक्रो बोधिसत्त्वानां धर्मं देशयति, चक्रमालं समाधिं निदर्शयति । येन धर्मचक्रं प्रवर्तयमानो बहुप्राणकोटीनयुतशतसहस्राणि अवैवर्तिकां स्थापयति । धर्मचक्रप्रवर्तनायेति विदित्वा गगनमुद्रो बोधिसत्त्वो महासत्त्वोऽपरिमितेन बोधिसत्त्वसङ्घेन भगवताः पूजां कृत्वा स्वकस्वकेषु कूटागारेषु प्रविश्य स्थिताश्चन्द्रोत्तमोऽपि तथागतोऽर्हन् सम्यक्संबुद्धस्तामेव रात्रिमनुपधिशेषे निर्वाणधातौ परिनिर्वृतस्ते (३४) च बोधिसत्त्वास्तस्यामेव रात्र्यामत्ययात्तस्य भगवतः शरीरे पूजां कृत्वा स्वकस्वकेषु कूटागारेषु प्रविशन्ति स्म । अपरे पुनर्बोधिसत्त्वाः स्वकस्वकं बुद्धक्षेत्रं गताः । ये च तत्र बोधिसत्त्वा एकजातिप्रतिबद्धास्ते निरोधसमाधानेनैतान् दशान्तरकल्पानतिनामयन्ति । गगनमुद्रो बोधिसत्त्वो महासत्त्वो बोधिसत्त्वान्
महासत्त्वानारभ्य धर्मं देशयति, तेषां च बोधिसत्त्वानां महासत्त्वानां दशान्तरकल्पान् कुशलमूलान्यवरोपितवान् । सोऽद्यरात्रावनुत्तरां सम्यक्संबोधिमभिसंबुद्धः: तेन चाद्य धर्मचक्रं प्रवर्तितं, महाप्रातिहार्यं कृतं, अनेकानि प्राणिकोटीनयुतशतसहस्राणि अवैवर्तिकान्यनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापितानि । अस्मिन् खलु पुनः सर्वज्ञताकारधारणीमुखप्रवेशे भाष्यमाणे अशीतीनां बोधिसत्त्वनयुतशतसहस्राणामनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलब्धा, द्वानवतिश्च प्राणकोट्योऽवैवर्तिकां स्थापिता अनुत्तरायां सम्यक्संबोधौ, द्वासप्ततिभिश्च बोधिसत्त्वनयुतैरियं सर्वज्ञताकारधारणीमुखप्रवेशा धारणी प्रतिलब्धा, गणनातिक्रान्तानां देवमनुष्याणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि" ॥

(३५)
अथ खलु रत्नचन्द्रवैरोचनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- "कतमैर्भदन्त भगवन् धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां धारणीं प्रतिलभते?" ।

भगवानाह - "चतुर्भिः कुलपुत्र धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां धारणीं प्रतिलभते । कतमैश्चतुर्भि?, इह बोधिसत्त्वो महासत्त्वश्चतुर्ष्वार्यवंशेषु व्यवस्थितो भवति । कतमेषु चतुर्षु?, इह बोधिसत्त्वो महासत्त्व इतरेतरेण चीवरेण संतुष्टो भवति । इतरेतरचीवरसंतुष्टश्च वर्णवादी भवति । स न चीवरहेतोरप्रतिरूपामेषणां समापद्यते । अलब्धचीवरो न परितप्यते, लब्ध्वा च चीवरमरक्तः परिभुङ्क्ते, असक्तोऽगृद्धोऽग्रथितोऽमूर्च्छितोऽनवध्यवसितोऽनध्यवसानमापन्नः, आदीनवदर्शी निःसरणं प्रजानं परिभुङ्क्ते । अस्मिन् प्रथमे आर्यवंशे व्यवस्थितो भवति बोधिसत्त्वो महासत्त्वः । यथा चीवरमेवं पिण्डपातं शय्यासनम् । पुनरपरं बोधिसत्त्वो महासत्त्व इतरेतरेण ग्लानप्रत्ययभैषज्यपरिष्कारेण संतुष्टो भवति । इतरेतरग्लानप्रत्ययभैषज्यपरिष्कारसंतुष्टश्च वर्णवादी भवति । स (३६) ग्लानप्रत्ययभैषज्यपरिष्कारहेतोरप्रतिरूपमेषणां न समापद्यते । सोऽलब्ध्यग्लानप्रत्ययभैषज्यं न परितप्यते, प्रतिलब्ध्वारक्तः परिभुङ्क्तेऽगृद्धो ह्यग्रथितोऽमूर्च्छितोऽनवध्यवसितोऽनध्यवसानमापन्न आदीनवदर्शी निःसरणं प्रजानं परिभुङ्क्ते । एषु चतुर्ष्वार्यवंशेषु व्यवस्थितो भवति । एभिश्चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां धारणीं प्रतिलभते भावयति च ।

अपरैः पञ्चभिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां सर्वज्ञताकारधारणीमुखप्रवेशधारणीं प्रतिलभते । कतमैः पञ्चभिर्?, इह बोधिसत्त्वो महासत्त्वः आत्मना शीलवां विहरति, प्रातिमोक्षसंवरसंवृतः, आचारगोचरसंपन्नोऽणुमात्रेष्ववद्येषु भयदर्शी, समादाय शिक्षति शिक्षापदेषु, परानपि शीलविरहितां दृष्ट्वा शीलसंपदे समादापयति विनयति निवेशयति प्रतिष्ठापयति; अनेन प्रथमेन धर्मण समन्वागतो बोधिसत्त्वो महासत्त्वः । पुनरपरं बोधिसत्त्वो महासत्त्वः दृष्टिव्यसनगतां सत्त्वां मिथ्यादृष्ट्यां व्युत्थाप्य सम्यग्दृष्ट्यां समादापयति विनयति निवेशयति प्रतिष्ठापयति; अनेन द्वितीयेन (३७) धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः । पुनरपरं बोधिसत्त्वो महासत्त्वोऽनाचारव्यसनगतां सत्त्वान् सम्यगाचारे समादापयति विनयति निवेशयति प्रतिष्ठापयति; अनेन तृतीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः । पुनरपरमाशयविपन्नान् सत्त्वानाशयसंपत्तौ समादापयति विनयति निवेशयति प्रतिष्ठापयति; अनेन चतुर्थेण धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः । पुनरपरं बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धयाने संप्रस्थितान् सत्त्वाननुत्तरायां सम्यक्संबोधौ समादापयति विनयति निवेशयति प्रतिष्ठापयति; अनेन पञ्चमेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः । एभिः पञ्चभिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां धारणीं प्रतिलभते ।
अपरैः षड्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां धारणीं प्रतिलभते । कतमैः षड्भिर्?, इह बोधिसत्त्वो महासत्त्वः स्वयमेव बहुश्रुतो भवति श्रुताधारः श्रुतसन्निचयः, तस्य ये ते धर्मा आदौ कल्याणा मध्ये कल्याणाः पर्यवसाने कल्याणाः स्वर्थाः सुव्यञ्जनाः केवलं परिपूर्णं (३८) परिशुद्धं पर्यवदातं ब्रह्मचर्यमभिवदमाना अभिवदन्ति, तद्रूपा अनेन धर्मा बहवः श्रुता भवन्ति धृता वचसा परिचिता मनसा अन्वीक्षिता दृष्ट्या सुप्रतिविधाः, स एवं बहुश्रुतः समानः परानश्रुतान् सत्त्वान् बाहुश्रुत्ये समादापयति विनयति निवेशयति प्रतिष्ठापयति; अनेन प्रथमेन धर्मेण समन्वागतो भवति । पुनरपरं बोधिसत्त्वो महासत्त्वोऽनीर्ष्यको भवति अमत्सरी, स परानीर्स्यामात्सर्याभिभूतान् सत्त्वाननीर्ष्यायां त्यागसंपदि च समादापयति यावत्प्रतिष्ठापयति; अनेन द्वितीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वो भवति । पुनरपरं बोधिसत्त्वः सत्त्वानामविहेठनजातीयो भवति अभयप्रदाता, नानोपद्रवैरुपद्रूतान् सत्त्वानुपद्रवेभ्यः परिमोचयति, अकुहकश्च भवत्यलपकोऽशठश्च भवत्यमायावी शून्यतया च बहुलीविहरति । एभिः षड्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां सर्वज्ञताकारधारणीमुखप्रवेशधारणीं प्रतिलभते ।

एवंरूपैर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वान् समासविस्तरेण सप्तवर्षाणीमान् (३९) द्रामिडमन्त्रपदां त्रिः कृत्वा दिवा पञ्चमण्डलेन निषद्य कायगतां स्मृतिमुपस्थाप्य शून्यताविहारेण इमा एवं द्रमिडा मन्त्रपदा उत्सारयितव्याः । उत्तिष्ठता समन्ततो दशसु दिक्षु तिष्ठतो ध्रियतो यापयतो बुद्धान् भगवतः स्मरता सततं बुद्धानुस्मृतिं भावयता सप्तानां वर्षाणामत्ययेन इमां सर्वज्ञताकारधारणीमुखप्रवेशधारणीं प्रतिलभते बोधिसत्त्वो महासत्त्वः । अस्या धारण्याः प्रतिलम्भाद्बोधिसत्त्वो महासत्त्वस्तद्रूपमार्यं प्रज्ञाचक्षुः प्रतिलभते, येन प्रज्ञाचक्षुषा दशसु दिक्षु गङ्गानदीवालिकासमेषु बुद्धक्षेत्रेषु तिष्ठतो ध्रियतो यापयतो महाप्रातिहार्यविदर्शयतः सर्वां पश्यति, तेषां बुद्धानां भगवतां स्मितविदर्शनं दृष्ट्वा चतुरशीतिधारणीमुखसहस्राणि प्रतिलभते, द्वासप्ततिश्च समाधिमुखसहस्राणि प्रतिलभते, षष्टिश्च धर्ममुखसहस्राणि प्रतिलभते । अस्यां च सर्वज्ञताकारधारणीमुखप्रवेशधारण्यां प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो महामैत्रीं प्रतिलभते, महाकरुणां प्रतिलभते । येन बोधिसत्त्वेन महासत्त्वेनेयं धारणी प्रतिलब्धा भवति तेन यदि पञ्चानन्तर्याणी कर्माण्याचीर्णानि भवति, तस्य जन्मान्तरेण (४०) परिक्षयं गच्छन्ति, तृतीये जन्मनि निरवशेषं तानि कर्माणि नष्टानि भवन्ति, दशमीं च भूमिमवक्रामति । यस्य तु बोधिसत्त्वस्य नानन्तर्याणि कर्मानि कृतानि भवन्ति तस्यान्यानि सर्वकर्मावरणानि परिक्षयं गच्छन्ति, जन्मपरिवर्तेन दशभूमीः समतिक्रामति, न चिरस्येदानीं सप्तत्रिंशद्बोधिपक्षान् धर्मान्
प्रतिलभते, सर्वज्ञज्ञानं च प्रतिलभते ।

एवं बहुकरः कुलपुत्र बोधिसत्त्वानां महासत्त्वानामयं सर्वज्ञताकारधारणीमुखप्रवेशः, सततसमितं बोधिसत्त्वो महासत्त्वो बुद्धानां भगवतां स्मितविदर्शनात्प्रातिहार्यं दृष्ट्वा एवंरूपेण ऋद्धिविषयेन समन्वागतो भवति । यद्गङ्गानदीवालिकासमेषु लोकधातुषु गङ्गानदीवालिकासमानां बुद्धानां भगवतां पूजां कृत्वा तेषां बुद्धानां भगवतां धर्मं श्रुत्वा नानाविधसमाधिक्षान्तिधारणीं प्रतिलब्धाः, इममेव बुद्धक्षेत्रमागच्छन्ति ।

एवं कुलपुत्र बोधिसत्त्वानां महासत्त्वानां सर्वज्ञताकारधारणीमुखप्रवेशः कर्मपरिक्षयाय संवर्तते कुशलाभिवृद्धये । ये च कुलपुत्र सत्त्वा अस्याः सर्वज्ञताकारधारणीमुखप्रवेशधारण्या नाम श्रोष्यन्ति (४१) तस्य च भगवतश्चन्द्रोत्तमस्य तथागतस्य, तेषां सर्वकर्मावरणानि क्षयं गमिष्यन्ति, नियताश्च भविष्यन्ति अनुत्तरायाः सम्यक्संबुद्धेः" ।

अथ ते बोधिसत्त्वा एवमाहुः - "अस्माभिर्भदन्त भगवन् गङ्गानदीवालिकासमेषु अतीतेषु बुद्धेषु भगवत्सु तिष्ठत्सु ध्रियत्सु यापयत्सु इयं धारणी श्रुता च प्रतिलब्धा च" । अपरेवमाहुः - "अस्माभिर्द्विगङ्गानदीवालिकासमानां", अपरे "त्रिभिः", अपरे "चतुर्भिः", अपरे "पञ्चभिः", अपरे "षड्भिः", अपरे "सप्तभिः", अपरे "अष्टभिः" । अपरे एवमाहुः, "अस्माभिर्नवसु गङ्गानदीवालिकासमेषु सम्यक्संबुद्धेषु अतीतेषु तिष्ठत्सु ध्रियमानेषु यापयत्सु इयं सर्वज्ञताकारधारणीमुखप्रवेशधारणीं श्रुत्वा सर्वाकारेण प्रतिलब्धा" ॥

मैत्रेयस्तु बोधिसत्त्वो महासत्त्व एवमाह - "मया दशगङ्गानदीवालिकासमान् कल्पानतिक्रम्य सन्तारणो नाम महाकल्पोऽभूत् । तत्रेदं बुद्धक्षेत्रं सर्वालङ्कारविभूषितं नामाभूत् । सालेन्द्रराजो नाम बुद्धोऽभूद्विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथीः शास्ता देवमनुष्याणां बुद्धो भगवान् । अनन्तकोटीनयुतशतसहस्रेण भिक्षुसङ्घेन परिवृतः (४२) तथा गणनातिक्रान्तैर्बोधिसत्त्वैः परिवृत इमामेव सर्वज्ञताकारधारणीमुखप्रवेशां धारणीं भाषितवान्, तस्यान्तिके मयेयं धारणी श्रुता भावना परिपूर्याधिगताः । एवमप्रमेयेषु कल्पेषु अप्रमेयतरेषु असंख्येयतरेषु अतीतानां सम्यक्संबुद्धानां तिष्ठतां ध्रियतां यापयतामसंख्येयैर्बोधिसत्त्वविकुर्वितैस्तेषां बुद्धानां भगवतां पूजां कृत्वा, एकैकस्य बुद्धस्य सकाशे अप्रमेयाण्यसंख्येयान्यतुल्यानि अप्रमेयाणि कुशलमूलान्यवरोप्य पुण्यस्कन्धः परिगृहीतस्तेनाहं कुशलमूलेन बहुभिर्बुद्धसहस्रैर्व्याकृतः । कालमवेक्ष्याहं प्रणिधानविषयेनैव चिरं संसारे संसृतो, येन मे पूर्वं संसारे संसरतोऽनुत्तरा सम्यक्संबोधिर्नाभिसंबुद्धा, सोऽहमिदानीं भगवता यौवराज्येनाभिषिक्तो, विमुक्तिपट्टश्च मे प्रज्ञाशिरसि बद्धोऽनुत्तरायां सम्यक्संबोधौ" ।

अथ खलु भगवान्मैत्रेयं बोधिसत्त्वमेतदवोचत्- "एवमेतन्मैन्त्रेय यस्त्वं सालेन्द्रराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकादिमां सर्वज्ञताकारधारणीमुखप्रवेशधारणीं प्रतिलब्धवान् । आकाङ्क्षमाणस्त्वं मैत्रेय दशानां कल्पानामत्ययेनानुत्तरां (४३) सम्यक्संबोधिमभिसंभोत्स्यसे, यथैव ते मैत्रेयाशापरिपूर्णाशक्तस्त्वं मैत्रेय शीघ्रमेवानुत्तरेण ज्ञानेनानुपधिशेषे निर्वाणधातौ प्रवेष्टुम् । यच्च त्वं मैत्रेय इयच्चिरं संसारेऽभिरतस्तत्सर्वं प्रणिधानवशेन कालप्रेक्षिणा, तेन ते मैत्रेय एतर्हि ममान्तिकाद्यौवराज्यं परिगृहीतं, अतीतानामपि ते तथागतानामन्तिके यौवराज्यं परिगृहीतं" ॥

तत्र भगवान् सर्वावतीं पर्षदमवलोकयते, बोधिसत्त्वपर्षदं भिक्षुपर्षदं भिक्षुण्युपासकोपासिकापर्षदं देवनागयक्षराक्षसगन्धर्वमनुष्यामनुष्यं व्यवलोक्य तस्यां वेलायामिमानि मन्त्रपदान्यभाषत ।

"दान्तभूमिः दमथभूमिः स्मृतिभूमिः प्रज्ञाभूमिर्वैशारद्यभूमिः प्रतिसंविद्भूमिरनुत्क्षेपभूमिः समतापरिक्षयोपेक्षभूमिर्जातिक्षयभूमिर्मनुज विन्मुजः मलन्मुजः विसाग्रः दशावते वेशतः तेरण वेसलग्र शमुशवतः विमति विमति योपहिर (४४) रेगमत वसिसक्रम इतिचारवते मेखेमुद्र दहरवते प्रज्ञाक्षाबुबु दहक्रमिता सदोषवन्तः एलय तिलय अहुसुटा अमुन्धममर्थवति मुरुवति तेहीनद्विवा अकनेति बकनते समके विसाभटे इटे इटबले अत्र तत्र कुरुषं लरुषं लतथ कथ सर्वन्तः सर्वतर्वः अनिरुद्धः दिहखटम्बिफल बहुफल शतफल शीष्टवते, अपि देवानां भगवान् प्रतीत्यसमुत्पादप्रतिसंयुक्तान्यधिमुक्तिपदाणि प्रकाशयति, एषु प्रकाश्यमानेषु षष्टिभिर्देवनयुतैः सत्यदर्शनं कृतमभूत् ।

तत्फलमग्रफलं ललह अलह निलंहरे वचतख्या इदंफलं नियामफलं नमुदय विभूख प्रज्ञाचक्र सुनिर्वृतिचक्र ज्ञानीचक्र, एभिरधिमुक्तिपदैर्दशानां देवकोटीनामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि, तत्रैवावैवर्तिका स्थिताः ।

पश्य मोमते अनुमतो अकुमतो अकुमती छीद्रत्रके (४५) मन्त्रस्था देशबल विप्रवस्थ इशस्थित अतिमति तीक्ष्णमति आलोको स्तेरितुष्ण, एभिरधिमुक्तिपदैश्चतुःषष्टीनां नागसहस्राणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि, तत्रैव च अवैवर्तिकाः संवृताः ।

अप्रभा समदना अहद्यो भगवद्यो करण्याक्ष सिद्धमति समन्तक्षौ अलबले पिटकरो महाबले ओजदरो धरणे मिगलेक्षे उदाक्ष कुदाक्ष कुकाक्ष विरोयो विरूपमुख अक्षिहस्त संक्षिबल असुरोविन असुरोप्रमर्दने, एभिरधिमुक्तिपदैर्द्वादशानां यक्षकोटीनामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि, तत्रैवावैवर्तिकाः संवृताः ।

अर्थे पिलिले तिनिथे संतीर्थे कतितेने नकेमे ननमस्ते उभेरभे मुदमे मदमे मतिमे सनिह शूरे धारणीय सेन्द्र सदेव सनाग सयक्षासुरदेवा नाग निरुक्ति परिवार निरुक्तलानि स्मृति प्रज्ञा परिवारमति प्रतिलाभी गतिधृतिपरिवार गतिधृतिलाभीः (४६) पूर्वकेषु हितेषु चरितवन्तः अभिस्कामवन्तः शूरवन्तः चिरवीर्यवन्तः भीतवन्तः सितभागे मार्गमुद्र दिशापकर्षणि क्षपरहु ओहरणो देवरचतु सुरमुद्र यक्षमुद्र राक्षसमुद्र वेदिवेदिमे तपे तत्तपे उष्णानमे प्रखाद्ये ननव धारणीय आविश दिशाशोधने वाक्यशुद्धे जिह्वाशुद्धे वाचिपरिकर्मः प्रज्ञा बुद्धि स्मृति मति गति धृति गणन प्रतिसरणबुद्धिः जयचक्रे शून्यचक्रे व्यय, एभिरधिमुक्तिपदैः षट्पञ्चाशानामसुरसहस्राणामनुत्तरायां सम्यकसंबोधौ चित्तान्युत्पादिताणि, अवैवर्तिकाश्च व्यवस्थिताः ॥

तत्र भगवान् वैशारद्यसमवसरणं नाम बोधिसत्त्वमामन्त्रयते स्म - "दुर्लभं कुलपुत्र तथागतानामर्हतां सम्यक्संबुद्धानां लोके प्रादुर्भावो; दुर्लभा इमे शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनपरिभाविता अमी मन्त्रपदाः; सत्त्वानां हिताय बोधिसत्त्वगुणनिष्पादनार्थं कुलपुत्र तथागतेन (४७) पूर्वं बोधिसत्त्वचर्यां चरता दानदमसंयमक्षान्तिवीर्यसमाधिप्रज्ञा परिगृहीता बहवो बुद्धकोटीनयुतशतसहस्राः पर्युपासिताः, क्वचिद्दानान् दत्तं, क्वचिच्चीलं रक्षितं, क्वचिद्ब्रह्मचर्यं चीर्णं, क्वचिद्भावना निषेविता, क्वचित्क्षान्तिर्भाविता, क्वचिद्वीर्यमारब्धं, क्वचित्समाधिर्निष्पादिता, क्वचित्प्रज्ञा सेविता, बह्वप्रमेयं विविधं नानाप्रकारं शुभं कर्म कृतं, येनैतर्हि ममानुत्तरं ज्ञानं प्रतिलब्धम् । अनेकां कल्पकोटीनयुतशतसहस्रां कुलपुत्र तथागतेन पूर्वं बोधिसत्त्वचर्यां चरता मृषापैशुन्यपरुषसंभिन्नप्रलापा वर्जिताः, अनेकविधं कुशलं वाक्कर्म सेवितं बहुलीकृतं, येनैतर्हि प्रभूतजिह्वता प्रतिलब्धा, न हि कुलपुत्र तथागता अर्हन्तः सम्यक्संबुद्धा अन्यथा कथयन्ति" ।

अथ भगवांस्ततः पर्षदमृद्ध्यभिसंस्कारमभिसंस्कार्षीत्, यथाभिसंस्कृतेनर्द्ध्यभिसंस्कारेण सर्वपुण्यसमवसरणं नाम समाधिं समापन्नः । मुखाच्च जिह्वेन्द्रियं निर्णामयित्वा स्वं मुखमण्डलं प्रच्छाद्य तस्माज्जिह्वेन्द्रियात्षष्टिरश्मिकोट्यः प्रमुक्तास्तैश्च रश्मिभिः अयं त्रिसाहस्रमहासाहस्रो लोकधातुरुदारेणावभासेन (४८) स्फुटोऽभूत्, तैश्च रश्मिभिर्निरयतिर्यग्योनियमलोकदेवमनुष्याः स्फुटा बभूवुः । ते च रश्मयो ये नैरयिकाः सत्त्वा अग्निना प्रज्वलितगात्रा दह्यन्ते तेषां शीतला वायवो वान्ति येषां स्पृष्टानां तन्मुहूर्तं सुखा वेदना प्रादुर्बभूव । एकैकस्य च नैरयिकस्य सत्त्वस्य पुरतः बुद्धनिर्मितं तिष्ठति द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलङ्कृतगात्रः अशीतिभिरनुव्यञ्जनैर्विराजिततनुर्यं दृष्ट्वा ते नैरयैकाः सुखसमर्पिता बुद्धदर्शनाप्यायिताशरीरा बुद्धं दृष्ट्वैवं चिन्तयन्तोऽस्य सत्त्वस्यानुभावेनास्माभिः सुखा वेदना प्रतिलब्धा; ते भगवतः सकाशे प्रेमप्रसादं गौरवं च संजनयन्ति ।

भगवांस्तेषां कथयति - "भोः सत्त्वा एवं वाचं भाषध्वं, "नमो बुद्धाय नमो धर्माय नमः सङ्घाय", नित्यमेवं सुखसमर्पिता भविष्यथ" । ततस्ते नैरयिकाः सत्त्वा अञ्जलिं प्रगृह्य वाचमुदीरयन्ति, "नमो बुद्धाय नमो धर्माय नमः सङ्घाय" । अथ ते नैरयिकाः सत्त्वास्तेन कुशलमूलेन तेन च चित्तप्रसादेन ततश्च्यवित्वा एकत्या देवेषूपपन्ना, एकत्या मनुष्येषु; येऽपि शीतनरकेषूपपन्नाः सत्त्वास्तेषामुष्णा वायवः (४९) प्रवायन्ति, पूर्ववद्यावन्मनुष्येषूपपद्यन्ते । एवं प्रेतानां पिशाचानां क्षुत्तृष्णाप्रज्वलितगात्राणां तेषां ते रश्मयो बुभुक्षाग्निं निर्वाणं कुर्वन्ति, सुखां च वेदनां संजनयन्ति । एकैकस्य प्रेतस्य निर्मितं बुद्धरूपमग्रतः स्थितं भवति द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं; तं दृष्ट्वा ते प्रेता बुद्धदर्शनात्सुखा प्रीणितगात्रा एवं चिन्तयन्तः, "अस्य सत्त्वस्यानुभावेनास्माकं सुखा वेदना प्रतिलब्धा" । ते भगवतः सकाशे प्रसादं प्रेमगौरवं चोत्पादयन्ति । भगवांस्तेषां कथयति - "एत यूयं सत्त्वा, एवं वाचमुदीरयत, "नमो बुद्धाय नमो धर्माय नमः सङ्घाया", नित्यमेवं सुखसमर्पिता भविष्यथ" । ततस्ते प्रेता अञ्जलिं प्रगृह्यैवं वाचमुदीरयन्ति, "नमो बुद्धाय नमो धर्माय नमः सङ्घाय" । अथ ते प्रेतसत्त्वास्तेन कुशलमूलेन ततश्च्यवित्वा केचिद्देवेषूपपन्नाः एकत्या मनुष्येष्वेवं तिरश्चां संचोदयन्ति, एवं
मनुष्यां संचोदयन्ति ।

गणनातिक्रान्ता देवमनुष्या भगवत्सकाशमुपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य निषण्णा धर्मश्रवणाय । तेन च समयेन गणनातिक्रान्ता देवमनुष्यकाया (५०) अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयामासुः । गणनातिक्रान्ताश्चात्र बोधिसत्त्वाः समाधिक्षान्तिधारणीं प्रतिलब्धवन्तः ॥

इति श्रीकरुणापुण्डरीके महायानसूत्रे द्वितीयो धारणीमुखपरिवर्तः ॥२॥


(५१)
इइइ दानविसर्गस्तृतीयः

अथ खलु शान्तिमतिर्बोधिसत्त्वो महासत्त्वो भगवता स्वर्द्ध्याभिसंस्कारे प्रतिप्रस्रंभिते भगवन्तमेतदवोचत् । "को भगवन् हेतुः कः प्रत्ययो यदन्येषां बुद्धानां भगवतां परिशुद्धा बुद्धक्षेत्रा अपगतकलुषा अपगतपञ्चकषाया नानागुणव्यूहा बुद्धक्षेत्राः, सर्वे चात्र बोधिसत्त्वा महासत्त्वा नानाविद्धगुणपरिपूर्णा नानासुखसमर्पिता, नापि श्रावकप्रत्येकबुद्धानां नामापि विद्यते, कुतः पुनरुपपत्तिः? । को भगवन् हेतुः कः प्रत्ययो यद्भगवान् पञ्चकषाये बुद्धक्षेत्र उपपन्नः, आयुःकषाये कल्पकषाये सत्त्वकषाये दृष्टिकषाये क्लेशकषाये वर्तमाने अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, चतस्रश्च परिषदः त्रीणी यानान्यारभ्य धर्मं देशयति? । कस्माद्भगवता परिशुद्धं बुद्धक्षेत्रं न परिगृहीतमपगतपञ्चकषायं?" ।

भगवानाह । "प्रणिधानवशेन कुलपुत्र बोधिसत्त्वाः परिशुद्धं बुद्धक्षेत्रं परिगृह्णन्ति, प्रणिधानवशेनापरिशुद्धं (५२) बुद्धक्षेत्रं परिगृह्णन्ति । महाकरुणासमन्वागतत्वात्कुलपुत्र बोधिसत्त्वा महासत्त्वा अपरिशुद्धं बुद्धक्षेत्रं परिगृहणन्ति । तत्कस्माद्धेतोस्?, तथा मया प्रणिधानं कृतं येनाहमेतर्ह्येवं प्रतिकष्टे पञ्चकषाये बुद्धक्षेत्र उपपन्नः । तच्चृणु साधु च सुष्ठु च मनसिकुरु भाषीष्येऽहं ते शान्तिमते" । "साधु भगवान्" निति शान्तिमतिर्बोधिसत्त्वो भगवतः प्रत्यश्रोषीत् ॥

भगवांस्तानिदमवोचत् । "भूतपूर्वं कुलपुत्रैकगङ्गानदीवालिकासमेषु असंख्येयेष्वतिक्रान्तेषु अस्मिन् बुद्धक्षेत्रे धारणो नाम महाकल्पो बभूव । तस्मिंश्च महाकल्पे बुद्धक्षेत्रे तस्यां चातुर्द्वीपिकायामरणेमी नाम राजाभूच्चतुर्द्वीपकः चक्रवर्ती । तस्य खल्वारणेमिनः समुद्ररेणुर्नाम ब्राह्मणोऽभूत्पुरोहितः । तस्य पुत्रो जातो द्वात्रिंशन्महापुरुषलक्षणैः समन्वागतः अशीतिभिरनुव्यञ्जनैर्विराजितः शतपुण्यलक्षणो व्यामप्रभः न्यग्रोधपरिमण्डलोऽसेचनकदर्शनः । जातमात्रस्य च देवशतसहस्रैः पूजां कृत्वा समुद्रगर्भ इति नाम स्थापितम् । सोऽपरेण समयेन निष्क्रम्य केशश्मश्रूण्यवतार्य काषाणि वस्त्राण्याच्छाद्य (५३) अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, रत्नगर्भो नाम तथागत उदपादि, धर्मचक्रप्रवर्तनेन स भगवान् भहुप्राणकोटीनयुतशतसहस्रां स्वर्गमोक्षफले प्रतिष्ठापितवान् । सोऽपरेण समयेन बहुश्रावककोटीनयुतशतसहस्रैः परिवृतः पुरस्कृतो ग्रामनगरनिगम जनपदराष्ट्रराजधानीषु चर्यां चञ्चूर्यमाणोऽनुपूर्वेणान्यतरं नगरमनुप्राप्तो, यत्रासौ राजा चक्रवर्ती वसति । तत्र "बहिर्नगरस्य नातिदूरे जम्बूवनो नामोद्याने रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धो विहरति सार्धमनेकैः श्रावककोटीनयुतशतसहस्रैर्" इति अश्रोषीद्, राजारणेमी "रत्नगर्भस्तथागतोऽर्हन् सम्यकसंबुद्धोऽस्माकं विजितमनुप्राप्तो जम्बूवनोद्याने विहरति अनेकैः श्रावककोटीनयुतशतसहस्रैः सार्धम् । यन्नूनमहमुपसंक्रामयेयम्, उपसंक्रम्य तं तथागतं सत्कुर्यां गुरुकुर्यां मानयेयं" । अथारणेमी राजाराजर्द्ध्या महता च राजानुभावेनानेकैः प्राणिकोटीनयुताशतसहस्रैः
परिवृतः पुरस्कृतो नगरान्निर्जगाम, येन जम्बूवनोद्यानं तेनोपजगामोपेत्य, यावदेव यानस्य भूमिस्तावद्यानेन यात्वा पद्भ्यामेवारामं प्राविशद्, येन (५४) रत्नगर्भस्तथागतस्तेनोपजगाम; उपेत्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा त्रिष्कृत्वः प्रदक्षिणीकृत्यैकान्ते न्यषीदद्, एकान्ते निषण्णं राजानमरणेमिनं रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धो धार्म्या कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धार्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा तूष्णीमभूत् ।

अथ राजारणेमी उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा पादयोर्निपत्य येन रत्नगर्भस्तथागतस्तेनाञ्जलिं प्रणम्य रत्नगर्भं तथागतमर्हन्तं सम्यक्संबुद्धमेतदवोचत् । "अधिवासयतु मे भगवानिदं त्रैमासं सार्धं भिक्षुसङ्घेन, अहं भगवन्तमुपस्थास्यए चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर्भिक्षुसङ्घं च" । अधिवासयति कुलपुत्र रत्नगर्भस्तथागतो राज्ञोऽरणेमिनः तूष्णीभावेन । अथ राजारणेमी रत्नगर्भस्य तथागतस्य तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसाभिवन्द्य त्रिष्कृत्वः प्रदक्षिणीकृत्वा भगवतोऽन्तिकात्प्रकान्तः ।

(५५)
अथ राजारणेमी कोट्टराजानाहूयामात्यमहामात्रान् भटबलाग्रपौरजानपदान् पौरुषेयानामन्त्र्योवाच - "यन्नूनं ग्रामण्यो जानीयुर्मया रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्ध इमं त्रैमासं सर्वोपकरणैरुपनिमन्त्रितः सार्धं भिक्षुसङ्घेन । सोऽहं यो मे कश्चिदुपभोगपरिभोग उपस्थानं परिचर्यान्तःपुरं च गौरवेण तत्सर्वं भगवतो निवेदयामि भिक्षुसङ्घस्य च । यदपि युष्माकं पौद्गलिकमुपभोगपरिभोगोपस्थानपरिचर्यान्तःपुरं गौरवेण तत्सर्वं भगवतो निर्यातयत भिक्षुसङ्घस्य च" । तैरपि निर्यातितम् । गृहपतिरत्नमपि भद्रमुद्यानं सर्वं जाम्बूनदसुवर्णमयं कृत्वा, तस्मिन्नेवोद्याने भगवतोऽर्थाय कूटागारं मापयति सप्तरत्नमयं समन्ततः चतुर्दिशं चात्र सप्तरत्नमयानि द्वाराणि मापयति स्म । सर्वं चोद्यानं सप्तरत्नमयैर्वृक्षैरलङ्कृतम् । ते च वृक्षा नानाप्रकारैर्वस्त्रैरलङ्चक्रे नानादुष्यैर्नानाच्छत्रैर्नानाविधैश्च मुक्ताहारैर्नानाप्रकारैश्चाभरणैर्नानारत्नमयैश्चाभरणैर्विविधैः (५६) सुगन्धैः, सर्वरत्नमयैश्च पुष्पफलैस्तान् वृक्षानलङ्कृतवान् । सर्वं च तदुद्यानमनेकविधैर्मणिभिरलङ्कृतमभूत्, नानापुष्पावकीर्णं, नानापट्टदुष्यप्रावरणप्रावारेभ्य आसनानि प्रज्ञप्तानि । तदपि चक्ररत्नं बहिः कूटागारस्य भगवत एवाभिमुखं पुरुषमात्रप्रमाणमुपर्यन्तरीक्षे स्थितं ज्वलति । हस्तिरत्नमपि सर्वश्वेतं सप्ताङ्गं सुप्रतिष्ठितं, भगवतः पृष्ठतः स्थित्वा भगवत उपरि रत्नवृक्षं धारयति । स च वृक्षोऽलङ्कृतः सप्तभी रत्नैर्नानाविधैश्च मुक्ताहारैर्विचित्रैश्चाभरणैर्नानाविधैश्च माल्यैर्नानारङ्गैश्च पट्टैर्नानाविधैश्च
दुष्यैरुपरचितं, तस्य वृक्षस्य सप्तरत्नमयं छत्रं स्थापितमभूत् । या चारणेमिनो राज्ञोऽग्रमहिषी सा भगवतः पुरतः स्थिता, भगवन्तं गोशीर्षचन्दनोरगसारचन्दनचूर्णैश्चावकिरमाणा । यच्च राज्ञोऽरणेमिनो मणिरत्नमभूत्प्रभास्वरं, ततः स्वयमेव भगवतः पुरतः स्थापयामास । ततस्तया मणिरत्नाभया सर्वं तदुद्यानं सततसमितमुदारेणावभासेन स्फुटमभूत्, बुद्धाभयायं त्रिसाहस्रमहासाहस्रो लोकधातुः सर्वमिदं (५७) सततसमितं स्फुटमभूत् । एकैकस्य च श्रावकस्य गौशीर्षस्यैव चन्दनस्य पादपीठं स्थापितं, एकैकस्य च श्रावकस्य पृष्ठतः सर्वश्वेतो हस्तिनागः स्थापित उपर्येवंरूपमेव चक्ररत्नं पुरुषप्रमाणं स्थापितं यथा भगवतस्तथा, एकैकस्य च श्रावकस्याग्रतः सर्वालङ्कारविभूषिता कन्या स्थापिता गोशीर्षोरगसारचन्दनचूर्नैरवकिरति, एकैकस्य च श्रावकस्याग्रतो वैडूर्यमणिः स्थापितः । समन्ततश्चोद्यानस्याभ्यन्तरे नानाविधानि वाद्यानि वाद्यन्ते, बहिश्चोद्यानस्य समन्तेन परिणायकरत्नं विजहार सार्धं चतुरङ्गेण बलकायेन ।

अथ खलु कुलपुत्र राजारणेमी दिवसेदिवसे नगरान्निर्याति भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय । तस्य यावद्यानस्य भूमिस्तावद्यानेन यात्वा यानादवतीर्य पद्भ्यामेवोद्यानं प्राविशत्, प्रविश्य येन रत्नगर्भस्तथागतस्तेनोपजगामोपेत्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसाभिवन्द्य भगवन्तं त्रीन्वारान् प्रदक्षिणीकृत्वा, रत्नगर्भस्य तथागतस्य स्वयं हस्तशौचमदात्, स्वयं च प्रणीतेन प्रभूतेन खादनीयभोजनीयेन लेह्यपेयेन स्वहस्तं (५८) संतर्पयति संप्रवारयति, स्वहस्तं संतर्पयित्वा संप्रवारयित्वा भगवतं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रपाणिं स्वयमेव व्यजनमादाय भगवन्तं वीजयामास । एकैकस्य च श्रावकस्य राजपुत्रसहस्रं कोट्टराजसहस्रं चैवंरूपमुपस्थानं कृत्वा व्यजनं गृहीत्वा श्रावकान् वीजयति स्म । समनन्तरपर्यवसिते भक्षविसर्गेऽनेकानि प्राणिकोटीनयुतशतसहस्राण्यारामं प्रविष्टानि धर्मश्रवणाय । गगनतले चानेकैर्देवकोटीनयुतशतसहस्रैः पुष्पवृष्टिरभिवृष्टा दिव्यानि वाद्यानि अभिवादयन्ति, दिव्यानि च छत्राणि वासांसि आभरणानि च प्रलम्बयन्ति । नीलवाससं च यक्षाणां चत्वारिंशच्छतसहस्राणि ये चन्दनदीपात्गोशीर्षस्य चन्दनस्य काष्ठान्यानयन्ति, भगवतोऽर्थायाहारं प्रतिजाग्रति भिक्षुसङ्घस्य च । रात्रौ स्वयमेव राजारणेमी भगवतः पुरतो भिक्षुसङ्घस्य चानेकानि दीपकोटीनयुतशतसहस्राणि ज्वालयति । अथ कुलपुत्र राजारणेमी भगवतः पुरतः स्थित्वा एकां दीपस्थालिकां शिरस्युपस्थापयित्वा द्वावंशयोर्द्वौ पाण्योर्द्वौ चरणयोर्दीपस्थालीः, सर्वरात्रीर्भगवतः पुरतो दीपं ज्वालयमानो, भगवतोऽनुभावेनाक्लान्तकाय (५९) एवंरूपं कायसुखं प्रतिसंवेदयति स्म । तद्यथापि
नाम तृतीयध्यानसमापन्नस्य भिक्षोरेवमक्लान्तकायः अक्लान्तचित्तो मासत्रयं भगवन्तमुपस्थितवान् । एवं सहस्रं राजापुत्राणां चतुरशीतिश्च कोट्टराजसहस्राणि अन्यानि च प्राणकोटीनयुतशतसहस्राणि, एकैकं श्रावकं राजकीयेनोपकरेणेन मासत्रयमेवंरूपेणोपस्थानेनोपस्थितवन्तः । यथा राजारणेमी रत्नगर्भन् तथागतमुपस्थितवान् तथाग्रमहिषी देवी मासत्रयं गन्धपुस्पैरुपस्थितवती । एवमन्यैरपि बहुकन्याकोटीनयुतशतसहस्रैरेकैकः श्रावको मासत्रयं पुष्पगन्धैरुपस्थितः ।

अथ खलु कुलपुत्र राजारणेमी त्रयाणां मासानामत्ययेन चतुरशीतिं जाम्बूनदमयानि निष्कसहस्राणि भगवतो निर्यातयति । चक्ररत्नचक्रपूर्वंगमानि च सुवर्णमयानि चतुरशीतिश्चक्ररत्नसहस्राणि भगवतो निर्यातयति । हस्तिरत्नपूर्वंगमानि चतुरशीतिर्नागसहस्राणि सर्वश्वेतानि भगवतो निर्यातयति । अश्वरत्नपूर्वंगमानि चतुरशीतिरश्वसहस्राणि भगवतो निर्यातयति । मणिरत्नपूर्वंगमानि चतुरशीतिः सूर्यकान्तिमणिसहस्राणि भगवतो निर्यातयति स्म । गृहपतिरत्नपूर्वंगमानि (६०) चतुरशीतिराजपुत्रसहस्राणि भगवतो निर्यातयति स्म । उपस्थानाय परिणायकरत्नपूर्वंगमानि चतुरशीतिकोट्टराजसहस्राणि भगवत उपस्थानाय निर्यातयति स्म । अञ्चुरनगरपूर्वंगमानि चतुरशीतिनगरसहस्राणि भगवत उपजीव्यानि निर्यातयति भिक्षुसङ्घस्य च । चतुरशीतिरत्नमयानि कल्पवृक्षसहस्राणि चतुरशीतिरत्नराशिपुष्पसहस्राणि चतुरशीतिसप्तरत्नमयानि छत्रसहस्राणि चतुरशीत्युदाराणां राजार्हनां वस्त्राणां सहस्राणि चतुरशीतिसहस्राणि रत्नमयानां मालानामाभरणपीठशीर्षनयनकुण्डलसुवर्णसूत्रमुक्ताहारोपानहशय्यापादपीठभाजनभेरीवाद्यशङ्खघण्टाध्वजां भृङ्गारारामा दीपस्थालिका भगवतो निर्यातयति स्म । रत्नमयाः शकुना रत्नमयाश्च मृगाश्चतुरशीतिव्यजनसहस्राणि भगवतो निर्यातयति स्म । चतुरशीतिरसायनसहस्राणि रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य निर्यातयति स्म । एवं चाह, "अहं भगवन् बहुकृत्यो बहुकरणीयः, क्षमतु मे भगवान्, अस्माकमुपवनेऽभिरमतु, भगवानस्मिन्नुपवने रमतु नित्यं; पुनरप्यहं भगवन्तमुपसंक्रमिष्ये दर्शनाय वन्दनाय पर्युपासनाय च" । (६१) यच्च राज्ञोऽरणेमिनः पुत्रसहस्रं भगवतः पादयोर्निपत्य भगवन्तमेकैकमिदमवोचत्- "अधिवासयत्वस्माकमेकैकस्य त्रैमासं वयं भगवन्तमुपस्थास्यामः सर्वोपकरणैः सार्धं भिक्षुसङ्घेन" । अधिवासयति
भगवांस्तस्य राजपुत्रसहस्रस्य तूष्णीभावेन । तेषामधिवासितं भगवता विदित्वाथ राजारणेमी भगवतः पादौ शिरसाभिवन्द्य भिक्षुसङ्घं च त्रिस्कृत्वः प्रदक्षिणीकृत्य भगवन्तोऽन्तिकात्प्रकान्तः । अथ तेषां राजपुत्राणां ज्येष्ठोऽनिमिषो नामा भगवन्तं त्रैमासमेवंरूपेणोपस्थानेनोपस्तिष्ठति भिक्षुसङ्घं च, तद्यथा राजारणेमी तथैवमनिमिषप्रमुखं राजकुमारसहस्रं दिनेदिने भगवन्तं दर्शनायोपसंक्रामति भिक्षुसङ्घं च धर्मं च श्रोतुम् ।

अथ कुलपुत्र भगवतो रत्नगर्भस्य तथागतस्य पिता समुद्ररेणुर्नाम ब्राह्मणः, स सर्वं जम्बूद्वीपमन्वाहिण्ड्य स्त्रीपुरुषदारकदारिकाभ्यः पिण्डपातं याचते, स तं पिण्डपातं परिगृहीतस्तं सर्वं जम्बूद्वीपनिवासिलोकं त्रिशरणगमने प्रतिष्ठापयति, प्रतिष्ठापयित्वानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति । तेनैवमन्वाहिण्डता न स कश्चिज्जम्बूद्वीपे मनुष्यभूतो (६२)ऽस्ति यः समुद्ररेणुना ब्राह्मणेन पिण्डकेन न परिगृहीतो, यो वा न त्रिशरणगमने प्रतिष्ठापिताः, यस्य वानुत्तरायां सम्यक्सम्बोधौ चित्तं नोत्पादयति, यो वा नानुत्तरे ज्ञाने समादापितो न प्रतिष्ठापितः । बहुप्राणकोटीनयुतशतसहस्राणि त्रिशरणक्रियावस्तुषु स्थापितानि, एवमनुत्तरायां सम्यक्संबोधौ समादापितानि निवेशितानि प्रतिष्ठापितानि ।

अनिमिषोऽपि राजकुमारो भगवन्तं मासत्रयमेवंरूपेणोपस्थानेनोपस्थितवान् सार्धं भिक्षुसङ्घेन यथा राज्ञारणेमिना, सोऽपि त्रयाणां मासानामत्ययेन चतुरशीतिश्चक्ररत्नसहस्राणि निर्यातयति सर्वसौवर्णानि नगराणि दिव्यानि च हस्त्यश्वमणिस्त्रीगृहपतिपरिणायकरत्नानि स्थापयित्वा चतुरशीतिहस्त्यश्वसहस्राणि, एवं सूर्यकान्तिमणिकन्याकुमारकल्पवृक्षपुष्पराशिच्छत्रवस्त्रमाल्याभरणरत्नपीठशीर्षनयनकुण्डलसुवर्णसूत्रमुक्ताहारोपानहशय्यापादपीठभाजनभेरीवाद्यशङ्खपटहध्वजभृङ्गारामदीपस्थालिकादीनि नानारत्नमयाश्च शकुना नानामृगांश्च रत्नमयां रसायनांश्च; एकैकशश्चतुरशीतिसहस्राणि भगवतो निर्यातितवन्त एवं भिक्षुसङ्घस्य च ।

(६३)
अथ स राजकुमारो भगवन्तं क्षमापितवान् भिक्षुसङ्घं च, अनिमिषो राजकुमारो भगवन्तमेवंरूपेणोपस्थानेनोपस्थितवान् सार्धं भिक्षुसङ्घेन यथा राज्ञारणेमिना तथैव दक्षिणा दत्ता अनन्ता । एवमिन्द्रगणेन मासत्रयं भगवानुपस्थितो विभवश्च परित्यक्तः, पेयालं, तथैवानङ्गणः, अभयः, अम्बरः, अशजः, मिद्धः, मिषः, मार्दवः, पङ्गगणः, माध्ववः, मानवो, मासंवो, माजवः, अरवः, आज्ञवः, मुखवः, अर्थबहुः, अलिन्द्रः, नेरवः, रेणजः, चन्द्रनेमी, सूर्यनेमी, इन्द्रनेमी, वज्रनेमी, क्षान्तिनेमी, स्थाननेमी, जवनेमी, रणेमी, राहुः, राहुबलः, राहुचित्रः, दामचित्रः, राजधानः, रागभ्रमः, रान्धवः, रक्षकः, कायः, शयमाः, यत्रवः, स्यजलः, यार्मथः, यध्वजः, यमानः, यस्यनः, नमज्योतिः, अरञ्जनध्वः, यावदरणेमिनो राज्ञः पुत्रसहस्रेण एकैकेन रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धः (६४) सार्धमप्रमेयेन भिक्षुसङ्घेन, एवंरूपेण भगवत उपस्थानेनोपस्थितः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर्मासत्रयं यथा ज्येष्ठेन राजपुत्रेण, तथैवैकैकश्चतुरशीतिः स्वर्णमयाश्चक्रसहस्राणि विस्तरेण यावच्चतुरशीतिरसायनसहस्राणि भगवतो निर्यातितानि भिक्षुसङ्घस्य च । एवंरूपेण महाप्रसादेन प्रणिधानं कृत्वा केचिद्देवत्वं केचिच्छक्रत्वं केचिन्मारत्वं केचिच्चक्रवर्तिराज्यं केचिन्महाभोगतां केचिच्छ्रावकयानं केचित्प्रत्येकबुद्धयानं प्रार्थयन्ति, अधिष्ठमानाश्च
द्वौ वर्षशतौ पञ्चपञ्चाशच्च वर्षाणि भगवन्तं क्षमापयन्ति (६५) भिक्षुसङ्घं च । तत्काले समुद्ररेणुर्ब्राह्मनोऽग्रपुरोहितोऽभ्यागतोऽद्राक्षीत्तं भगवन्तं तै राजपुत्रैरुपस्थितं दृष्ट्वा सप्तवर्षाणि सर्वोपकरणैरुपनिमन्त्रयते, यदुत चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेन । अधिवासयति भगवान् पितुरग्रपुरोहितस्य तूष्णीभावेन । अथ समुद्ररेणुर्ब्राह्मण एवंरूपेण सर्वोपकरणसंपन्नेनोपस्थानेन भगवत उपस्थितः चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेन ॥

अथ खलु कुलपुत्रापरेण समयेन समुद्ररेणोर्ब्राह्मणस्यैवं चेतसः परिवितर्क उदपादि । "मया तावद्बहुप्राणकोटिनयुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ समादापितानि । न चाहमस्य राज्ञोऽरणेमिनः प्रणिधानं जाने, किमयं प्रार्थयति देवत्वं वा उत शक्रत्वं वा मारत्वं वा महाभोगतां वा श्रावकयानं वा प्रत्येकबुद्धयानं वानुत्तरां वा सम्यक्संबोधिमाकाङ्क्षते । कच्चिदहमनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, अतीर्णान् सत्त्वांस्तारयेयं, अमुक्ताम्मोचयेयं जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः, (६६) अपरिनिर्वृतान् सत्त्वान् परिनिर्वापयेयम् । कच्चित्स्वप्ने निवेदयतु देवो वा यक्षो वा नागो वा बुद्धो वा श्रावको वा ब्राह्मणो वा किन् तावद्राजा देवश्रियं काङ्क्षते उत मनुष्यश्रियमथ श्रावकत्वमथ प्रत्येकबुद्धभूमिमथ वानुत्तरां सम्यक्संबोधिं" ।

अथ कुलपुत्र समुद्ररेणुर्ब्राह्मणः अग्रपुरोहितः स्वप्ने तथारूपमवभासमद्राक्षीत्, येनावभासेन दशसु दिक्षु गङ्गानदीवालिकासमेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः पश्यति । ते च बुद्धा भगवन्तः तस्य ब्राह्मणस्य पद्मानि स्वर्णपत्राणि रूप्यदण्डानि वैडूर्यकर्णिकानि अश्मगर्भकेशराणि प्रेषयन्ति । सर्वेषु च तेषु पद्मेषु सूर्यमण्डलं दृश्यते । सूर्यमण्डलस्योपरि सप्तरत्नमयं छत्रं संस्थितम् । एकैकस्माच्च सूर्यमण्डलात्षष्टिरश्मिकोट्यो निश्चेरुस्ता रश्मयः सर्वास्तस्य ब्राह्मणस्य वक्त्रे प्रविशन्ति । सहस्रयोजनप्रमाणमात्मभावं समनुपश्यति परिशुद्धं तद्यथा परिशुद्धमादर्शमण्डलम् । स्वकायस्य च कुक्षौ षष्टिबोधिसत्त्वकोटीनयुतशतसहस्राणि पद्मेषु पर्यङ्कोपविष्टां ध्यायमानां पश्यति । तानपि सूर्यविग्रहानात्मनः शिरसि मालान् पश्यति । छत्रं चोपरि चाकाशे (६७) यावद्ब्रह्मलोकपर्यन्ते स्थितं पश्यति । नानापद्मानि सामन्तके स्थितानि पश्यति । तेभ्यश्च पद्मेभ्यो दिव्यान्यतिक्रान्तमानुषाणि तूर्याणि निश्चरन्ति शृणोति च । तत्र च राजानमारणेमिनं पश्यति, रुधिरम्रक्षितेन कायेन धावन्तं सूकरमुखेन विविधान् बहुप्राणिनो भक्षयन्ते, भक्षयित्वा चैरण्डवृक्षमूले निषण्णम् । विविधाश्च प्राणिनः समागम्य तं राजानं भक्षयन्ति यावदस्थिशङ्कलावशेषं कृत्वा छोरयन्ति । एवं पुनः पुनस्तथैव प्रादुर्भवन्तं सूकरमुखं रुधिरम्रक्षितेन कायेन बहुविधान् प्राणिनो भक्षयित्वा एरण्डमूले निषण्णं, विविधैः प्राणिभिः खाद्यमानमस्थिशङ्कलावशिष्टं कृत्वा छोरितम् । पुनरपरं राजपुत्रान् पश्यति सूकरमुखेनापरे
गजमुखेनापरे महिषमुखेनापरे सिंहमुखेनापरे वृकमुखेनापरे शृगालमुखेनापरे श्वमुखेनापरे मर्कटमुखेन पश्यति, शोणिताभ्युक्षितगात्राननेकविधान् प्राणिनो भक्षयित्वा एरण्डवृक्षमूले निषण्णान् विविधैः प्राणिभिर्भक्ष्यमाणानस्थिशङ्कलावशिष्टानुत्सृष्टान् । पुनरपि तेनैव कायेन स्थितान् तथैव प्राणिनो भक्षयतः पश्यति । अन्यांश्च राजपुत्रान् पश्यति महिषरथाभिरूढान् सुमनापुष्पाभ्यलङ्कृतान् (६८) कुपथेन दक्षिणाभिमुखान् गच्छतः । शक्रब्रह्मलोकपालाश्चागत्वा ब्राह्मणस्य कथयन्ति । "इमानि ब्राह्मण पद्मानि भागं कुरु, भागं कृत्वा ततः प्रथमं राज्ञः संविभागमेकं पद्ममनुप्रयच्छ, तत एषामपि राजपुत्राणामेकैकं पद्मं दद, अवशिष्टानि कोट्टराज्ञां प्रयच्छ, अपरां जनस्य" । श्रुत्वा ब्राह्मण प्राह । "यथाज्ञापयन्ति देवाः" ।

अथ स ब्राह्मणः पद्मानि भाजयमान एव प्रतिबुद्धः, संविचिन्तयमान उत्थायासनात्पुनर्विचिन्तयति, "हीनप्रणिधिरयं राजा चक्रवर्ती संसारसुखाभिरतो हीना वास्याधिमुक्तिः सार्धमेकत्यै राजपुत्रैरेकत्याः पुना राजपुत्राः श्रावकयानमाकाङ्क्षन्ति ये मया महिषरथाभिरूढा दृष्टाः सुमनापुष्पैरलङ्कृता दक्षिणाभिमुखा गच्छन्ति । यच्च मया सर्वसत्त्वार्थं महायज्ञस्यारम्भं कृतम् । यच्च मयाधत्रियां वर्षशतां जम्बूद्वीपमन्वाहिण्ड्य सर्वसत्त्वा अनुत्तरायां सम्यक्संबोधौ यावत्प्रतिष्ठापिटाः । तदेवं मया सर्वजम्बूद्वीपे गतानेकानि प्राणकोटीनयुतशतसहस्राणि त्रिषु पुण्यक्रियावस्तुषु समादापितानि निवेशितानि प्रतिष्ठापितानि । तस्यैतन्निमित्तं येन मया स्वप्ने महावभासो दृष्टः (६९) दशसु दिक्षु बुद्धा भगवन्तो दृष्टाः । यच्च मया सर्वं जम्बूद्वीपमन्वाहिण्ड्य स्त्रीपुरुषदारकदारिकाभ्यः पिण्डपातं याचयित्वा बहुप्राणकोटीनयुतशतसहस्राणि त्रिशरणक्रियावस्तुषु स्थापितानि विनीतानि निवेशितानि प्रतिष्ठापितानि । यच्च मया तथागतोऽर्हन् सम्यक्संबुद्धः सप्तवर्षाण्युपनिमन्त्रितः सर्वोपकरणैः सार्धं भिक्षुसङ्घेन, तेन मम दशभ्यो दिग्भ्यः अन्येभ्यो बुद्धक्षेत्रेभ्यः बुद्धैर्भगवद्भिः पद्मान्यनुप्रेषितानि । यच्च मयानुत्तरायां सम्यक्संबोधौ प्रणिधानं कृतं, तेन ते बुद्धा सप्तरत्नमयानि छत्राणि विसर्जयन्ति । यत्पुनर्मया तेषु पद्मेषु सूर्यविग्रहा दृष्टा, यच्च रश्मयो मुखे प्रविशमाना दृष्टाः, यच्चासौ महानात्मभावो दृष्टः, यच्च सूर्यविग्रहमाला दृष्टा, यच्च कुक्षौ बोधिसत्त्वकोटीनयुतशतसहस्राणि
पद्मेषु पर्यङ्कनिषण्णानि ध्यायमानानि, इमा एवंरूपाः स्वप्ना दृष्टाः, यच्च मे शक्रब्रह्मलोकपाल दृष्टा आज्ञापयन्तीमानि पद्मानि भागं कुरु, यच्च मया तानि पद्मानि भागं कृत्वा दत्तानि । यन्न्वहमिमाः स्वप्ना बुद्धाय भगवत आख्यास्ये, किंहेतुकाः किंप्रत्यया मयैवंरूपाः स्वप्ना दृष्टा, यन्न्वहं (७०) तथागतं पृच्छेयं" ।

अथ समुद्ररेणुर्ब्राह्मणः तस्या एव रात्र्या अत्ययेन भोजनं सज्जीकृत्वा काल्यते एव येन भगवांस्तेनोपजगाम, उपेत्य स्वयमेव भगवतो हस्तशौचमुपनामयति भिक्षुसङ्घस्य च । हस्तशौचमुपनीय प्रभूतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति, संतर्पयित्वा संप्रवारयित्वा भिक्षुसङ्घमनेकपर्यायेन संतर्प्य संप्रवार्य भगवन्तं विदित्वा भिक्षुसङ्घं च धौतहस्तमपनीतपात्रं नीचमासनं गृहीत्वा भगवतः पुरतो निषण्णो धर्मश्रवणाय । अथ राजारणेमी तत्रैवाभ्यागतः सार्धं पुत्रसहस्रेणानेकैश्च प्राणिसहस्रैः परिवृतः पुरस्कृतः, स यावद्यानस्य भूमिस्तावद्यानेन यात्वा यानादवतीर्य पद्भ्यामेवारामं प्राविक्षत्, प्रविश्य च येन भगवांस्तेनोपजगामोपेत्य भगवतः पादौ शिरसा वन्दित्वा भिक्षुसङ्घस्य च भगवतः पुरतः निषण्णो धर्मश्रवणाय । अथ समुद्ररेणुर्ब्राह्मणो यथादृष्टां स्वप्नां भगवतो निवेदयति ।

भगवानाह - "यत्त्वं ब्राह्मणाद्राक्षीत्महान्तमवभासं येनावभासेन गङ्गानदीवालिकासमेषु बुद्धक्षेत्रेषु (७१) बुद्धा भगवन्तो दृष्टा तव पद्मानि विसर्जयन्ति, तेषु च पद्मेषु सूर्यविग्रहा दृष्टा रश्मयः प्रमुञ्चमानास्ते च रश्मयस्तव मुखे प्रविशन्ति । यत्त्वया ब्राह्मण अधत्रिकायां वर्षशतां जम्बुद्वीपमाहिण्डता, तेन त्वया गणनातिक्रान्ताः सत्त्वास्त्रिषु पुण्यक्रियावस्तुषु निवेशिताः प्रतिष्ठापिताश्च, गणनातिक्रान्ताश्च सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः । यच्च त्वया सर्वसत्त्वार्थं महायज्ञस्यारम्भः कृतस्तेन त्वं ब्राह्मण बुद्धा भगवन्तो व्याकरिष्यन्त्यनुत्तरायां सम्यक्संबोधौ, ये दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, यैश्च तव पद्मानि विसर्जितानि सुवर्णपत्राणि रूप्यदण्डानि वैडूर्यकर्णिकानि अस्मगर्भकेशराणि, तेषु च सर्वेषु पद्मेषु सूर्यविग्रहा दृश्यन्ते । इदं तस्य स्वप्नस्य पूर्वनिमित्तम् । यत्त्वं ब्राह्मणाद्राक्षीत्स्वप्ने ये दशौसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, तैर्बुद्धैर्भगवद्भिः सप्तरत्नमयानि छत्राणि विसर्जितानि, यानि छत्राणि चोपरि चाकाशे यावद्(७२) ब्रह्मलोकपर्यन्तं संतिष्ठन्ति । यस्यामेव रात्रौ त्वं ब्राह्मणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे तस्यामेव रात्रौ दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषूदारः कीर्तिशब्दश्लोकोऽभ्युद्गच्छते, उपरि च यावद्ब्रह्मलोकपर्यन्तं कृत्वा न शक्यन्ते तव मूर्धानं व्यवलोकयितुं
ब्रह्मादिभिर्देवलोकैरपि । इदं तस्य स्वप्नस्य पूर्वनिमित्तम् । यत्त्वं ब्राह्मणाद्राक्षित्महान्तमात्मभावं यावद्ब्रह्मलोकं यच्च सूर्यमण्डलानां माला शीरसि बद्धा, तद्ये त्वया गणनातिक्रान्ताः सत्त्वाः समादापिता अनुत्तरायां सम्यक्संबोधौ, ते च तवाभिसंबुद्धबोधेर्ब्राह्मण बुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु देशसु दिक्षु स्थिता अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । सर्वे ये त्वया बोधौ समादापिता ते तवाभीक्ष्णं वर्णमुदाहरिष्यन्ति, "अनेन तथागतेनार्हता सम्यक्संबुद्धेन वयं प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता, येनास्मैतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धा, एष चास्माकं कल्याणमित्रं" । ते बुद्धा भगवन्तो बोधिसत्त्वान् विसर्जयिष्यन्ति तव पूजाकर्मणे, ततस्ते बोधिसत्त्वा महासत्त्वा विविधैर्बोधिसत्त्वविकुर्वितैस्तव (७३) पूजां कृत्वा, तत्र तव सकाशाद्धर्मं श्रुत्वा नानाविधाः समाधिर्धारणीः क्षान्तिश्च प्रतिलप्स्यन्ते । ते बोधिसत्त्वा महासत्त्वाः स्वकस्वकेषु बुद्धक्षेत्रेषु गत्वा तव वर्णमुच्चारयिष्यन्ति घोषमनुश्रावयिष्यन्ति । इदं ब्राह्मण तस्य स्वप्नस्य पूर्वनिमित्तम् । यत्त्वया ब्राह्मण स्वप्ने दृष्टा बोधिसत्त्वकोटीनयुतशतसहस्राणि तानि तव कुक्षौ प्रविश्य पद्मेषु पर्यङ्कोपविष्टा ध्यायन्ति, अभिसंबुद्धबोधिश्च त्वं ब्राह्मण बहुप्राणकोटीनयुतशतसहस्राणि यान्यनुत्तरायां सम्यक्संबोधौ समादापयिष्यसि अवैवर्तिकानि स्थापयिष्यस्यनुत्तरायां सम्यक्संबोधौ । ते तव परिनिर्वृतस्य ब्राह्मणानुत्तरेण परिनिर्वाणेन बुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु
पश्चाद्दशासु दिक्ष्वन्येषु बुद्धक्षेत्रेषु ते बुद्धा भगवन्तो धर्मेण राज्यं कारयन्तस्तव वर्णं भाषिष्यन्ति । "एवमसंख्येयेषु कल्पेष्वतिक्रान्तेषु एवंनामा तथागतो अभूदर्हन् सम्यक्संबुद्धः, तेन तथागतेनार्हता सम्यक्संबुद्धेन वयमनुत्तरायां सम्यक्संबोद्धौ समादापिता विनीता निवेशिताः प्रतिष्ठापिता अवैवर्तिकाश्च स्थापिता, येन वयमेतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, (७४) धर्मराज्यं च प्रतिलब्धाः" । इदं ब्राह्मण तस्य स्वप्नस्य पूर्वनिमित्तम् । यत्त्वं ब्राह्मण स्वप्ने दृष्टवान् सूकरमुखेन यावच्छ्वमुखेन रुधिरम्रक्षितेन गात्रेणानेकविधां प्राणिनो भक्षयित्वा हीन एरण्डमूले निषण्णास्तेऽप्यन्ये विविधैः प्राणिभिर्भक्ष्यन्ते यावदस्थिशङ्कलावशेषा उत्सृज्यन्ते, पुनरप्याप्यायितकाया रुधिराभ्यक्तेन कायेन यावच्छ्वमुखेन बहुविधां प्राणिनो भक्षयित्वा पुनर्हीनस्यैरण्डवृक्षस्य मूले निषण्णा विविधैश्च प्राणिभिः खाद्यन्ते । ते त्वया मोहपुरुषास्त्रिविधे पुण्यक्रियावस्तुनि समादापिता प्रातिष्ठापिता दाने यमे संयमे च, ते देवेषु च्यवनदुःखमभिलषन्ति, मनुष्येषु जराव्याधिमरणाप्रियसंप्रयोगप्रियविनाभावदुःखां प्रेतेषु क्षुत्पिपासदुःखं तिर्यक्ष्वन्योन्यभक्षणदुःखं नारकेषु दाहच्छेदवधबन्धननानाविधकारणादिदुःखमभिलषन्ति । त्रिविधे च पुण्यक्रियावस्तुनि प्रतिष्ठापिता देवेषु देवराज्यमभिलषन्ति मनुष्येषु चैकद्वीपैश्वर्यमाकाङ्क्षन्ते । तेषां तत्र सर्वसत्त्वाः
परिभोगं गच्छन्ति, तेऽपि च सर्वसत्त्वानामाहारपरिभोगं (७५) गच्छन्ति । एवं ते मोहपुरुषाः सर्वे त्वया त्रिविधे पुण्यक्रियावस्तुनि प्रतिष्ठापितास्तवोपासका भविष्यन्ति । इदं ब्राह्मण तस्य स्वप्नस्य पूर्वनिमित्तम् । यत्त्वं ब्राह्मण स्वप्नमद्राक्षीतपरे मनुष्या महिषरथाभिरूधाः सुमनामालालाङ्कृतशिरसः अपथेन दक्षिणाभिमुखं गच्छन्ति, तेऽपि त्वया ब्राह्मण कुलपुत्राः त्रिषु पुण्यक्रियावस्तुषु प्रतिष्ठापिताः केवलमात्मदमनार्थमात्मशमनार्थं श्रावकयानसंप्रस्थिताः, तेषां श्रावकयानसंप्रस्थितानां ब्राह्मण पुद्गलानामिदं पुर्वनिमित्तं" ॥

अथ खलु कुलपुत्र ब्राह्मणः समुद्ररेणू राजानमारणेमिनमेतदवोचत्- "दुर्लभं महाराज मनुष्यत्वं, दुर्लभा क्षणसंपत्, दुर्लभमुदुम्बरपुष्पसदृशानां तथागतानामर्हतां सम्यक्संबुद्धानां प्रादुर्भावो लोके, दुर्लभः कुशलधर्मे छन्दः, दुर्लभं सम्यक्प्रणिधानम् । दुःखोत्पत्तिभूतं महाराज देवराजत्वं, दुःखोत्पत्तिभूतं महाराज मनुष्येषु चैकद्वीपैश्वर्यराजत्वं, दुःखोत्पत्तिभूतं द्विस्त्रिश्चातुर्द्वीपिकराजत्वम् । चिरं महाराज संसारदुःखमनुभवितव्यम् । (७६) अनवस्थिता महाराज वायुवेगचपला देवमनुष्यसंपत्तयो, दकचन्द्रोपमा बालाः पञ्चभिः कामगुणैरतृप्ता विषयेषु मत्ता देवमाणुषां श्रियमभिलषन्ति । ते बालाः पुनः पुनर्नरकेषु कारणादुःखमनुभवन्ति तिर्यक्षु संमोहदुःखं प्रेतेषु क्षुत्पिपासादुःखं मनुष्येषु प्रियविप्रयोगदुःखं देवेषु च्यवनदुःखं पुनर्गर्भवासदुःखं परस्परशीर्षप्रपातनदुःखमन्योन्यभक्षणदुःखं, एवं भ्रममाणा बाला दुःखमनुभवन्ति । तत्कस्माद्धेतोः?, कल्याणमित्रविरहिताः सम्यक्प्रणिधानं न कुर्वन्ति न व्यायमन्ति अप्राप्तस्य प्राप्तयेऽनधिगतस्याधिगमायासाक्षात्कृतस्य साक्षात्क्रियायै । एवं मूर्खा बालाः खिद्यन्ते बोधिचित्तेन यत्र सर्वदुःखक्षयो भवति, संसारेण च न खिद्यन्ते नोद्विजन्ति यत्र पुनः पुनर्दुःखोत्पत्तिर्भवति
। परीक्षस्व महाराज यथा संसारः सर्वदुःखानां भाजनभूतः । तस्मात्तर्हि त्वं महाराज कृताधिकारो भगवतः शासनेऽवरोपितकुशलमूलस्त्रिषु रत्नेषु लब्धप्रसादः, भगवतो दत्तदानो (७७) महाभोगतायै रक्षितशीलः स्वर्गोपपत्तिप्रतिलाभाय श्रुतो भगवतोऽन्तिकाद्धर्मं प्रज्ञामहाधर्मप्रतिलाभाय ते संपत्स्यन्ते । यष्टयज्ञस्त्वं महाराज उत्पादायनुत्तरायां सम्यक्संबोधौ चित्तं" । आह, "अलं ब्राह्मण, नाहं ब्राह्मणानुत्तरां सम्यक्संबोधिमभिलषामि संसाराभिरतः, यन्महाब्राह्मण मया दानं दत्तं शीलं रक्षितं धर्मः श्रुतः । दुर्लभा हि ब्राह्मणानुत्तरा सम्यक्संबोधिः" ।

द्विरपि समुद्ररेणुर्ब्राह्मणो राजानमाह - "शुद्धो महाराज बोधिमार्गः । आशयेन प्रणिधानं कर्तव्यम् । परिपूर्याभिप्रसन्नः स मार्गोऽध्याशयेन विशुद्धः । ऋजुः स मार्गः अशठः । शुद्धः स मार्गः क्लेशप्रवाहकत्वात् । विपुलोऽसौ मार्गः अनावर्णत्वात् । समवसरणः स मार्गः चिन्तनाय । निर्भयः स मार्गः सर्वपापाकरणतया । सुमृदुः स मार्गः दानपारमितया । शीतलः स मार्गः शीलपारमितया । निराश्रयः स मार्गः क्षान्तिपारमितया । अधिष्ठानाश्रयः स मार्गः वीर्यपारमितया । अनाविलः स मार्गः ध्यानपारमितया । सुविदितः स मार्गः (७८) प्रज्ञापारमितया । सुप्रसन्नः स मार्गो महामैत्र्या । स्वभावज्ञानानुगतः स मार्गः महाकरुणया । सदानन्दितः स मार्गः महामुदितया । अक्लिष्टः स मार्गः उपेक्षया । अपगतकण्टकः स मार्गः कामव्यापादविहिंसावितर्कैः । क्षेमंगमनः स मार्गोऽप्रतिहतचित्ततया । धूर्तविरहितः स मार्गः रूपशब्दगन्धरसस्पर्शविदितत्वात् । निहतमारप्रत्यर्थिकः स मार्गः धात्वायतनसुविमृष्टत्वात् । सुप्रबोधः स मार्गः अविद्यान्धकारनिरावरणत्वात् । दृढवीर्यसत्त्वचित्तगमनः स मार्गः अपगतश्रावकप्रत्येकबुद्धमनसिकारत्वात् । उत्सोढः स मार्गः सर्वतथागताधिष्ठितत्वात् । महारत्ननिष्पादकः स मार्गः सर्वज्ञतारत्नानुकूलत्वात् । सदाप्रकाशितः स मार्गः असङ्गज्ञानस्य भगवतः । कुशलमूलदेशकानुचीर्णः स मार्गः सर्वतथागतानुगृहीतत्वात् । दुष्टक्लेशानुकूलविगतः स मार्गः अनुनयप्रतिघप्रहीणत्वात् । निहतरजः
स मार्गः व्यापादखिलक्रोधापगतत्वात् । (७९) सुगतिगमनीयः स मार्गः सर्वाकुशलविरहितत्वात् । क्षेमंगमो महाराज संबोधिमार्गः निर्वाणपर्यवसानः । उत्पादय महाराज बोधिचित्तं" । राजा प्राह - "अयं ब्राह्मण तथागतः अशीतिवर्षसाहस्रिकायां प्रजायां लोक उत्पन्नो, न शक्यं तथागतेन सर्वेऽपायः शमयितुम् । ये सत्त्वा अवरुप्तकुशलमूलस्ते सत्त्वाः फले स्थिताः, केचित्समाधिधारणीक्षान्तिषु निष्पन्नाः, उत्कृष्टकुशलमूलास्तु ये सत्त्वास्ते बोधौ अवैवर्त्याः संवृत्ताः, केचिदवरुप्तकुशलमूलाः देवमनुष्यश्रियमनुभवन्ति । स्वकस्वकैः सत्त्वाः कुशलाकुशलैः कर्मभिर्भ्रमन्ति । कतमे सत्त्वा भगवता विनीताः सदेकसत्त्वस्यापि दुःखं न प्रशान्तं, क्षेत्रभूतः केवलं भगवत आश्रयः, नानवरुप्तकुशलमूलानां सत्त्वानां दुःखमोचनं करोति । उत्पादयाम्यहं बोधिचित्तम् । बोधिसत्त्वचर्यां चरंस्तेनाहं महाज्ञानसमुच्छ्रयेण अचिन्त्येनोदारेण धर्ममुखप्रवेशेन सत्त्वान् विनयेयं बुद्धकार्यं च कुर्याम् । न केवलमस्मिं क्लिष्टे बुद्धक्षेत्रे बोधाय चित्तं (८०) परिणामयेयम् । यद्यहं तादृशं बुद्धक्षेत्रं लभेयमुत्पादयेयमहं बोधिचित्तं, तदाहं बोधिसत्त्वचर्यां चरिष्यामि यदाहमनुत्तरां सम्यक्संबोधिं च स्पृशेयं, सर्वं च तत्र बुद्धक्षेत्रे सत्त्वानां दुःखं प्रशमयेयं" ।

अथ खलु कुलपुत्र रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धस्तादृशमृद्ध्यभिसंस्कारमभिसंस्कृतवान् तदादर्शव्यूहं नाम समाधिं समापन्नः । तथा समाहितेन भगवता आदर्शव्यूहे समाधौ तथारूपावभासः प्रादुर्भूतः, येनावभासेन दशसु दिक्ष्वेकैकस्यां दिशि सहस्रबुद्धक्षेत्रपरमाणुरजःसमा लोकधातवः सर्वगुणव्यूहा दृष्यन्ते; केषुचिद्बुद्धा भगवन्तः परिनिर्वृताः, केषुचित्परिनिर्वाणाय संस्थिताः; यत्र च बोधिसत्त्वा महासत्त्वा बोधिवृक्षमूले निषण्णा मारं पराजयन्ति, यत्र चाचिराभिसंबुद्धा धर्मचक्रं प्रवर्तयन्ति, यत्र चाचिरप्रवृत्तधर्मचक्रं धर्मं देशयन्ति, यत्र च बुद्धानां बोधिसत्त्वानां स्फुटां बुद्धक्षेत्रां, यत्र श्रावकप्रत्येकबुद्धानामुत्पादो नास्ति, यत्र च श्रावकप्रत्येकबुद्धा उत्पद्यन्ते, यत्र च शून्यं बुद्धक्षेत्रं बुद्धेभ्यो बोधिसत्त्वेभ्यः (८१) श्रावकप्रत्येकबुद्धेभ्यः; क्वचित्क्लिष्टं बुद्धक्षेत्रं पञ्चकषायं, क्वचित्परिशुद्धमपगतपञ्चकषायं, क्वचिदुत्कृष्टाः सत्त्वाः, क्वचिद्धीनाः, क्वचिद्दीर्घायुष्काः, क्वचिदल्पायुष्काः; कानिचिद्बुद्धक्षेत्रान्यग्निना संवर्तन्ते, कानिचिदुदकेन, कानिचिद्वायुना; क्वचिद्विवर्तन्ते, क्वचिद्विवृत्तास्तिष्ठन्ति; ते सर्व उदारेणावभासेन स्फुटाः संदृश्यन्ते । सर्वावती सा पर्षत्तां दृष्ट्वा बुद्धक्षेत्रे गुणव्यूहान्, समुद्ररेणुर्ब्राह्मणः पुना राजानमेतदवोचत्- "पश्य महाराजैतान् बुद्धक्षेत्रगुणव्यूहान्, उत्पादय महाराजनुत्तरायां सम्यक्संबोधौ चित्तं, गृहाण महाराज बुद्धक्षेत्रं
यादृशमाकाङ्क्षसि" ।

अथारणेमी राजा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- "केन भगवन् कर्मणा बोधिसत्त्वो महासत्त्वः परिशुद्धं बुद्धक्षेत्रं परिगृह्णाति, केन कर्मणापरिशुद्धं; उत्कृष्टाः सत्त्वाः केन कर्मणा, यावद्दीर्घायुष्काः सत्त्वा विस्तरः" । भगवानाह - "प्रणिधानवशेन महाराज बोधिसत्त्वो महासत्त्वः परिशुद्धं बुद्धक्षेत्रं परिगृह्णाति अपगतपञ्चकषायं, प्रणिधानेनापरिशुद्धं" । राजा प्राह - "अहं भदन्त (८२) भगवन्नगरं प्रविश्यैकाग्रे निषद्य प्रणिधानं चिन्तयिष्यामि, तथारूपं मे बुद्धक्षेत्रमपगतपञ्चकषायं रोचते तत्रेमा सुभवचर्या परिणामयिष्यामि" । भगवानाह - "यस्येदानीं महाराज कालं मन्यसे" । अथ खलु कुलपुत्र राजारणेमी भगवतः पादौ शिरसा वन्दित्वा भिक्षुसङ्घं च त्रिष्कृत्वः प्रदक्षिणीकृत्य भगवतोऽन्तिकात्प्रकान्तः । नगरं प्रविश्य स्वके गृह एकाग्रः प्रतिसंलीनो निषण्णः, बुद्धक्षेत्रप्रणिधानं व्यूहं चिन्तयति ।

अथ खलु समुद्ररेणुर्ब्राह्मणः ज्येष्ठं राजपुत्रमनिमिषमामन्त्रयति । "उत्पादय त्वमनिमिषानुत्तरायां सम्यक्संबोधौ चित्तम् । यच्च त्वया त्रिभिः पुण्यक्रियावस्तुभिः शुभं चरता पुण्यमार्जितं तत्सर्वमनुत्तरयां सम्यक्संबोधौ परिणामया" । स प्राह - "अहमप्युपाध्याय स्वगृहं गत्वैकाकी रहोगतो निषद्य बुद्धक्षेत्रगुणव्यूहांश्चिन्तयिष्यामि । यदि बोधाय चित्तमुत्पत्स्यते, पुनरागम्य भगवतः सकाशं बोधिचित्तं परिणामयिष्यामि" । अतः सोऽपि राजपुत्रो भगवतः पादौ शिरसाभिवन्द्य भिक्षुसङ्घस्य च त्रिष्कृत्वः प्रदक्षिणीकृत्वा भगवतोऽन्तिकात्प्रकान्तः, (८३) स्वकं निवेशनं गत्वा एकाकी रहोगतो निषद्य बुद्धक्षेत्रगुणव्यूहं चिन्तयति । अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितो द्वितीयं राजपुत्रं निमन्त्रयित्वोवाच, "उत्पादय त्वं कुमार बोधिचित्तं", विस्तरेण पेयालं यावत्, सर्वराजपुत्रसहस्रं बोधौ समादापयति, चतुरशीतिः कोट्टराजसहस्राणि, अन्यानि च नवतिः कोट्यः सत्त्वानां बोधौ समादापयति । तेऽपि सर्व एवमाहुः, "वयमपि स्वस्वगृहं गत्वैकाकिनो निषद्य बुद्धक्षेत्रगुणव्यूहं चिन्तयिष्यामः" । एवमुक्त्वा सर्व एव स्वगृहाणि गत्वैकाकिनो निषण्णाः सप्तवर्षाणि बुद्धक्षेत्रगुणव्यूहप्रणिधानानि चिन्तयन्ति ॥

अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्यैवमपरेण समयेन चेतसः परिवितर्क उदापादि । "मया खल्वनुत्तरायां सम्यक्संबोधौ बहुप्राणकोटीनयुतशतसहस्राणि समादापितानि । अयं च मया बुद्धो भगवान् सप्तवर्षाणि सर्वोपकर्णैरुपनिमन्त्रितः सार्धमपरिमितेन भिक्षुसङ्घेन । यदि च ममानुत्तरायां सम्यक्संबोधौ आशा परिपूर्यते तथा चायं प्रणिधानं संपद्यते यदहं देवासुरगन्धर्वयक्षराक्षसकुम्भाण्डानस्मिन्महायज्ञे समादापयामि" ।

(८४)
अथ कुलपुत्र समुद्ररेणुर्ब्राह्मणः पुरोहितो वैश्रवणमाकाङ्क्षते दर्शनाय । अथ खलु वैश्रवणो महाराजानेकैर्यक्षशतसहस्रैः परिवृतः पुरस्कृतो येन समुद्ररेणुर्ब्राह्मणस्तेनोपजगामोपेत्य समुद्ररेणोर्ब्राह्मणस्याग्रतः स्थित्वैतदवोचत्- "किं ब्राह्मण मत्तो ह्याकाङ्क्षसे?" ब्राह्मणः प्राह - "को भवान्?" वैश्रावणः प्राह - "श्रुतं त्वया ब्राह्मणास्ति वैश्रवणो नाम यक्षाधिपतिः । सो अहं; ब्राह्मण किमाज्ञापयसि किं करवाणि?" । ब्राह्मणः प्राह । "शृणु यक्षाधिपतेऽहं भगवत्पूजां करिष्ये, त्वमत्रौत्सुक्यमापद्यस्व" । स प्राह - "तथास्तु यथा त्वं ब्राह्मणाकाङ्क्षसे" । "तेन हि त्वं महाराज याक्षानस्माकं वचनेनानुत्तरायां सम्यक्संबोधौ समादापय । एवं च पुनः समादापय, सचेद्यूयं यक्षा अनुत्तरायां सम्यक्संबोधावर्थिका गच्छत, यूयं पारात्समुद्रस्य गोशीर्षमुरगसारचन्दनमानयन्तु, अपरे भगवतोऽर्थे गन्धमपरे विविधां पुष्पान्, येनाहं दिवसेदिवसे भगवतः पूजां करिष्यामि" । "एवमस्तु ब्राह्मण", वैश्रवणो महाराजा तस्य ब्राह्मणस्य प्रतिश्रुत्य तत्रैवान्तर्हितः भेरीमाहत्य यक्षराक्षसां सन्निपात्यैतदवोचत्(८५) - "यत्खलु मार्षा जानीयुः, अयं जम्बुद्वीपे समुद्ररेणुर्नाम ब्राह्मणो राज्ञोऽरणेमिनोऽग्रपुरोहितः, तं रत्नगर्भं तथागतमर्हन्तं सम्यक्संबुद्धं सार्धं भिक्षुसङ्घेन सप्तवर्षाणि सर्वोपकरणैरुपस्थास्यति । तद्युष्माभिस्तत्कुशलमनुमोदितव्यं, तेन च यूयं कुशलमूलेनानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयता" । तेन खलु पुनः समयेन बहुयक्षराक्षसकोटीनयुतशतसहस्राणि
अञ्जलिं कृत्वोचुः । "यः समुद्ररेणोर्ब्राह्मणस्य पुण्याभिस्यन्दः कुशलाभिष्यन्दो रत्नगर्भं तथागतमर्हन्तं सम्यक्संबुद्धं सप्तवर्षाणि सर्वोपकरणैरुपतिष्ठति सार्धमपरिमितेन भिक्षुसङ्घेन, तत्सर्वं वयं पुण्यस्कन्धमनुमोदामस्तेन च कुशलमूलेनानुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येमहि" । वैश्रवणो महाराजः प्राह - "शृण्वन्तु भवन्तः, यः कश्चिद्युष्माकं कुशलमूलेनार्थिकः पुण्यार्थी स सप्तवर्षान् पारात्समुद्रस्य गोशीर्षोरगसारचन्दनमानयतु, येन समुद्ररेणुर्ब्राह्मणो भगवतो भिक्षुसङ्घस्य चाहारं सज्जीकुर्यात्" । ततो द्वानवतियक्षसहस्राणि एककण्ठेनोदाहृतवन्तः । "वयं मार्षा इमान् सप्तवर्षान् गोशीर्षमुरगसारचन्दनमानयिष्यामो, (८६) येन समुद्ररेणुर्ब्राह्मणो भगवतोऽर्थायाहारं सज्जीकरिष्यति भिक्षुसङ्घस्य च" । षट्चत्वारिंशद्यक्षसहस्राणि कथयन्ति । "वयं गन्धमानयिष्यामः" । द्वापञ्चाशद्यक्षसहस्राणि कथयन्ति । "वयं विचित्रान् पुष्पानानयिष्यामः" । विंशद्यक्षसहस्राणि कथयन्ति । "वयं विविधरसायनानामोजां गृह्नीमो भगवतोऽर्थाय भिक्षुसङ्घस्य च, यदन्नपानसज्जीकृतं भविष्यति तत्रौजां प्रक्षेप्स्यामः" । सप्ततिर्यक्षसहस्राणि कथयन्ति । "वयं मार्षा भगवतोऽर्थायाहारं सज्जीकरिष्यामो भिक्षुसङ्घस्य च" ।

अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो विरुढकस्य महाराजस्याकाङ्क्षति दर्शनम् । ततो विरूढको महाराजा येन समुद्ररेणुर्ब्राह्मणस्तेनोपजगामोपेत्य यावदनेककुम्भाण्डकोटीनयुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति । एवं विरूपाक्षो धृतराष्ट्रो बहुनागगन्धर्वकोटीनयुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति । अथ खलु द्वितीयिकायाश्चातुर्द्वीपिकाया लोकपाला बुद्धानुभावेनागताः समुद्ररेणोर्ब्राह्मणस्य सकाशत्, तानपि ब्राह्मणः समादापयति । तेऽपि गत्वा स्वकं स्वकं पर्षदमनुत्तरायां (८७) सम्यक्संबोधौ समादापयन्ति, यावत्त्रिसाहस्रमहासाहस्रात्कोटीशतं वैश्रवणानां सपर्षत्कानामनुत्तरायां सम्यक्संबोधौ समादापयन्ति, कोटीशतं वीरूढकानां कोटिशतं विरूपाक्षाणां कोटिशतं धृतराष्ट्राणां सपार्षद्यानामनुत्तरायां सम्यक्संबोधौ समादापयन्ति ।

अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्यैतदभवत् । "यद्यहमनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येयमाशा च समृध्येत यदि च मे प्रणिधिः समृध्येत, विरूढकानां तदहं कारयेयं कारं, अस्मिन्महायज्ञे तत्सत्त्वानां संविभजेयं, अनुत्तरायां सम्यक्संबोधौ समादापयेयम् । सचेदहमनेन पुण्येनानुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येयञ्छक्रो ममाद्य देवानामिन्द्रो दर्शनायोपसंक्रामतु, सुयमो देवपुत्रः संतुषितो देवपुत्रः सुनिर्मितो देवपुत्रः परनिर्मितवशवर्ती च देवपुत्रः दर्शनायोपसंक्रामतु" । सहचित्तोत्पादादेव कुलपुत्र समुद्ररेणोर्ब्राह्मणस्य शक्रो देवानामिन्द्रो दर्शनायोपसंक्रान्तः, सुयामश्च (८८) देवपुत्रः संतुषितश्च देवपुत्रः सुनिर्मितश्च देवपुत्रः परनिर्मितवशवर्ती च देवपुत्रः तं ब्राह्मणं दर्शनायोपसंक्रान्तः । तां समुद्ररेणुर्ब्राह्मणः पृच्छति । "के भदन्तः?" पञ्चदेवराजानः स्वकस्वका नामगोत्राण्यनुश्रावयन्ति । एवं चाहुः । "किं भोः ब्राह्मणास्माकमाज्ञापयसि? । कान्यस्माभिरस्मिन्महायज्ञे उपकरणान्युपस्थापयितव्यानि?" ब्राह्मणः प्राह । "यानि युष्माकं देवलोके सर्वविशिष्टानि रत्नमयानि कूटागाराणि रत्नवृक्षा वा कल्पवृक्षा वा गन्धवृक्षा वा पुष्पवृक्षा वा फलवृक्षा दिव्यानि चीवराणि दिव्यासनानि दिव्यानि प्रज्ञपनानि दिव्यानि रत्नभाजनानि दिव्यान्यलङ्कारच्छत्रध्वजपताकाभरणानि दिव्यानि च वाद्यानि तैर्वस्तुभिः सर्वजम्बूद्वीपमलङ्कुरुत भगवतोऽर्थाय भिक्षुसङ्घस्य च" । "एवमस्तु मार्षास्ते" पञ्चदेवराजानो ब्राह्मणस्य प्रतिश्रुत्य ब्राह्मणस्यान्तिकात्प्राकान्ता देवलोकं गता गत्वा वेटकं देवपुत्रमावेटुकं
देवपुत्रं रोहिणं देवपुत्रं कोरभनन्दं देवपुत्रमामन्त्रयित्वैवमाहुः । " गच्छत यूयं मार्षा जम्बूद्वीपमवतीर्य जम्बूवनमुद्यानमेवंविधेनालङ्कारविशेषेनैवंविधैरासनैः संस्ततैरलङ्कुरुत यथैवायं (८९) देवलोकोऽलङ्कृतः । एवंविधमेव भगवतोऽर्थाय रत्नमयं कूटागारं कारयत यादृशोऽयं रत्ननिर्यूहः कूटागार ईदृशं मार्षा कूटागारं कारयत" । ते पञ्चदेवपुत्रा देवराज्ञः प्रतिश्रुत्य जम्बूद्वीपमवतीर्य एकरात्र्या सर्वं जम्बूवनमुद्यानमेवंरूपेणालङ्कारेण रत्नवृक्षैर्यावद्ध्वजैरलङ्कृतम् । एवंरूपः कूटागारो भगवतोऽर्थाय कृतस्तद्यथा शक्रस्य देवानामिन्द्रस्य रत्ननिर्यूहः कूटागारः सर्वाकारपरिनिष्ठितं कृत्स्नं च जम्बूवनं दिव्येनालङ्कारेणालङ्कृत्य देवराजानां संक्रम्यारोचयन्ति । "यत्खलु मार्षा जानीयुर्यथैवायं देवलोकः स्वभ्यलङ्कृतः तथैव जम्बूवनोद्यानं दिव्यैरलङ्कारविशेषैः स्वलङ्कृतं सर्वाकारपरिनिष्ठितं, एवंरूपश्च सर्वरत्नमयः कूटागारो भगवतोऽर्थाय कृतः तद्यथा शक्रस्य देवानामिन्द्रस्य रत्ननिर्यूहः कूटागारः । न हि मार्षा देवलोकस्य जम्बुद्वीपे च जम्बूवनस्योद्यानस्य किंचिदप्यस्ति नानाकरणं" । अथ ते पञ्चदेवराजानः शक्रसुयामसंतुषिताः सुनिर्मितपरनिर्मितवशवर्ती जम्बूद्वीपमवतीर्य समुद्ररेणुं ब्राह्मणमुपसंक्रम्यैवमाहुः । "अलङ्कृतं ब्राह्मण भगवतोऽर्थाय भिक्षुसङ्घस्य (९०) च जम्बूवनम् । किमस्माभिर्भूयः करणीयं?" । एवमुक्ते समुद्ररेणुर्ब्राह्मणः
पञ्चदेवपुतानेतदवोचत्- "यूयं खलु पञ्चदेवराजानः पृथग्देवनिकाये राज्यं कारयत तत्र युष्माकं वशो वर्तते, गच्छत राजानः स्वकस्वकां देवपर्षदां, सन्निपातयत जम्बूद्वीपे, भगवन्तं दर्शनायोपसंक्रामत वन्दनाय पर्युपासनाय भिक्सुसङ्घं च, भगवतश्चान्तिकाद्धर्मं शृण्वत" । अथ ते पञ्चदेवराजानः स्वकस्वकेषु स्थानान्तरेषु गत्वा शक्रो देवानामिन्द्रो देवांस्त्रयस्त्रिंशान् सन्निपात्यैवमाहुः - "युत्खलु मार्षा जानीयुर्जम्बुद्वीपेऽरणेमिनो राज्ञः समुद्ररेणुर्नाम ब्राह्मणः अग्रपुरोहितः, स रत्नगर्भं तथागतं सप्तवर्षाणि सर्वोपकरणैरुपनिमन्त्र्य प्रतिमानयति सार्धमपरिमितेन भिक्षुसङ्घेन । अस्माभिश्च भगवतोऽर्थाय भिक्षुसङ्घस्य च सर्व आरामोऽलङ्कृतः, तद्यूयं कुशलमूलमनुमोद्यानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयत समुद्ररेणोर्ब्राह्मणस्य समादापनया" । तेन खलु पुनः समयेन बहवस्त्रयस्त्रिंशद्देवकोटीनयुतशतसहस्रा अञ्जलिं प्रगृह्य वाचमुदीरयन्ति । "अनुमोदामो मार्षा एवं पुण्यस्कन्धं तया चानुमोदनया (९१) यत्पुण्यमस्माकं स्यात्तत्सर्वमनुत्तरायां सम्यक्संबोधौ परिणामयामः" । सुयामो देवपुत्रो यामान् देवान् सन्निपात्य विस्तरेण पेयालं तुषितनिर्माणरतिदेवपुत्रः परनिर्मितो देवपुत्रः परनिर्मितवशवर्तिनो देवान् सन्निपात्य यावद्बहूनि देवपुत्रकोटीनयुतशतसहस्राण्यञ्जलिं प्रगृह्य वाचं भाषन्ते स्म । "अनुमोदामो वयं मार्षा यत्कुशलमूलं तस्माच्च कुशलमूलत्यत्पुण्यं तत्सर्वमनुत्तरायां सम्यक्संबोधौ परिणामयामः । तेन हि मार्षा गच्छामो जम्बुद्वीपमवतरामः भगवतो दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय
च भिक्षुसङ्घं च" । ते पञ्चदेवराजानो रात्रावेकैको देवराज्ञः स्त्रीपुरुषदारकदारिकाभिर्बहुप्राणकोटीनयुतशतसहस्रैः सार्धं जम्बुद्वीपमवतीर्य भगवतः पादौ शिरसाभिवन्द्य भिक्षुसङ्घं च भगवतोऽन्तिकाद्धर्मं शृण्वन्ति । देवा गगनतलस्था भगवन्तं दिव्यैः कुसुमोत्पलपद्मकुमुदपुण्डरीकसुमनावार्षिकातिमुक्तकचम्पकमान्दारवमहामान्दारवपुष्पवृष्ट्यावकिरन्ति, दिव्यानि च वाद्यानि प्रवादयन्ति ।

पुनरपरं कुलपुत्र समुद्ररेणोर्ब्राह्मणस्य एवं चेतसि चेतःपरिवितर्क उदपादि । "यदि ममानुत्तरायां (९२) सम्यक्संबोधौ आशा परिपूर्यते, तदयं मम प्रणिधिः संपद्यते यदिदमसुरां बोधौ समादापयेयं" । सहचित्तोत्पादेन कुलपुत्र पञ्चासुरेन्द्रो येनासौ ब्राह्मणस्तेनोपसंक्रान्ता, उपसंक्रम्य यावद्बह्वसुरकोटीनयुतशतसहस्राणि ब्राह्मणस्य वचनेन सस्त्रीपुरुषदारकदारिका अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति, भगवतश्च सकाशमुपगम्य धर्मं शृण्वन्ति, विस्तरेण पेयालम् । एवं स ब्राह्मणो मारमाकाङ्क्षते । तेन खलु पुनः समयेन पूर्णो नाम मार आगत्य यावदनेकैर्मारकोटीनयुतशतसहस्रैर्मारकायिकैर्देवपुत्रसिः सस्त्रीपुरुषदारकदारिकैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि यावदुपसंक्रान्ता धर्मश्रवणाय ।

अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणः केतपुरिं नाम महाब्रह्माणमाकाङ्क्षते उपसंक्रमणाय । यावद्ब्राह्मणस्य सकाशात्प्रतिश्रुत्य ब्रह्मलोकात्, यावद्बहुप्राणिकोटीनियुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति, ततश्चावतरन्ति भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घस्य च, भगवतश्चान्तिकाद्धर्माश्रवणाय । (९३) अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो द्वितीयायां चातुर्द्वीपिकायां शक्रमाकाङ्क्षते सुयामं संतुषितं सुनिर्मितं परनिर्मितवशवर्तिनं च देवपुत्रमाकाङ्क्षते दर्शनाय । तेऽपि पञ्चदेवराजानो भगवतोऽनुभावेन ब्राह्मणस्य सकाशमुपसंक्रान्तस्तान् ब्राह्मणः समनुशिष्टवान् । तेऽपि स्वकानि भवनानि गत्वा स्वकां पर्षदं ब्राह्मणहस्तेन समादापयन्ति । एवं बहुभिस्त्रयस्त्रिंशद्देवनियुतशतसहस्रैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि सस्त्रीपुरुषदारकदारिकैस्ते च सहशक्रेणेमां चातुर्द्वीपिकामागता भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घं च, भगवतश्चान्तिकाद्धर्मं श्रोतुम् । एवं सुयामः संतुषितः सुनिर्मितः परनिर्मितवशवर्ती देवपुत्रः यावत्परनिर्मितवशवर्तिकान् देवान् बोधाय समादापयित्वा बहुभिः परनिर्मितवशवर्तिदेवकोटीनियुतशतसहस्रैः सस्त्रीपुरुषदारकदारिकैरनुत्तरायां सम्यक्संबोधौ कृतचित्तोत्पादैश्चातुर्द्वीपिकामागता भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घं च, भगवतश्चान्तिकाद्धर्मं श्रोतुम् । एवं द्वितीयायां चातुर्द्वीपिकायामसुरेन्द्रा मारा ब्रह्माणः, (९४) एवं तृतीयायां चातुर्द्वीपिकायां चतुर्थ्यां पञ्चम्यां शक्रसुयामसंतुषितनिर्माणपरनिर्मितासुरेन्द्र
मारा ब्रह्माणः बुद्धानुभावेनेमां चातुर्द्वीपिकामागताः सपरिषट्का यावन् ते धर्मश्रवणाय । एवं यावत्त्रिसाहस्रमहासाहस्राद्बुद्धक्षेत्रात्कोटीशतं शक्राणां कोटिशतं सुयामानां कोटीशतं संतुषितानां कोटीशतं निर्माणरतीनां कोटीशतं परनिर्मितवशवर्तीनां देवपुत्राणां, कोटीशतमसुरेन्द्राणां कोटीशतं माराणां कोटीशतं महाब्रह्मणामेकैको महाब्रह्मानेकैः कोटीनियुतशतसहस्रैर्ब्रह्मकायिकानां देवानामनुत्तरायां सम्यक्संबोधौ कृतचित्तोत्पादानां परिवृतः पुरस्कृतो भगवदनुभावेनेमां चातुर्द्वीपिकामागतो भगवतो दर्शनायोपसंक्रमणाय वन्दनाय पर्युपासनाय भिक्षुसङ्घं च भगवतश्चान्तिकाद्धर्मं श्रोतुम् । तदा च त्रिसाहस्रमहासाहस्रयां लोकधातौ नास्ति स काश्चित्पृथिवीप्रदेशो यो न स्फुटोऽभूत् ॥

अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्यैतदभवत् । "यदि ममानुत्तरायां सम्यक्संबोधावाशापरिपूरिर्भवति तद्यथैवं कोटीशतं वैश्रवणानां यावत्कोटीशतं महाब्रह्मणां मामनुवर्तन्ति तथैवं (९५) मे भगवाननुवर्तते । यदेवंरूपं महाप्रातिहार्यं कुर्यात्यावत्त्रिसाहस्रमहासाहस्रे लोकधातौ मनुष्याः तिर्याञ्चो यामलोकिका नैरयिकास्तेषां सर्वेषां दुःखावेदना प्रशाम्येत सुखावेदनोत्पद्येत, तेषां चैकैककस्याग्रतो बुद्धनिर्मितं तिष्ठेत्यस्तां सत्त्वाननुत्तरायां सम्यक्संबोधौ समादापयेत्" । अथ खलु कुलपुत्र रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धः समुद्ररेणोर्ब्राह्मणस्य चेतसा चित्तमाज्ञाय तस्यां वेलायां प्रतापं नाम समाधिं समापन्नः । यथा समाहितेन चित्तेन भगवान् प्रतापे समाधौ भगवतः कायादैकैकस्माद्रोमकूपाद्गणनासमतिक्रान्ता रश्मय उद्गतास्तैश्च रश्मिभिरयं त्रिसाहस्रमहासाहस्रो लोकधातुः स्फुटोऽभुत् । स तत्र केचिद्रश्मयो नरकं गत्वा शीतनरकोपपन्नानां सत्त्वानामुष्णा वायवो वान्ति, ये उष्णनरकोपपन्नाः सत्त्वास्तेषां शीतला वायवो वान्ति येन तेषां नैरयिकानां सत्त्वानां सर्वं क्षुत्तर्षश्रमदुःखं प्रशाम्यति सुखावेदनोत्पद्यते । एकैकस्य च नैरयिकस्य निर्मितो बुद्धविग्रहोऽग्रतस्तिष्ठति द्वात्रिंशद्भिर्महापुरुषलक्षणैरलङ्कृतगात्रः अशीतिभिरनुव्यञ्जनैः समलङ्कृतशरीरः । अथ तेषां नैरयिकानां सुखसमर्पितानामेतदभूत् । (९६) "किं प्रत्ययमस्माकं दुःखप्रशान्तं सुखं च प्रादुर्भूतं?" । ते तं
भगवन्तं पश्यन्ति द्वात्रिंशद्भिर्महापुरुषलक्षणैरलङ्कृतमशीत्यनुव्यञ्जनविराजितगात्रम् । ते तं दृष्ट्वैवमाहुः । "अस्य महाकारुणिकस्य महात्मनोऽनुभावेन वयमेवं सुखिनः संवृत्ताः" । ते प्रीतिसौमनस्यजातः प्रसन्नमनसो भगवन्तं प्रेक्षन्ते । तेषां भगवानाह - "साधु यूयं सत्त्वा नमो बुद्धायेति वाचं भाषतां, अनुत्तरायां च सम्यक्संबोधौ चित्तमुत्पादयत । एवं युष्माकं दुःखावेदना न भूय उत्पद्यते, नित्यं च सुखाया वेदनाया लाभिनो भविष्यथ" । त एवमाहुः । "नमो बुद्धायोत्पादयामो वयमनुत्तरायां सम्यक्संबोधौ चित्तं, तच्चास्माकं कुशलमूलं कर्मावरणाक्षयाय संवर्ततु" । ततश्च केचित्च्युत्वा मनुष्याणां सभागतायामुपपद्यन्ते । ये नैरयिकाः सत्त्वा अग्निना दह्यन्ते तेषां ते रश्मयः शीतलान् वायून् प्रमुञ्चन्ति, ते तैः स्पृष्टाः प्रशान्तक्षुत्तर्षाश्चादुःखा भवन्ति, यावत्केचित्ततश्च्यावित्वा मनुष्याणां सभागतायामुपपद्यन्ते । एवं तिर्यग्योनिर्वक्तव्या एवं यावन्मनुष्या वक्तव्याः । सा च प्रभा प्रतिनिवृत्या भगवन्तं त्रिष्कृत्वः (९७) प्रदक्षिणीकृत्वा भगवत उष्णीषेऽन्तर्हिता, दृष्ट्वा च गणनातिक्रान्ता देवमनुष्या यक्षराक्षसनागासुरा अवैवर्तिकाः स्थापिता अनुत्तरायां सम्यक्संबोधौ, गणनातिक्रान्तश्च सत्त्वाः समाधिक्षान्तिधारणी प्रतिलब्धवन्तः । यैर्जम्बूद्वीपकैर्मनुष्यैः श्रुतमञ्जुरे नगरे राजधान्यां जम्बूवनोद्यानं
भगवतोऽर्थाय भिक्षुसङ्घस्य च देवैर्दिव्यैरलङ्कारविभूषणैरलङ्कृतम् । "यन्नूनं वयं गत्वा पश्येमः, तत्र च रत्नगर्भं तथागतं पश्येम भिक्षुसङ्घं च । तत्र गत्वा भगवतः सकाशाद्धर्मं शृणुयामः" । तेन खलु पुनः समयेन दिवसेदिवसेऽनेकानि देवमनुष्येभ्यः स्त्रीपुरुषदारकदारिकाकोटीनियुतशतसहस्राणि मञ्जुरकं नगरमागच्छन्ति भगवतो दर्शनायोपसंक्रमणाय पर्युपासनाय भिक्षुसङ्घं च, तं चोद्यानां दिदृक्षवः । तस्य चोद्यानस्य विंशद्द्वारसहस्राणि सप्तरत्नमयान्यभूवन् । एकैकस्मिन्नुद्यानद्वारे पञ्चपञ्चशतानि रत्नपीठानां प्रज्ञप्तानि, तेषु च पञ्चपञ्चमाणवकशतान्युपविष्टानि, ये ते सत्त्वा गतास्तमुद्यानं प्रविशन्ति तांस्ते माणवका बुद्धसारणं गमयन्ति धर्मशरणं गमयन्ति सङ्घशरणं गमयन्ति, अनुत्तरायां (९८) सम्यक्संबोधौ समादापयन्ति चित्तं चोत्पादयन्ति, आसनस्था ये दूरस्थायिनः पश्चात्तमुद्यानं प्रविशन्ति भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घस्य च दर्शनाय ।

एवं समुद्ररेणुमा ब्राह्मणेनाग्रपुरोहितेन तानि सप्तवर्षाणि गणनातिक्रान्ता देवा अनुत्तरायां सम्यक्संबोधौ समादापिता विनीता निवेषिताः प्रतिष्ठापिता, गणनातिक्रान्ता नागाः असुरा यक्षराक्षसाः कुम्भाण्डा गन्धर्वाः प्रेताः पिशाचा नैरयिका गणनातिक्रान्ताः अनुत्तरायां सम्यक्संबोधौ समादापिता विनीता निवेशिताः प्रतिष्ठापिताः, यावत्तिर्यग्योनिगता इति । स तेषां सप्तानां वर्षाणामत्ययेन समुद्ररेणुर्ब्राह्मणश्चतुरशीतिश्चक्रसहस्राणि स्थापयित्वा दिव्यं चक्ररत्नं, चतुरशीतिहस्तिसहस्राणि सप्तरत्नालङ्कारविभूषितानि स्थापयित्वा हस्तिरत्नं, यावच्चतुरशीतिरथसहस्राणि निर्यातयति । तेषां सप्तानां वर्षाणामत्ययेन राज्ञोऽरणेमिनः न रागच्छन्द उत्पद्यते, न द्वेषच्छन्दः न मोहच्छन्दः न राजच्छन्दः न धनच्छन्दः न (९९) पुत्रच्छन्दः न देवीच्छन्दः नाहारच्छन्दः न पानच्छन्दः न वस्त्रच्छन्दः न गन्धच्छन्दः न यानच्छन्दः न निद्रच्छन्दः नात्मच्छन्दः, न परच्छन्दं कृतवान् । सप्तवर्षाणि न पार्श्वं निक्षिप्तवान् । न चास्य रात्रिसंज्ञा उत्पन्ना, न दिवससंज्ञा उत्पन्ना, न रूपसंज्ञां न शब्दसंज्ञां न रससंज्ञां न गन्धसंज्ञां न स्पर्शासंज्ञामुत्पादितवान् । तैश्च सप्तभिर्वर्षैः कायश्रमो नोत्पन्नः, नित्यं सततसमितं दशसु दिक्षु एकैकस्यां दिशि सहस्रं बुद्धक्षेत्रं परमाणुरजःसमेषु लोकधातुषु बुद्धक्षेत्रगुणव्यूहां पश्यति
। न च सुमेरुश्चक्षुषोऽवभासमागच्छति, नान्ये पर्वताः न चक्रवाडमहाचक्रवाडाः न लोकान्तरिका न चन्द्रादित्यौ न दिव्यानि विमानानि चक्षुषोऽवभासमागच्छन्ति । यथा तां बुद्धक्षेत्रं परिशुद्धां पश्यति, तथैव परिशुद्धबुद्धक्षेत्रगुणव्यूहान् पश्यन् प्रणिधानं चिन्तयति । यथारणेमी राजा ईदृशेन सुखगुणविहारेण सप्तवर्षाणि विहरति, ईदृशान् बुद्धक्षेत्रगुणव्युहान् पश्यति, परिशुद्धबुद्धक्षेत्रगुणव्यूहं प्रणिधानं (१००) चिन्तयन्निषण्णः, एवमनिमिषो ज्येष्ठो राजपुत्रः, निमुः, इन्द्रगणः, एवं तद्राज्ञः सर्वं पुत्रसहस्तं च चतुरशीतिकोट्टराजसहस्राणि अपराणि च द्वानवतिप्राणकोट्यः सर्वाण्येवमेव सप्तवर्षाणि एकाकिनो रहोगताः प्रतिसंलीनाः, दशसु दिक्ष्वैकैकस्यां दिशि सहस्रबुद्धक्षेत्रपरमाणुरजःसमान् लोकधातून् पश्यन्ति । न च तेषां सप्तानां वर्षाणामन्तरेण रागच्छन्द उत्पन्नो न द्वेषच्छन्दो न मोहच्छन्दः, यावत्न तेषां श्रमस्थानमुत्पन्नमभूत् । सततसमितं च दशसु दिक्ष्वैकैकस्यां दिशि सहस्रबुद्धक्षेत्रपरमाणुरजःसमान् बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति । न च तेषां सुमेरुश्चक्षुसोऽवभासमागच्छति, न चान्ये पर्वता यावन्न दिव्यानि विमानानि चक्षुषोऽवभासमागच्छन्ति । यथैव ते बुद्धक्षेत्रगुणव्यूहाः दृष्टाः तथैव परिशुद्धबुद्धक्षेत्रगुणव्यूहप्रणिधानं चिन्तयन्ति । सर्व एवमीदृशेन गुणविहारेण सप्तवर्षान् विहरन्ति । केचित्परिशुद्धबुद्धक्षेत्रगुणव्यूहां चिन्तयन्ति, केचिदपरिशुद्धबुद्धक्षेत्रगुणव्यूहं चिन्तयन्ति


अथ खलु समुद्ररेणुर्ब्राह्मणस्तानि सप्तवर्षाणि निर्गतानि निष्ठितानि विदित्वा सप्तरत्नं निर्यातयति । (१०१) येन रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धः तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- "मया भदन्त भगवन् राजारणेमी अनुतरायां सम्यक्संबोधौ समादापितः, स गृहं गत्वैकाकी रहोगतः प्रतिसंलीनो निषण्णः, न चात्र कस्यचिन्मनुष्यस्य प्रवेशो दीयते । एवं तत्सहस्रं राजपुत्राणामनुत्तरायां सम्यक्संबोधौ समादापितम् । एवमेव प्रतिप्रति स्वगृहाणि गत्वा एकाकिनः प्रतिसंलयननिषण्णं, न चात्र कस्यचित्प्रवेशो दीयते । एवं यावच्चतुरशीतिः कोट्टराजसहस्राणि एवमपरे द्वानवतिः प्राणकोट्योऽनुत्तरायां सम्यक्संबोधौ समादापिताः निवेशिताः प्रतिष्ठापिताः, सर्वे स्वकस्वकानि गृहाणि गत्वा ह्येकाकिनो रहसि गता निषद्य प्रतिसंलीना, न चात्र कस्यचित्प्रवेशो दीयते । भगवांश्चैनां समन्वाहरतु यावद्राजारणेमी तस्मात्प्रतिसंलयनाद्व्युत्थायेहागच्छेत्; तेऽपि सर्व इहगच्छेयुः ये मया सर्वे बोधौ समादापिताः अचलां च बुद्धिमनुगृह्णेयुरनुत्तरायां सम्यक्संबोधौ, भगवतश्चान्तिकाद्व्याकरणं प्राप्नुयुर्गोत्रं च नाम च बुद्धक्षेत्रं च प्रतिगृह्णीयुः" ।

अथ खलु कुलपुत्र रत्नगर्भस्तथागतोऽर्हन् (१०२) सम्यक्संबुद्धो निर्हारपतिं नाम समाधिं समापन्नः । यथा समापन्नस्य मुखान्नीलपीतलोहितावदातमञ्जिष्ठास्फटिकवर्णा अर्चिषो निश्चरन्ति । यां निशृत्य तेषां प्रतिसंलीनानां विहरतामग्रतो ब्रह्मनिर्मितः स्थित एवमाह । "उत्तिष्ठत मार्षा भगवन्तं दर्शनायोपसंक्रमत वन्दनाय पर्युपासनाय भिक्षुसङ्घं च, परिसमाप्ता मार्षा समुद्ररेणोर्ब्राह्मणस्य सप्तवार्षिको यज्ञः । भगवान् पुनरन्येन चर्यां प्रक्रमिष्यति" । ततस्ते सर्वे रश्मिभिः संचोदिताः, उत्थाय राजानमरणेमिनं चोदयन्ति । स तैः संचोदितो व्युत्थितः प्रस्थितश्च, प्रस्थितस्य च तस्य राज्ञो देवता गगनतले भेरीमृदंगपटहादीन् वाद्यानि प्रवादयन्ति ।

अथ खलु राजारणेमी रथाभिरूढः तेन पुत्रसहस्रेण चतुरशीतिभिश्च कोट्टराजसहस्रैर्द्वानवतिभिश्च प्राणकोटिभिः परिवृतो नगरान्निर्याति भगवतोऽन्तिकं भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय । स यावद्यानस्य भूमिस्तावद्यानेन यात्वा यानादवतरति, यानादवतीर्य पद्भ्यामेव जम्बूवनं प्रविवेश, (१०३) प्रविश्य च येन भगवांस्तेनोपजगाम, उपेत्य भगवतः पादौ शीरसाभिवन्द्य भिक्षुसङ्घस्य चैकान्ते न्यषीदत्सार्धमनेकैः प्राणकोटिभिः । अथ समुद्ररेणुर्ब्राह्मणो राजानमरणेमिनं प्राह - "अनुमोदतु महाराजेमं यच्च त्वया मास्त्रयं भगवतः उपस्थानं कृतं सर्वोपकरणैः अपरिमितस्य भिक्षुसङ्घस्य च नानाविचित्राणि च रत्नानि निर्यातितानि चतुरशीतिश्च नगरसहस्राणि, तदेवानुमोदनासहगतं पुण्यस्कन्धं यच्च परित्यागसहगतं पुण्यस्कन्धं सर्वं परिणामयानुत्तरायां सम्यक्संबोधौ" । एवं तद्राज्ञः पुत्रसहस्रं समादापयति तथैव चतुरशीतिः कोट्टराजसहस्राणि अपराश्च बहुप्राणकोट्यः, तेनानुमोदनासहगतेन पुण्यस्कन्धेनानुत्तरायां सम्यक्संबोधौ समादापिताः प्रतिष्ठापिताः । एवं चाह - "अनुमोदत यूयमिह दक्षिणां निर्यातयत" । कथयति च ।

"दानेनाहमनेन नेन्द्रभवनं न ब्रह्मलोके फलम् ।
काङ्क्षामि द्रुतवायुवेगचपलां न त्वेव राज्यश्रियम् ॥
(१०४)
दानस्यास्य फलं तु भक्तिमहतो यन्मे ह तेनाप्नुयाम् ।
चित्तैश्वर्यकरिं हि बोधिमतुलां सत्त्वांश्च सन्तारये" ॥


इति श्रीकरुणापुण्डरीके दानविसर्गस्तृतीयः ॥ ३ ॥


(१०५)
इव्बोधिसत्त्वव्याकरणपरिवर्तश्चतुर्थः

अथ खलु कुलपुत्र रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यैतदभवत् । "बह्योऽनेन समुद्ररेणुना ब्राह्मणेन प्राणकोट्योऽनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिता अवैवर्तिकभूमौ स्थापितास्ते च मया व्याकर्तव्या बुद्धक्षेत्राश्च दर्शयितव्याः" । अथ खलु भगवान् बोधिचित्तासंप्रमोषं नाम समाधिं समापन्नः । स्मितं च प्राविष्कृतवान्, येन स्मिताविष्करणेनानन्ता पर्यन्ता बुद्धक्षेत्रा उदरेणावभासेनावभास्य राज्ञोऽरणेमिनोऽन्येषां च बहूनां प्राणकोटिनां बुद्धक्षेत्रगुणव्यूहमादर्शयति । तेन खलु पुनः समयेन दशसु दिक्षु गणनातिक्रान्तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा महासत्त्वाः तमवभासं दृष्ट्वा बुद्धानुभावेनेमां लोकधातुं समागता भगवतो दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घं च । ते च विविधैर्बोधिसत्त्वविकुर्वितैर्भगवतः पूजां कृत्वा पादौ शिरसाभिवन्द्य भगवन्तं पर्युपास्य पुरतो निषण्णा बोधिसत्त्वप्रणिधानं श्रोतुकामाः ।

(१०६)
अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितः राजानमरणेमिनमाह - "त्वं तावन्महाराज प्रथमं बुद्धक्षेत्रगुणव्यूहं प्रतिगृह्णीष्व" । अथ राजानणेमी येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- "अहं भगवन् बोध्यर्थिकः, यन्मया मासत्रयं भगवतो नानाविधैरुपकरणैरुपस्थानं कृतमप्रमेयस्य च भिक्षुसङ्घस्य तन्मया कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामितम् । इमानि च भगवन्मया सप्तवर्षाणि बुद्धक्षेत्रगुणव्यूहाश्चिन्तिता; यत्राहं भगवन् बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो यत्र न निरया स्युर्न तिर्यग्योनिर्न यमलोकाः । ये च सत्त्वाश्च्यवयुस्ते मा दुर्गतावुपपद्येयुः । सर्वे तत्र सत्त्वाः सुवर्ण्वर्णा भवेयुः । सर्वेषां तत्र देवमनुष्याणां नानात्वं न स्यात् । सर्वे तत्र सत्त्वा जातिस्मराः । सर्वसत्त्वाश्चैवंरूपेण दिव्येन चक्षुषा समन्वागताः स्युर्यद्बुद्धकोटीनियुतशतसहस्राणि अन्येषु लोकधातुषु तिष्ठतो यापयतो धर्मं च देशयतः पश्येयुः । सर्वसत्त्वाश्चैवंरुपेण दिव्येन श्रोत्रेण समन्वागताः स्युः, यद्बुद्धकोटीनियुतशतसहस्राणां धर्मं देशयमानं (१०७) शृणुयुः । सर्वसत्त्वाश्चैवंरूपेण परचित्तज्ञानेन समन्वागताः स्युः, तेषां बहुबुद्धक्षेत्रकोटीनयुतशतसहस्रस्थितानां सत्त्वानां चित्तचरितान्याजानेयुः । सर्वसत्त्वाः तथाविधेनर्द्धिकौशल्येन समन्वागताः स्युर्यदेकचित्तोत्पादेन बुद्धक्षेत्रकोटीनियुतशतसहस्राणि अतिक्रमेयुः । मा च तत्र सत्त्वा भवेयुः परिग्रहवन्तोऽन्ततः स्वशरीरेऽप्यनागृहीतमानसाः । सर्वसत्त्वाश्चावैवर्तिका
भवेयुरनुत्तरायां सम्यक्संबोधौ । सर्वसत्त्वाश्चोपपादुकाः स्युः । न तत्र मातृग्रामस्य प्रज्ञप्तिर्भवेत् । न तत्र सत्त्वानामायुः प्रमाणपर्यन्तः स्याद्, अन्यत्र प्रणिधानवशेन । न तत्र सत्त्वानामकुशलस्य नामापि स्यात् । न तत्र बुद्धक्षेत्रे दुर्गन्धं स्यात्, दिव्यातिक्रान्तेन भगवद्गन्धेन तद्बुद्धक्षेत्रं स्फुटं स्यात् । सर्वसत्त्वाश्च द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलङ्कृताः स्युः । सर्वसत्त्वाश्चैकजातिप्रतिबद्धाः स्युः, स्थापयित्वा प्रणिधानम् । सर्वसत्त्वास्तत्रैकपूर्वाह्णेन बुद्धानुभावेन गणनातिक्रान्तान् बुद्धान् पर्युपासीरन्, यावद्विविधेन बोधिसत्त्वविकुर्वितेनाकाङ्क्षेयुः बुद्धानां पूजां कर्तुं तथैव तेषां सिद्ध्येयुः, तेनैव पूर्वभक्तेन विवर्तेयुः । (१०८) सर्वसत्त्वाश्च बुद्धपिटकं कथयेयुः । सर्वसत्त्वाश्च नारायणबलसमन्वागता भवेयुः । न कश्चित्सत्त्वो बुद्धक्षेत्रगुणालङ्कारस्य वर्णपर्यन्तं शक्तः स्याद्गृहीतुमन्तशो दिव्येनापि चक्षुषा । सर्वसत्त्वास्तत्र प्रतिसंवित्प्राप्ताः स्युः, असंख्येयप्रतिभानाः । एकैकस्य च बोधिसत्त्वस्य योजनसहस्रप्रमाणं स्यात् । प्रभास्वरं च तद्बुद्धक्षेत्रं स्यात्, समन्तेन च गणनातिक्रान्ता बुद्धक्षेत्रगुणव्युहास्तत्र दृश्येयुः । ये चात्र सत्त्वा उपपद्येयुर्यावद्बोधिपर्यन्तेन ब्रह्मचारिणः स्युः । सर्वसत्त्वाः सदेवकस्य लोकस्य नमस्यनीयाः स्युः, यावद्बोधिपर्यन्तेन नेन्द्रियविकला भवेयुः । सहोपपन्नाश्च तत्र सत्त्वा दिव्यातिक्रान्तमार्यप्रीतिसुखं प्रतिलभेयुः । सर्वसत्त्वाश्च तत्र कुशलमूलसमवधानाः स्युः । सर्वसत्त्वाश्च तत्र नवानि वस्त्राणि काशायाणि धारयेयुः । सहोपपन्नाश्च तत्र सत्त्वाः सुविभक्तिवतीं समाधिं
प्रतिलभेयुः, यस्य समाधेः प्रतिलाभाद्गणनातिक्रान्तेषु बुद्धक्षेत्रेषु गत्वा बुद्धान् पर्युपसीरन् यावद्बोधिपर्यन्तेनानुपश्येयुः । ये च तत्र बोधिसत्त्वा उपपद्येयुः ते यादृग्जातीयां बुद्धक्षेत्रगुणव्यूहानाकाङ्क्षेयुः तादृग्जातीयान् बुद्धक्षेत्रगुणव्यूहाः (१०९) तेषु रत्नवृक्षेषु पश्येयुः । सहोपपन्नाश्च सत्त्वाः समाधिं प्रतिलभेयुर्यस्य समाधेः प्रतिलाभात्दशसु दिक्षु गणनातिक्रान्तेषु अन्येषु बुद्धक्षेत्रेषु बुद्धास्तिष्ठतो यापयतो नित्यं पश्येयुर्ये तत्र सत्त्वाः प्रत्याजायेयुः ते सर्व एवंरूपेण चीवरविमानालङ्काराभरणवर्णरूपेण स्युर्यथा परनिर्मितवशवर्तिनो देवाः । न तत्र बुद्धक्षेत्रे पांशुशिला कालपर्वता भवेयुः, न चक्रवाडमहाचक्रवाडा न सुमेरुर्न महासमुद्राः; न तत्रावरेणनिवरणक्लेशशब्दाः सर्वेण सर्वं सर्वतश्च; तत्र नरकतिर्यग्योनियमलोकशब्दो न स्यान्नाक्षणशब्दो न दुःखशब्दः ।

एवंरूपेणाहं भगवन् बुद्धक्षेत्रेणार्थी; तावदहं भदन्त भगवन् बोधिसत्त्वदुष्करचर्यां चरिष्ये यावन्नैवंरूपैर्गुणैर्बुद्धक्षेत्रं परिशोधयिष्ये; एवमहं भदन्त भगवन् पुरुषकारं करिष्ये, ततः पश्चादनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये । दशयोजनसाहस्रिकश्च मे बोधिवृक्षो भवेत्, तत्र निषण्णश्चाहमेकक्षणेनचित्तोत्पादेनानुत्तरां सम्यक्संबोधिमभिसंबुध्येय । अप्रमाणा च मे प्रभा स्यात्बुद्धक्षेत्रकोटीनयुतशतसहस्राणाम् (११०) अवभासयन्ति । अपरिमाणा च ममायुर्भवेदप्रमेयकल्पकोटीनयुतशतसहस्राणां न शक्यं केनचिद्गणयितुमन्यत्र सार्वज्ञेन ज्ञानेन । अप्रमेयश्च मे बोधिसत्त्वसङ्घः स्यात्श्रावकप्रत्येकबुद्धवर्जितो, यन्न शक्यं गणयितुमन्यत्र सार्वज्ञेन ज्ञानेन । बोधिप्राप्तस्य च ममाप्रमेयेष्वसंख्येयेषु अन्येषु बुद्धक्षेत्रेषु बुद्धा भगवन्तो वर्णभाषणं कुर्युर्घोषं चानुश्रावयेयुर्यश उदीरयेयुः । बोधिप्राप्तस्य च ममाप्रमेयेष्वसंख्येयेष्वन्येषु बुद्धक्षेत्रेषु ये सत्त्वा नामधेयं शृणुयुस्ते सर्वे बुद्धक्षेत्रे कुशलमूलपरिणामनं कृत्वा मम बुद्धक्षेत्र उपपद्येयुः, स्थापयित्वानन्तर्यकारकान् सत्त्वान् सद्धर्मप्रतिक्षेपकान् । बोधिप्राप्तस्य मेऽन्यासु गणनातिक्रान्तासु लोकधातुषु सत्त्वा बोधिचित्तोत्पादं कुर्युः, मम बुद्धक्षेत्र उपपत्तिमाकाङ्क्षमाणाः, तत्र च कुशलमूलपरिणामनं कुर्युः; तेषां चाहं मरणकालसमयेष्वग्रतस्तिष्ठेय बोधिसत्त्वगणपरिवृतः; ते च मां दृष्ट्वा प्रीतिं
प्रसादं च ममान्तिक उत्पादयेयुः, सर्वावरणतां (१११) च निवर्तयेयुः, कालं च कृत्वास्माकं बुद्धक्षेत्र उपपद्येयुः । ये च तत्र बोधिसत्त्वास्तेऽस्माकं सकाशादश्रुतपूर्वां धर्मदेशनामाकाङ्क्षेयुः श्रोतुं ते यादृशीमाकाङ्क्षेयुस्तादृशीं शृणुयुः । बोधिप्राप्तस्य च मम गणनातिक्रान्तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा नामधेयं शृणुयुः तेऽवैवर्तिकाः स्युरनुत्तरायां सम्यक्संबोधौ, प्रथमां क्षान्तिं प्रतिलभेयुः तथा द्वितीयां, यादृशीं समाधिं धारणीं चाकाङ्क्षेयुः तादृशीं समाधिं धारणीं च प्रतिलभेयुः । परिनिर्वृतस्य च मम गणनातिक्रान्तेषु कल्पेषु पश्चाद्गणनातिक्रान्तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा मम नामधेयं श्रुत्वा परमां प्रीतिं प्रसादं प्रामोद्यं च प्राप्नुयुर्मामेव नमस्यमाना आश्चर्यप्राप्ता यशकीर्तिं च वर्णयेयुः; बोधिसत्त्वभूतेन च यदा मया बुद्धकार्यमभिनिष्पादितं ततः पश्चादनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येयं, अभिसंबुद्धस्य च मम परमप्रसादप्रतिलब्धा बोधिसत्त्वाः प्रथमायाः क्षान्त्या लाभिनः स्युर्द्वितीयायाः तृतीयायाः, यादृशीं च समाधिं धारणीमाकाङ्क्षेयुस्तादृशीं प्रतिलभेयुः, यावद्बोधिपर्यन्तेनानुपश्येयुः । बोधिप्राप्तस्य च मे गणनातिक्रान्तेषु बुद्धक्षेत्रेषु याः स्त्रियो मम नामधेयं (११२) शृणुयुस्ताः परमप्रीतिप्रामोद्यं प्रतिलभेयुः, अनुत्तरायां
सम्यक्संबोधौ चित्तान्युत्पादयेयुः, यावद्बोधिपर्यन्तेन न भूयः स्त्रीत्वं प्रतिलभेयुः । परिनिर्वृतस्य च मे गणनातिक्रान्तेषु कल्पेषु गणनातिक्रान्ता याः स्त्रियो मम नामधेयं शृणुयुः ताः परमप्रीतिप्रामोद्यं प्रसादं च प्राप्नुयुः, अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयेयुः, यावद्बोधिपर्यन्तेन न भूयः स्त्रीत्वं प्रतिलभेयुः । ईदृशमहं भदन्त भगवन् बुद्धक्षेत्रमाकाङ्क्षामि, ईदृशाश्च परिशुद्धाशयाः सत्त्वा, ईदृशोऽहं भगवन् बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं" ।

अथ खलु कुलपुत्र रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धो राज्ञोऽरणेमिनः साधुकारमदात् । "साधु साधु महाराज, गम्भीरस्ते महाराज प्रणिधानं परिशुद्धं ते बुद्धक्षेत्रं परिगृहीतम् । पश्य महाराज पश्चिमायां दिशि कोटीशतसहस्रबुद्धक्षेत्राणामतिक्रम्य इन्द्रसुविराजिता नाम लोकधातुः, तत्रेन्द्रघोषेश्वरराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति परिशुद्धानां सत्त्वानां धर्मं देशयति । न च तत्र बुद्धक्षेत्रे श्रावकप्रत्येकबुद्धानां (११३) प्रज्ञप्तिरप्यस्ति, उत्पादाय न तत्र श्रावकप्रत्येकबुद्धकथा क्रियते, शुद्धा च तत्र महायानकथा । सर्व एवोपपादुकाः सत्त्वा, न च तत्र मातृग्रामस्य नामापि ज्ञायते । सर्व एते गुणास्तत्र बुद्धक्षेत्रे यथा महाराजेनापरिमितं बुद्धक्षेत्रगुणव्यूहप्रणिधानं कृतममिताशयाः सत्त्वा वैनेयाः परिगृहीतास्तेन त्वं महाराज इन्द्रघोषेश्वरराजतथागतस्य परिनिर्वृतस्य तस्मिन् सद्धर्मेऽन्तर्हिते षष्टीनामन्तरकल्पानामत्ययेन सा लोकधातुर्मेरुप्रभा नाम भविष्यति । तत्राचिन्त्यमतिगुणराजो नाम तथागतो भविष्यत्यर्हन् सम्यक्संबुद्धो । यथैवेन्द्रघोषेश्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य इन्द्रसुविराजितायां लोकधातौ बुद्धक्षेत्रगुणव्यूहः तथैवाचिन्त्यमतिगुणराजस्य तथागतस्य मेरुप्रभायां लोकधातौ गुणव्यूहो भविष्यति । तस्य चाचिन्त्यमतिगुणराजस्य तथागतस्य षष्ट्यन्तरकल्पाण्यायुःप्रमाणं भविष्यति । यदाचिन्त्यमतिगुणराजस्तथागतः परिनिर्वास्यति तस्य षोडशान्तरकल्पाः सद्धर्मः स्थास्यति, तस्य सद्धर्मेऽन्तर्हिते सहस्रान्तरकल्पात्ययेन विरतिर्नाम सा लोकधातुर्भविष्यति । (११४) तत्र रश्मिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धः, पेयालं पूर्ववत्, समाश्चैषामायुः
समा लोकधातुः । एवं परिनिर्वृतानां सद्धर्मेऽन्तर्हिते अपरा नाम सा लोकधातुर्भविष्यति । तर रत्नेश्वरघोषो नाम तथागतोऽर्हन् सम्यक्संबुद्ध उत्पत्स्यते । समो बुद्धक्षेत्रगुणव्यूहः समं चान्तरकल्पा स्थास्यति यापयिष्यति धर्मं च देशयिष्यति । तस्य परिनिर्वृतस्य सप्तान्तरकल्पां सद्धर्मः स्थास्यति, तस्मिंश्च सद्धर्मेऽन्तर्हिते, पेयालं पूर्ववत् । एवं चाप्रमेयापरिमाणान् तथागतांस्तत्र बुद्धक्षेत्र उपपन्नान् पश्यामि परिनिर्वृतांश्च, नैवासौ लोकधातुस्संवर्तते न निवर्तते । तत्रानागतेऽध्वनि अतिक्रान्त एकस्मिन् गङ्गावालिकासमेऽसंख्येये प्रतिष्ठे द्वितीये नदीगङ्गावालिकासमेऽसंख्येये सा लोकधातुः सुखावती नाम भविष्यति । तत्र त्वं महाराजनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, अमितायुर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो भविष्यसि" ।

राजारणेम्याह - "कुत्र ते भदन्त भगवन् बोधिसत्त्वा महासत्त्वा येऽस्माकं प्रथमतरं तत्र बुद्धक्षेत्रे (११५)ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते?" । भगवानाह - "इमे ते महाराज बोधिसत्त्वा महासत्त्वा येऽप्रमेयैरसंख्येयैरतुल्यैरपरिमाणैर्दशभ्यो दिग्भ्यः ताभ्यस्ताभ्यो लोकधातुभ्य आगता मं वन्दनाय पर्युपासनाय धर्मश्रवणाय, ये मम पुरतो निषण्णा एतेऽतीतैर्बुद्धैर्व्याकृता अनुत्तरायां सम्यक्संबोधौ, प्रत्युत्पन्नैरपि बुद्धैर्भगवद्भिरेते कुलपुत्रा व्याकृता अनुत्तरायां सम्यक्संबोधौ । ये तत्र बुद्धक्षेत्रे प्रथमतरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, एकैकश्चैष महाराज बोधिसत्त्वोऽनेकेषां बुद्धकोटीनयुतशतसहस्राणामन्तिके कृताधिकारोऽवरुप्तकुशलमूलो भावितप्रज्ञः, त एते महाराज कुलपुत्रा ये तत्र प्रथमतरं बुद्धक्षेत्रे बुद्धा भविष्यन्ति" । राजारणेम्याह - "अयं भदन्त भगवन् समुद्ररेणुर्ब्राह्मणो येनाहं सपरिषत्कोऽनुत्तरायां सम्यक्संबोधौ समादापिताः स कियता कालेनानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते?" । भगवानाह - "महाकारुणिक एष ब्राह्मणः समुद्ररेणुः, श्रोष्यसि त्वं यथैष सिंहनादं नदिष्यति" ।

राजा आह - "यद्येष मे प्रणिधिः समृध्यति यथाहं (११६) भगवता व्याकृताः, तद्यथाहं भगवतः पादवन्दनं कुर्यां पञ्चमण्डलेन तदा गङ्गानदीवालिकासमा लोकधातवः प्रकम्पन्तु प्रचलन्तु । ये च तेषु बुद्धक्षेत्रेषु बुद्धाः तिष्ठन्ति ध्रियन्ति यापयन्ति ते च मां व्याकुर्युः" ।

अथ खलु कुलपुत्र राजारणेमी रत्नगर्भस्य तथागतस्य पञ्चमण्डलकेन पादयोर्निपतितः । यदैव राज्ञः शिरसा पृथिवी स्पृष्टा तदा गङ्गानदीवालिकासमा बुद्धक्षेत्राः कम्पिताः चलिताः प्रचलिताः क्षुभिताः संप्रक्षुभिताः, गाङ्गानदीवालिकासमा बुद्धा व्याकुर्वन्ति । "सन्तीरणे बुद्धक्षेत्रे धारणे कल्पेऽशीतिवर्षसहस्रायुष्कायां प्रजायां रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धो राजानमरणेमिनं व्याकरोति । भविष्यसि त्वमनागतेऽध्वनि अतिक्रान्ते गङ्गानदीवालिकासमेऽसंख्येये प्रविष्टे द्वितीयेऽसंख्येये सुखावत्यां लोकधातावमितशुद्धायाममितायुर्नाम तथागतोऽर्हन् सम्यक्संबुद्धः, समन्ततो दशसु दिक्षु गङ्गानदीवालिकासमान् लोकधातूनवभासयिष्यसि" ।

भगवानाह -

(११७)
"उत्तिष्ठ प्रवरसत्त्वा विधिज्ञ व्याकृतस्त्वं दशबलैः ।
गङ्गाप्रख्या वेलितवसुमतीसशैला भविष्यसि नरवरदम्यसारथिः" ॥

अथ खलु कुलपुत्र राजारणेमी तुष्ट उदग्रः प्रमुदिताः प्रीतिसौमनस्यजातः, अतिक्रम्य नातिदूरे एकान्ते निषण्णो धर्मश्रवणाय ॥

अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो राज्ञोऽरणेमिनो ज्येष्ठपुत्रमनिमिषं नाम राजकुमारमामन्त्रयति स्म ।

अनिमिषोऽवोचत् । पेयालं पूर्ववत्, "अवलोकिता मयापाया ये च तत्र सत्त्वा उपपन्नाः प्रचण्डघोरं दुःखमनुभवन्ति । अवलोकिता मया स्वर्गा ये च तत्र सत्त्वा उपपन्नाः संक्लिष्टचित्ताः पुनरप्यपायेषु प्रपतन्ति । सर्वसत्त्वाश्च मयावलोकिता अकल्याणमित्रसंसृष्टा विहरन्ति, धर्मदुर्भिक्षान्धकारे कुशलमूलपरिक्षीणा (११८) दृष्टिग्राहग्रस्ताः कुमार्गैर्विहन्यते । स्वरेणाहं भगवन् तान् सत्त्वान् विज्ञपयामि, सर्वं च कुशलं परिणामयामि अनुत्तरायां सम्यक्संबोधौ । यदहं बोधिसत्त्वचर्यां चरेयं ये केचनसत्त्वा दुःखोत्पीडा भयतर्जिता धर्मदुर्भिक्षान्धकारे प्रविष्टा लीना दीना अत्राणा अशरणा अपरायणा मामनुस्मरेयुः, नाम च परिकीर्तयेयुः । यद्यहं दिव्येन श्रोत्रेण शृणुयां दिव्येन चक्षुषा पश्येयं, न च तां सत्त्वान् व्यसनेभ्यः परिमोचयेयं, नाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । यदाहं भदन्त भगवन् सत्त्वहेतोश्चिरप्रणिधानविशेषेण चिरं बोधिसत्त्वचर्यां चरिष्यामि तदा मे आशापरिपूरिर्भवतु । यदाहं भदन्त भगवन्महाराजारणेमी अतिक्रान्ते एकस्मिन् गङ्गानदीवालिकासमेऽसंख्येये प्रतिष्ठे द्वितीये सुखावत्यां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, अमितायुर्नाम भविष्यति तथागतोऽर्हन् सम्यक्संबुद्धः, परिशुद्धे बुद्धक्षेत्रे परिशुद्धानां सत्त्वानां बुद्धकार्यं करिष्यति, यावत्यामितायुस्तथागतः अपरिमाणान् कल्पान् बुद्धकार्यं कृत्वा परिनिष्ठितबुद्धकार्योऽनुपधिशेषनिर्वाणधातौ प्रवेक्ष्यते, तस्य प्रविष्टस्य यावत्सद्धर्मः
स्थास्यति (११९) तावच्चिरमहं बोधिसत्त्वचर्यां चरिष्यामि, बोधिसत्त्वभूतोऽहं बुद्धकार्यं करिष्यामि । यदामितायुषस्तथागतस्य सम्यक्संबुद्धस्य रात्र्याः प्रथमे यामे सद्धर्मोऽन्तर्धास्यति तस्यामेव रात्र्यां पश्चिमे यामेऽहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । व्याकरोतु मां भगवाननुत्तरायां सम्यक्संबोधौ । एवमेवाहं दशसु दिक्षु गङ्गानदीवालिकासमासु लोकधातुषु ये बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ति यापयन्ति तानपि बुद्धान् भगवतः स्वरेण विज्ञपयामि व्याकुर्वन्तु मां ते बुद्धा भगवन्तोऽनुत्तरायां सम्यक्संबोधौ" ।

व्याकृतः कुलपुत्र रत्नगर्भेण तथागतेनानिमिषो राजपुत्रः । एवं चाह - "यत्त्वया कुलपुत्रावलोकिता अपायाः अवलोकिताः स्वर्गा अवलोकितं सर्वसत्त्वानां दुःखं संजनितं कारुण्यचित्तं सत्त्वानां दुःखमोचनार्थं क्लेशप्रशमनार्थं, तस्मात्त्वं कुलपुत्रावलोकितेश्वरो नाम भविष्यसि । त्वमवलोकितेश्वर बहूनां सत्त्वकोटीनयुतशतसहस्राणां दुःखमोचकः । बोधिसत्त्वभूतस्त्वं कुलपुत्र बुद्धकार्यं करिष्यसि । परिनिवृते चामिताभे तथागतेऽवशिष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये, यस्यामेव रात्र्यां प्रथमे (१२०) यामे सद्धर्मोऽन्तर्धास्यति तस्यामेव रात्र्यां पश्चिमे यामे त्वं कुलपुत्रानेकव्यूहे बोधिवृक्षमूले वज्रासने निषण्णः अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, समन्तरश्म्यभ्युद्गतश्रीकूटराजो नाम भविष्यसि तथागतोऽर्हन् सम्यक्संबुद्धः । षण्णवतिकल्पकोटीनियुतशतसहस्राणि तवायुर्भविष्यति । परिनिर्वृतस्य ते त्रिषष्टिकल्पकोट्यः सद्धर्मः स्थास्यति" ।

अवलोकितेश्वर आह - "यदि भगवन्निमा ममाशा परिपूर्यते तद्यदाहं भगवतः पादाभिवन्दनं करोमि तदा ये बुद्धा भगवन्तो दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति ते व्याकुर्वन्तु मां, चलतु च धरणी सर्वगङ्गानदीवालिकासमासु दशसु दिक्षु लोकधातुषु, सर्वपर्वतपाषाणशिखरवृक्षेभ्यः पञ्चाङ्गिकानां तूर्याणां शब्दो निश्चरतु, सर्वसत्त्वाश्च विरागचित्तं प्रतिलभन्तु" । यदा चावलोकितेश्वरेण बोधिसत्त्वेन रत्नगर्भस्तथागतः पञ्चमण्डलकेन वन्दितस्तदा गङ्गानदीवालिकासमेषु (१२१) बुद्धक्षेत्रेषु धरणी प्रचलिता, ते च बुद्धा भगवन्तो व्याकुर्वन्ति पेयालं पूर्ववत्, सर्वपर्वतपाषाणशिखरेभ्यः पञ्चाङ्गिकस्य तूर्यस्य शब्दो निश्चरति, सर्वसत्त्वाश्च विरागचित्तेन स्थिताः ।

भगवानाह -

"उत्तिष्ठ कारुण्यपुण्यसु हृष्टमानसो व्याकृतस्त्वं दशदिशि वरदेहधारी ।
प्रकम्पिता धरणीसक्षेत्र षड्विकारो भविष्यसि जिनाग्रपुगलो महर्षी" ॥

अथ खलु समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितो द्वितीयं राजपुत्रं निमिर्नामामन्त्रयामास । "एवं चानुमोद त्वं कुलपुत्रेमं महापरित्यागं, यच्च त्वया शुभमुपार्जितं तत्सर्वं सत्त्वहेतोः सर्वज्ञतायां परिणामय, उत्पादय चित्तमनुत्तरायां सम्यक्संबोधौ" ।

अथ निमी राजकुमारो भगवतः पुरस्तान्निषद्येदमवोचत्- "यत्मया भगवानुपस्थितः सर्वोपकरणैः सार्धमपरिमितेन भिक्षुसङ्घेन, यश्चानुमोदनोद्गतः (१२२) पुण्यस्कन्धः, यच्च कायवाङ्मनः सुचरितं पुण्यं परिणामयामि अनुत्तरायां सम्यक्संबोधौ । न केवलमस्मिन् क्लिष्टे बुद्धक्षेत्रे बोधिमहं स्पृशेयं; यत्रावलोकितेश्वरः कुमारः सर्वरत्नसन्निचयायां लोकधातावनेकरत्नव्यूहे बोधिवृक्षे निषण्णोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते समन्तरश्म्यभुद्गतश्रीकूटराजो नाम तथागतो भविष्यति, तमहमध्येषयेयं धर्मदेशनायां यावच्चासौ तथागतो धर्मं देशयेत्तावदहं बोधिसत्त्वचर्यां चरेयं, तस्य तथागतस्यास्तंगतस्य सद्धर्मेऽन्तर्हिते तस्यानन्तरेणाहं सम्यक्संबोधिमभिसंबुध्येयम् । एवंरूपं मे बुद्धक्षेत्रं भवेद्गुणव्यूहेन, एवमेवाहं बुद्धकार्यं कुर्यां, एवमेव परिनिर्वापयेयं, एवमेव परिनिर्वृतस्य सद्धर्मश्चिरं तिष्ठेत्, सर्व एव गुणव्यूहः यथा समन्तरश्म्यभ्युद्गतश्रीकूटराजस्य तथागतस्य" ।

भगवानाह - "महास्थामन्ते कुलपुत्र प्रार्थितम् । प्राप्स्यसि त्वं कुलपुत्रैवंरूपं स्थानं यथा स्वयं परिगृहीतम् । प्राप्स्यसि त्वं कुलपुत्र तस्मिन् बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिम् । सुप्रतिष्ठितगुणमणिकूटराजो नाम तथागतो भविष्यसि । यथा स्थामन्ते (१२३) कुलपुत्र महास्थानं परिगृहीतं, तेन त्वं कुलपुत्र महास्थामप्राप्तो भवस्व" ।

स प्राह - "यदि मे भगवन्नेषाशा परिपूर्यते, तद्यदाहं भगवतः पञ्चमण्डलकेन कायेन पादौ वन्दामि तदा मे दशसु दिक्षु गङ्गानदीवालिकासमा बुद्धा भगवन्तो व्याकुर्वन्तु, सुमनावर्षश्च प्रवर्षतु" । यदा कुलपुत्र महास्थामप्राप्तेन सत्पुरुषेण रत्नगर्भस्य पञ्चमण्डलकेन पादाभिवन्दनं कृतं तदा गङ्गानदीवालिकासमेषु दशसु दिक्षु गङ्गानदीवालिकासमैर्बुद्धैर्भगवद्भिर्व्याकृतः, षड्विकारं च महापृथिवी प्रचलिता, सुमनावृष्टिश्च प्रपतिता ।

भगवानाह -
"उत्तिष्ठ दृढस्थामवेगपुण्य व्याकृत दशदिशि लोकनाथैः ।
चलिता महापृथिवी वृष्टिर्वृष्टा सुमना �वर्षैर्भविष्यसि त्वं सुरनरब्रह्मभूतः" ॥

(१२४)
अथ समुद्ररेणुर्ब्राह्मणस्तृतीयं राजपुत्रमिन्द्रगणं नाममन्त्रयति स्म । पेयालं पूर्ववत्, प्रतिगृह्याञ्जलिं रत्नगर्भं तथागतमेतदवोचत्- "यन्मया भगवान् सर्वोपकरणैरुपस्थितः सार्धं भिक्षुसङ्घेन, यच्च मे कायवाङ्मनः सुचरितं, इदं चानुमोदनासहगतं पुण्यस्कन्धं, एतत्सर्वमनुत्तरायां सम्यक्संबोधौ परिणामयामि । न तु क्लिष्टे बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, न चातिक्षिप्रं प्राप्नुयाम् । न यावच्चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं तावद्बोधिचर्यां चरन्, दशसु दिक्ष्वनन्तापर्यन्तेषु अन्येषु लोकधातुषु बुद्धान् भगवतः पश्येयम् । ये मया प्रथमं बोधाय समादापिता येषां मया तत्प्रथमं बोधिचित्तमुत्पादितं बोधिचित्ते प्रतिष्ठापिताः, पारमितासु च ये मया समादापिता निवेशिता प्रतिष्ठापिता बोधिचर्यां चरता, तानहं दिव्येन चक्षुषा गङ्गानदीवालिकासमे बुद्धक्षेत्रे परमाणुरजःसमेषु बुद्धक्षेत्रेषु बुद्धान् भगवतो धर्मन् देशयतः पश्येयं, ये मया बोधाय समादापिताः । एवमहं बोधिसत्त्वचर्यां चरन् बुद्धकार्यं कुर्यां, तावदहं बोधिसत्त्वचर्यां चरेयं सत्त्वानामाशयपरिशोधयमानः यावन्तः केचित्सत्त्वा (१२५) मम बुद्धक्षेत्र उपपद्येरन् त एवंविधाः स्युः तद्यथा ब्रह्मकायिका देवाः; तथा च बुद्धक्षेत्रगुणव्यूहं परिशोधयेयं यथा गङ्गानदीवालिकासमं त्रिसाहस्रमहासाहस्रमेकं बुद्धक्षेत्रं
स्यात् । तस्य च बुद्धक्षेत्रस्य भवाग्रपर्यन्तानि प्राकाराणि अनेकरत्नसंस्थितानि नानारत्नप्रत्युप्तानि च स्युः, सर्वा च तत्र बुद्धक्षेत्रे शुद्धवैडूर्यमयी पृथिवी स्यात्, अपगतरजःपाषाणशर्करापगतकलुषसंस्पर्शा धरणी स्यात् । न तत्र मातृग्रामस्यनाम प्रज्ञप्तिः स्यात्, सर्वसत्त्वाश्चोपपादुकाः स्युर्न तत्र सत्त्वाः कवदीकाराहाराः स्युः, सर्वे च तत्र सत्त्वा प्रीत्याहारा धर्माहाराः स्युः । न तत्र बुद्धक्षेत्रे श्रावकप्रत्येकबुद्धानां प्रज्ञप्तिः स्यात्, शुद्धानां बोधिसत्त्वानामपगतखिलमलद्वेषम्रक्षाणां शुद्धानां ब्रह्मचारिणां बुद्धक्षेत्रं परिशुद्धं स्यात् । सर्वे तत्र बोधिसत्त्वा मुण्डाः काषायवस्त्रधारिणः प्रादुर्भवेयुः, समनन्तरप्रादुर्भूतानां महावभासं भवेत्, तेषां दक्षिणे हस्ते रत्नपात्री नानारसपूर्णा प्रादुर्भवेत्; समनन्तरप्रादुर्भूतानामेवंरूपां स्मृतिं प्रतिलभेयुर्नास्माकं प्रतिरूपं ये वयं कवडीकाराहारमाहरेम, (१२६) यन्नूनं वयमन्यासु लोकधातुषु गत्वा बुद्धान् भगवतस्तिष्ठतो यापयतोऽनेनाहारेण प्रतिमानयामो बुद्धश्रावकांश्च दुःखितं च जनं प्रतिमानयामः, प्रेतभवनेषु च गत्वा क्षुत्तर्षप्रज्वलितगात्रान् सत्त्वाननेनाहारेण प्रतिमानयामः" । सहचित्तोत्पादेन ते बोधिसत्त्वा महासत्त्वा अचिन्त्यचारित्रवतीं नाम समाधिं प्रतिलभेयुः, तस्य च समाधेः प्रतिलाभादसज्जना दशसु दिक्ष्वप्रमेयेष्वन्येषु बुद्धक्षेत्रेषु गच्छेयुः, तिष्ठतो यापयतो बुद्धान् भगवत आहारेण प्रतिमानयेयुः श्रावकांश्चान्यांश्च सत्त्वां,
प्रीत्या प्रतिमान्य धर्मदेशनां कृत्वा तेनैव पूर्वभक्तेन स्वबुद्धक्षेत्रमागच्छेयुः । एवं चीवररत्नानि, यावत्तेनैव पूर्वभक्तेन स्वकं बुद्धक्षेत्रमागत्यान्योन्यं चीवरेण प्रावरयेयुः । यावन्ति च तत्र बुद्धक्षेत्रे तेषां बोधिसत्त्वानामुपभोगः परिभोगा भवेयुस्तैः सर्वैर्बुद्धैः श्रावकैश्चान्यैश्च सत्त्वैः सहसाधारणं कृत्वा पश्चादात्मना परिभुञ्जेयुः । अष्टाक्षणवर्जितं च बुद्धक्षेत्रं भवेत्, न च तत्र दुःखशब्दो भवेत्, (१२७) न शिक्षाग्रहणशब्दः, आपत्तिव्युत्थानशब्दोऽपि न भवेत् । अनेकरत्नशतसहस्रोपचितं तद्बुद्धक्षेत्रं स्यात्, अनेकरत्नप्रत्युप्तं मणिसन्दर्शनसदृशं भवेत्, यानि मणिरत्नानि दशसु दिक्ष्वदृष्टपूर्वाणि तानि अश्रुतपूर्वाणि तानि मणिरत्नानि प्रचरेयुः, येषां मणिरत्नानां नामधेये निर्दिश्यमाने वर्षकोट्योऽपि क्षयं गच्छेयुः । यश्च बोधिसत्त्वः आकाङ्क्षेत स्वर्णमयमेव बुद्धक्षेत्रं पश्येयं तस्य स्वर्णमयमेव तिष्ठेत । यो रूप्यमयमाकाङ्क्षेत स रूप्यमयं पश्येत्, न चास्य सुवर्णमयं परिहायेयं, पेयालं पूर्ववत् । य आकाङ्क्षेत स्फतिकमयं वैडूर्यमयमश्मगर्भमयं लोहितमुक्तामयं मुसालगल्वमयमेवंविधं तद्बुद्धक्षेत्रं पश्येम, इत्याकाङ्क्षेयुः । अगरुमयं तगरमयं तमालपत्रमयं यो बोधिसत्त्व आकाङ्क्षेदुरगसारचन्दनमयं गोषीर्षचन्दनमयं तद्बुद्धक्षेत्रं द्रष्टुं तस्य तथैव
स्यात् । यथा यथा यादृशमाकाङ्क्षेयुः तथा तथा तादृशं स्यात्; न चैको द्वितीयस्य प्रणिधिः स्यात्, सर्वेषामेव प्रणिधिः परिपूर्यते । न च तत्र बुद्धक्षेत्रे सूर्याचन्द्रमसौ (१२८) प्रज्ञायेयातां, स्वयं प्रभाश्च तत्र बोधिसत्त्वाः प्रत्याजायेयुः, अन्यां यादृशीं प्रभामाकाङ्क्षेरन् तादृशीमुत्सृजेयुः, अन्ततो बुद्धक्षेत्रकोटीनयुतशतसहस्रेष्वपि । न च तत्र बुद्धक्षेत्रे रात्रिदिवसानां नामधेयमपि प्रज्ञायते, अन्यत्र कुसुमविकसनतया । न च तत्र बुद्धक्षेत्रे शीतोष्णं प्रज्ञायते न व्याधिर्न ग्लान्यं न जरामरणमन्यत्र यो बोधिसत्त्व आकाङ्क्षेद्बोधिमभिसंबोद्धुं सोऽन्यत्र लोकधातावुषित्वा आयुः क्षपयित्वा बोधिमभिसंबुध्येत । न तत्र बुद्धक्षेत्रे मरणं भवेयुः, अनुत्तरपरिनिर्वाणेन उपर्यन्तरीक्षे तथागतपरिनिर्वाणं स्यात् । यादृग्जात्रीयांश्च बोधिसत्त्व उपभोगपरिभोगामाकाङ्क्षेरन् तादृग्जातीया अभिनिर्वर्तेयुः । सर्वत्र च बुद्धक्षेत्रे गगनतले तूर्यकोटीनियुतशतसहस्रा वाद्येयुः । न च तेभ्यस्तूर्येभ्यः कामोपसंहिताः शब्दा निश्चरेयुः, अन्यत्र पारमिता शब्दा निश्चरेयुः, बुद्धशब्दो धर्मशब्दः सङ्घशब्दो बोधिसत्त्वपिटकधर्मपर्यायशब्दो निश्चरेत् । यथाधिमुक्ता बोधिसत्त्वास्तादृग्जातीयां शब्दां शृणुयुः । (१२९) बोधिसत्त्वचारिकामहं भगवंश्चरमाणो यावन्मयाप्रमेयेष्वसंख्येयेषु बुद्धकोटीनयुतशतसहस्रेषु बुद्धक्षेत्रगुणव्यूहा दृष्टास्ते व्यूहास्तेऽलङ्कारास्तानि लिङ्गानि तानि निमित्तानि तानि स्थानानि तानि प्रणिधानानि सर्व एव मम बुद्धक्षेत्रे प्रविशेयुः, स्थापयित्वा श्रावकप्रत्येकबुद्धव्यूहां पञ्चकषायिकांश्च बुद्धक्षेत्रगुणव्यूहां
। न च तत्र बुद्धक्षेत्रे नरकतिर्यक्प्रेताः प्रज्ञायेयुर्न सुमेरुर्न चक्रवाडमहाचक्रवाडा न शीलापांशुपर्वताः प्रज्ञायेयुः, न महासमुद्रा; न चान्ये काष्ठवृक्षा भवेयुर्दिव्यातिक्रान्तैर्नानावृक्षैस्तद्बुद्धक्षेत्रमाकीर्णं स्यात्, अन्यत्र दिव्यैः कुसुमैर्मान्दारवमहामान्दारवैर्न च तत्र दुर्गन्धं स्यान्नानागन्धैरुदारोदारैस्तद्बुद्धक्षेत्रं स्फुटं स्यात् । सर्वे तत्रैकजातिप्रतिबद्धा बोधिसत्त्वा उत्पद्येरन्, न तत्रैकसत्त्वः स्याद्यस्ततश्च्यवित्वान्यत्र प्रत्याजायेत, अन्यत्र तुषितेभ्यः ततश्च्युतोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येत । तावदहं भदन्त भगवन् बोधिसत्त्वचर्यां चरिष्यामि यावन्नैवंविधं महापुरुषकारमभिनिष्पादयिष्यामि । एवंरूपं बुद्धक्षेत्रं स्थापयिष्यामि, एवंरूपैः शुद्धाशयैः सत्त्वैरेकजातिप्रतिबद्धैर्बोधिसत्त्वैः (१३०) सार्धं तद्बुद्धक्षेत्रमाकीर्णं प्रतिष्ठापयिष्यामि । न तत्र बोधिसत्त्वः स्याद्यो न मया प्रथमं बोधाय समादापितः स्यात्; सर्वे ते तत्र बोधिसत्त्वाः प्रत्याजायेयुः ये मया प्रथमं बोधाय समादापिताः पारमितासु निवेशिताः; तत्रैवेदं बुद्धक्षेत्रमन्तर्गतं कुर्यां सर्वे चामी दुःखा प्रशमयेयम् । बोधिसत्त्वभूतोऽहं भदन्त भगवनेवंरूपं पुरुषकारं निष्पादयेयं, ततः पश्चात्तत्र बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । दशचातुर्द्वीपिकसहस्रप्रमाणो मे बोधिवृक्षः परिणाहेन स्यात्, सप्तरत्नविचित्रसन्दर्शनो नाम भवेत् । दशत्रिसाहस्रः
समन्तपरिणाहेन; तस्य च बोधिवृक्षस्य गन्धेनाभया च कृत्सनं बुद्धक्षेत्रं स्फुटं स्यात्; तस्य मूले पञ्चचातुर्द्वीपिकप्रमाणं मे नानारत्नविचित्रं वज्रासनं स्यात्, प्रशमक्षमसुविचित्रज्ञानगन्धसमवसरणं नाम भवेच्चतुरशीतियोजनान्युच्चत्वेन; तस्याहं बोधिवृक्षस्य मूले वज्रासने निषीदेयं, पर्यङ्कमाभुज्य तेनैव मुहूर्तेनानुत्तरां सम्यक्संबोधिमभिसंबुध्येयं यावत्परिनिर्वाणकालं तत्पर्यङ्कं न (१३१) भिन्द्यां न मुचेयं न तस्माद्बोधिवृक्षमूलादुत्तिष्ठेयम् । बोधिवृक्षमूलस्थ एवाहं वज्रासने निषण्णोऽहं निर्मितान् बुद्धान् बोधिसत्त्वांश्च गणनातिक्रान्तेष्वन्येषु बुद्धक्षेत्रेषु प्रेषयेयं, एकैको बुद्ध एकपूर्वभक्तेन सत्त्वानां धर्मं देशयेत्, तेनैव पूर्वभक्तेन गणनातिक्रान्तान् सत्त्वाननुत्तरायां सम्यक्संबोधौ समादापयेयुः प्रतिष्ठापयेयुः अवैवर्तिकां स्थापयेयुः, एवं निर्मिता बोधिसत्त्वा बोधिसत्त्वकार्यं कुर्युः । बोधिप्राप्तस्य मे गणनातिक्रान्तेषु दशसु दिक्ष्वन्यासु लोकधातुषु मम कायो दृष्येत्, येषां च सत्त्वानां मम कायो लक्षणालङ्कृतश्चक्षुरिन्द्रियस्याभासमागच्छेत्सर्वे ते सत्त्वा नियता भवेयुरनुत्तरायां सम्यक्संबोधौ, यावद्बोधिपरिनिर्वाणेन ते सत्त्वा अविरहिता भवेयुर्बुद्धैर्भगवद्भिः । न तत्रेन्द्रियविकला भवेयुर्ये च तत्र बोधिसत्त्वा मां द्रष्टुमिच्छेयुस्ते येन येनैव गच्छेयुः परिवर्तेयुः चंक्रमेयुर्निषीदेयुः तिष्ठेयुः, सर्वे ते बोधिसत्त्वाः समनन्तरोत्पादितेन बुद्धनमस्कारचित्तेन
मां बोधिवृक्षनिषण्णं पश्येयुः, दृष्ट्वा च यस्य धर्मसंशयः स्यात्सोऽस्य सहदर्शनेन विगच्छेत्तीर्णवचिकित्साः स्यादनुपदिष्टस्य धर्मपदस्यार्थमाजानेयुः । अप्रमाणं मे (१३२) आयुर्भवेत्न शक्यते केनचिद्गणयितुमन्यत्र सार्वज्ञेन ज्ञानेन, अप्रमानाश्च तत्र बोधिसत्त्वा भवेयुः । यस्मिंश्च क्षणेऽहं तत्र बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं तस्मिन् क्षणे तत्र बुद्धक्षेत्रे बोधिसत्त्वा मुण्डाः काषायवस्त्राः संभवेयुः, यावन्मम परिनिर्वाणान्न चात्र बुद्धक्षेत्र एकसत्त्वोऽपि दीर्घकेशः स्यात्शुक्लप्रावरणो वा, सर्व एव श्रमणवर्णाः स्युः श्रमणप्रतिरूपास्तिष्ठेयुः" ।

भगवानाह - "साधु साधु सत्पुरुष, त्वमपि पण्डितो व्यक्तो मेधावी अतीवशोभनं ते प्रणिधानं कृतं, अतीवगुणवास्त्वमतीवज्ञानवान्; यतस्त्वं कुलपुत्र सर्वसत्त्वानामर्थायैवंरूपां प्रवरां प्रशस्तां मतिं कृतवान् प्रवरो बुद्धक्षेत्रगुणव्यूहः परिगृहीतः, ततस्ते कुलपुत्र मञ्जुश्रीर्नाम भवतु । भविष्यसि त्वं मञ्जुश्रीरनागतेऽध्वनि अतिक्रान्तयोर्द्वयोर्नदीवालिकासमयोरसंख्येययोः प्रविष्टे च तृतीयेऽसंख्येये दक्षिणस्यां दिशि शुद्धविरजःसन्निचयो नाम लोकधातुर्भविष्यति, तत्र च सहालोकधातुरन्तर्गता भविष्यति, अनुप्रविष्टश्च एवंरूपया गुणव्यूहया तद्बुद्धक्षेत्रं प्रादुर्भविष्यति । तत्र त्वं मञ्जुश्रीरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, (१३३) समन्तदर्शी नाम तथागतो भविष्यसि अर्हन् सम्यक्संबुद्धः । एवंरूपा च ते बोधिसत्त्वपर्षद्भविष्यति सर्वे चैते प्रणिधानास्त्वयि संपत्स्यन्ते यथा त्वया प्रणिधानं कृतं; बोधिसत्त्वभूतेन ततस्त्वं बहुबुद्धकोटीष्ववरुप्तकुशलमूलो भविष्यसि, आशयपरिशोधकश्च क्लेशप्रमर्दकः, ये च ते मञ्जुश्रीस्सत्त्वा नामं श्रोष्यन्ति तेषां सर्वकर्मावरणक्षयो भविष्यति, कुशलविवर्धकश्च भविष्यसि" ।

मञ्जुश्रीराह - "यदि मे भगवन्नेवंरूपा आशापरिपूरिर्भवेदिति यथा मे प्रणिधानं कृतं तथा चैव मां बुद्धा भगवन्तो व्याकुर्वन्तु ये दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु तिष्ठन्ति ध्रियन्ति यापयन्ति सत्त्वानां च धर्मं देशयन्ति । तथाप्रमेयासंख्येया बुद्धक्षेत्राः प्रकंपन्तु । सर्वसत्त्वाश्चैवंरूपेण सुखेन समर्पिता भवन्तु, तद्यथा द्वितीयध्यानक्रीडाव्यूहसमापन्नस्य बोधिसत्त्वस्य । तथाप्रमेयासंख्येयेभ्यो बुद्धक्षेत्रेभ्यो दिव्यमान्दारवपुष्पाण्यभिप्रवर्षन्तु, तेभ्यश्च मान्दारवेभ्य एवंरूपः शब्दो निश्चरतु यदुत बुद्धशब्दो धर्मशब्दः सङ्घशब्दः (१३४) पारमिताशब्दः बलवैशारद्यशब्दश्च निश्चरतु । यदा चाहं भगवतः पञ्चमण्डलेन पादौ वन्देय तदा चैवंरूपं निमित्तं प्रादुर्भवेत्" । यदा च मञ्जुश्रिया कुमारभूतेन भगवतः पादाभिवन्दनं कृतं तदा तत्क्षणादेवमप्रमेयासंख्येया बुद्धक्षेत्राः प्रकंपिता, दिव्यानि च मान्दारवाण्यभिप्रवर्षितानि, सर्वसत्त्वाश्चैवंरूपेण सुखेन समर्पिता अभवन्यथा प्रणिधानं कृतम् । ये च बोधिसत्त्वा महासत्त्वास्तेषां बुद्धानां भगवतां धर्मं शृण्वन्ति ते तान् बुद्धान् भगवतः परिपृच्छन्ति, "कोऽत्र हेतुः कः प्रत्ययः एवंरूपाणां निमित्तानां प्रादुर्भावाय?" ते च बुद्धा भगवन्तो मञ्जुश्रियं कुमारभूतं व्याकुर्वन्ति अनुत्तरायां सम्यक्संबोधौ ।

भगवानाह -
"उत्तिष्ठ प्रवरमति विशालबुद्धे व्याकृतस्त्वं दशदिशि लोकनाथैः ।
चलिता क्षितिः तर्पिताः सत्त्वाः सौख्यैः पुष्पाः प्रवृष्टा भेष्यसे बुद्ध लोक" ॥ इति ॥
(१३५)
अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणश्चतुर्थं राजपुत्रमानङ्गणं नामामन्त्रयति । पेयालं यथा मञ्जुश्रिया प्रणिधानं कृतम् । तस्य भगवान् साधुकारमनुप्रादासीत्, "साधु साधु कुलपुत्र, बोधिसत्त्वभूतस्त्वं कुलपुत्राप्रमेयासंख्येयानां सत्त्वानां क्लेशपर्वतां भेत्स्यसि, बुद्धकार्यं च करिष्यसि, ततः पश्चादनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे । तेन त्वं कुलपुत्र वज्रच्छेदप्रज्ञावभासश्रीर्नाम बोधिसत्त्वो भवस्व । भविष्यसि त्वं वज्रच्छेदप्रज्ञावभासानागतेऽध्वन्यतिक्रान्तानामेकगङ्गानदीवालिकानामसंख्येयेऽनुप्रविष्टे द्वितीये गङ्गानदीवालिकासंख्येये पुरिमायां दिशि दशगङ्गानदीवालिकासमान् बुद्धक्षेत्रपरमाणुरजःसमाल्लोकधातूनतिक्रम्य तत्रानिमिषा नाम लोकधातुर्भविष्यति, तत्र त्वं कुलपुत्र बोधिमभिसंभोत्स्यसि, समन्तभद्रो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसम्पन्नो भविष्यसि यावद्बुद्धो भगवान् । एवंरूपं च ते बुद्धक्षेत्रमनेकगुणव्यूहितं भविष्यति यथा प्रणिधानं कृतं" ।

(१३६)
समनन्तरव्याकृतश्च कुलपुत्र रत्नगर्भेण तथागतेन वज्रच्छेदप्रज्ञावभासो बोधिसत्त्वोऽनुत्तरायां सम्यक्संबोधौ, गगनतलगतान्यनेकानि देवकोटीनियुतशतसहस्राणि साधुकारमदुर्गोशीर्षोरगसारचन्दनागरुतमालचूर्णं च प्रवार्षुः ।

स आह - "यदि मे भदन्त भगवन्नेवंरूपाशा परिपूर्येत तद्यदाहं भगवन्तं पञ्चमण्डलेन वन्देयं तदा गङ्गानदीवालिकासमाल्लोकधातवो दिव्यातिक्रान्तेनोदारेण गन्धेन स्फुटा भवेयुः । ये च तत्र लोकधातुषु सत्त्वा उपपन्ना भवेयुः नैरयिका वा तैर्यग्योनिका वा यामलौकिका वा देवा वा मनुष्या वा ते सर्वे तं गन्धं घ्रायेयुः, तेषां कायव्याधिः कायदुःखं चित्तव्याधिः चित्तदुःखं च तावच्चिरं प्रशान्तं भवेद्यावदहं शीर्षेण पृथिवीं स्पृशेयं" ।

अथ खलु कुलपुत्र वज्रच्छेदप्रज्ञावभासो बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ वन्दते । अथ तवदेव गङ्गानदीवालिकासमा लोकधातवो दिव्यातिक्रान्तेनोदारेण गन्धेन स्फुटा बभूवुः, सर्वेषां च सत्त्वानां कायव्याधिश्चित्तव्याधिः कायदुःखं चित्तदुःखं च प्रशान्तं प्रतिप्रस्रब्धम् ।

(१३७)
भगवानाह -
"उत्तिष्ठ वज्रभेदकर गन्धेन स्फुटा क्षेत्रबहू ।
सत्त्वसुखं प्रीतिकरो भेष्यसि वरलोकपिता" ॥

अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणः पञ्चमं राजपुत्रमभयं नामामन्त्रयते स्म । पेयालं, "न च केवलमस्मिं क्लिष्टे बुद्धक्षेत्रे, तत्राहं भदन्त भगवन् बोधिमभिसंबुध्येयं यत्र न नरका भवेयुर्न तिर्यग्योनिर्न यमलोकाः, यत्र नीलवैडूर्यमयी भूमिर्विस्तरेण यथा पद्मायां लोकधातौ बुद्धक्षेत्रे गुणव्यूहा तथा वक्तव्याः । अभयश्च राजपुत्रो रत्नगर्भस्य तथागतस्याग्रतः पद्मं स्थापयित्वाह । "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तदहं भगवतोऽनुभावेन दर्शनव्यूहं समाधिं प्रतिलभेयं, येनाहं भगवतोऽग्रतो दशसु दिक्षु गङ्गानदीवालिकासमासु लोकधातुषु बुद्धक्षेत्रपरमाणुरजःसंख्यै रथचक्रप्रमाणमात्रैः (१३८) पद्मैः पुष्पवृष्टिः प्रवर्षेत्वयं च पश्येम" । सहोदीरते वाक्ये बुद्धानुभावेन दर्शनव्यूहं समाधिं प्रतिलब्धवान्, दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु बुद्धक्षेत्रपरमाणुरजःसमै रथचक्रप्रमाणामात्रैः पद्मैः पद्मवर्षं प्रवर्षितं, यं दृष्ट्वाभयो राजकुमारः परमप्रीतिसौमनस्यजातो बभूव ।

भगवानाह - "अतीव कुलपुत्र शोभनं त्वया प्रणिधानं कृतं, शोभनं च बुद्धक्षेत्रं परिगृहीतं, अतिशीघ्रं च ते समाधिः प्रतिलब्धः, सत्यवचनेन पद्मवृष्टिः प्रवर्षिताः" ।

स आह - "यदि ममानुत्तरायां सम्यक्संबोधावाशापरिपूरिर्भवेत तदेते पद्मा गगने तिष्ठन्तु तथैव गगने स्थिता वर्षन्तु" ।

भगवानाह - "अतिक्षिप्रं कुलपुत्र गगनतलं पद्मैर्मुद्रितं, तेन हि त्वं कुलपुत्र गगनमुद्रो नाम भवस्व । भविष्यसि त्वं गगनमुद्रोऽनागतेऽध्वनि अतिक्रान्ते एकगङ्गानदीवालिकासमेऽसंख्येयेऽनुप्रविष्टे द्वितीये पूर्वदक्षिणस्यां दिशि कोटीशतसहस्रं गङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रामयित्वा तत्र पद्मा नाम लोकधातुर्भविष्यति, तत्र त्वं बोधिमभिसंभोत्स्यसे, (१३९) पद्मोत्तरश्च नाम तथागतो भविष्यस्यर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नो यावद्बुद्धो भगवानप्रमेयेन शुद्धेन बोधिसत्त्वसङ्घेन, अपरिमाणा च ते आयुर्भविष्यति । सर्वैश्चैतैर्गुणैः समन्वागतं लप्स्यसि तदेतत्प्रणिधाणं कृतं" । गगनमुद्रो बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पादौ शिरसा निपपात ।

तद्भगवानाह -
"भविष्यसे जगति हितकरः क्लेशकलुषशमकरः ।
क्षेत्ररजःसमगुणधरो बोधिं प्राप्स्यसि यथा पूर्वजिनैः" ॥

अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणः षष्ठं राजपुत्रमम्बरं नामान्त्रयति स्म । पेयालं, "न च केवलमस्मिं क्लिष्टे बुद्धक्षेत्रे", यावद्यथा गगनमुद्रेण बोधिसत्त्वेन प्रणिधानं कृतम् । "यदि मे भगवन्नेवंरूपा आशा परिपूर्येत तद्दशदिशी गङ्गानदीवालिकासमासु (१४०) लोकधातुषु सर्वगगनेषु सप्तरत्नमयाः छत्राः प्रादुर्भवन्तु हेमजालप्रतिच्छन्नाः सप्तरत्नमयाभिर्घण्टाभिरलङ्कृताः । तत्र छत्रघण्टाजालैरेवंरूपः शब्दो निश्चरेत्यदुत बुद्धशब्दो धर्मशब्दः सङ्घशब्दः पारमिताशब्दो बलशब्दोऽभिज्ञाशब्दो वैशारद्यशब्दः, सर्वे च ते सत्त्वा एवंरूपं शब्दं शृणुयुः ते श्रुत्वा सर्वेऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेयुः । ये चात्र सत्त्वाः पूर्वमुत्पादितबोधिचित्तास्तेऽवैवर्तिका भवेयुरनुत्तरायां सम्यक्संबोधौ" । समनन्तरव्याहृतेऽस्मिं व्याहारे अथ दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु सर्वगगनतलात्पेयालमेवंरूपाः शब्दा निश्चरन्ति । भगवतश्चानुभावात्स्वयमेवाद्राक्षीत्, पुनरेवमाह - "सचेन्मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत यथा मे प्रणिधानं कृतं तदहं भगवतः पुरतो ज्ञानवैरोचनं समाधिं प्रतिलभेय, येन मम कुशला धर्मा निवर्तेयुः, प्रतिलब्धे च समाधौ मां भगवां व्याकुर्यात्" । भगवतश्चानुभावेन ज्ञानवैरोचनसमाधिः प्रतिलब्धा ।

भगवानाह - "साधु साधु सत्पुरुष, उदारं ते प्रणिधानं कृतं, तेन त्वं पुण्याभिस्यन्देन दशसु (१४१) दिक्षु गङ्गानदीवालिकासमा बुद्धक्षेत्रा बहवश्चैकप्रमाणाः, शतसहस्रमनोज्ञशब्दसंचोदितो बुद्धक्षेत्रः, ततस्त्वं कुलपुत्र वेगवैरोचनो नाम भगस्व । भविष्यसि त्वं वेगवैरोचनातिक्रान्तेऽनागतेऽध्वन्येकनदीगङ्गावालिकासमेऽसंख्येयेऽनुप्रविष्टे द्वितीये पुरस्तिमायां दिशि गङ्गानदीवालिकासमा लोकधातवोऽतिक्रमित्वा आदित्यसोमा नाम लोकधातुः तत्र त्वं बोधिमभिसंभोत्स्यसे, धर्मवशवर्तीश्वरराजो नाम तथागतो भविष्यस्यर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नो यावद्बुद्धो भगवान्" । स च वेगवैरोचनो बोधिसत्त्वस्तं भगवन्तं पञ्चमण्डलेन वन्दति रत्नगर्भं तथागतम् ।

आह -
"उत्तिष्ठ सुव्रत सुरत दान्तचित्त सत्त्वेभ्यः तीव्रकरुणा महती प्रवृत्ता ।
तारे हि सत्त्वान् दुःखार्णवतीरं संस्था यावन्न बुध्यसि अनुत्तरबुद्धबोधिं" ॥

(१४२)
अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणः सप्तमं राजपुत्रमङ्गजमामन्त्रयामास । पेयालं, "न चास्मिं क्लिष्टे बुद्धक्षेत्रे तत्राहं बोधिमभिसंबुद्धेयम् । यत्र च न नरका न तिर्यग्योनिः न यमलोकः प्रज्ञायते, न मातृग्रामो न च सत्त्वानां गर्भवासः, न सुमेरुः न चक्रवाडमहाचक्रवाडा न पांशुशैलपर्वता नोत्सदशर्करकठल्लकण्टकगहना न काष्ठवृक्षा न महासमुद्रा, न च तत्रादित्यचन्द्रा न तारकरूपा न रात्रिदिवसा न तमस्कन्धा, न च तत्र सत्त्वानामुच्चारप्रस्रावखेटसिङ्घाणकं न कायखेददुर्गन्धं, न च सत्त्वानां कायक्लमता भवेत्न चित्तक्लमता; न च तत्र पांशुभूमिर्भवेत्; सर्वा च तत्र भूमिरश्मगर्भमयी भवेतनेकरत्नशतसहस्रालङ्कृता भवेत्, मान्दारवमहामान्दारवपुष्पावकीर्णं च तद्बुद्धक्षेत्रं नानारत्नवृक्षालङ्कृतं भवेत्; ते च रत्नवृक्षा नानारत्नजालालङ्कृता भवेयुः; नानारत्नदुष्या नानारत्नवस्त्रा नानारत्नमाला नानारत्नाभरणालङ्कारालङ्कृता नानामाल्येभ्यो नानावाद्यैर्नानारत्नभाजनैर्नानापुष्पैश्च ते रत्नवृक्षालङ्कृता (१४३) भवेयुः; न तत्र रात्रिः प्रज्ञायेत, अन्यत्र यदा पुष्पाः संकुचेयुर्वाद्याश्च वाद्येयुः । संकुचितेभ्यश्च पुष्पेभ्यः बोधिसत्त्वा प्रत्याजायेयुः; समापन्नाश्च तत्र बोधिसत्त्वा दर्शनव्यूहं नाम समाधिं प्रतिलभेयुः, येन समाधिना प्रतिलब्धेन दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमानन्येषु लोकधातुषु तिष्ठतो यापयतो बुद्धान् भगवतः पश्येयुः; तत्क्षणे चैवंरूपं विशुद्धं दिव्यश्रोत्रं प्रतिलभेयुः, येन दशसु दिक्ष्वन्येषु लोकधातुषु बुद्धक्षेत्रपरमाणुरजःसमेषु
बुद्धक्षेत्रेषु बुद्धानां भगवतां धर्मदेशनां शृणुयुः । सहोपपन्नाश्च सत्त्वाः सर्वे जातिस्मरा भवेयुस्ते च बुद्धक्षेत्रपरमाणुरजःसमान् कल्पाननुस्मरेयुः । सहोपपन्नाश्च ते सत्त्वाः सर्वे एवंरूपं दिव्यं चक्षुः प्रतिलभेयुः, यत्समन्ताद्दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमान् बुद्धक्षेत्रगुणव्यूहां पश्येयुः । सहोपपन्नाश्च ते सत्त्वाः सर्व एवंरूपेण परचित्तज्ञानकौशल्येन समन्वागता भवेयुः, यदेकक्षणेन बुद्धक्षेत्रपरमाणुरजःसमेषु बुद्धक्षेत्रेषु सर्वसत्त्वानां चित्तचरितां विजानेयुर्यावद्बोधिपरिनिर्वाणां (१४४) ते सत्त्वास्तां समाधिं प्रणामेयू; रात्र्याः प्रत्युषकालसमये चतुर्दिशं सुगन्धाः प्रीतिकराश्च मृदुसुखसंस्पर्शा वायवो वायेयुः, ये तान् पुष्पान् विकासयेयुः । ते च बोधिसत्त्वास्ताभ्यः समाधिभ्यो व्युत्थिहित्वा तेभ्यः पुष्पकेशरेभ्य उत्तिष्ठेयुः; तथारूपं च ऋद्धिविषयं प्रतिलभेरन् यदेकचित्तक्षणेने बुद्धक्षेत्रपरमाणुरजःसमान्येकैकां दिशं गच्छेयुः, तिष्ठतो यापयतो बुद्धान् भगवतो वन्दित्वा पर्युपासित्वा तदा निवर्तेयुः, तत्र च मान्दारवमहामान्दारवपुष्पकेशरेषु पर्यङ्कमाबध्वा निषीदेयुः, धर्मसुखमनसिकारेण तथागतं प्रेक्षेयुर्येन येन च निषीदेयुः परिवर्तेयुर्वा सर्वदिशासु च मामेव पश्येयुः । यथारूपं च तत्र बोधिसत्त्वानां महासत्त्वानां काङ्क्षाविमतिधर्मेषु संशयोत्पद्येत तत्सर्वं मम
दर्शनव्यवलोकनमात्रेण विगच्छेयुः । यथारूपं च धर्मदेशनान् ते बोधिसत्त्वा महासत्त्वा आकाङ्क्षेयुः तथारूपं धर्मदेशनां मम व्यवलोकनमात्रेणाजानेयुः । अममा अपरिग्रहाश्च तत्र सत्त्वा भवेयुः, अन्तशः स्वकायजीवितेनाप्यनर्थिकाः । सर्वे च तत्र बोधिसत्त्वा अवैवर्तिका भवेयुः । न तत्राकुशलस्य नाम (१४५) भवेन्न च तत्र बुद्धक्षेत्रे शिक्षाग्रहणस्य नाम भवेत्, न चापत्तिव्यूत्थापनकथा, यथा यावत्सर्वसत्त्वा द्वात्रिंशद्भिर्महापुरुषलक्षणैः समन्वागता भवेयुः । सर्वे च नारायनबलिका भवेयुः । न च तत्रैकसत्त्वोऽपीन्द्रियविकलो भवेत्यावद्बोधिनिर्वाणेन । सर्वे च तत्र सत्त्वा मुण्डा नवकाषायचीवरप्रावृताः प्रत्याजायेयुः; सुविभक्तं च समाधिं प्रतिलभेयुः; यावद्बोधिपर्यन्तेन प्रणामेयुः । सर्वे च तत्र समवधानकुशलमूला भवेयुः । न च तत्र बुद्धक्षेत्रे सत्त्वानां जराव्याधिदुःखं प्रज्ञायेत । येषां सत्त्वानामायुःपरिक्षयो भवेत्ते सर्वे पर्यङ्केन परिनिर्वायेयुः, स्वकाच्च शरीरात्तेजोधातुं प्रमुञ्चेयुर्येनात्मनः शरीरं साध्येयुः, चतुर्दिशश्च वायव आगच्छेयुः ये तानि बोधिसत्त्वशरीराणि शून्येषु बुद्धक्षेत्रेषु क्षिपेयुः । एवंरूपाश्च महामणिरत्नाः प्रादुर्भवेयुः तद्यथा राज्ञश्चक्रवर्तिनः प्रभास्वरं मणिरत्नं; ये च तत्र सत्त्वास्तां मणिरत्नप्रभां पश्येयुः तं वा मणिरत्नं पश्येयुः स्पार्शेयुर्वा ते सर्वे नरकतिर्यग्यमलोकदुःखानि यावद्बोधिनिर्वाणेन मा प्रतिसंवेदयेयुः । ते च ततश्च्यवित्वा तत्रोपपद्येयुः यत्र तिष्ठन्तो (१४६) यापयन्तो बुद्धा भगवन्तः सत्त्वानां धर्मं
देशयन्ति । तत्रोपपन्नाश्च ते सत्त्वास्तेषां बुद्धानां भगवतां सकाशाद्धर्मं शृणुयुस्ते च बोधिचित्तमुत्पादयेयुः, सहोत्पादिते च बोधिचित्तेऽवैवर्तिका भवेयुरनुत्तरायां सम्यक्संबोधौ । न कश्चित्सत्त्वो मम बुद्धक्षेत्रेऽसमाहितः कालं कुर्यात्, न दुःखवेदनाया न परस्परव्यावधचित्ताविप्रयोगमरणाय ततश्च माराक्षणेषुपपद्येयुः, यावद्बोधिपर्यन्तं बुद्धदर्शनेनाविरहिता भवेयुः धर्मश्रवणेन सङ्घोपस्थानेनाविरहिता भवेयुः । सर्वे च तत्र सत्त्वा अपगतखिलद्वेषम्रक्षेर्ष्यामात्सर्या भवेयुः । विवर्जितं च तं बुद्धक्षेत्रं श्रावकप्रत्येकबुद्धैर्भवेत्, शुद्धैश्च बोधिसत्त्वैस्तं बुद्धक्षेत्रं स्फुटं भवेत् । स्निग्धचित्ता मृदुचित्ता अवैरचित्ता अकिल्विषचित्ताः शान्तचित्ताः समाहितचित्ताश्च भवेयुः तत्र ये सत्त्वा उपपद्येयुः । प्रभास्वरं च मे तद्बुद्धक्षेत्रं भवेत्, महद्गुणव्यूहं च मे तद्बुद्धक्षेत्रं भवेत् । दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमैः लोकधातुभिर्दृश्येत गन्धेन च स्फुरेत् । (१४७) नित्यसुखसमर्पिताश्च तत्र सत्त्वा भवेयुः । न च तत्र बुद्धक्षेत्रे दुःखशब्दः श्रूयेत । तावच्चाहं बोधिसत्त्वचर्यां चरिष्यामि यावदहं बोधिसत्त्वभूतश्चैवंरूपाभिर्बुद्धक्षेत्रगुणव्यूहसंपदाभिः बुद्धक्षेत्रं परिशुद्धं स्थापयिष्यामि, एवंरूपैः परिशुद्धाशयैः सत्त्वैस्तद्बुद्धक्षेत्रं स्फुटं स्थापयिष्यामि; ततः पश्चादहं तत्र बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं
। बोधिप्राप्तस्य च मेऽप्रमाणा प्रभा भवेत्; सहस्रबुद्धक्षेत्रपरमाणुरजःसमेषु च दशसु दिक्ष्वन्येषु बुद्धक्षेत्रेषु लक्षनालङ्कृतो मे कायः संदृश्येदिति । ये च तत्र सत्त्वा मां पश्येयुः तेषां सत्त्वानां रागः प्रशमयेत्, द्वेषो मोहेर्ष्या मानम्रक्षसर्वक्लेशोपक्लेशाः प्रशमेयुः; सर्वे बोधिचित्तमुत्पादयेयुः; यथाविधाश्च समाधिधारणीराकाङ्क्षेत तथारूपा मां दृष्ट्वा प्रतिलभेयुः । ये च तत्र सत्त्वाः शीतनरके प्रत्याजाता भवेयुस्तेषां मां दृष्ट्वा सुखावेदना प्रादुर्भवेत्, तथारूपां च सुखां वेदनां प्रतिलभेरन् यथापि नाम द्वितीयध्यानसमापन्नस्य भिक्षोस्ते च मां दृष्ट्वा परमेण कायचैतसिकेन सुखेन समर्पिता भवेयुस्ते च सर्वेऽनुत्तरायां (१४८) सम्यक्संबोधौ चित्तमुत्पादयेयुस्ते च ततश्च्यवित्वा मम बुद्धक्षेत्र उपपद्येरन्, तत्र चानैवर्तिका भवेयुः अनुत्तरायां सम्यक्संबोधौ । ये च सत्त्वाः प्रेतभवनेषूपपन्नाः मम पश्येयुः, पेयालमवैवर्तिका भवेयुरनुत्तरायां सम्यक्संबोधौ; एवं तिर्यग्योनिगता वक्तव्याः । एवं देवाः द्विगुणा च मे प्रभासयेयम् । अप्रमाणा च मे आयुर्भवेत्, यन्न शक्यं केनचिद्गणयितुमन्यत्र सर्वज्ञज्ञानेन । बोधिप्राप्तस्य च मे दशसु दिक्ष्वप्रमेयेष्वपरिमाणेष्वन्येषु लोकधातुषु बुद्धा भगवन्तो मम वर्णं भाषेरन्येषामनुश्रावयेयं; ये च तत्र सत्त्वा मम वर्णं शृणुयुः ते तत्र मम बुद्धक्षेत्रे कुशलमूलं परिणामयेयुः, ते कालं कृत्वा मम बुद्धक्षेत्र
उपपद्येयुः स्थापयित्वानन्तर्यकारकां सद्धर्मप्रतिक्षेपकामार्यापवादकाम् । बोधिप्राप्तस्य च मे ये सत्त्वा अप्रमेयेष्वसंख्येयेषु लोकधातुषु मम नामधेयं शृणुयुः मम च बुद्धक्षेत्र उपपत्तिमाकाङ्क्षेयुः, तेषामहं मरणकालसमयेष्वनेकगणपरिवृतो वितिमिरसमाधिं समापन्नाः तथारूपेण सुभाषितेन तान् सत्त्वान् संतोषयेयं, तेषां सत्त्वानां सर्वदुःखं प्रशमेत्, तेनैव प्रसादेन निश्चितां समाधिं प्रतिलभेयुः, (१४९) चित्तस्पृहणां धर्मक्षान्तिं प्रतिलभेयुः, कालं च कृत्वा मम बुद्धक्षेत्र उपपद्येयुः । ये च पुनरन्यत्र बुद्धक्षेत्रेषु सप्तधनविरहिताः सत्त्वा अनर्थिकाः त्रिभिर्यानैरनर्थिका देवमानुषिकाभिः संपत्तिभिरनर्थिकाः कुशलपर्येष्ट्या त्रिभिः पुण्यक्रियावस्तुभिः अधर्मरागरक्ता विषमलोभाभिभूता मिथ्याधर्मपरीतास्तेषां प्रभासमाधिना मरणकालसमये पुरतः तिष्ठेयं, अनेकगणपरिवृतो धर्मं देशयेयं, तेषां स्वकं बुद्धक्षेत्रं दर्शयेयं, बोधौ च समादापयेयम् । ते सत्त्वा ममान्तिके परमप्रीतिप्रसादं प्रामोद्यं प्रतिलभेयुः बोधौ च चित्तान्युत्पाद्येयुः, तेषां सर्वदुःखा वेदनाः प्रशमेयुः, ते सूर्यप्रदीपं च समाधिं प्रतिलभेरन्, मोहप्रणाहं चैषां भवेत्, कालं च कृत्वा मम बुद्धक्षेत्र उपपद्येयुः" ।

भगवानाह - "साधु साधु सत्पुरुष, शोधनं ते प्रणिधानं कृतं" । स प्राह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तथा च दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेष्वन्येषु बुद्धक्षेत्रेषूरगसारचन्दनचूर्णं प्रवर्षतु । ये च सत्त्वास्तं गन्धं घ्रायेयुः ते सर्वे बोधौ चित्तमुत्पादयेयुः । अहं चैतर्हि (१५०) प्रणीतद्युतिं नाम समाधिं प्रतिलभेयं, यत्स्वयमेव पश्येयम् । उत्पादितश्च कुलपुत्र प्रणीतद्युतिः समाधिः स्वयमेवाद्राक्षीत्तद्बुद्धक्षेत्रपरमाणुरजःसमेषु दशसु दिक्ष्वन्येषु लोकधातुषु उरगसारचन्दनचूर्णं प्रवर्षितं, दशसु दिक्ष्वेकैकस्यां दिशि गणनातिक्रान्ताः सत्त्वाः प्राञ्जलिभूता अद्राक्षुः, ये बोधाय चित्तान्युत्पादयन्ति" ।

भगवानाह - "अतिशीघ्रं कुलपुत्र गन्धवृष्टिः प्रवर्षिता, गणनातिक्रान्ताश्च सत्त्वा बोधौ समादापितास्तेन त्वं कुलपुत्र सिंहगन्धो भवस्व । अतिक्रान्ते सिंहगन्ध एकगङ्गानदीवालिकासंख्येयेऽनुप्रविष्टे द्वितीये उपरिमाय दिशायेतो बुद्धक्षेत्राद्द्विचत्वारिंशत्गङ्गानदीवालिकासमेषु बुद्धक्षेत्रपरमाणुरजःसमानि बुद्धक्षेत्राण्यतिक्रम्य तत्र नीलगन्धप्रभासविरजो नाम लोकधातुर्भविष्यति, तत्र त्वं सिंहगन्धानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, प्रभासविरजःसमुच्छ्रयगन्धेश्वरराजो नाम तथागतो भविष्यसि अर्हन् सम्यक्संबुद्धो यावद्बुद्धो भगवान्" ।

(१५१)
अथ खलु कुलपुत्र सिंहगन्धो बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ वन्दितवान् ।

तं रत्नगर्भस्तथागत आह -
"उत्तिष्ठासुरनरदेवपूजित तारय त्वं भगतिसत्त्वदुःखिताम् ।
छित्त्वा त्वं भवदुःखक्लेशबन्धनां भेष्यसि नरजिन आर्यपुद्गलः" ॥

अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणोऽष्टमं राजपुत्रममिघं नामामन्त्रयामास । पेयालं, "तावदहं भगवन् क्लिष्टे बुद्धक्षेत्रे बोधिसत्त्वभूतो बोधिसत्त्वचारिकां चरिष्यामि यावदहं दशसहस्रान् क्लिष्टान् बुद्धक्षेत्रानेवंरूपां परिशुद्धां स्थापयिष्यामि, यथा नीलगन्धप्रभासविरजं बुद्धक्षेत्रं तथा भविष्यति । एवंरूपैरवरुप्तकुशलमूलैः परिशुद्धाशयैर्महायानसंप्रस्थितैर्बोधिसत्त्वैस्तद्बुद्धक्षेत्रं (१५२) स्फुटं स्थापयिष्यामि, पश्चादहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यामि । तथारूपामहं भदन्त भगवन् बोधिसत्त्वचारिकां चरिष्यामि यथा नान्ये बोधिसत्त्वाश्चरन्ति । यदहं भदन्त भगवन्निमानि सप्तवर्षाणि बुद्धगुणबोधिसत्त्वगुणपरिशुद्धं बुद्धक्षेत्रगुणपरिशुद्धं रहोगत एकाकी संचिन्तयमानो निषण्णः, दर्शनव्यूहसमाधिपूर्वंगमेन एकदशबोधिसत्त्वसमाधिसहस्राणि यानि मयात्रोत्पादितानि प्रतिलब्धानि भावितानि, एषा मम भदन्त भगवन् बोधिसत्त्वभूतस्य बोधिसत्त्वचारिका; येऽपि ते दशसु दिक्ष्वनन्तापर्यन्तास्वन्यासु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति यापयन्ति सत्त्वानां हिताय सुखाय धर्मं च देशयन्ति, ये त्राध्वसमतिक्रान्ता ध्वजाग्राकेयूरा बुद्धक्षेत्रास्तां परिपूर्णां जिनैः पश्येयमावर्तेयम् । तेन च समाधिनाहं भदन्त भगवन् परमाणुरजःसमान् बुद्धान् भगवतो बोधिसत्त्वश्रावकगणपरिवृतान् पश्येयम् । एकैकस्याहमनिश्रितासमाधिबलेन बुद्धक्षेत्रपरमाणुरजःसमैः कायैर्वन्देयम् । (१५३) एकैकेन चाहं कायेनानुत्तरैर्विचित्रै रत्नैः पुष्पैरनुत्तरैर्विचित्रैर्गन्धैर्माल्यैश्च
चुर्णविलेपनैर्वाद्यैः सर्वाभिश्चानुत्तराभिर्व्यूहाभिरेकैकं पूजयेयम् । एकक्षेत्रे चाहं समुद्रवालिकाप्रमाणान् कल्पां चरेयं, यदा चाहं सर्वकायविभावनेन समाधिनैकक्षणेनैकैकस्य बुद्धस्य बुद्धक्षेत्रपरमाणुरजःसमान् बुद्धगोचरानाजानेयम् । गुणाकरसमाधिना चाहं भदन्त भगवन्नेकैकस्य बुद्धक्षेत्रपरमाणुरजःसमैरनुत्तरैस्तवैस्तवेयम् । अनिमिषसमाधिना चाहं भदन्त भगवन्नेकरजाग्रचित्तप्रमाणेन सर्वबुद्धक्षेत्रान् पूर्णां जिनैः पश्येयम् । अरणासमाधिना चाहं भदन्त भगवन्नेकचित्तक्षणेन सर्वबुद्धक्षेत्रेषु बोधिसत्त्वानतीतानागतप्रत्युत्पन्नान् बुद्धक्षेत्रगुणव्यूहान् पश्येयम् । शूरङ्गमसमाधिना चाहं भदन्त भगवन्नरकेश्ववतरित्वा नैरयिकमात्मभावमभिनिर्मिणित्वा नैरयिकानां सत्त्वानां धर्मं देशयेयं, बोधाय च समादापयेयं, ततस्तान् सत्त्वान् बोधाय चित्तमुत्पादयेयं, ततश्च्यवित्वा मनुष्याणां सहभाव्यतायामुपपद्येयुः (१५४) यत्र बुद्धा भगवन्तस्तिष्ठन्ति तेषां बुद्धानां भगवतां सकाशाद्धर्मं शृणुयुः, अवैवर्तिकभूमौ च प्रतिष्ठापयेयं; एवं तिर्यक्षु, एवं प्रेतेषु, एवं यक्षेषु, एवं राक्षसेषु, एवमसुरेषु, एवं नागेषु, एवं किन्नरमहोरगेषु, एवं पिशाचपूतनकटपूतनेषु, एवं मनुष्यचण्डालेषु, एवं वणिजेषु गणिकासु; यथारूपेषु च भगवन् सत्त्वाः कुलेषूपपद्यन्ते, यथारूपश्च तेषामात्मभावप्रतिलाभः,
यथारूपेण च सत्त्वाः कर्मप्रत्ययेन सुखां वेदनां दुःखां वा प्रतिसंवेदयन्ति, यथारूपेषु च शिल्पस्थानकर्मस्थानेषु प्रसक्ताः, तथारूपमात्मभावं निर्मिणित्वा तथारूपशिल्पस्थानकर्मस्थानेषूद्योगं निदर्शयेयं, तथारूपेण चक्षरव्याहारेण सत्त्वानां चित्तमाराधयेयं, धर्मं च देशयेयं, अनुत्तरायां सम्यक्संबोधौ समादापयेयं निवेशयेयं प्रतिष्ठापयेयं, अवैवर्तिकांश्च स्थापयेयमनुत्तरायां सम्यक्संबोधौ । तावदहं भदन्त भगवन् बोधिसत्त्वचारिकां चरिष्यामि यथा दशसु सर्वबुद्धक्षेत्रसहस्रेषु सर्वेषां सत्त्वानां चित्तसन्ततिं तथा परिशोधयेयं यथा पूर्वकर्मक्लेशां न कुर्युः, यदेकसत्त्वस्यापि (१५५) चत्वारा माराश्चित्तसन्ततिपथं न प्रजानीयुः, तदहं दशबुद्धक्षेत्रसहस्राण्येवंरूपां परिशुद्धां स्थापयेयं, यथा प्रभासविरजासमुच्छ्रयगन्धेश्वरराजज्योतिस्तथागतस्य नीलगन्धप्रभासविरजे बुद्धक्षेत्रगुणव्यूहास्तथा भवेयम् । एवं मया स्वबुद्धक्षेत्रस्य स्वपर्षाया च यथा सिंहगन्धेन बोधिसत्त्वेन प्रणिधानं कृतम् । यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तथा दशसु बुद्धक्षेत्रसहस्रेषु सत्त्वानां सर्वदुःखानि प्रशाम्यन्तु, सर्वे च मृदुचित्ता भवन्तु, कर्मण्यचित्ता भवन्तु, स्वकस्वकायाश्चतुर्द्वीपिकायाः तिष्ठन्तो बुद्धान् पश्यन्तु । तेषां च सत्त्वानां विचित्ररत्ना विचित्रपुष्पगन्धविलेपनचूर्णच्छत्रध्वजपताकाः प्रादुर्भवन्तु, येन ते सत्त्वाः तान् बुद्धान् पूजयेयुः, अनुत्तरायां सम्यक्संबोधौ
चित्तान्युत्पादयेयुः । अहं च भगवन् दर्शनव्यूहसमाधानबलेन स्वयं पश्येयं, सहोदीरितयां वाचास्मिन्नेवमेव स्वयं पश्यति यथा प्रणिधानं कृतं" इति ।

भगवानाह - "साधु साधु कुलपुत्र, यस्त्वं कुलपुत्र समन्तके च स्वके च बुद्धक्षेत्रे दशबुद्धक्षेत्रसहस्राणि परिशुद्धानि स्थापयिष्यसि । अप्रमेयासंख्येयानां (१५६) च सत्त्वानां सन्ततिं परिशोधयिष्यसि । एवमप्रमेयासंख्येयानां बुद्धानां भगवतामप्रमेयासंख्येयायां पूजायामौत्सुक्यमापत्स्यसे । तेन त्वं कुलपुत्र समन्तभद्रो नाम भवस्व । भविष्यसि त्वं समन्तभद्रानागतेऽध्वनि अतिक्रान्त एकगङ्गानदीवालिकासमेऽसंख्येये परिवर्तावशिष्टे द्वितीय उत्तरायां दिशीतो बुद्धक्षेत्रात्षष्टिगङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रमित्वा तत्र ज्ञानतापसुविशुद्धगुणा नाम लोकधातुर्भविष्यति; तत्र त्वं समन्तभद्रानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, ज्ञानवज्रविजृम्भितेश्वरकेतुर्नाम भविष्यसि तथागतोऽर्हन् सम्यक्संबुद्धो यावद्बुद्धो भगवान्" ।

अथ खलु कुलपुत्र समन्तभद्रो बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादयोः शिरसा निपपात ।

रत्नगर्भस्तथागतस्त्वाह -
"उत्तिष्ठ सुरत सुव्रत दान्तचित्ता सत्त्वान सन्तति विशोध्य दृढप्रतिज्ञत्वम् ।
(१५७)
सत्त्वान् तारय क्लेशनदीसुघोरान् त्वं ज्ञान उल्कधर भेष्यसि बुद्ध लोके" ॥

तेन खलु पुनः कुलपुत्र समयेन दशकुशीदप्राणसहस्राणि एककण्ठेन वाचं बभाषिरे । "भविष्याम वयं भदन्त भगवन् ते परिशुद्धेषु बुद्धक्षेत्रेषु तथागता अर्हन्तः सम्यक्संबुद्धाः, यां सुविशुद्धाशयाः समन्तभद्रो बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचारिकां चरामाणः परिशुद्धां स्थापयति । एवं च वयं षट्पारमिताः परिपूरयित्वा तत्र बुद्धक्षेत्र उपपद्येम" ।

एवं कुलपुत्र रत्नगर्भेण तथागतेन दशप्राणिसहस्रा व्याकृताः । "यदा समन्तभद्रोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते तदा यूयं तेषु सामन्तकेषु लोकधातुष्वनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यध्वे । सहस्रैकनामकास्तथागता भविष्यथः यदुत सहस्रं ज्वालकुण्डेश्वरघोषा नाम भविष्यथ तथागताः, अपरं (१५८) सहस्रं संवृतीश्वरघोषा नामानो भविष्यन्ति, अपरं सहस्रं सुविमलघोषेश्वरराजनामा भविष्यन्ति तथागताः, अपरं सहस्रं प्रहीणभयघोषेश्वरराजनामा भविष्यन्ति तथागताः, अपरं सहस्रं विमलघोषतेजेश्वरराजनामा भविष्यन्ति । पञ्चशता एकं नामधेयाः यदुत सूर्यघोषनामा भविष्यन्ति । तथा द्वौ विगतभयकीर्तिराजा विगतरश्मिश्च, विगतरश्मिघोषकीर्तीश्वरघोषश्च, विपरधर्मकीर्तिघोषश्च, गर्भकीर्तिराजरत्नध्वजः, ज्योतीश्वरः, उत्तप्तमुनिज्ञानेश्वरः, केतचीवरसंभृतराजा, अचिन्त्यमतिज्ञानगर्भः, ज्ञानमेरुध्वजः, ज्ञानसागरराजा, महावीर्यघोषेश्वरः, मेरुश्रीकल्पः, ज्ञानविरजवेगः, किमीश्वरबीजः, ज्ञानसुविमलगर्जितेश्वरः, अभिभूतगुणसागरराजा, ज्ञानसंभवबलराजा, विरजवीरेश्वरराजा, मुनिश्रीकूटवेगसंकुसुमः, श्रीकूटज्ञानबुद्धिः, वज्रसिंहः, शीलप्रभास्वरः, भद्रोत्तमः, अनन्तरश्मिः, सिंहनन्दिः, (१५९
) अक्षयज्ञानकूटः, रत्नावभासः, ज्ञानविमलः, ज्ञानप्रवाडः, सिंहकीर्तिः, अभिज्ञागुणराजः, धर्मसुमनावर्षी, प्रभाकरः, अभ्युद्गतमेरुः, धर्मसमुद्गतराजविमलः, गन्धेश्वरः, विमलनेत्रः, महाप्रसन्दयः, असङ्गबलराजा, स्वज्ञानपुण्यबलः, ज्ञानचीवरः, वशवर्ती, असङ्गहितेषी, ज्ञानसंभवः, महामेरुः, बलगर्भः, गुणाकरः, लताकुसुमध्वजः, गणप्रभासः, विगुणमोहराजा, वज्रोत्तमः, धर्मकेतुः, घोषेन्द्रराजा, स्वगुप्तः, वज्रध्वजः, रत्नेश्वरः, अभ्युद्गतध्वजः, शैलकल्पः, रतिमेघः, धर्मकारिसालराजा, समन्तगुप्तसागरराजा, ज्ञानसंनिचयः, ज्ञानार्चिः, कुसुमगणिः, गजेन्द्रेश्वरः, उदुम्बरपुष्पः, काञ्चनध्वजः, धर्मध्वजः, विनर्दितराजः, चन्दनः, सुप्रतिष्ठितस्थामविक्रमः, ध्वजाग्रप्रदीपः, ज्ञानक्रमः, सागरध्वजः, व्ययधर्मकीर्तिः, मारविनर्दितः, गुणार्चिः, ज्ञानप्रभः, ज्ञानप्रदीपः, क्षेमराजा, ज्ञानघोषः, ध्वजसंग्रहः, (१६०) वज्रप्रदीपः, व्यूहराजा, जयसंख्या, सुप्रतिष्ठितः, मतिचन्द्रराजा, क्रमविनर्दितराजा, सालेन्द्रसिंहविग्रहः, नारायणविजितगर्भः, रत्नगुणसंनिचर्यः, ज्योतिगर्भः, नक्षत्रविभवकीर्तिः, पुण्यबलसालराजा, ज्ञानघोषः, ब्रह्मोत्तरः, धृतराष्ट्रः । अपरं सहस्रं गन्धपद्मविजितकीर्तिराजा नामनो भविष्यन्ति, रश्मिमण्डलज्योतिप्रभासराजा, गन्धपद्मोत्तरवेगः,
अनन्तगुणसागरज्ञानोत्तरः, जम्बुच्छायः, गुणशैलध्वजः, सिंहकेतुः, नागविवर्जितकुसुमतेजराजा, सुगन्धबीजनैरात्म, अमृतगुणतेजराजकल्पिनमि भविष्यति । अपरं सहस्रं विसृष्टधर्मराजानो नागेन्द्रविमुक्तिबुद्धलोकसागरलोचनशैलनामा भविष्यन्ति तथागता अर्हन्तः सम्यक्संबुद्धाः । एककाले एकदिवसेऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ति, अन्योन्यासु लोकधातुषु दशान्तरकल्पायुःप्रमाणं भविष्यति" । तेऽपि दशप्राणसहस्रा रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा निपेतुः ।

(१६१)
रत्नगर्भस्तथागत आह -
"उत्तिष्ठत च दृढनागनर्दता क्रियता शुभद्रव्यसंचयम् ।
उद्युजितः पारमितासु वेगता भविष्यथासुरनरलोकनायकाः" ॥

अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो नवमं राजपुत्रमामन्त्रयते स्म अमिघं नाम । पेयालं, स प्राह - "तथारूपमहं बोधिसत्त्वचारिकां चरिष्यामि यथा मे दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु गङ्गानदीवालिकासमास्तिष्ठन्तो यापयन्तः बुद्धा भगवन्तो बोधिचारिकां चरतः साक्षिभूता भविष्यन्ति बोधिसत्त्वचर्यायाम् । यदहं भदन्त भगवन् त्वत्पुरतो बोधाय चित्तमुत्पादयामि, यावच्चानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये । अत्रान्तरेण मे बोधिसत्त्वचर्यां चरमाणस्य न विप्रतिसारचित्तमुत्पद्येत, यावद्बोधिपर्यन्तमुपादाय दृढप्रतिज्ञो भवेयं यथावादी तथाकारी, न चान्यस्य सत्त्वस्य चित्तसंक्षोभो भवेयं, न (१६२) च मे श्रावकप्रत्येकबुद्धयाने चित्तमुत्पद्येत, मा च कामरागचित्तचैतसिका उत्पद्येरन्, मा स्त्यानमिद्धसहगता मौद्धत्यसहगता मा कौकृत्यसहगता न विचिकित्सासहगता न प्राणातिपातं नादत्तादानं नाब्रह्मचर्यं न मृसावादं न पैशुन्यं न पारुष्यं नाभिध्या न व्यापादं न मिथ्यादृष्टिः न संभिन्नप्रलापं न मात्सर्यसहगतं न धर्मेऽगौरवचित्तता न विसंवादनचित्तता । यावद्बोधिपर्यन्तान्मम बोधिसत्त्वचर्यां चरमाणस्य इमे धर्मा न संविद्येयुः । यावद्बोधिपर्यन्तमुपादाय पदवीतिहारकमपि बुद्धानुस्मृतिर्नित्यं चित्तचैतसिकाः प्रवर्तेरन् । यावद्बोधिपर्यन्तेन नाहं बुद्धदर्शनेन विरहितो भवेयं न धर्मश्रवणेन न सङ्घोपस्थानेन । सर्वत्र च जातिषु प्रव्रज्यां प्रतिलभेयम् । सर्वासु जातिषु पांशुकूलिको भवेयं, त्रैचीवरिकः वृक्षमूलिकः नैषद्यिकः आरण्यकः पिण्डपातिकः अल्पेच्छः संतुष्टः
धर्मदेशकः आदेयवाक्यः अपरिमाणप्रतिभानसंपन्नो भवेयम् । न च मूलापत्तिमापद्येयम् । न मृषावादसहगतैर्मन्त्रैः परप्रवादिनो विमर्देयम् । शून्यताप्रतिसंयुक्तं च मातृग्रामस्य धर्मं देशयेयं, शून्यतामनस्कारेण च मातृग्रामस्य न दन्तविदर्शनं कुर्यात्, (१६३) न हस्तविकारेण धर्मं देशयेयम् । नित्यं चाहं महायानसंप्रस्थितानां बोधिसत्त्वानां शास्तृसंज्ञामुत्पादयेयम् । यस्य चाहं धर्मभाणकस्य सकाशाद्धर्मं शृणुयां शास्तृसंज्ञान् तस्यान्तिके उत्पादयेयं, सत्कृत्य चाहं तं धर्मभाणकं यथा तथागतं तथा सत्कुर्यां गुरुकुर्यां मानयेयं पूजयेयं यावदात्ममांसैरपि धर्मभाणकमुपस्थितेयम् । न चाहं पात्रमपात्रं चावेक्ष्य दानं दद्यां, न मम धर्मदानमात्सरिका चित्तचैतसिका उत्पद्येयुः । स्वजीवितदानेनाहं बोध्यर्थिकान् सत्त्वान् परित्रायेयं, स्ववीर्यबलप्रणिधानोपार्जितेन चाहं द्रव्येन व्यसनगतान् सत्त्वान् व्यसनेभ्यः परिमोचयेयम् । न चाहं प्रव्रजितलिङ्गिनं वा गृहस्थलिङ्गिनं वा आपत्त्यानापत्त्या वा चोदयेयम् । नित्यं चाहं लाभसत्कारश्लोकेऽग्निविषशस्त्रसंज्ञामुत्पादयेयम् । यदि च मे भदन्त भगवन्निमे प्रणिधाना यावद्बोधिपर्यन्तमुपादाय संृध्येयुः यथा भगवतः पुरतः प्रणिधानं कृतं, तदुभाभ्यां पाणिभ्यां दिव्याश्चक्ररत्नाः प्रादुर्भवन्तु सहस्राराः सनाभिकाः सनेमिकाः आदित्यवर्णप्रभास्वराः" । सहभाषितायामस्यां वाचि अमिघेन राजपुत्रेणोभायां
पाणिभ्यां तथारूपाणि चक्राणि (१६४) प्रादुर्भूतानि यथायाचिताः । पुनराह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत यावद्बोधिपर्यन्तेन तदिमे चक्राः शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु गच्छन्तु, एवंरूपेणोच्चशब्देन यथा नन्दोपनन्दा नागराजा गच्छन्ति तथा सर्वावन्तं बुद्धक्षेत्रं स्वरेण विज्ञापयन्तु बोधिसत्त्वव्याकरणस्मृत्यसंप्रमोषज्ञानदर्शनशून्यताभावनाप्रचारबुद्धविषयं धर्मपर्यायं चारयितुम् । ये च तत्र सत्त्वा उपपन्नास्तेषां सर्वेषां श्रोत्रेन्द्रियेष्वयं धर्मपर्यायमाभासमागच्छतु, निपतितमात्रे च तेषां सत्त्वानां रागः प्रशमतु, द्वेषो मोहो मानेर्ष्या मात्सर्यः प्रशमतु, सर्वबुद्धानुस्मृतिमनसिकारेणानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्तु" ।

प्रेषितौ च कुलपुत्रामिघेन राजपुत्रेण तौ द्वौ चक्ररत्नौ तौ चैवंरूपेण जवेन गच्छतस्तद्यथा बुद्धा भगवन्तो बुद्धजवेन गच्छन्ति; एवमेव तौ द्वौ चक्ररत्नौ गच्छतः दशसु दिशास्वप्रमेयेश्वसंख्येयेषु पञ्चकषायेषु बुद्धक्षेत्रेषु गत्वा सत्त्वानां बोधिसत्त्वव्याकरणस्मृत्यसंप्रमोषज्ञानान्तर्गताभावनाप्रचारबुद्धधर्मपर्यायं चारयन्ति । तेषां च सत्त्वानामयं (१६५) धर्मपर्यायं श्रोत्रेन्द्रियस्याभासमागच्छति, तेषां सर्वेषां रागो यावन्मात्सर्यचित्तचैतसिकाः प्रशान्ताः, सर्वे च बुद्धज्ञानविषयं मनस्कारेणानुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितवन्तो, मुहूर्तमात्रेण च ते चक्राः प्रतिनिवृत्यामिघस्य राजपुत्रस्य पुरतः स्थिताः ।

अथ खलु कुलपुत्र रत्नगर्भस्तथागतः अमिघस्य राजपुत्रस्य साधुकारमदात्, "साधु साधु कुलपुत्र, त्वयातीव शोभनः प्रणिधिः कृत, इमे च दिव्याश्चक्ररत्नाः शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु प्रेषिता, बहूनि च प्राणकोटीनियुतशतसहस्राण्यकलुषचित्तान्यवस्थापितानि, बोधौ च समादापितानि । तेन त्वं कुलपुत्राक्षोभ्यो नाम भवस्व । भविष्यसि त्वमक्षोभ्यो लोकस्य परिणायकः, गृह्ण त्वमक्षोभ्य बुद्धक्षेत्रगुणव्यूहानि यादृषान्याकाङ्क्षसि" ।

अक्षोभ्य आह - "तादृशमहं भदन्त भगवन् बुद्धक्षेत्रगुणव्यूहमाकाङ्क्षामि यथा सर्वलोकस्वर्णभूर्भवेत्, समापाणितलोपमा दिव्यमणिरत्नव्यवकीर्णा अपगतशर्करकठल्ला अपगतशिलास्तंभपाषाणपर्वता मृदुका काचलिन्दिकसुखसंस्पर्षा, निक्षिप्ते पादतलेऽवनमेदुत्क्षिप्ते पादतले पुनरुन्नमेत् । न चात्र नरकतिर्यग्योनियमलोकप्रेतविषयां (१६६) प्रज्ञायेयुः । न च तत्र बुद्धक्षेत्रे दुर्गन्धा भावा भवेयुः, दिव्यातिक्रान्तेन गन्धेन तद्बुद्धक्षेत्रं स्फुटं भवेत्, दिव्यैश्च मान्दारवमहामान्दारवैः पुष्पैस्तद्बुद्धक्षेत्रमाकीर्णम् । न च तत्र सत्त्वानां जराव्याधिमरणं भवेत्, न च परस्परभयं न च परस्परविहेठा न च सत्त्वानामकालमरणं विप्रतिसारमरणं नासमाहितमरणम् । बुद्धानुस्मृतिमनस्कारेण तत्र सत्त्वा भवेयुः । न च दुर्गतिषूपपद्येयुः, न पञ्चकषायेषु शून्येसु बुद्धक्षेत्रेषूपपद्येयुर्यावद्बोधिपरिनिर्वाणात्बुद्धदर्शनाविरहिता भवेयुर्धर्मश्रवणेन सङ्घोपस्थानेनाविरहिता । अल्परागाश्च तत्र सत्त्वा भवेयुरल्पद्वेषा अल्पमोहाः, सर्वे च तत्र दशकुशलां कर्मपथान् समादाय वर्तेयुः । न च तत्र बुद्धक्षेत्रे सत्त्वानां शील्पग्रहणं भवेत्, न नामनिमित्तं, न च तत्र सत्त्वानां मारावतारं मार्गेन । न च तत्र सत्त्वा दुर्वर्णा भवेयुः, न च तत्र सत्त्वा वैमात्र भवेयुः, यदुतार्यो वा दासो वा, अममा अपरिग्रहाश्च तत्र सत्त्वा भवेयुः । न च तत्र श्रावकानां बोधिसत्त्वानां वा शुक्लमोक्षणं भवेत्, अन्ततः स्वप्नान्तरगतानामपि; (१६७) सर्वे च तत्र सत्त्वा धर्मकामा धर्मपर्येष्टिपरा भवेयुः । न च तत्र बुद्धक्षेत्र एकसत्त्वोऽपि विपरीतदृष्टिको भवेत्न चान्यतीर्थिको, न च
तत्र सत्त्वानां कायक्लमता भवेत्चित्तक्लमता वा भवेत्; सर्वे च ते तत्र सत्त्वाः पञ्चाभिज्ञा भवेयुः । न च तत्र सत्त्वानां तृष्णा वा भुक्षा वा विहेठयेत्, यादृशं चाहारमाकाङ्क्षेयुः तादृशं रत्नभाजनेषु पुरतः प्रादुर्भवेत्यथा कामावचराणां देवानाम् । न चोच्चारप्रस्रावखेटसिङ्घाणमश्रु वा काये स्वेदो वा भवेत्, न च तत्र शीतं नोष्णं भवेत्, सुगन्धं रमणीयं भवेत्, मृदुसंस्पर्शाश्च वायवो वायुयुः । ते च तत्र देवमनुष्याणां गन्धकृत्यं कुर्वीरन्यदाकाङ्क्षेयुः यादृशमाकाङ्क्षेयुः, य एकः शीतलं वायुमाकाङ्क्षेत्, द्वितीय उष्ण, अपर उत्पलगन्धं वायुमाकाङ्क्षेयुः, अपर उरगसारचन्दनगन्धं वायुं, अपरे कालानुसारिगन्धं, अपरे तगरगन्धं, अपरेऽगरुगन्धं, अपरे सर्वेण सर्वं वायुनाकाङ्क्षेयुः, तेषां यथा चित्तोत्पादेनाक्षिप्तं तथा संपद्येत् । एवमपगतपञ्चकषाया लोकधातुर्भवेत् । तत्र च सत्त्वानां सप्तरत्नमयाः कूटागारा भवेयुः । तेषु च कूटागारेषु सप्तरत्नमयाः पर्यङ्काः स्त्रिताः (१६८) तूलिकोपधानैर्मृदुकाचलिन्दिकसंस्पर्शाः प्रादुर्भवेयुर्यत्र मनुष्या विहरेयुः । समन्ततश्च कूटागारेषु पुष्करिणीपरिपूर्णाष्टाङ्गोपेतेनोदकेन प्रादुर्भवेत्, यत्र ते सत्त्वा उदकेनोदककार्यं कुर्युः । सुमनातालवृक्षाणां वा वृक्षावलीरलङ्कृता भवेयुः, नानापुष्पैर्नानाफलैर्नानागन्धैर्नानावस्त्रैर्नानाच्छत्रैर्नानामुक्तिकाहारैर्नानाभरणैस्ते वृक्षा अलङ्कृता भवेयुः । यथारूपा च तत्र सत्त्वा वस्त्राभरणं
आकाङ्क्षेयुः ते तान् तेभ्यः कल्पवृक्षेभ्यो गृहीत्वा प्रावरेयुः, एवं पुष्पैर्यावदाभरणां गृहीत्वा बन्धेयुः । सप्तरत्नमयश्च मे बोधिवृक्षो भवेत्, योजनसहस्रमुच्चत्वेन योजनं स्कन्धपरिणाहेन योजनसहस्रं शाखापरिणाहेन । वायुसमीरितश्च ततो बोधिवृक्षाद्दिव्यातिक्रान्तः स्निग्धो मनोज्ञः पारमिता अभिज्ञेन्द्रियबलबोध्यङ्गशब्दो निश्चरेत्, ये च सत्त्वास्तं शब्दं शृणुयुस्ते विरागचित्ताः स्मृतिं प्रतिलभेयुः । सर्वगुणोपेतश्च तत्र बुद्धक्षेत्रे मातृग्रामो भवेत्तद्यथा तुषितदेवनिकायेऽप्सराः । न च तत्र मातृग्रामो दुर्गन्धो भवेत्, न द्विजिह्वे नेर्ष्यामात्सर्यपरिचिते । न च तत्र मनुष्या मातृग्रामेण (१६९) सार्धं मैथुनकायसंसर्गमापद्येयुः । यस्य च तत्र पुरुषस्य सरागचित्तमुत्पद्येत, गत्वा मातृग्रामं सरागेन चित्तेन प्रेक्षते मुहूर्तेन पुरुषस्य रागः प्रशाम्येत, महतोद्वेगेन च प्रक्रमेत्, शुभविरजं च समाधिं प्रतिलभेत, तेन च समाधिना मारपाशेभ्यः परिमुच्येयुः, न च भूयो रक्तचित्तमुत्पादयेयुः । या च तत्र स्त्री पुरुषं सरागं निरीक्षेत गुर्विणी भवेत्, निरीक्षितमात्रेण चोभयो रागः प्रशमेत् । ये गर्भवासैर्दारकदारिका एवं कायचैतसिकं सुखं प्रतिसंवेदयेयुः, तद्यथा देवास्त्रयस्त्रिंशा नन्दन्ति प्रमोदन्ति कायचैतसिकं सुखं प्रतिसंवेदयन्ति । एवंरूपश्च तत्र बुद्धक्षेत्रे गर्भवासा दारकदारिकाः सप्तरात्रिंदिवसानि सुखं संवेदयेयुः । ताश्च स्त्रियो गर्भिण्यः एवंरूपं सुखं प्रतिसंवेदयेयुः, तद्यथा द्वितीयध्यानसंपन्नो भिक्षुः । न च ते सत्त्वा
अशुचिना गर्भमलेन क्लिश्येयुः, सप्तमे च दिवसे परमसुगन्धेन परमेण च सुखोपधानेन समर्पिताः प्रत्याजायेयुः । न चैव सा स्त्री दुःखां प्रत्यनुभवेद्, उभौ च पुष्करिणीमवतरित्वा स्नात्वा च सा स्त्री एवंरूपां स्मृतिं प्रतिलभेत, यया विरागशुभं समाधिं प्रतिलभेत, तेन च समाधिना मारकर्मणा (१७०) परिमुच्येत, सततसमाहिता भवेत् । यच्च पूर्वजन्मनि तथारूपं कर्मकृतमुपचितं भवेद्येन च बहुकल्पकोटीस्त्रीभावमनुभवितव्यं तेन समाधिनाभिनिर्वृतेन स्त्रीभावं च सर्वेण सर्वं परिक्षयं गच्छेद्, यावत्परिनिर्वाणं न भूयः स्त्रीभावं प्रतिलभेत् । येषां च सत्त्वानां तथारूपं कर्मकृतमुपचितं भवेत्यद्गणनातिक्रान्तान् कल्पान्नित्यगर्भवासेन प्रत्याजायेयुर्दुःखं प्रत्यनुभवितव्यं भवेत्, ते बोधिप्राप्तस्य मे नामधेयं शृणुयुः प्रसादं च प्रतिलभेयुस्ते ततश्च्यवित्वा मम बुद्धक्षेत्र उपपद्येयुर्गर्भवासेन च प्रत्याजायेयुस्तत्र सर्वेण सर्वं तत्कर्मपरिक्षयं गच्छेयुर्यावद्बोधिपर्यन्तेन न भूयस्ते सत्त्वा गर्भवासेन प्रत्याजायेयुर्ये सत्त्वा अवरुप्तकुशलमूलास्ते पद्मेषु प्रत्याजायेयुः, ये सत्त्वा अनवरुप्तकुशलमूलास्ते गर्भवासेन प्रत्याजायेयुः । कर्मपरिक्षयेन मम बुद्धक्षेत्रे मातृग्रामो वा गर्भवासो वा प्रज्ञायेत एकान्तसुखसमर्पितास्ते सत्त्वास्तत्र बुद्धक्षेत्रे भवेयुः । सुमनातालवृक्षैर्वायुसमीरितैरेवंरूपो रमणीयो निर्घोषो निश्चरेद्दुःखमनित्यमनात्मशून्यशब्दा निश्चरेयुः । तेन च शब्देन तत्र (१७१) मनुष्या उल्कावतीं नाम समाधिं प्रतिलभेयुस्तेन च समाधिना ते सत्त्वाः शून्यतावभासां गम्भीरान् धर्मानवबुध्येयुः । न च तत्र बुद्धक्षेत्रे कामोपसंहितः शब्दो
भवेत् । बोधिवृक्षमूलनिषण्णश्चाहं भदन्त भगवन्मुहूर्तेनानुत्तरां सम्यक्संबोधिं प्राप्नूयाम् । बोधिप्राप्तस्य च मे तत्र बुद्धक्षेत्रे न भूयश्चन्द्रसूर्याणां प्रभा प्रज्ञायेत, अन्यत्र कुसुमसंकोचनेन; एवंरूपां चाहं प्रभां प्रमुञ्चेयं येन दिव्येन चक्षुषाप्रमेयासंख्येयैरन्यैर्बुद्धक्षेत्रैस्तिष्ठतो बुद्धान् भगवतः पश्येयम् । बोधिप्राप्तश्चाहमेवंरूपेण स्वरेण धर्मं देशयेयं येन स्वरेण त्रिसाहस्रमहासाहस्रं बुद्धक्षेत्रमापूरयेयं, ये च तत्र सत्त्वाः स्युः ते सर्वे बुद्धानुस्मृतिं प्रतिलभेयुस्ते येन येन गच्छेयुः चंक्रमेयुर्निषीदेयुर्वा परिवर्तेयुर्वा, ते सततसमितं मां पश्येयुर्यथारूपेषु धर्मेषु धर्मसंशया भवेयुः तेषां मम दर्शनमात्रेण व्यवलोकनमात्रेण च तेषां संशया विगच्छेयुः । बोधिप्राप्तस्य च मे ये सत्त्वा दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु बुद्धक्षेत्रेषु श्रावकयानिका वा प्रत्येकबुद्धयानिका वानुत्तरयानिका वा मम नामं वा वर्णं व शृणुयुः, ते ततश्च्यवित्वा (१७२) मम बुद्धक्षेत्र उपपद्येयुः । ते तत्र मम धर्मं श्रुत्वा ये श्रावकयानिकास्तेऽष्टविमोक्षध्यायिनोऽर्हन्तो भवेयुः, ये च प्रत्येकबुद्धयानिकाः ते प्रत्येकां बोधिमभिगच्छेयुः, ये च तत्र बोधिसत्त्वा महायानिकास्ते मत्सकाशाद्धर्मं श्रुत्वा गम्भीरां समाधिक्षान्तिधारणीं च प्रतिलभेयुः, ते तत्रैवावैवर्तिका भवेयुरनुत्तरायां सम्यक्संबोधौ । अप्रमेयश्च मे श्रावकसङ्घो भवेद्यो न शक्यं केनचिद्गणयितुं
अन्यत्र स्वयं तथागतेन । बोधिप्राप्तश्चाहं येन येन गच्छेयं यत्र यत्र च पादतलेन पृथिवीं स्पृशेयं तत्र तत्र सहस्रपत्राणि पद्मानि सुवर्णावभासानि प्रादुर्भवेयुः, ते च पद्माः शून्येषु बुद्धक्षेत्रेषु गत्वा मम वर्णशब्दं घोषं निश्चारयेयुः; ते च सत्त्वा मम नाम वर्णं यशश्च श्रुत्वा प्रीतिप्रसादप्रामोद्यमुत्पादयेयुः, ते प्रसादजाता मम बुद्धक्षेत्र उपपत्तिमाकाङ्क्षेयुः, तत्र च तानि कुशलमूलानि परिणामयेयुः, ते ततश्च्यवित्वा मम बुद्धक्षेत्र उपपद्येयुः । अपगतश्रमणमलश्च मे श्रावकसङ्घो भवेत्, अपगतश्रमणवाक्यापगतश्रमणकौटिल्यापगतश्रमणशाठ्या अपगतपर्षा (१७३) भवेद्धर्मगुरुका न परिष्कारगुरुका न लाभसत्कारगुरुका, अनित्यदुःखानात्मशून्यताभिरता आरब्धवीर्या च सा पर्षद्भवेद्धर्मश्रवणा सङ्घप्राग्भारा । ये च तत्रावैवर्तिका बोधिसत्त्वा भवेयुस्तेऽनागतप्रविष्टाः स्मृतिं प्रतिलभेयुस्ते जातिव्यतिवृत्ता प्रज्ञापारमिताप्रतिसंयुक्तां कथां कथयेयुः, यावद्बोधिपर्यन्तेन ते धर्मा न संप्रमोषं गच्छेयुः । यावद्बोधिप्राप्तश्चाहं दशमहाकल्पसहस्राणि तिष्ठेयं, परिनिर्वृतस्य च मे कल्पसहस्रं सद्धर्मस्तिष्ठेत्" ।

भगवानाह - "साधु साधु सत्पुरुष, परिशुद्धं ते बुद्धक्षेत्रं परिगृहीतम् । भविष्यसि त्वमक्षोभ्यानागतेऽध्वनि अतिक्रान्ते ह्येकस्मिन् गङ्गानदीवालिकासमेऽसंख्येयऽनुप्रविष्टे द्वितीये पुरस्तिमायां दिशि, अतः सहस्रिमे बुद्धक्षेत्रेऽभिरतिर्नाम लोकधातुर्भविष्यति, एवंरूपया गुणव्यूहया संपन्ना यथा त्वया प्रणिधानं कृतम् । तत्र त्वमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, एवमेवाक्षोभ्यो नाम भविष्यसि तथागतो यावद्बुद्धो भगवान्" ।

अक्षोभ्य आह - "यदि मे भदन्त भगवन्नेवंरूपाशा परिपूर्येत तत्सर्वत्र लोकधातुषु सत्त्वाः स्कन्धधात्वायतनपरिगृहीता (१७४) ये च सत्त्वाः सत्त्वसंग्रहेण संगृहीतास्ते सर्वे मैत्रचित्ता भवन्त्ववैरचित्ता अकलुषचित्तास्ते एवंरूपं कायसुखं संवेदयेयुः तद्यथापि नाम दशभूमिस्थितस्य बोधिसत्त्वस्य पद्मसमाधिं समापन्नस्य येनाशयप्रहाणविशुद्धिर्भवति, एवंरूपेण सत्त्वाः कायचैतसिकेन सुखेन समार्पिता भवन्तु । यदाहं भगवतः पञ्चमण्डलेन पादौ वन्देत तदा सर्वपृथिवी स्वर्णावभासा भवतु" । स च कुलपुत्र रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ वन्दति तदा च तस्मिन् समये सर्वसत्त्वा एवंरूपेण सुखेन समर्पिता यथा प्रणिधानं कृतं, तदा धरणी सर्वा स्वर्णावभासा दृश्यते ।

रत्नगर्भस्तथागत आह -
"उत्तिष्ठ प्रवरमति अक्षोभ्य चक्रसंस्थित करतल प्रवरचक्र ।
स्थापिता बहुतृष्णा करुणचित्ते भविष्यसि त्वं शुभमति जगति शास्ता" ॥

(१७५)
अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो दशमं राजपुत्रं हिमणिं नामामन्त्रयते स्म । पेयालं हिमणी राजपुत्र एवंरूपं प्रणिधानमकार्षीत्तद्यथाक्षोभ्येन कृतम् । "यदि मे भदन्त भगवन्नेवंरूपाशा परिपूर्येत तत्सर्वसत्त्वा बुद्धालंबनमनस्कारं प्रतिलभन्तु । सर्वेषां चोरगसारचन्दनगन्धो हस्ते प्रादुर्भवतु, ते च सर्वे तं गन्धं बुद्धविग्रहेषु परिणामयन्तु" ।

भगवानाह - "साधु साधु कुलपुत्र, उदारं ते प्रणिधानं कृतं, यच्च त्वया सर्वसत्त्वा उरगसारचन्दनहस्ता स्थापिता बुद्धमनस्कारश्चाशयेनोत्पादितः, तेन त्वं कुलपुत्र गन्धहस्तिर्नाम भवस्व । भविष्यसि त्वं गन्धहस्तेऽतिक्रान्तानां गङ्गानदीवालिकासमानामसंख्येयानामवशिष्टे द्वितीये नदीगङ्गावालिकासमेऽसंख्येयेऽक्षोभ्ये तथागतेऽर्हति सम्यक्संबुद्धे परिनिर्वृते सद्धर्मेऽन्तर्हिते सप्तमे द्विअसे त्वं गन्धहस्ते तत्र लोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, सुवर्णपुष्पो नाम भविष्यसि तथागतोऽर्हन् सम्यक्संबुद्धो यावद्बुद्धो भगवान्" ।

गन्धहस्तिरप्याह - "यदि मे भदन्त भगवन्नेवंरूपाशा (१७६) परिपूर्येत तद्यदाहं भगवतः पञ्चमण्डलेन पादौ वन्देयं तदा सर्वस्मिन्नारामे चम्पकपुष्पवर्षं प्रवर्षतु" । यदा खलु कुलपुत्र गन्धहस्तिर्बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ वन्दति तदा सर्वस्मिन्नारामे चम्पकपुष्पवर्षमभिप्रावर्षत् ।

रत्नगर्भस्तथागत आह -
"उत्तिष्ठ प्रवरगुण सुगन्धचित्तावर्षित इमि वरचम्पकपुष्पाः ।
दर्शय शुभपथ वरप्रणीतं स्थापय बहुजगमभये पारे" ॥

अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मण एकादशमं राजपुत्रं सिंहं नामामन्त्रयामास । पेयालं, यथा गन्धहस्तिना प्रणिधानं कृतं, रत्नगर्भाय तथागताय रत्नमयं ध्वजं निर्यातितम् ।

रत्नगर्भस्तथागत आह - "साधु साधु सत्पुरुष, रत्नकेतुर्नाम भवस्व, भविष्यसि त्वं रत्नकेतोऽनागते (१७७)ऽध्वनि अतिक्रान्ते गङ्गानदीवालिकासमेऽसंख्येयेऽवशिष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये तत्राभिरत्यां लोकधातौ परिनिर्वृते स्वर्णपुष्पे तथागते तस्य च सद्धर्मेऽन्तर्हिते त्रयाणामन्तरकल्पानामत्ययेन तद्बुद्धक्षेत्रं जयसोमं नाम भविष्यति, तत्र त्वमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे नागविनर्दितेश्वरघोषो नाम भविष्यसि यावद्बुद्धो भगवान् । एवंरूपं ते बुद्धक्षेत्रं भविष्यति बुद्धक्षेत्रे गुणव्यूहेन यथाक्षोभ्यस्य तथागतस्य" ।

रत्नकेतुराह - "यदि मे भदन्त भगवन्नेवंरूपाशा परिपूर्येत तद्यदाहं भगवतः पादौ वन्दे तदा सर्वसत्त्वा एवंरूपां स्मृतिं प्रतिलभेयुः, यथा बोधिसत्त्वा ये महाबोधिं संप्रस्थिताः सर्वसत्त्वानामर्थाय करुणायमानाः संबोधौ प्रस्थिता न निवर्तेयुः" । एवमेव कुलपुत्र रत्नकेतुर्बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पादौ वन्दित्वा, एवमेव सत्त्वा एवंरूपां स्मृतिं प्रतिलब्धवन्तो यदुत करुणाचित्ताः सर्वसत्त्वाः स्थापिताः ।

अथ खलु कुलपुत्र रत्नगर्भस्तथागतो रत्नकेतुं बोधिसत्त्वमाह -
(१७८)
"उत्तिष्ठ धैर्य सुमते परमरूप सत्त्वहेतु सुदृढकृत प्रतिज्ञा ।
स्थापयसि बहुजन विरजचित्ते भविष्यसे नरवरो प्रवरबुद्धः" ॥

एवं पेयालं, मार्दवपूर्वंगमैः पञ्चभि राजपुत्रशतैरेवंरूपं प्रणिधानं कृतं, कृत्वैवंरूपा बुद्धक्षेत्रगुणव्यूहाः परिगृहीता यथा गगनमुद्रेण बोधिसत्त्वेन प्रणिधानं कृतं, बुद्धक्षेत्रगुणव्यूहाश्च परिगृहीताः । सर्वे च रत्नगर्भेण तथागतेनानुत्तरायां सम्यक्संबोधौ व्याकृताः । "एवमेवैककालेऽन्योन्येषु लोकधातुष्वनुत्तरां सम्यक्संबोधिं स्पृशिष्यथ" ।

अपरे चत्वारः शता राजपुत्राणां यैरेवंरूपं बुद्धक्षेत्रं परिगृहीतं यथा वज्रच्छेदप्रज्ञावभासेन, तेऽपि सर्वे रत्नगर्भेण तथागतेन व्याकृता अनुत्तरायां सम्यक्संबोधौ अन्योन्येषु लोकधातुषु ।

अपरैरेकोननवतिभी राजपुत्रैरेवंरूपं प्रणिधानं कृतं, एवंरूपं च बुद्धक्षेत्रं परिगृहीतं (१७९) यथा समन्तभद्रेण ।

सर्वैश्चतुरशीतिभिः कोट्टराजसहस्रैः पृथक्पृथग्विशिष्टं प्रणिधानं कृतं, पृथक्पृथश्च बुद्धक्षेत्रगुणव्यूहाः परिगृहीताः । सर्वे च रत्नगर्भेण तथागतेन व्याकृता अनुत्तरायां सम्यक्संबोधौ, अन्योन्येषु लोकधातुष्वेककाले बोधिं प्राप्स्यन्ति ।

एवमेव त्रिभिः प्राणकोटिभिः पृथक्पृथक्प्रणिधानं कृतं, पृथक्पृथश्च बुद्धक्षेत्रगुणव्यूहाश्च परिगृहीताः । सर्वे च रत्नगर्भेण तथागतेन व्याकृताअनुत्तरायां सम्यक्संबोधौ, "एवमेव यूयमप्येककालेऽन्योन्येषु लोकधातुष्वनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यध्वे" ॥

अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्याशीतिपुत्रा रत्नगर्भस्य तथागतस्य भ्रातरः, तेषां ज्येष्ठः समुद्रेश्वरभुविर्नाम माणवः । अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणः समुद्रेश्वरभुविं माणवमामन्त्रयामास । "प्रतिगृहाण त्वं माणव परिशुद्धां बुद्धक्षेत्रगुणव्यूहां" । समुद्रेश्वरभुविर्माणवाह - (१८०) "त्वं तावत्तात प्रथमतरं सिंहनादं नदस्व" । समुद्ररेणुराह - " त्वं तावत्पुत्र प्रणिधानं कुरुष्व, पश्चादहं प्रणिधानं करिष्ये" । स आह - "किं तावत्परिशुद्धं बुद्धक्षेत्रं प्रतिगृह्णाम्युताहोस्विदपरिशुद्धं?" । अग्रपुरोहित आह - "ये महाकरुणासमन्वागता बोधिसत्त्वास्ते क्लिष्टं बुद्धक्षेत्रं परिगृह्णन्ति, क्लिष्टाशयां विपरीतदृष्टिकां सत्त्वान्वैनेयान् प्रतिगृह्णन्ति । यथा पुनस्त्वं माणव स्वं जानिषे" ।

अथ खलु कुलपुत्र समुद्रेश्वरभुविर्माणवको येन रत्नगर्भस्तथागतस्तेनोपसमक्रामदुपसंक्रम्य रत्नगर्भस्य तथागतस्य पुरतः स्थित्वैवमाह - "एवमहं भदन्त भगवन्ननुत्तरां सम्यक्संबोधिमाकाङ्क्षामि, अशीतिवर्षसाहस्रिकायां प्रजायां प्रवरां बोधिं स्पृशेयम् । यथैतर्हि भगवन् सत्त्वा मन्दरागा मन्दद्वेषा मन्दमोहा उद्विग्नाशयाः संसारे भयदोषदर्शिनस्तथा तत्र बुद्धक्षेत्रे सत्त्वा भवेयुः, यत्राहमभिसंबुद्धेयं, ते च ममान्तिके प्रव्रजेयुः, त्रिभिश्च यानैरहं सत्त्वानां धर्मं देशयेयम् । यदि भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तद्व्याकरोतु मां भगवाननुत्तरायां सम्यक्संबोधौ" ।

(१८१)
रत्नगर्भस्तथागत आह - "भविष्यसि त्वं माणवानागतेऽध्वनि अतिक्रान्त एकगङ्गानदीवालिकासमेऽसंख्येयेऽनुप्रविष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये उत्पलसन्तीरणे कल्पे चातुर्द्वीपिका बलिष्ठा नाम भविष्यति, इमं बुद्धक्षेत्रमशीतिवर्षसाहस्रिकायां प्रजायां बोधिमभिप्रप्स्यसि, रत्नकूटो नाम तथागतो भविष्यसि यावद्बुद्धो भगवान्" ।

स आह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तदिह सर्वत्रारामे लोहितमुक्तिः प्रवर्षतु, सर्ववृक्षेभ्यश्च पञ्चाङ्गिकं तूर्यं निश्चरतु" । यदा च कुलपुत्र समुद्रेश्वरभुविर्माणवको रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ वन्दति तदा सर्वत्रारामे लोहितमुक्तिमयवर्षं प्रवर्षितं, सर्ववृक्षेभ्यश्च पञ्चाङ्गिकं तूर्यं निश्चरितम् ।

रत्नगर्भस्तथागत आह -
"उत्तिष्ठ स्थामवर अक्षयप्रज्ञाकोषा सत्त्वानुकंपक हितेषिण मैत्रचित्ता ।
अभिप्राय तुभ्य परिपूर्यतु शुद्ध सत्त्वान अर्थकरु भेष्यसि बुद्ध लोके" ॥

(१८२)
द्वितीयश्च ब्राह्मणस्य पुत्रः संभवो नाम, स एवं वदति यथा समुद्रेश्वरभुविः । रत्नगर्भस्तथागत आह - "त्वमपि माणवोत्पलसन्तीरणे कल्पोऽस्यां चातुर्द्वीपिकायां लोकधातौ बलिष्ठे बुद्धक्षेत्रे वर्धमानाशीतिवर्षसाहस्रिकायां प्रजायां वैरोचनकुसुमो नाम तथागतो भविष्यसि यावद्बुद्धो भगवान्" ।

पेयालं, तृतीयस्त्वाह - "द्विवर्षसहस्रस्य ज्योतिगन्धो नाम भविष्यसि यावद्बुद्धो भगवान्" । व्याकरणं पेयालं, एवं सुमनस्तथागतः शैलराजा संवृतलोचनो ब्रह्मोत्तरो जम्बूच्छायः पूर्णमुत्तरो रत्नशैलः समुद्रगर्भो नारायणः शिखी कनकमुनिर्मुनीन्द्रः कौण्डिन्यः सिंहविक्रमो ज्ञानध्वजो बुद्धश्रवोऽपराजितो विकसितोज्जयो हितेषी प्रज्ञावभासो महेन्द्रः शान्तप्रज्ञाकरो नन्दो न्यग्रोधराजः कनकलोचनः सहितः सूर्यनन्दिः रत्नशिखी सुमेत्रो ब्रह्मः सुन्दो ब्रह्मर्षभः प्रणादो धर्मचन्द्रः (१८३) अर्थदर्शी यशोनन्दी यशोत्तरः अभिरूपः सुगन्धश्चतुरः प्रवरलोचनः सुनिजस्तः सार्थव्रतः सुमनोरथो वरप्रज्ञः कनकध्वजः सुनेत्रो देवशुद्धः शुद्धोदनः सुदर्शनः विरूढध्वजो विरूपाक्षो ब्रह्मस्वरः श्रीसंभवः श्रीमहाविरजो मणिभद्रः मारीचिः शाक्यमुनिर्घोषेश्वरः सत्यसंभवः श्रेष्ठः संभवपुष्पः सुकुसुमः अक्षोभ्यः सूर्यगर्भो रतीश्वरो नागदन्तो वज्रप्रभासः कीर्तिराजा व्याघ्ररश्मिः सनेत्यज्ञानसंभवः गन्धस्वरः सालेन्द्रः नारायणगतः ज्योतिगर्भः । यस्तु तत्र कुलपुत्र सर्वपश्चिमकः पुरोहितपुत्रः विगतभ्यसंतापो नाम, स रत्नगर्भस्य तथागतस्य पुरुतः स्थित्वाह । "इमे भदन्त भगवन्नेकोनाशीतिर्माणवकाः सर्वे व्याकृता उत्पलसंतीरणे कल्पे वर्धमानद्वयेऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । उत्पादयाम्यहं भगवन्ननुत्तरायां सम्यक्संबोधौ चित्तं,
क्षीयमाणे भदन्त भगवन्नुत्पलसंतीरणे (१८४) कल्पे सर्वपश्चिमकोऽहं वराग्रबोधिं स्पृशेयम् । यान्तकं तेषामेकोनाशीतीनां बुद्धानामायुःप्रमाणं तान्तकं ममैकस्य बोधिप्राप्तस्य भवेत् । यान्तकाश्च तेषां वैनेया भवेयुस्तान्तका ममैकस्य भवेयुः, यथा च ते त्रिभिर्यानैर्धर्मं देशयेयुः, यथा च तेषां श्रावकसङ्घो भवेत्, तान्तको मम बोधिप्राप्तस्य एकश्रावकसङ्घो भवेत् । ये च तेषामेकोनाशीतीनां बुद्धानामुत्पन्नानां सत्त्वास्तस्मिन्नुत्पलसंतीरणे कल्पे मनुष्यलाभं प्रतिगृह्णीयुः, क्षीयमाणे कल्पेऽहमनुत्तरां सम्यक्संबोधिमभिसंबुद्धः सर्वांस्तान् सत्त्वांस्त्रिभिर्यानैर्नियतां व्यवस्थापयेयम् । यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तद्व्याकुरुष्व मां भदन्त भगवन्ननुत्तरायां सम्यक्संबोधौ" ।

अथ खलु कुलपुत्र रत्नगर्भस्तथागतो विगतभयसंतापस्य साधुकारमदात् । "साधु साधु सत्पुरुष, गणनातिक्रान्तानां सत्त्वानां कारुणिकहितकरश्चोत्पन्नो, भविष्यसि त्वं माणवकानागतेऽध्वन्यतिक्रान्त एकगङ्गानदीवालिकासमेऽसंख्येयेऽनुप्रविष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये तत्रोत्पलसंतीरणे कल्पे क्षीयमाणे सर्वपश्चिमकस्त्वमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, (१८५) विअगतरजसमुद्गताभ्युद्गतराजा नाम तथागतो भविष्यसि यावद्बुद्धो भगवान् । यथा च तेषामेकोनाशीतीनां बुद्धानामर्धकल्पमायुर्भविष्यति, एवं तवैवैकस्यायुरर्धकल्पं भविष्यति । यावत्सर्वे ते त्वत्प्रणिधानाः संपत्स्यन्ते यथा प्रणिधानं कृतं" ।

स आह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपुर्येत यदाहं भगवतः पञ्चमण्डलेन पादौ वन्दामि तदा सर्वत्रास्मिन् बुद्धक्षेत्रे नीलकुसुमाः प्रवर्षन्तु परमसुगन्धा, ये च सत्त्वास्तं गन्धमाघ्रायेयुः तेषां सर्वेषां धातवः प्रसन्ना अविरुद्धा भवेयुः, सर्वेषां च सर्वव्याध्यः प्रशाम्येयुः । यदा च कुलपुत्र विगतभयसंतापो माणवो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ वन्दति तदा सर्वत्र तस्मिन् बुद्धक्षेत्रे नीलकुसुमवृष्टिः प्रवर्षिता, ये च सत्त्वास्तं गन्धं घ्रातवन्तस्तेषां सर्वे धातवः समा अविरुद्धाः संस्थिताः, सर्वे च तत्र सत्त्वा अरोगा अल्पाबाधाश्च संवृत्ताः ।

रत्नगर्भस्तथागत आह -
"उत्तिष्ठ करुणव्रतदान्तचित्ता पूजयिष्यसि बहव लोकनाथान् ।
(१८६)
छेत्स्यसि दृढां शठक्लेशबन्धनां भविष्यसे शुभवरप्रज्ञकोशः" ॥

तस्य च कुलपुत्र ब्राह्मणस्य त्रयः कोट्योऽन्तवासिनामारामद्वारे निषण्णास्ते आगतां सत्त्वांस्त्रिशरणगमने स्थापयन्ति, बोधाय च समादापयन्ति ।

अथ खलु समुद्ररेणुर्ब्राह्मणस्तां शिष्यानामन्त्रयते स्म । "उत्पादयथ भो माणवका अनुत्तरायां सम्यक्संबोधौ चित्तं, गृह्णथ बुद्धक्षेत्रगुणां यादृशानाकाङ्क्षथ, कुरुत भगवतः सकाशे प्रणिधानं यादृशमेवाकाङ्क्षथ" ।

तत्र ज्योतिक्षभको नाम माणवः, स आह - "कीदृशेन मार्गेण कीदृशेन संभारेण कीदृश्या चर्यया कीदृश्या संृत्या बोधिर्लभ्यते?" । पुरोहित आह - "चत्वार इमे माणवका बोधिमार्गप्रतिपन्नेन बोधिसत्त्वेनाक्षयकोशाः समुदानयितव्याः । कतमे चत्वारः?" अक्षयः पुण्यसंभारः, अक्षयो ज्ञानसंभारः, अक्षयः प्रज्ञासंभारः, अक्षयः (१८७) सर्वधर्नसमुदानयनसंभारः । ईदृशः कुलपुत्र मार्गः । उक्तं चैवं माणव तथागतेन संभारविशुद्धिसङ्ग्रहो नाम संसारोत्तरणधर्मद्वारं; दानसंभारं बोधिसत्त्वा ये परित्यजन्ति, स च वैनेयसत्त्वपरिपाचनाय संवर्तते; शीलसंभारो बोधिसत्त्वानां प्रणिधानपूर्यै संवर्तते; क्षान्तिसंभारो बोधिसत्त्वानां लक्षणानुव्यञ्जनपरिपूर्यै संवर्तते; वीर्यसंभारो बोधिसत्त्वानां सर्वकामकरणाय संवर्तते; ध्यानसंभारो बोधिसत्त्वानामाजानेयचित्ततायै संवर्तते; प्रज्ञासंभारो बोधिसत्त्वानां सर्वक्लेशपरिज्ञायै संवर्तते; श्रुतसंभारो बोधिसत्त्वानामसङ्गप्रतिभानतायै संवर्तते; पुण्यसंभारो बोधिसत्त्वानां सर्वसत्त्वोपजीव्यतायै संवर्तते; ज्ञानसंभारो बोधिसत्त्वानामसंशयज्ञानतायै संवर्तते: शमथसंभारो बोधिसत्त्वानां कर्मणचित्ततायै संवर्तते; विपश्यनासंभारो बोधिसत्त्वानां विगतकथंकथायै संवर्तते; (१८८) मैत्रीसंभारो बोधिसत्त्वानामप्रतिहतचित्ततायै संवर्तते; करुणासंभारो बोधिसत्त्वानां वैनेयाखेदतायै संवर्तते; मुदितासंभारो बोधिसत्त्वानां धर्मारामरतिरमणतायै संवर्तते;
उपेक्षासंभारो बोधिसत्त्वानामनुनयप्रतिघप्रहाणतायै संवर्तते; धर्मश्रवणसंभारो बोधिसत्त्वानां निवरणप्रहाणाय संवर्तते; नैष्क्रम्यसंभारो बोधिसत्त्वानां सर्वपरिग्रहावसरणतायै संवर्तते; अरण्यवाससंभारो बोधिसत्त्वानां कृतकुशलमूलकर्माविप्रणाशतायै संवर्तते; कुशलवृद्धिभावनतासंभारो बोधिसत्त्वानां सर्वकुशलतायै संवर्तते; स्मृतिसंभारो बोधिसत्त्वानां धारणीप्रतिलाभतायै संवर्तते; मतिसंभारो बोधिसत्त्वानां बोधिप्रभेदनतायै संवर्तते; धृतिसंभारो बोधिसत्त्वानामर्थगत्यनुबुध्यनतायै संवर्तते; स्मृत्युपस्थानसंभारो बोधिसत्त्वानां कायवेदनाचित्तधर्मप्रत्यवेक्षणतायै संवर्तते; सम्यक्प्रहाणसंभारो बोधिसत्त्वानां सर्वकुशलधर्मभावनापरिपूरणाय (१८९) संवर्तते; ऋद्धिपादसंभारो बोधिसत्त्वानां कायचित्तलघुतायै संवर्तते; इन्द्रियसंभारो बोधिसत्त्वानां संवरपरिपूर्यै संवर्तते; बलसंभारो बोधिसत्त्वानां सर्वक्लेशावमर्दनतायै संवर्तते; बोध्यङ्गसंभारो बोधिसत्त्वानां धर्मस्वभावावबोधनतायै संवर्तते; षट्परायणीयसंभारो बोधिसत्त्वानां वैनेयसत्त्वपरिशोधनतायै संवर्तते । अयं माणवकाः संभारविशुद्धिमुखसंग्रहो नाम संसारोत्तरणधर्मद्वारं" । स आह - "दानसंभारो भगवता महाभोगमहापरिवारतायायुक्तः, शीलं स्वर्गोपपत्तये, श्रुतं महाप्रज्ञतायै; श्रद्धाजीवभावना भगवता स्वंसारोत्तरणार्थं निर्दिष्टा" । पुरोहिता आह - "ये माणवाः संसाराभिरता दानं ददन्ति, एवमेतद्यथोक्तम् । ये माणवक कुलपुत्रा वा कुलदुहितरो वा बोधिमार्गप्रतिपन्नास्तैर्दानं
दमचित्ततया दातव्यं, शीलं शमथचित्ततया रक्षितव्यं, श्रुतमकलुषचित्ततया पर्येषितव्यं, भावना महाकरुणाचित्ततायै भावयितव्या, परिशेषा (१९०) धर्माः प्रज्ञाज्ञानोपायसंभारसमुदानयतायै पर्येष्टव्याः । अयं माणवका बोधिमार्गः । ईदृशेन संभारेण बोधिर्लभ्यत इति, ईदृशी भावना, ईदृशी स्मृतिः, ईदृशी माणवका बोधिमार्गचर्या; जनयत माणवका बोधौ छन्दम् । शुद्धो माणवका बोधिमार्ग आशयेन प्रणिधानं कर्तव्यं परिपूर्यते; प्रसन्नो माणवका बोधिमार्ग आशयविशुद्ध्या; ऋजुका माणवका बोधिमार्ग अशठ्यविशुद्धिक्लेशप्रवाहणतया; योगक्षेमो माणवका बोधिमार्गः अनुत्तरनिर्वाणपर्यवसानः । कुरुत प्रणिधानं, गृह्णत बुद्धक्षेत्रगुणव्यूहं परिशुद्धमपरिशुद्धं वा यथाभिप्रेता" ।

अथ खलु कुलपुत्र ज्योतिक्षभको माणवको रत्नगर्भस्य तथागतस्याग्रतो दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्याह । "उत्पादयाम्यहं भदन्त भगवन्ननुत्तरायां सम्यक्संबोधौ चित्तम् । अस्मिं क्लिष्टे बुद्धक्षेत्रे मण्डरागाणां सत्त्वानां मण्डद्वेषाणां मण्डमोहानामस्खलितालुडितचित्तानामवैरचित्तानामीर्ष्यामात्सर्यचित्तविवर्जितानां मिथ्यादृष्टिपरिवर्जितचित्तानां सम्यग्दृष्टिव्यवस्थितचित्तानां कुशलचित्तानां कुशलपर्येष्टिचित्तानामपायपथविवर्जितचित्तानां (१९१) त्रिःस्वर्गपथोद्युक्तचित्तानां त्रिभिः पुण्यक्रियावस्तुभिः समुदानीतकुशलमूलानां त्रिषु यानेषु प्रयुक्तचित्तानामनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तदा मे उभयोः पाण्योर्हस्तिनागाः प्रादुर्भवन्तु" । सहप्रव्याहृते वाक्ये भगवतोऽनुभावेन उभयोः पाण्योर्हस्तिनागाः प्रादुर्भूताः सर्वश्वेताः सप्ताङ्गसुप्रतिष्ठिताः । दृष्ट्वा आह - "गच्छत यूयं गगनतलम् । सर्वावन्तमिदं बुद्धक्षेत्रमष्टाङ्गोपेतेन वर्षेण परमसुगन्धेन सर्वसत्त्वानितो बुद्धक्षेत्रात्प्रबोधयत । येषां सत्त्वानां काये ततो बिन्दु निपते ये वा गन्धमाजिघ्रेयुस्तेषां पञ्चनीवरणाः प्रहीयन्तु; तद्यथा कामच्छन्दनीवरणं प्रहीयतु, व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सानीवरणं प्रहीयतु" । सहप्रव्याहृते वाक्ये नागा उपर्यन्तरीक्षे एवंरूपेण जवेन गच्छन्ति, तद्यथापि नाम बलवान् पुरुषः प्रसारितां बाहु संकोचयेत्संकोचितं
बाहु प्रसारयेत् । एवमेव ते हस्तिनागाः कृतकार्या यथा पूर्वोक्तं विवर्त्तित्वा तस्याग्रतः स्थिताः ।

अथ खलु कुलपुत्र ज्योतिक्षभो माणवकः परमप्रीतिमनाः; (१९२) तं रत्नगर्भस्तथागत आह - "भविष्यसि त्वं कुलपुत्रानागतेऽध्वनि अनुप्रविष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये रत्नप्रभासे कल्पे रत्नसञ्चयं नाम बुद्धक्षेत्रं भविष्यति, अस्मिं चातुर्द्वीपिके रत्नच्छत्राभ्युद्गतरश्मिर्भविष्यसि तथागतो यावद्बुद्धो भगवान्" । अथ कुलपुत्र ज्योतिक्षभो बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा निपपात ।

रत्नगर्भस्तथागत आह -
"उत्तिष्ठ विगतरजा शुद्धसत्त्वा व्याकृत बहुसत्त्वकोटीः सा ।
भविष्यसि वरशुद्धमार्गः बोधये भविष्यसि वरजिनः सत्त्वनायकः" ॥

पेयालं, सहस्रो माणवकानां त्रयः कोट्यो माणवकानां यैरस्मिन् बुद्धक्षेत्रेऽनुत्तरायां सम्यक्संबोधौ (१९३) प्रणिधानं कृतं; सर्वे च ते रत्नगर्भेण तथागतेन व्याकृताः, यावद्विपश्यी शिखी विश्वभुवः पश्चिमा बुद्धा बभूवुः । सर्वे माणवका व्याकृताः ।

तत्र सहस्रवेदपाठकानां ब्राह्मणानां यस्तेषां ज्येष्ठः गुरुसंमतो वायुविष्णुर्नाम । स आह - "अहं पुनः पञ्चकषाये बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिं स्पृश्येयम् । तीव्ररागानां तीव्रद्वेषाणां तीव्रमोहानां सत्त्वानां धर्मं देशयेयं" ।

ज्योतिपालो नाम माणवकः । स आह - "किमर्थवशं समनुपश्यमानोऽयं भो उपाध्याय वायुविष्णुः पञ्चकषाये बुद्धक्षेत्रे प्रणिदधाति?" । पुरोहित आह - "सकलमहाकरुणासमन्वागतो बोधिसत्त्वः पञ्चकषाये बुद्धक्षेत्रे बोधिमनुप्राप्नोति; अत्राणानामपरायणानां क्लेशैरुपद्रुतानां दृष्टिव्यसनप्राप्तानां सत्त्वानामर्थकरो भवति; त्राणं परायणं भवति; जन्मसमुद्राच्च सत्त्वानुत्तारयति; सम्यग्दृष्ट्यां च सत्त्वान् प्रतिष्ठापयति; निर्वाणामृतरसेन सत्त्वान् संतर्पयति । इयं बोधिसत्त्वस्य महाकरुणा दृश्यत ये पञ्चकषाये बुद्धक्षेत्रे प्रणिदधन्ति" ।

(१९४)
रत्नगर्भस्तथागत आह - "भविष्यसि त्वं वायुविष्णो अतिक्रान्तानामेकगङ्गानदीवालिकासमानामसंख्येयानामवशिष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये पुरस्तिमायां दिशायां बुद्धक्षेत्रपरमाणुरजःसमानि बुद्धक्षेत्राण्यतिक्रमित्वा तत्र कषायध्वज नाम लोकधातुर्भविष्यति । तत्र त्वं सत्पुरुषानुतरां सम्यक्संबोधिमभिसंभोत्स्यसे, शालेन्द्रराजो नाम तथागतो भविस्यसि यावद्बुद्धो भगवान्" । वायुविष्णुराह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत यदाहं भगवतः पञ्चमण्डलेन पादौ वन्दे तदा मे भगवान् छतपुण्यलक्षणालङ्कृतावुभौ चरणौ मूर्ध्नि स्थापयतु" ।

यदा कुलपुत्र वायुविष्णुर्माणवो भगवतः पादयोः शिरसा निपपात तदा रत्नगर्भस्तथागतः उभौ चरणौ वायुविष्णोर्बोधिसत्त्वस्य मूर्ध्नि स्थापयित्वाह -
"उत्तिष्ठ करुणाशय तीक्ष्णप्रज्ञ चराहि चर्या वरबोधिकारणात् ।
छिन्दाहि धिरादृधक्लेशबन्धनं भेष्यसि बुद्ध हितानुकम्पी" ॥

(१९५)
अथ खलु कुलपुत्र ज्योतिपालो माणवको रत्नगर्भस्य तथागतस्य दक्षिणं जानुमण्डलं पृथ्व्यां प्रतिष्ठाप्याह - "उत्पादयाम्यहं भदन्त भगवन्ननुत्तरायां सम्यक्संबोधौ चित्तम् । अस्मिन् बुद्धक्षेत्रे रागद्वेषमोहसभागचित्तानामव्यवस्थितकुशलाकुशलाशयानां सत्त्वानां चत्वारिंशद्वर्षसहस्रायुष्कायां प्रजायामनुत्तरां सम्यक्संबोधिमभिसंबुध्येयंऽ । रत्नगर्भस्तथागत आह ऽतिक्रान्तानामेकगङ्गानदीवालिकासमानामसंख्येयानामवशिष्टे द्वितीये सहा नामायं लोकधातुर्भविष्यति । केन कारेणेन सहेत्युच्यते?ऽ सहास्ते सत्त्वा रागस्य सहास्ते द्वेषस्य सहास्ते मोहस्य सहास्ते क्लेशबन्धनानां, तेन कारेणेन सा लोकधातुः सहेत्युच्यते । तत्र सहायां लोकधातौ भद्रको नाम भविष्यति महाकल्पः । केन कारणेनोच्यते भद्रक इति? । भद्रके महाकल्पे रागद्वेषमोहचरितानां सत्त्वानां सहस्रं महाकारुणिकानां बुद्धानां भगवतामुत्पत्स्यते । त्वमपि सत्पुरुषानुप्रविष्टे भद्रके महाकल्पे चत्वारिंशद्वर्षसाहस्रिकायां (१९६) प्रजायां सर्वप्रथममनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, क्रकुत्सन्दो नाम भविष्यसि तथागतो यावद्बुद्धो भगवांस्त्रिभिर्यानैर्धर्मं देशयिष्यसि, गणनातिक्रान्तान् सत्त्वान् संसारनद्यामुह्यमानानुत्तारयिष्यसि, निर्वाणपारे च स्थापयिष्यसिऽ । अथ खलु कुलपुत्र ज्योतिपालो बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा वन्दित्वैकान्तेऽतिक्रम्य तस्थौ ।

अथ खलु कुलपुत्र द्वितीयस्तुम्बुरुर्नाम माणवको रत्नगर्भस्य तथागतस्य पुरतो निषण्णः । "भविष्याम्यहं भदन्त भगवन् क्रकुत्सन्दस्य तथागतस्यानुसंधौ त्रिंसद्वर्षसहस्रायुष्कायां प्रजायां बुद्धो लोके" । रत्नगर्भस्तथागत आह - "भविष्यसि त्वं माणवकातिक्रान्त एकगङ्गानदीवालिकासमेऽसंख्येयेऽवशिष्टे द्वितीये नदिगङ्गावालिकासमेऽसंख्येये सहे बुद्धक्षेत्रेऽनुप्रविष्टे भद्रकल्पे क्रकुत्सन्दस्य तथागतस्यानुसंधौ त्रिंशद्वर्षसाहस्रिकायां प्रजायां कनकमुनिर्नाम तथागतो भविष्यसि अर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोकस्य" । स भगवतः सकाशाद्व्याकरणं श्रुत्वा (१९७) रत्नगर्भस्य तथागतस्य पादौ शिरसा वन्दित्वा प्रदक्षिणीकृत्वा रत्नगर्भस्य तथागतस्याभिमुखमास्थात्, पुष्पैर्भगवतः कायमवकिरमाणः प्रञ्जलिभूतो भगवन्तं गाथाभिस्तुष्ठाव ।

"सुसहित सुमुदित सुमधुर वचना अस्खलित अलुडित अकलुष विमला ।
अभिशय अतियति अतिमति मतिमा ऋषिवर ज्वल तुम मुनिवर वृषभी ॥
बहु तुम गुणदद गुणशत भरिता सुखकर मुनिवर नरमनु नमिता ।
न हि अन्यु सत्त्व विद्यति त्वयि समु तृभवे त्वयि अद्यि बहुसत्त्व बोधिमार्गि व्याकृता" ॥

(१९८)
अथ खलु कुलपुत्र विश्वगुप्तो नाम माणवको रत्नगर्भस्य तथागतस्य पुरतः सप्तरत्नमयं पीठं स्थापयित्वा शतसहस्रमूल्येन प्रज्ञपनेन प्रज्ञप्य, तत्र पीठे सुवर्णपात्रं स्थापयित्वा सप्तरत्नपरिपूर्णसुवर्णमयं भृङ्गारं सप्तरत्नमया यष्टिर्बुद्धप्रमुखे भिक्षुसङ्घे नियोजितवान् । स आह - "भविष्याम्यहं भदन्त भगवन्ननागतेऽध्वन्यतिक्रान्त एकगङ्गानदीवालिकासमेऽसंख्येयेऽवशिष्टे द्वितीये तस्मिंश्च भद्रकल्पे तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नो हीयमाने आयुषि उत्पन्ने कलियुगनिमित्ते तीव्ररागद्वेषमोहमानेर्ष्यामात्सर्यपर्युत्थितानां सत्त्वानां मिथ्यादृष्ट्यकल्याणमित्रसन्निश्रितानां सत्त्वानामकुशलमूलपर्युत्थितचित्तानां कुशलमूलपरिहीणचित्तानां सम्यग्दृष्टिविवर्जितचित्तानां मिथ्याजीवाकुशलचित्तानां, परिनिर्वृते कनकमुनौ तथागते सद्धर्मेऽन्तर्हितेऽन्धे लोकेऽनायके विंशतिवर्षसहस्रिकायां प्रजायामहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं" ।

तस्य कुलपुत्र विश्वगुप्तस्य ब्राह्मणस्य रत्नगर्भस्तथागत आह - "साधु साधु ब्राह्मण महाविद्वान् ज्ञानसमन्वागतः, त्वं सत्पुरुषोत्पन्ने कलियुगनिमित्ते (१९९) यावद्विंशतिवर्षसहस्रिकायां प्रजायामन्धे लोकेऽनायके प्रणिधानं कृतम् । तेन त्वं सत्पुरुष विद्वगञ्जकरुणाश्रयो नाम भवस्व । भविष्यसि त्वं विद्वगञ्जकरुणाश्रयानागतेऽध्वन्यतिक्रान्तानामेकगङ्गानदीवालिकासमानामवशिष्टे द्वितीये सहायां लोकधातौ अनुप्रविष्टे भद्रके कल्पे विंशतिवर्षसहस्रिकायां प्रजायां काश्यपो नाम तथागतो भविष्यसि यावद्बुद्धो भगवान्" ।

अथ खलु कुलपुत्र विद्वगञ्जकरुणाश्रयो बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा वन्दित्वैकान्तेऽस्थात्, रत्नगर्भं तथागतं पुष्पमाल्यगन्धचूर्णैरवकिरति, आभिश्च गाथाभिरभिस्तवमानः ।

"नरवर हितकर रतिकर जनक
स्मितमुख प्रमुदित सुमधुर वचना ।
स्थानज्ञान कुशल हितकरा दशबलधर प्रवरा
ज्ञानध्यानविमोक्षपारमिता नमोऽस्तु ते सुगते ॥
बहुचर्यचरित विकसितवदना अतुलाय बोधिय व्याकृता ।
त्वया बहुबोधिसत्त्वनयुता वन्दाम ते नरवरा सुगता" ।
इति ॥

(२००)
अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणश्चतुर्थं विमलवैशायनं माणवकं संचोदयामास । अथ खलु कुलपुत्र विमलवैशायनो माणवको रत्नगर्भस्य तथागतस्य पुरतः स्थित्वाह - "एवमेवाहमस्मिन् भद्रके कल्पे बोधिमाकाङ्क्षामि, न च केवलमेवंरूपं कलियुगे । यथा काश्यपस्य तथागतस्य परिनिर्वृतस्य दशवर्षसहस्रिकायां प्रजायां दानदमपरिक्षीणाशयानां सत्त्वानां सप्तधनविरहितानामकल्याणमित्रे शास्तृसंज्ञाप्रतिपन्नचित्ता भवन्ति, अनर्थिकास्त्रिभिः पुण्यक्रियावस्तुभिर्भवन्ति, विरहितास्त्रिभिः सुचरितैरुद्युक्तास्त्रिषु दुष्चरितेषु क्लेशान्धकारव्याकुलचित्ता भवन्ति, अनर्थिकास्त्रिभिर्यानैर्न शक्यं तत्कालं केनचिद्बोधिचर्यां निष्पादयितुम् । किं पुनर्वर्षसहस्रिकायां; यावत्ते (२०१) सत्त्वा वर्षशतायुष्का भवन्ति, तत्कालं सत्त्वानां कुशलमूलस्य नास्ति नाम, किं पुनः कुशलमूलचर्या; तावत्पञ्चकषाये लोके हायमाना दशवर्षायुष्का भवन्ति, शस्त्रान्तरकल्पे प्रत्युपस्थिते तत्कालमहं देवेभ्योऽवतीर्य सत्त्वान् परित्रायेयं, अकुशलं रिञ्चित्वा कुशले नियोजयेयं, यावद्दशसु कुशलेषु कर्मपथेषु सत्त्वान् प्रतिष्ठापयेयं, क्लेशांश्च सत्त्वानां कुशलेभिः कर्मपथेभिः परिशोधयेयं, पञ्चकषायं च परिहायेयम् । यावदशीतिवर्षसहस्रिकायां प्रजायामहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, मन्दरागद्वेषमोहानामविद्येर्ष्यामत्सरिणां सत्त्वानां धर्मं देशयेयं, त्रिषु च यानेषु संनियोजयेयम् । यदि मे भगवन्नेवंरूपा
आशा परिपूर्येत व्याकरोतु मां भदन्त भगवन्ननुत्तरायां सम्यक्संबोधौ । यदाहं भदन्त भगवन्नेवंरूपं व्याकरणं न लप्स्यामि, न श्रावकभूमिं प्रार्थयामि न च प्रत्येकबुद्धभूमिं येन यानेन शीघ्रं संसाराद्विमुच्यामि" ।

(२०२)
रत्नगर्भस्तथागत आह - "चत्वारीमानि ब्राह्मण बोधिसत्त्वानां कुशीदवस्तूनि; यैः कुशीदवस्तुभिः समन्वागता एकत्या बोधिसत्त्वा दीर्घसंसारलाभिनो दृष्टिप्रपाते संसारचारके दुःखान्यनुभवन्ति, न च क्षिप्रमनुत्तरां सम्यक्संबोधिमनुप्राप्नुवन्ति । कतमानि चत्वारि? । इहैकत्यो बोधिसत्त्वो हीनाचारो भवति, हीनसहायः, हीनपरित्यागः, हीनप्रणिधिः । कथं च बोधिसत्त्वो हीनाचारो भवति? इहैकत्यो दुःशीलो भवति, कायवाङ्मनसा चासंवृतचारी भवति, श्रावकप्रत्येकबुद्धयानिकैः सार्धं संसर्गचारी भवति, न च सर्वपरित्यागी न सर्वत्रपरित्यागी भवति, देवमनुष्यश्रीसुखाभिलाषी दानं ददाति, न चाध्याशयेन बुद्धक्षेत्रगुणव्युहान् प्रतिगृह्णाति वैनेयमनवेक्ष्य प्रणिधानं प्रतिगृह्णाति । एभिश्चतुर्भिर्धर्मैः समन्वागतः कुशीदो बोधिसत्त्वः चिरं संसारचारके दुःखमनुभवति, न च क्षिप्रमनुत्तरां सम्यक्संबोधिमनुप्राप्नोति ।

चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । कतमैश्चतुर्भिः? शीलवान् भवति कायवाङ्मनः संवृतचारी, महायानसंप्रस्थितैः सार्धं संसर्गचारी भवति, (२०३) सर्वपरित्यागी सर्वत्रपरित्यागी सत्त्वानां दुःखपरिमोचनार्थं करुणाचित्तोत्पादं ददाति, अध्याशयेन बुद्धक्षेत्रगुणव्यूहान्वैनेयमवेक्ष्य प्रणिधानं प्रतिगृह्णाति । एभिश्चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वः क्षिप्रमनुत्तरां सम्यक्संसंबोधिमभिसंबुध्यते ।

चत्वार इमे धर्मा बोधिसत्त्वमार्गस्योपस्तम्भकराः । कतमे चत्वारः? । पारमितास्वभियोगः, सत्त्वानां संग्रहवस्तूत्सर्गः, ब्रह्मविहाराभिनिष्पादनता, अभिज्ञाविक्रीडनाता । चतुर्भिर्धर्मैर्बोधिसत्त्वेनातृप्तविहारिणा भवितव्यं, दानातृप्ततया धर्मश्रवणातृप्ततया भावनातृप्ततया सत्त्वेभ्यः सङ्ग्रहवस्त्वतृप्ततया विहरतव्यम् । चत्वार इमे बोधिसत्त्वेनाक्षया निधयः परिपूरयितव्याः । कतमे चत्वारः? श्रद्धा बोधिसत्त्वेनाक्षयो निधिः परिपूरयितव्यः, धर्मदेशना परिणामना दरिद्रसत्त्वपरिग्रहश्चाक्षयो निधिः परिपूरयितव्यः । चतस्र इमा बोधिसत्त्वपरिशुद्धिः । कतमाश्चतस्रः? नैरात्म्यतया शीलपरिशुद्धिः, निःसत्त्वतया समाधिपरिशुद्धिः, निर्जीवतया प्रज्ञापरिशुद्धिः, निष्पुद्गलतया विमुक्तिपरिशुद्धिः विमुक्तिज्ञानदर्शनतया च । चत्वारो धर्मा बोधिसत्त्वेन परिपूरयितव्याः, (२०४) यैर्बोधिसत्त्वाः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ति, आकाशचक्रं प्रवर्तयन्ति, अचिन्त्यचक्रमतुल्यचक्रमनभिलाप्यचक्रं नैर्याणिकचक्रं नैर्वेधिकचक्रमप्रवृत्तिचक्रं प्रवर्तयन्ति ।

भविष्यसि त्वं विमलवैशायनानागतेऽध्वन्यतिक्रान्त एकगङ्गानदीवालिकासमेऽसंख्येयेऽचिरप्रविष्टे भद्रके कल्पे प्रशान्ते पञ्चकषाये काले वर्धमाने आयुषि अशीतिवर्षसहस्रिकायां प्रजायामनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, मैत्रेयो नाम भविष्यसि तथागतो यावद्बुद्धो भगवान्" ।

अथ विमलवैशायनो ब्राह्मणो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादाभिवन्दनं कृत्वैकान्ते स्थित्वा पुष्पमाल्यचुर्णैर्भगवतः पूजोद्युक्तो गाथाभिरभिष्टौति ।

"भव नाथ ललाटविशाला रुचिरोर्णा हिमवर्णा
कनकगिरिकूटा सदृशास्तु मनाथा ।
कस्ते न नयु मुनि वृषभा लोकप्रदीपा गुणशतभरिता
कालोऽयं मे उक्तं भवहि बुद्धजगे" ॥

(२०५)
सर्वे समुद्ररेणुना ब्राह्मणेन पुरोहितेन सहस्रं वेदपाठकानां बोधौ समादापिताम् । यथा क्रकुत्सन्दः कनकमुनिः काश्यपो मैत्रेयो व्याकृत एवं सिंहः प्रद्योतः यावद्द्विरूनं सहस्रं वेदपाठकानां माणवकानां सर्वेऽस्मिन् भद्रके कल्पेऽनुत्तरायां सम्यक्संबोधौ प्रणिधानं कृतवन्तः, सर्वे रत्नगर्भेण तथागतेनास्मिन्नेव भद्रके कल्पेऽनुत्तरायां सम्यक्संबोधौ व्यवस्थापिताः ।

यस्तेषां सर्वकन्यसः पुरोहितेन संचोदितः । "किं भो महाबलवेगधारी दीर्घं निरीक्षसे? । उत्पादयस्व सत्त्वेषु महाकरुणां" । इमाभिश्च गाथाभिर्विज्ञापयति ।

"ये सत्त्वा जराव्याधिमृत्युभिर्भया तृष्णा नदी पतिता ।
(२०६)
प्रक्षिप्ता भवचारके प्रतिभयं स्कन्धे निविष्टा नराः ।
पीत्वा क्लेशविषं परस्परवधं दुःखार्णवे संस्थिता ।
मोहे अन्धे प्रणष्टमार्गे अशुभसंसारयन्त्रे भ्रमन् ।
दुःखेन जालितभूत सर्वत्रिभवेय मिथ्याय दृष्टि स्थिताः ।
सर्वप्राण भ्रमन्ति पञ्चगतिभिश्चक्रं यथा वर्तते ।
धर्मा चक्षु विहीन पञ्चगतिभिरत्राण सत्त्वान् स्मरी ।
भावे प्रज्ञ जहित्वा कङ्क्षविमति बोधाय चन्दं जने ।
तृष्णाशोकनुदो भवाहि जगतो सत्त्वान बन्धुर्भवा ।
(२०७)
क्लेशबन्धनमोक्षणार्थं जगतो बोधाय चित्तं नमे ।
धर्मचक्षुर्विहीन मोहविगतमार्गं च श्रेष्ट दद ।
संसारभवचारकेषु ज्वलितां धर्मरसेन तर्पया ।
त्वं शीघ्रमुपसंक्रम्य हितकरपादा निपत्यं मुने ।
सर्वा भो प्रणिधि प्रशस्त्र सुदृढ बुद्धो भव नायकः ।
सत्त्वश्वासकरो भवाहि जगतः सत्त्वार्णवा उद्धरे ।
मोक्षमार्गप्रणीत इन्द्रियबलबोध्यङ्गदाता भवेत् ।
धर्मवर्षमुत्सृज धर्मजलदं सत्त्वान दुःखं शमेत्" ॥

स च कुलपुत्र महाबलवेगधारी माणवक आह - (२०८) "नाहं भो उपाध्याय संसाराभिरामां श्रीमाकाङ्क्षामि, न च पुनः श्रावकप्रत्येकबुद्धयानाभिलाशी; अनुत्तरयानमाकाङ्क्षामि । मुहूर्तं भो उपाध्याय प्रतीक्षाहि, शृणुष्व यथाहं सिंहनादं नदामि" ॥

अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणस्ततोऽभिनिष्क्रम्य स्वकां पञ्चब्राह्मणदारकानुपस्थायकानामन्त्रयित्वोवाच - "भो दारका उत्पादयतानुत्तरायां सम्यक्संबोधौ चित्तं" । तेऽप्याहुः । "नास्माकं किञ्चिदस्ति यद्वयं बुद्धप्रमुखस्य भिक्षुसङ्घस्य निर्यातयामः । कथं च वयमनवरुप्तकुशलमूला बोधिचित्तमुत्पादयामः?"

अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितः प्रथमः करभुजो नामोपस्थायकः तस्य सप्तरत्नमयं कर्णविभूषणं दत्वा, द्वितीयः स्थालभुजो नामोपस्थायकः तस्य द्वितीयं सप्तरत्नमयं कर्णवेठकं दत्वा, तृतीयः जलभुजो नामोपस्थायकस्तस्य सप्तरत्नमयं पीठं ददाति, चेतुर्थः वेगभुजो (२०९) नामोपस्थायकस्तस्य सप्तरत्नमयं दण्डं ददाति, पञ्चमः सारभुजो नामोपस्थायकस्तस्य सर्वसौवर्णभृङ्गारं दत्वोवाच । "गच्छत यूयं माणवका इमानि वस्तूनि बुद्धप्रमुखस्य भिक्षुसङ्घस्य निर्यातयित्वानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयथ" ।

अथ ते पञ्चोपस्थायका गत्वा भगवत्सकाशं तानि वस्तुनि यथा निक्षिप्तानि बुद्धप्रमुखस्य भिक्षुसङ्घस्य निर्यातयित्वैवमाहुः । "व्याकरोत्वस्माकं भगवाननुत्तरायां सम्यक्संबोधौ, तस्मिंश्च भद्रके कल्पे वयेमनुत्तरां सम्यक्संबोधिमभिसंबुध्यमहि" । पेयालं, व्याकृताः कुलपुत्र रत्नगर्भेण तथागतेन करभुजो माणवको बोधाय भद्रकल्पे दृढस्वरो नाम भविष्यति तथागतः, स्थालभुजस्तदन्तरे सुखेन्द्रियमतिर्नाम भविष्यति तथागतः, तस्यानन्तरे जलभुजः सार्थवादिर्नाम भविष्यति तथागतः, तस्यानुसंधेः वेगभुजः प्रियप्रसन्नो नाम भविष्यति तथागतः, (२१०) तस्यानुसंधेः सारभुजो नाम माणवको हरिपत्रचूडो नाम भविष्यति तथागतः ।

समनन्तरव्याकृतास्ते पञ्चभद्रकल्पिका माणवकाः पुरोहितः पुनरपि महाबलवेगधारिणमाह - "महाबलवेगधारी गृह्णाहि बुद्धक्षेत्रगुणव्यूहान्, करोहि प्रणिधानं भगवतः सकाशाद्यादृशमाकाङ्क्षसि, निमन्त्रयाहि सर्वसत्त्वान् धर्मरसेन, चराहि च दृढवीर्येण स्वकं बोधिचारिकाम् । मा भूयो दीर्घं निरीक्षस्व" । बाहुना च गृहीत्वा भगवतोऽन्तिकमुपनीतः ।

स च कुलपुत्र महाबलवेगधारी माणवको भगवतः पुरतो निषण्णश्चाह - "कियद्बहवो भगवन्ननागतेऽध्वनि मुनिभास्करा अस्मिन् भद्रकल्पे उदयन्ति?" रत्नगर्भस्तथागत आह - "तस्मिन्माणवक भद्रके कल्पे चतुरुत्तरं सहस्रं मुनिभास्कराणामुदयः । माणवक आह - "यावत्तेषां भदन्त भगवन् भद्रके महाकल्पे निर्वृतानां जिनसूर्याणां पश्चिमको सारभुजो (२११) नाम माणवकोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते हरिपत्रचूडो नाम भविष्यति तथागत, तावच्चिरमहं बोधिसत्त्वचारिकां चरिष्यामि विविधव्रततपचर्यादानदमसंयमश्रुतवीर्यक्षान्तिसौरत्यपुण्यप्रज्ञासंभारं समुदानयमानः । सर्वेषां च भद्रकल्पिकानामचिराभिसंबुद्धानां प्रथमं पिण्डपातं दद्यां; परिनिर्वृतानां च शरीरपूजां कुर्यां; तेषां च सद्धर्मधारको भवेयम् । शीलविरहितान् सत्त्वान् शीलसंपदि समादापयेयं निवेशयेयं प्रतिष्ठापयेयं; दृष्टिविरहितान् सङ्कटप्राप्तान् सत्त्वान् सम्यक्दृष्ट्यां समादापयेयं निवेशयेयं प्रतिष्ठापयेयं; एवमाशयविरहितान् सम्यगाशये प्रतिष्ठापयेयं; एवमाचारविरहितानाचारे प्रतिष्ठापयेयं; नानाविधानां सत्त्वानां कुशलचर्यां निदर्शयेयम् । तेषां च बुद्धानां भगवतामचिरास्ताङ्गते सद्धर्मे पुनरहं सद्धर्मनेत्री सद्धर्मपरिग्रहं सद्धर्मस्योत्पादं सद्धर्मप्रदीपं लोके ज्वालयेयम् । शस्त्रान्तरकल्पकालसमये सत्त्वान् प्राणातिपातवैरमण्यां प्रतिष्ठापयेयं यावत्सम्यग्दृष्ट्यां; दशाकुशलकर्मपथेभ्यः सत्त्वान् कुमार्गादुद्धृत्य
सम्यक्पथे स्थापयेयं; दुश्चरितान्धकारं (२१२) च नाशयेयं; सुचरितालोकं च निदर्शयेयं; कल्पकषायं यावच्चायुर्दृष्टिक्लेशकषायं च लोके नाशयेयम् । दुर्भिक्षान्तरकल्पकालसमयेऽहं सत्त्वां दानपारमितायां नियोजयेयं यावत्प्रज्ञापारमितायां समादापयेयं निवेशयेयं; षट्पारमितास्वहं सत्त्वान्नियोजयमानः सर्वदुर्भिक्षान्धकारकलिकलुषरणवैरविग्रहविवादं शमयेयं; सत्त्वानां सन्ततौ क्लेशानलं शमयेयम् । रोगान्तरकल्पकालसमये चाहं सत्त्वां षट्पारायणीयेषु समादापयेयं; चतुर्षु सङ्ग्रहवस्तुषु नियोजयेयं प्रतिष्ठापयेयं; रोगान्धकारं च सत्त्वानां विध्वंसयेयं, यावत्सत्त्वानां सन्ततौ क्लेशं प्रशमयेयम् । सर्वे सहे बुद्धक्षेत्रे भद्रकल्पे सत्त्वानेवंरूपैर्व्यसनैः परिमोचयेयम् । यदा चतुरुत्तरं सहस्रं बुद्धा भगवन्तो भद्रके महाकल्पे उत्पन्ना निर्वृताश्च भवेयुः, सर्वेण सर्वं च सद्धर्मनेत्री अन्तर्हिता भवेत्, ततः पश्चादहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । यावांश्चतुरुत्तरसहस्राणां भद्रकल्पिकानां बुद्धानां भगवतामायुर्भवेत्तान्तकं मम बोधिप्राप्तस्य दीर्घमायुर्भवेत्; यावांश्च तेषां श्रावकसङ्घो भवेत्तावान्ममैकस्य श्रावकसङ्घः स्यात्; (२१३) यावतश्च ते कल्पैश्चतुरुत्तरं बुद्धसहस्रं सत्त्वान् विनियेत्तावतः सत्त्वानहं विनयेयम् । ये च तेषां बुद्धानां भगवतां श्रावकशिक्षायां
स्खलेयुर्दृष्टिप्रपाते वा प्रपतेयुर्बुद्धानां भगवतां सकाशेऽगौरवचित्ताः प्रदुष्टचित्ता भवेयुः, धर्मे सङ्घे च स्खलितचित्ता भवेयुः, रागचित्ता आर्यापवादाः आनन्तर्यकाराश्च भवेयुर्बोधिप्राप्तश्चाहं सर्वान् संसारपङ्कादुद्धरेयं, अभयपुरे च निर्वाणनगरे प्रावेशयेयम् । यावन्मम परिनिर्वृतस्य सद्धर्मक्षयो न भवेत्तावद्भद्रकमहाकल्पेऽक्षयो भवेयं; निष्ठिते मम सद्धर्मे निष्ठिते भद्रकल्पे, ये मम धातवो जन्मशरीरः तेऽप्रमेयासंख्येयास्तथागतविग्रहाः संतिष्ठेरन् द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलङ्कृतगात्राः, एकैकं लक्षणमशीतिभिरनुव्यञ्जनैः समलङ्कृतं भवेत् । ते च तथागतविग्रहा दशसु दिक्ष्वप्रमेयेभ्योऽसंख्येयेभ्यः शून्येभ्यो बुद्धक्षेत्रेभ्यो (२१४) गत्वा एकैको बुद्धविग्रहोऽप्रमेयासंख्येयां त्रिभिर्यानैः सत्त्वान् समादापयेत्निवेशयेत्प्रतिष्ठापयेद्; यत्र बुद्धक्षेत्रेऽन्तरकल्पे न नाशो भवेत्तत्र तथागतविग्रहः सत्त्वान् परित्रायेद्यथा पूर्वोक्तं तथा पश्चाच्चिन्तामणिः प्रादुर्भवेत्; येशु बुद्धक्षेत्रेषु सत्त्वा रत्नविरहिता भवेयुः तेषु बुद्धक्षेत्रेषु गत्वा रत्नवृष्टिः प्रवर्षान्निधयश्च संदर्शयेयुः; येषु च बुद्धक्षेत्रेषु सत्त्वाः कुशलक्रियाविरहिता भवेयुः व्याधिभीः क्लिष्टास्तेषु बुद्धक्षेत्रेसु गोशीर्षोरगसारकालानुसारी गन्धवृष्टिः प्रवर्षेयुः, सा च गन्धवृष्टिः सत्त्वानां क्लेशव्याधीर्दृष्टिव्याधीः कायव्याधीश्च प्रशमयेत्; ततस्ते सत्त्वाः
पुण्यक्रियावस्तुष्वभियुक्ता भवेयुः स्वर्गपरायणा भवेयुः । एवंरूपमहं भदन्त भगवन् बोधिचारिकां चरमाणः सत्त्वान् परित्रायेयम् । बोधिप्राप्तश्चाहमेवंरूपं बुद्धकार्यं कुर्यां; परिनिर्वृतश्चाहमेवानन्तापर्यन्तेभ्यो बुद्धक्षेत्रेभ्यः सत्त्वान् परित्रायेयम् । यदि मे भदन्त भगवन्नैवंरूपा आशा परिपूर्येता न च सत्त्वानां भैषज्यभूतो (२१५) भवेयं, विसंवादिता मे बुद्धा भगवन्तो भवेयुर्ये दशसु दिक्ष्वनतापर्यन्तेषु लोकधातुषु तिष्ठन्ति ध्रियन्ति यापयन्ति सत्त्वानां धर्मं देशयन्ति, मा मे भगवान् व्याकुर्यादनुत्तरायां सम्यक्संबोधौ । येऽपि ते संप्रतिपन्नां भगवन् बहुप्राणकोट्योऽनुत्तरायां सम्यक्संबोधौ व्याकृताः सत्त्वास्तानहं बुद्धान् भगवतो विराधयेयं, मा चाराधयेयं, मा च मे भूयो बोधिहेतोः संसारे संसारमाणस्य बुद्धशब्दो धर्मशब्दः सङ्घशब्दः कुशलशब्दः कुशलकर्मक्रियाशब्दः श्रोत्रपथेषु निपतेत्, नित्यमहमवीचिपर्यापन्नो भवेयं, यदि मे भगवन्नैवंरूपा आशा परिपुर्येत" ।

अथ रत्नगर्भस्तथागतो महाबलवेगधारिणो माणवकस्य साधुकारमदात् । "साधु साधु सत्पुरुष, भविष्यसि त्वं सत्पुरुष सत्त्वानां भैषज्यभूतः दुःखेभ्यश्च परिमोचकस्तेन त्वं सत्पुरुष भैषज्यराजज्योतिर्विमलो नाम भवस्व । भविष्यसि त्वं भैषज्यराजज्योतिर्विमलानागते (२१६)ऽध्वन्येकस्मिन् गङ्गानदीवालिकासमेऽसंख्येयेऽतिक्रान्तेऽनुप्रविष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये भद्रके कल्पे चतुरुत्तरस्य बुद्धसहस्रस्याचिराभिसंबुद्धानां पिण्डपातं दास्यसि यावद्यथा स्वयं प्रणिधानं कृतं, निर्वृतस्य च हरिपत्रचूडभद्रस्य तथागतस्य सद्धर्मेऽन्तर्हितेऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, रोचश्च नाम तथागतो भविष्यसि यावद्बुद्धो भगवान् । अर्धकल्पं च ते आयुर्भविष्यति, यावच्च तस्य चतुरुत्तरस्य बुद्धसहस्रस्य भद्रकल्पिकानां श्रावकसङ्घो भविष्यति तावच्च तवैकस्य श्रावकसङ्घो भविष्यति, तावतश्च सत्त्वान् विनयिष्यसि । परिनिर्वृतस्य च सद्धर्मान्तर्धानं भद्रकस्य महाकल्पस्य कल्पक्षयो न भविष्यति; एतावन्तश्च बुद्धविग्रहा भविष्यन्ति, यावच्छून्येषु बुद्धक्षेत्रेषु गन्धवृष्टिः सत्त्वानां क्लेशव्याधिर्दृष्टिव्याधीः कायव्याधीश्च शमयिष्यति, त्रिषु चैव पुण्यक्रियावस्तुषु सत्त्वान् प्रतिष्ठापयिष्यन्ति स्वर्गपरायणांश्च" ।

(२१७)
अथ खलु कुलपुत्र भैषज्यराजज्योतिर्विमलो बोधिसत्त्व आह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तथा मे भगवान् सतपुण्यलक्षणालङ्कृतेन पाणिना मूर्धानां स्पर्शतु" । अथ खलु कुलपुत्र रत्नगर्भस्तथागतः शतपुण्यलक्षणालङ्कृतेन पाणिना भैषज्यराजज्योतिर्विमलस्य बोधिसत्त्वस्य मूर्धानं परिमार्जयित्वा तस्थौ । अथ खलु कुलपुत्र भैषज्यराजज्योतिर्विमलो बोधिसत्त्वस्तुष्ट उदग्र आत्तमनाः प्रमुदितचित्तो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा वन्दितवैकान्तेऽतिक्रम्य स्थितम् । समुद्ररेणुर्ब्राह्मणो दिव्येन कौशिकवस्त्रेणाच्छादयित्वोवाच । "साधु साधु सत्पुरुष, शोभनं प्रणिधानं कृतम् । न भूयस्त्वया ममोपस्थानं कर्तव्यम् । यथा सुखमेव विहरस्व" ॥

अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्यैतदभवत्- "मया बहवः प्राणकोटीनयुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ समादापितानि, यथेदं (२१८) सर्वावन्तं पर्षदं पश्यामि सर्वैश्चेमैर्महासत्त्वैरुदारोदाराणि प्रणिधानानि कृतानि प्रसन्नानि च बुद्धक्षेत्राणि परिगृहीतानि स्थापयित्वा वायुविष्णुनान्यैर्बोधिसत्त्वैः कलियुगं परिवर्जितम् । मयापि कलियुगकाले वर्तमाने सत्त्वा धर्मरसेन तर्पयितव्या, दृधश्च व्यवसायः कर्तव्यः । तथारूपेण च मया प्रणिधानेन सिंहनादो नदितव्यः । यथेयं सर्वा बोधिसत्त्वपर्षदाश्चर्यप्राप्ता भवेत्, सर्वावती चेयं पर्षा सदेवगन्धर्वमाणुषासुरश्च लोकोऽयं मां प्राञ्जलीभूतो नमस्येत पूजां च कुर्याद् । अयं च मे बुद्धो भगवान् साधुकारमनुप्रयच्छेत्व्याकुर्यात्, तथा ये च दशसु दिक्षु बुद्धा भगवन्तः तिष्ठन्ति यापयन्ति सत्त्वानां धर्मं देशयन्ति तेऽपि बुद्धा भगवन्तो मम सिंहनादं नदतः साधुकारं प्रदद्युः, व्याकुर्युश्चानुतरायां सम्यक्संबोधौ, दूतांश्च प्रेषयेयुर्यत्सर्वावतीयं पर्षत्शृणुयात्तांश्च दूतान् पश्येत् । येऽपि च तस्यां पश्चात्काले महाकरुणासमन्वागता बोधिसत्त्वास्तेऽप्येवंरूपं क्लिष्टं बुद्धक्षेत्रं महाकलियुगकाले बोधिं (२१९) प्रणिधानेन प्रतिगृह्णीयुर्धर्मदुर्भिक्षकान्तारे क्लेशौघैरुह्यमानान् सत्त्वान् परित्रायेयुः, बुद्धकार्यं च कुर्युः, सत्त्वानां धर्मं देशयेयुः । यावत्परिनिर्वृतस्यापि मेऽचिन्त्याः कल्पकोटीनयुतशतसहस्रातिक्रान्ते दशसु दिक्ष्वतुल्येभ्योऽपरिमाणेभ्यश्च बुद्धक्षेत्रेभ्योऽपरिमाणा बुद्धा भगवन्तो मम परिनिर्वृतस्य वर्णं भाषेरन्, यशश्च
घोषं च चारयेयुः, बोधिसत्त्वानां चाग्रतो मम प्रणिधाननेत्रीमुद्भावयेयुः । ते च बोधिसत्त्वा मम करुणापरिभाविताधिष्टानं प्रणिधानं श्रुत्वा परमाश्चर्यप्राप्ता भवेयुः, तेऽपि सत्त्वेभ्यो महाकरुणां सर्जयेयुः; ततश्च ते एवंरूपमेव प्रणिधानं प्रतिगृह्णीयुर्यथाहमेतर्हि प्रतिगृह्णामि, तेऽप्येवंरूपे क्लिष्टे बुद्धक्षेत्रे बोधिमभिसंबुध्येयुः । चतुर्भिरोघैः सत्त्वान् प्रत्युह्यमानानुत्तारयेयुः, त्रिभिश्च यानैर्विनयेयुः, यावन्निर्वाणपथे स्थापयेयुः" ।

एवंरूपं कुलपुत्र समुद्ररेणुर्ब्राह्मणो अग्रपुरोहितो महाकरुणापरिभावं प्रणिधानं सर्जयित्वा, एकांशं चीवरं प्रावृत्य येन रत्नगर्भस्तथागतस्तेनोपसंक्रामति (२२०) स्म । तेन खलु पुनः समयेन बहुदेवकोटीनियुतशतसहस्राणि गगनतले दिव्यानि तूर्यकोटीनियुतशतसहस्राणि वाद्यन्ति पुष्पवृष्टिश्च प्रवर्षिता, एककण्ठेन चोदाहरन्ति । "साधु साधु सत्पुरुष, उपसंक्रम त्वं भगवतः सकाशम् । गृह्ण त्वं प्रवरप्रणिधानम् । क्लेशव्याकुले लोके प्रशमयिष्यसि दुःखस्कन्धं सत्त्वानां ज्ञानतोयेन प्रशमयिष्यसि" । सर्वावती सा पर्षत्प्राञ्जलीभूता अभिमुखा एककण्ठेन वदति । "साधु साधु सत्पुरुष, प्रवरपण्डितास्माकं हितकर कुरुष्व दृढप्रणिधानं प्रवरबुद्धिमयं शृणोमः" । पुरोहितश्चोपसंक्रामति यदा च निक्षिप्तं पुरोहितेन भगवतः सकाशे जानुमण्डलं, तावच्चायं त्रिसाहस्रमहासाहस्रो लोकधातुः सर्वावतीदं संतरणं बुद्धक्षेत्रं कंपति प्रकंपति चलति प्रचलति क्षुभ्यति प्रक्षुभ्यति वेधति प्रवेधति, अघट्टितानि तूर्यानि प्रवाद्यन्ति; ये च मृगपक्षिणस्ते सर्वे मनोज्ञं स्निग्धं च शब्दमुदीरयन्ति, वृक्षाश्च पुष्पाणि प्रमुञ्चन्ति । ये केचिदस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीं निश्रित्य भूताः प्रतिवसन्ति ये बोधौ समादापिता ये न च समादापिताः, स्थापयित्वा नैरायिकां यामलौकिकां च, सर्वे (२२१) हितचित्ताः कल्याणचित्ता अवैरचित्ता अकलुषचित्ता मैत्रिचित्ता आश्चर्यचित्ता बभूवुः । ये सत्त्वाः स्वर्गचरास्ते खे स्था एवं परमप्रीतिमनसः, पुष्पैर्माल्यैर्गन्धैर्वाद्यै रत्नच्छत्रैर्ध्वजैः
पताकाभिर्वस्त्रदुष्यैः स्निग्धमनोज्ञं शब्दं ब्राह्मणस्य प्रणिधानं श्रवणायोद्युक्ताः पूजाकर्मणे । चैवं यावदकनिष्ठभवनपर्यन्ता देवा जम्बूद्वीपमवतीर्य गगनतले स्थित्वा दिव्यैर्गन्धैर्यावद्दुष्यैर्ब्राह्मणस्य प्रणिधानं श्रवणार्थमुद्युक्ताः पूजाकर्मणे ।

ब्राह्मणश्चाञ्जलिं प्रगृह्याभिर्गाथाभी रत्नगर्भं तथागतमभितुष्टाव ।

"ध्यानेभिर्विक्रीडसि ब्रह्मरिवा रूपेण प्रभावसि शक्ररिवा ।
धनधान्य प्रयच्छसि राजरिवा रतनाग्रवरो मुनिश्रेष्ठिरिवा ।
गिरि सौम्य विनर्दसि सिंहरिवा न च कंपसे दृढमेरुरिवा ।
न च क्षोभ्यसे उदधीषरिवा गुणदोषवही समुद्रवारिरिवा ।
(२२२)
मल सर्व प्रवाहसि तोयुरिवा दहि क्लेश्वनं मुनिरग्निरिवा ।
न च सज्जसे क्वचिद्वायुरिवा मुनि तत्त्वे निदर्शक देवुरिवा ।
मुनि धर्म प्रवर्षसि नागुरिवा जग सर्वं तर्पयसि वृष्टिरिवा ।
अन्यतीर्थं प्रमर्दसि सिंहरिवा गुणगन्ध प्रमुञ्चसि पुष्परिवा ।
मधुरगिर भाषसि ब्रह्मरिवा जग दुःखप्रमुञ्चक वैद्यरिवा ।
समचित्तमुपस्थिहि मातरिवा जग नित्यानुगृह्णसि मित्ररिवा ।
किर मान अरी दृढ वज्ररिवा छिन्दि तृष्णलता मुनिशत्रुरिवा ।
जग तारयसे नदितारुरिवा दहि ज्ञानतृणां मुनिनागरिवा ।
ददि शीतप्रभा मुनिचन्द्ररिवा नर पद्म विबोधयि सूर्यरिवा ।
चतुरग्रफलान् दधि वृक्षरिवा रिषिसङ्घवृतो मुनिपक्षिरिवा ।
(२२३)
जिनबुद्ध विषाल समुद्ररिवा समचित्त जगे तृणकाष्ठरिवा ।
शून्यधर्म निरीक्षसि स्वप्नरिवा समलोकानुवर्तसि वारिरिवा ।
मुनि बोधिय व्याकृत सत्त्व त्वया वरलक्षणधारि सुकारुणिका ।
त्वयि सत्त्व विनीत अनन्तबहू मम व्याकरि बोधिय अग्रवरे ।
वरप्रज्ञा महारिषि सत्यरुचेः मम व्याकरि बोधिय छिन्दि मतीम् ।
भवि बुद्ध जगे कलिक्लेशरणिः स्थपि सत्त्वशतांशि विशान्तपथे" ॥

यदा कुलपुत्र समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितो रत्नगर्भं तथागतमाभिर्गाथाभिः स्तुत्वा तस्थौ, तावदेव सा सर्वावती पर्षा सदेवगन्धर्वमाणुषा साधुकारमदात् ॥

पुरोहित आह - "मया भदन्त भगवन् बहुप्राणकोट्योऽनुत्तरायां सम्यक्संबोधौ समादापितास्तैश्च (२२४) स्वकस्वकोदारोदाराणि बुद्धक्षेत्राणि परिगृहीतानि परिशुद्धाशयावरुप्तकुशलमूलाः सुविनीताः सत्त्वा वैनेयाः परिगृहीताः । इमे च ज्योतिपालपूर्वंगमानां चतुरुत्तरसहस्रं वेदपाठकाणं ये तथागतेन भद्रकल्पिका व्याकृताः, तेऽपि सत्पुरुषा रागद्वेषमोहमानचरितांस्त्रिभिर्यानैर्विनयन्ति; तदपि तैस्तीव्रक्लेशावरणकलियुगकषायाः परिवर्जितास्तैरुत्सृष्टा आनन्तर्यकारकाः सद्धर्मप्रतिक्षेपकाः आर्यापवादका मिथ्यादृष्टय आर्यसप्तधनविरहिता अमातृज्ञा अपितृज्ञा अश्रामण्या अब्राह्मण्या अकृत्यकारका अपुण्यकराः परलोकभयादर्शिनो विपरीततत्त्वबोधिनोऽनाथकास्त्रिषु सुचरितेषु, तथा देवमानुषिकाभिः श्रीसंपत्तिभिरुद्युक्ताः त्रिषु दुश्चरितेषु संप्रतिपन्नाः दशसु कुशलेषु कर्मपथेषु विरहिताः सर्वकल्याणमित्रै रिञ्चिताः सर्वपण्डितैः प्रक्षिप्ता भवचारकेऽनुश्रोतमुह्यन्तः क्षारनद्यां सीदन्तः संसारपङ्कैर्मोहान्धकाराविरहिता निर्मुक्ताः सर्वकुशलक्रियायां सर्वे शून्येषु बुद्धक्षेत्रेषूज्झिताः सकुशलमूलसमवधानगताः कुमार्गविहन्यन्तो महासङ्कटप्राप्तास्तस्मिन् (२२५) काले सहे बुद्धक्षेत्रे दशवर्षायुष्का भद्रकल्पे मनुष्या भविष्यन्ति, सर्व इमे सत्पुरुषैः पण्डितैरुत्सृष्टा उज्झिताः । तत्कालं भवावर्तके संसारचक्रेऽत्राणा अशरणा अपरायणा दुःखभाजनभूताः सत्त्वास्तां परिवर्जयित्वा स्वकस्वका बुद्धक्षेत्राः प्रधानप्रधानाः परिगृहीताः, सुविनीताश्च
परिशुद्धाशयाः अवरुप्तकुशलमूलाः आरब्धवीर्या बहुबुद्धकृताधिकारा वैनेयाः परिगृहीताः । न एवं, भदन्त भगवन्?" रत्नगर्भस्तथागत आह - "एवं, ब्राह्मण, यथाभिप्रायाः सत्त्वाः प्रणिधानं कुर्वन्ति बुद्धक्षेत्रगुणव्यूहाश्च परिगृहीतास्तत्रैव च मया व्याकृताः" ।

ब्राह्मणः प्राह - "ममापि भदन्त भगवन् हृदयं कंपति तद्यथापि किंशुकपत्रं परमदीनमानसोऽहं सर्वशरीरं च मे आयासितं, यदि मे भदन्त भगवन् सत्त्वाः करुणास्पदभूता बोधिसत्त्वैस्तत्कालमुत्सृष्टा महाकलियुगान्धकारप्रक्षिप्ताः सर्वपरिवर्जिताः ।

(२२६)
अहमपि भदन्त भगवन्ननागतेऽध्वनि अतिक्रान्ते एकगङ्गानदीवालिकासमेऽसंख्येयेऽवशिष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये तस्मिंश्च भद्रके महाकल्पे दशवर्षशतायुष्कायां प्रजायां कालं प्रतीक्षमाणास्तावच्चिरमहं संसारे न परिखिद्येयं बोधिचारिकां चरमाण, उत्सहायि चाहं समाधानबलेन चिरपाचनयान्वैनेयान् प्रतिगृह्णामि, षट्पारमिताश्चरमाणो वैनेयान् प्रतिगृह्णामि । श्रुतं च मया भगवतः सकाशाद्"वस्तुनिमित्तं परित्यागेयं दानपारमिता" । तथारूपमहं दानपारमितां चरिष्यामि यथा जन्मान्तरेष्वप्रमेयाः सत्त्वा याचनका आगमिष्यन्ति तेषां तथारूपां परित्यागं परित्यजेयं, तद्यथान्नपानखाद्यभोज्यपेयलेह्यवस्त्रशय्यासनाश्रयप्रतिश्रयमाल्यगन्धविलेपनग्लानप्रत्ययभैषज्यदानं छत्रध्वजपताकाधनधान्यहस्त्यश्वरथसुवर्णरूप्यहिरण्यमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडरजतजातरूपदक्षिणावर्तसर्वामहमेवं परित्यागं परमप्रासादकारुण्यमानसः सत्त्वानां दत्वाफलाभिकाङ्क्षी (२२७) सत्त्वपरिपाचनार्थं वैनेयसत्त्वानुग्रहार्थं त्यागसंभारं परित्यजेयम् । ये च पुनः सत्त्वा अतित्यागयाचनका आगत्वा याचयेरन् तद्यथा दासदासीग्रामनगरराज्यभार्यापुत्रदुहितृहस्तपरित्यागपादपरित्यागकर्णनासानयनजिह्वाचर्मरुधिरास्थिकायजीवितशिरःपरित्यागं, एवंरूपाः परित्यागाः परमप्रसन्नः कारुण्यमानसः अफलाभिकाङ्क्षी सत्त्वानां दानं दद्यां वैनेयानुकंपार्थम् । तथारूपायामहं दानपारमितायां चरिष्यामि, यन्न कदाचित्पूर्वं केनचित्सत्त्वेन एवंरूपाः परित्यागाः परित्यक्ताः
स्युर्न च पुनः पश्चात्कश्चिद्बोधिसत्त्वः अनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणः एवंरूपाः परित्यागाः परित्याजेत् । यदहं तेषु जन्मान्तरेषु अप्रमेयासंख्येयेषु कल्पकोटीनयुतशतसहस्रेष्वनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणः दानपारमितायां चरेयम् । यदहं महाकरुणासमन्वागतानां पश्चिमकानां बोधिसत्त्वानां परित्यागनेत्रीगुणान् स्थापयेयम् । "या प्रशमा रणिक्लेशानामियं शीलपारमिता" । तथाहमनुत्तरायां (२२८) सम्यक्संबोधौ चारिकां चरमाणो विविधशीलव्रतनिरन्तरदुष्करचारिकां चरेयं, यथा पूर्वोक्तम् । "या विषयेष्वक्षण्यनता आत्मप्रत्यवेक्षणा इयं क्षान्तिपारमिता" । तथारूपमहं क्षान्तिं भावयमानो, यथा पूर्वोक्तम् । "या विवेकता सर्वसंस्कृता भावना उद्युज्यना सर्वासंस्कृतशान्तमनुत्तरचर्यया अविवर्तना इयं वीर्यपारमिता" । "या सर्वसंस्कारेषु विपर्यासप्रहाणाय शून्यता समुदाचारः इयं ध्यानपारमिता" । "या प्रकृत्यनुत्पत्तिकधर्मक्षान्तिरियं प्रज्ञापारमिता" । या अप्रमेयासंख्येयेषु कल्पकोटीनयुतशतसहस्रेषु दृढोत्साहबलवेगचर्या, यथा पूर्वोक्तं, न कश्चिद्बोधिसत्त्वोऽनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणः एवं दृढोत्साहबलवेगेन प्रज्ञापारमितायां चीर्णः स्यां, न च पुनः पश्चात्कश्चिद्(२२९) बोधिसत्त्वोऽनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणः एवं दृढोत्साहबलवेगेन प्रज्ञापारमितायां चरेत्, तथाहं चरेयं; पश्चिमकानां
बोधिसत्त्वानां महाकरुणासमन्वागतानां नेत्रीगुणं स्थापयेयम् ।

प्रथमचित्तोत्पादेनाहं पश्चिमकानां बोधिसत्त्वानां महाकरुणां निवर्तयेयं, यावदनुत्तरपरिनिर्वाणेन बोधिसत्त्वाश्चाश्चर्यप्राप्ता भवेयुरित्यर्थमहं त्यागस्यामन्यनता चरेयं, शीलानिश्रयता क्षान्त्यामन्यनता वीर्येऽनायूहनता ध्यानेष्वप्रतिष्ठितता प्रज्ञायामद्वयतां चरेयम् । अफलाकाङ्क्षी आर्यसप्तधनविरहितानां सत्त्वानां सर्वशून्यबुद्धक्षेत्रोज्झितानामानन्तर्यकारकानां सद्धर्मप्रतिक्षेपकानामार्यापर्वादकानां मिथ्यादृष्टिकानामकुशलमूलसमवधानसङ्कटप्राप्तानां कुमार्गे विहन्यमानानां सत्त्वानामर्थायाहं पारमितास्तीव्रबलवेगोत्साहेन चरेयम् । एकैकस्य सत्त्वस्यार्थे चाहं कुशलमूलबीजसंतत्याः प्रतिष्ठापनार्थं दशमहाकल्पान् (२३०) अवीचिनरके दुःखां वेदनामुत्सहेयं, एवं तिर्यक्प्रेतेषु यक्षदरिद्रेषु मनुष्यदरिद्रेषु दुःखां वेदनामुत्सहेयम् । यथा चैकसत्त्वस्य सन्तत्यां कुशलमूलबीजं प्रतिष्ठापयेयं तथा सर्वसत्त्वानामेवंरूपां रिक्तमुष्टिसदृशसन्तानां वैनेयां प्रतिगृह्णीयम् । यावत्कल्पपर्यन्तेनाहमनार्थको दिव्यसुखोपपत्तिभिः, स्थापयित्वा एकजातिप्रतिबद्धतुषितभवनकालापरिक्षीचरमभविको बोध्यभिसंबोधनार्थं; तावच्चिरमहं संसारे बुद्धक्षेत्रपरमाणुरजःसमान् बुद्धान् भगवतः पर्युपासित्वा एकैकस्य च बुद्धस्याहं बुद्धक्षेत्रपरमाणुरजःसमां विविधां

पूजां कुर्यां, एकैकस्य च बुद्धस्य सकाशाद्बुद्धक्षेत्रपरमाणुरजःसमान् गुणानधिगच्छेयं, बुद्धक्षेत्रपरमाणुरजःसमांश्च सत्त्वान् बोधौ समादापयेयम् । एवं प्रत्येकबुद्धयानिकानामेवं श्रावकयानिकानां यथाभिप्रायांश्च सत्त्वान् तथाहं समादापयेयम् । असति बुद्धोत्पादे लोक ऋषिव्रतेनाहं सत्त्वां दशकुशलकर्मपथेषु नियोजयेयं समाधावभिज्ञासु च नियोजयेयं, (२३१) दृष्टिव्यसनमहेश्वरभक्तां महेश्वररूपेणाहं सत्त्वान् कुशलेषु नियोजयेयं, नारायणभक्तांश्चन्द्रसूर्यभक्तां यावद्ब्रह्मभक्तान् ब्रह्मरूपेणाहं सत्त्वान् कुशलधर्मेषु नियोजयेयम् । एवं गरुडरूपेण गरुडपक्षिणः कुशलचर्यासु नियोजयेयं, यावच्छक्ररूपेण । बुभूक्षितान् सत्त्वान् स्वमांसरुधिरेण संतर्पयेयं, व्यसनगतांश्च सत्त्वां स्वकेन कायेन जीवितेन च परित्रायेयम् ।

तावच्चिरमहं भदन्त भगवन् दग्धसन्तानानां कुशलमूलपरिहीनानामर्थायातिबलवेगेन चारिकां चरं, तावच्चिरं चाहं संसारे सत्त्वहेतोर्विविधचण्डघोरदारुणां दुःखां प्रतिच्छेयं: यावदतिक्रान्तानेकगङ्गानदीवालिकासमानामसंख्येयानां निर्गतानामवशिष्टे द्वितीये गङ्गानदीवाइकासमेऽसंख्येयेऽनुप्रविष्टे भद्रके महाकल्पे यदा ज्योतिपालो माणवकोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यति क्रकुत्सन्दो नाम तथागतो भविष्यति तदाहं तस्मिन् समये आर्येण प्रज्ञाचक्षुषा दशसु दिक्षु सहस्रबुद्धक्षेत्रपरमाणुरजःसमासु लोकधातुषु प्रवर्तितधार्मिकं धर्मचक्रं तिष्ठतो यापयतो बुद्धान् भगवतः पश्येयम् । ये मया दग्धसन्ताना अकुशलमूलसमाधानाः (२३२) सप्तधनविरहिताः सर्वैः शून्यैर्बुद्धक्षेत्रैरुज्झिता आनन्तर्यकारकाः सद्धर्मप्रतिक्षेपका आर्यापवादका यावत्कुमार्गे विहन्यन्तः मया सङ्कटप्राप्ताः प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः । मया ते सत्त्वाः प्रथमं दानपारमितायां समादापिता यावत्प्रज्ञापारमितायां निवेशिताः स्युर्मया च तेषां सत्त्वानां तत्कुशलमूलबीजमनुत्तरे निर्वाणे प्रक्षिप्तं स्यात्, अपायेभ्यश्च परिमोचिताः स्युः, प्रज्ञापुण्यसंभारे च नियोजिताः स्युस्तिष्ठन्तो यापयन्तस्तेषु च बुद्धक्षेत्रेसु बुद्धेषु भगवतसूपनीताः स्युर्यदानुत्तरायां सम्यक्संबोधौ व्याकरणप्रतिलब्धा भवेयुः, समाधिधारणीक्षान्तिप्रतिलब्धाश्च स्युर्भूम्यवक्रान्ताश्च स्युर्मया च ते सत्त्वा बुद्धक्षेत्रगुणव्यूहा
प्रणिधानं समादापिताः शिक्षापिताश्च स्युर्यथारूपं च ते बुद्धक्षेत्रगुणव्यूहां प्रतिगृह्णेयुस्ते च तानहं तस्मिन् समयेऽनुप्रविष्टे भद्रकल्पे क्रकुत्सन्दे जिनसूर्य उद्गते दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः (२३३) तिष्ठतो यापयतः सत्त्वानां धर्मं देशयतः पश्येयं; तदाहं क्रकुत्सन्दस्य तथागतस्यार्हतः सम्यक्संबुद्धस्याचिराभिसंबुद्धस्य सकाशमुपसंक्रमेयं, उपसंक्रम्य विविधां पूजां कुर्यां, प्रश्नं च पृच्छेयं, प्रव्रजेयं, शीलश्रुतसमाधावभियुज्येयं, अग्रधर्मदेशकश्च भवेयम् । ये च तस्मिन् समये दग्धसन्तानाः सत्त्वा अकुशलमूलसमवधानगता दृष्टिमार्गसंप्रतिपन्ना आनन्तर्यकारकाः कुमार्गविहन्यमानास्तेषां महासङ्कटप्राप्तानां सत्त्वानां धर्मं देशयेयं, तांश्चाहं वैनेयां प्रतिगृह्णीयाम् । अस्तांगते जिनसूर्ये तदाहमनाभोगेन बुद्धकार्यं कुर्यां यावद्वर्षशतायुष्कायां प्रजायां त्रिषु पुण्यक्रियावस्तुषु सत्त्वान्नियोजयेयम् । तस्मिंश्च कालेऽतिक्रान्ते देवलोकं गत्वा देवानां धर्मं देशयेयं, वैनेयांश्च प्रतिगृह्णीयां, यावद्विंशतिवर्षशतं सत्त्वानामायुर्भविष्यति । सत्त्वा ऐश्वर्यकुलरूपमदमत्ता मत्सरिणो भविष्यन्ति । पञ्चकषायान्धकारप्रक्षिप्ताः सत्त्वाः तीव्ररागास्तीव्रद्वेषास्तीव्रमोहास्तिव्रमानास्तीव्रपापेर्ष्यामत्सरिणोऽधर्मरागरक्ता अधर्मभोगपर्येष्टिनो
मिथ्यादृष्टयो विपरीतदर्शना आर्यसप्तधनविरहिता (२३४) अमातृज्ञा अपितृज्ञा अश्रामण्या अब्राह्मण्या अकृत्यकरा अपुण्यकरा अपरलोकभयदर्शिनोऽनभियुक्तास्त्रिषु पुण्यक्रियावस्तुषु अनर्थिकास्त्रिभिर्यानैरनभियुक्तास्त्रिषु सुचरितेषु अभियुक्तास्त्रिषु दुश्चरितेषु अनभियुक्ता दशसु कुशलेषु कर्मपथेषु अभियुक्ता दशस्वकुशलेषु कर्मपथेषु चतुर्विपर्यासोपहताश्चतुर्विपत्तिसंस्थानाश्चतुर्मारवशगताश्चतुर्भिरोघैरुह्यमानाः पञ्चनीवरणवशगताः सत्त्वा भविष्यन्ति । षडिन्द्रियमदमत्ता अष्टमिथ्यात्वप्रतिपन्नाः कामसङ्कटप्राप्ता अनुशयसमुत्थापका अनर्थिका देवमनुष्यश्रीसंपत्तिभिर्विपरीतदृष्टिकाः कुमार्गे विहन्यमाना आनन्तर्यकारकाः सद्धर्मप्रतिक्षेपका आर्यापवादकाः सर्वकुशलमूलपरिहीणा ध्वाङ्क्षामुखरा अकृतज्ञा मुष्टस्मृतयः कुशलजुगुप्सका दुःप्रज्ञा अल्पश्रुता दुःशीलाः कुहका मत्सरिणः परस्पराभाषका अन्योन्यागौरवाः कुशीदा विकलेन्द्रिया दुर्बलाश्चीवरविरहिता अकल्याणमित्रसंगृहीता गर्भाशयस्मृतिप्रणष्टा विविधरोगपहताः क्लिष्टा दुर्वर्णा अवहोटिमका अह्रीका अनपत्राप्याः परस्परभीता (२३५) एकपूर्वभक्तेन बहुकायवाचा मनसा दुश्चरितं समाचरन्ति ते प्रशंसितशाश्वतदृष्टिकाः सत्त्वा भविष्यन्ति । पञ्चस्कन्धाभिनिविष्टचित्ताः पञ्चकामगुणागृद्धचित्ता दुष्टचित्ता व्यापन्नचित्ता वैरचित्ता विहिंसाचित्ताः कलुषचित्ता रुक्षचित्ताः क्षुभितचित्ता अदान्तचित्ता अहितचित्ता उद्धतचित्ता अधर्माभिनिविष्टचित्ता अनवस्थितचित्ताः परस्परसारम्भचित्ताः परस्परवधकचित्ता धर्मविवर्जितचित्ता अविपक्वचित्ता धर्मेषु सारम्भचित्ता अकुशल उत्पादितचित्ताः शान्तनिर्वाणापर्येष्टिचित्ता अदक्षिणियचित्ताः
सर्वसंयोजनबन्धनसमुदाननचित्ता व्याधिजरामरणासंप्रत्ययचित्ताः सर्वसंयोजनाधिष्ठितचित्ताः सर्वनीवरणपरिग्रहचित्ता धर्मध्वजप्रपातनचित्ता दृष्टिध्वजोच्छ्रयणचित्ताः परस्परावर्णचित्ता अन्योन्यभक्षणचित्ताः परस्परपीडनैश्वर्यचित्त द्वेषसमुद्ग्रहणचित्ता अन्योन्याघातचित्ताः कामेभ्योऽतृप्तचित्ताः (२३६) सर्वपरिग्रहमात्सर्यचित्ता अकृतज्ञचित्ताः परदाराक्रमणचित्ता व्यापादविहिंसनचित्ता अप्रणिधानचित्ताः सत्त्वास्तत्काले भविष्यन्ति । इमे चात्र शब्दाः परस्परान्तिकाच्छृण्वन्ति, नरकशब्दस्तिर्यग्योनिशब्दो यमलोकशब्दो व्याधिशब्दो जराशब्दो मरणशब्दो वधकशब्दोऽक्षणशब्दो नित्यारिशब्दो हडिनिगडबन्धनचारकशब्दो दण्डपीडनाशब्दोऽवर्णक्रोशनपरिभाषणाशब्दः संधिच्छेदनशब्दो गणच्छेदनशब्दश्चौर्यशब्दः परचक्रशब्दो दुर्भिक्षशब्दः काममिथ्याचारशब्दो मृषावादशब्द उत्पातशब्दः पैशुन्यशब्दः परुषशब्दः संभिन्नप्रलापशब्द ईर्ष्यामात्सर्यशब्द आग्रहपरिग्रहशब्दोऽहङ्कारममकारशब्दः प्रियाप्रियशब्द इष्टानिष्टशब्दः प्रियविप्रयोगशब्दः क्रयविक्रयशब्दोऽन्योन्यदासविहेठनाशब्दो गर्भवासशब्दो दुर्गन्धशब्दः शीतशब्द उष्णशब्दो जिघत्सापिपासाशब्दः श्रान्तक्लान्तवेदनाशब्दः कृषिकर्मान्तशब्दो विविधकर्मशिल्पपरिखिन्नशब्दो (२३७) विविधरोगोपहतशब्दः, इमांश्च ते सत्त्वाः परस्परस्यान्तिकाच्छृण्वन्ति । एवंरूपैः परिहीणकुशलमूलैः परिहीणकल्याणमित्रैर्दुष्टचित्तैः सत्त्वैस्तस्मिन् काले सहालोकधातुराकीर्णा भविष्यति । उज्झिताश्च ते सत्त्वा भविष्यन्ति सर्वज्ञैः शून्यैर्बुद्धक्षेत्रैर्यथान्नपानदमसंयमकुशलकर्मक्रियाकुशलसमवधाना आर्याष्टाङ्गेन मार्गेण विरहितास्तमस्तमःपरायणाः
प्रगाढकर्मप्रत्ययेन ते सत्त्वास्तस्मिन् समये भद्रकल्पे विंशोत्तरवर्षशतायुष्केषु प्रत्याजायिष्यन्ति । तेषां सत्त्वानां कर्मप्रत्ययेन सहबुद्धक्षेत्रं हीनं भविष्यति, सर्वैरवरुप्तकुशलमूलैः सत्त्वैः परिवर्जितं, सलवणा च पृथिवी भविष्यति, पाषाणशर्करपांशुशीला पर्वतोत्कूला च धरणी भविष्यति, परुषदंशमशकाशीविषचण्डमृगपक्षिभिराकीर्णा भविष्यति, विषमकालकलुषा वायवो वास्यन्ति, विषमकालविरसलवणविमिश्रा अशनिवर्षा पतिष्यन्ति; तथारूपाः पृथिव्यां शष्पौषधितृणवृक्षा पत्रपुष्पफला धान्यरसाः सत्त्वानामन्नपानभोगपरिभोगविषमाः (२३८) कलुषपरुषरुक्षविषसंसृष्टा भविष्यन्ति । ते सत्त्वाः परिभक्त्या भूयस्या मात्रया रुक्षा दुष्टाश्चण्डा रौद्राः परुषाः कदर्याः परिभाषका अन्योन्यागौरवा भीतेन चित्तेनाघातचित्ता वधकचित्ता भविष्यन्ति, मांसभोजनरुधिराहारा मृगचर्मप्रावरणाः प्रहरणाधिष्ठानाः प्राणिवधोद्युक्ता रूपकुलवंशैश्वर्यशास्त्रलिप्यश्वारोहणधनुर्ग्रहायुधपरिवारा मात्सर्यदर्पिता भविष्यन्ति; विविधलूहतपव्रताभियुक्ता भविष्यन्ति लोकाः ।

तत्कालमहं तुषितभवनादवतीर्य विशिष्टे चक्रवर्तिकुलवंशे ईश्वरे राजकुले अग्रमहिष्याः कुक्षौ वैनेयसत्त्वकुशलमूलपरिपाचनार्थं गर्भवासमुपगृह्णीयां; सर्वावन्तं तस्मिन् समये सहे बुद्धक्षेत्रे उदारेणावभासेन स्फुरेयं, ऊर्ध्वं यावदकनिष्ठभवनपर्यन्तोऽहं हेष्ठं यावत्काञ्चनचक्रपर्यन्तमुदारेणावभासेन स्फुरेयम् । ये च तस्मिन् समये सत्त्वा सहे बुद्धक्षेत्रे प्रत्याजाता नरकेषु वा तिर्यग्योनौ वा यमलोके वा देवमनुष्ये (२३९) वा ते सर्वे तमवभासं पश्येयुः स्पृशेयुः संजानेयुः; तेषां संसारे विमृशतां दुःखोद्विग्नानां निर्वाणाभिलाषमन्तशः क्लेशशमचित्तान्युत्पादयेयुः । इदं प्रथममग्रमार्गबीजमवरोपयेयं; यदाहं सर्वधर्मनयविपश्चितं सर्वसमाधिनिर्देशमेकधर्ममुखमपरान्तकल्पनिर्देशेन समाहितचित्तो दशमासां मातुः कुक्षौ निवसेयं; यावांश्चाहं प्राप्ते बुद्धत्वे सत्त्वां परिखिन्नां संसारे परिमोचयेयम् । ते सत्त्वा मातुः कुक्षिगतं दशमासां मणिगर्भसंदर्शनसमाहितचित्तं पर्यङ्केन निषण्णं पश्येयुः । निर्गते च दशमासे सर्वपुण्यसंचयेनाहं समाधिना सर्वावन्तं सहबुद्धक्षेत्रं षड्विकारं धरणीं चालयेयं, ऊर्ध्वं यावदकनिष्ठभवनपर्यन्तं हेष्टिमेन च यावत्काञ्चनचक्रपर्यन्तं षड्विकारेण चालयेयम् । ये च तस्मिन् समये सहे बुद्धक्षेत्रे सत्त्वाः प्रत्याजाता नरकेषु वा यावन्मनुष्येषु
वा तान् प्रबोधयेयम् ।
यदाहं मातुर्दक्षिणे कुक्षावभिनिष्क्रमेयं, पुनरपि च सर्वावन्तं सहं बुद्धक्षेत्रमुदारेणावभासेन अफुरेयं; (२४०) तदापि तस्मिन् समये सर्वान् सहे बुद्धक्षेत्रे सत्त्वान् संचोदयेयं, अनवरुप्तकुशलमूलानां सत्त्वानां सन्ताने निर्वाणबीजं प्रक्षिपेयं, अवरोपितनिर्वाणबीजसन्ततीनां सत्त्वानां समाध्यङ्कुरमवरोपयेयम् । यदा चाहं चरणतलेन धरणीं स्पृशेयं सर्वावती तस्मिन् समये सहे बुद्धक्षेत्रे षड्विकारं धरणीं चालयेयं प्रकंपयेयं क्षोभयेयं यावत्काञ्चनचक्रपर्यन्तेन; तदाहं तस्मिन् समये सत्त्वान् जलनिश्रितां क्षितिनिश्रितां खनिश्रितां चतुर्योनिपर्यापन्नां पञ्चगतिसंनिश्रितां तान् सर्वानहं प्रतिबोधयेयं, येषां सन्ताने सत्त्वानामनुत्पन्नं समाधानाङ्कुरं रोपयेयं, दृढसमाधानाङ्कुरां त्रिभिर्यानैरवैवर्तिकां स्थापयेयम् । सहजातमात्रस्य च मे यावदेव तस्मिन् सहे बुद्धक्षेत्रे महाब्रह्माणो वा मारा वा शक्रा वा चन्द्रा वा सूर्या वा लोकपाला वा महानागराजा वासुरेन्द्रा वा औपपादुका वा महर्द्धिका वा यक्षराक्षसनागासुरा वा सर्वे मम पूजाकर्मणे उपसंक्रामेयुः । सहजातमात्रश्चाहं सप्तपदानि प्रक्रामेयम् । सर्वपुण्यसमुच्चयेनाहं समाधिना तथारूपं धर्मं देशयेयं यत्तत्सर्वावती सा पर्षत्त्रिभिर्यानैः (२४१) प्रसादं प्रतिलंभयेत् । ये च तत्र पर्षदि सत्त्वाः श्रावकयानिका भवेयुस्ते चरमभविका मम वैनेया भविका; ये च तत्र सत्त्वाः प्रत्येकबुद्धयानिका भवेयुस्ते वैरोचनकुसुमां क्षान्तिं
प्रतिलभेयुः; ये च तत्र सत्त्वा अनुत्तरमहायानिका भवेयुस्ते सर्वे वज्रधरसमुद्रसंकोपितं समाधिं प्रतिलभेरन्, तेन च समाधिना तिस्रा भूमीः समतिक्रामेयुः । यदहं स्नापनमिच्छेयं ये च तत्र महानागराजानो विशिष्टतरा भवेयुः ते मां स्नापयेयुः; ये च सत्त्वा मां स्नापयमानं पश्येयुस्ते सर्वे त्रिभिर्यानैरेवंरूपान् गुणानधिगच्छेयुः यथा प्रोक्तम् । ये च मां सत्त्वा रथमभिरोहन्तं समनुपश्येयुर्विस्तरेण कुमारक्रीडविविधशिल्पस्थानकर्मस्थानासनानि च ददर्श शिक्षापनयोग्यं स्त्र्यगारे पञ्च कामगुणरतिक्रीडार्धरात्रावुद्विग्ननिष्क्रमणालङ्कारविभूषणच्छोरणं लोहितवस्त्राभीक्ष्णं काषायवस्त्रपर्येषणबोधिवृक्षोपसंक्रमणं, ये च सत्त्वा मामुपसंक्रामन्तं पश्येयुः, तेषां चाहं सत्त्वानां सर्वपुण्यसमुच्चयेन (२४२) समाधिना तथारूपं धर्मं देशयेयं यथा ते सत्त्वास्त्रिभिर्यानैस्तीव्रच्छन्दा उद्युज्येयुः । ये च तत्र सत्त्वाः प्रत्येकबुद्धयानिकास्ते सर्वे वैरोचनकुसुमां क्षान्तिं प्रतिलभेयुः; यैश्च महायानबीजं प्रक्षिप्तं भवेत्ते सर्वे वज्रधरसमुद्रसंकोपितं समाधिं प्रतिलभेयुस्तेन च समाधिना तिस्रो भूमिरतिक्रामेयुः । स्वयं चाहं तृणसंस्तरणं गृह्णीयां बोधिवृक्षमूलवज्रासने प्रज्ञपयेयं निषीदेयं पर्यङ्कमाबध्वा ऋजुकेन कायेन; तथारूपमहमास्फानकं ध्यानं ध्यायेयं, आश्वासप्रश्वासा व्युपशमेयं; एकवारं दिवसेन ध्यानाद्व्युत्तिष्ठेयं, व्युत्थाय चाहमर्धतिलकफलमाहारमाहरेयं, अर्धं
प्रतिग्राहकस्यानुप्रयच्छेयम् । तावच्चिरं चाहमेवंरूपां दुष्करचारिकां चरेयं, यावदकनिष्ठभवनपर्यन्तेन सर्वे देवा ये सहे बुद्धक्षेत्रे पर्यापन्नास्त उपसंक्रामेयुर्मम च पूजां कुर्वाणाः, सर्वे मे साक्षिणः स्युर्दुष्करचर्यायाम् । यैश्च तत्र श्रावकयाने बीजमवरुप्तं स्यात्तेषां भदन्त भगवन् क्लेशव्युपशमाय सन्ताने भवेयं, चरमभविकाश्च मम वैनेया भवेयुः; ये प्रत्येकबुद्धयानिका (२४३) यावद्यथा पूर्वोक्तम् । एवं नागयक्षासुरगरुडकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डाः पञ्चाभिज्ञा ऋषय उपसंक्रामेयुर्मम पूजाकर्मणे, सर्वे च मे साक्षिणो भवेयुर्दुष्करचर्यायां; ये च श्रावकयानिका यावद्यथा पूर्वोक्तम् । ये च तत्र चातुर्द्वीपिकायामन्यतीर्थिका लूहतपो व्रतदुष्करचारिकां चरन्ति, तेषां चामानुषा आरोचयेयुः । "न यूयं दुष्करकारका, यथास्मिन् प्रदेशे चरमभविको बोधिसत्त्वो दुष्करचारिकां चरति, तथारूपं ध्यायति हृदये मनस्कारं बध्नाति प्रश्रब्धकायसंस्कारः प्रश्रब्धवाक्संस्कारः प्रशान्ताश्चास्य प्रश्वासाश्वासाः; दिनेदिने चैकां वेलां ध्यानाद्व्युत्थित्वार्धतिलकफलमाहारमाहरति । सा दुष्करचर्या महर्द्धिका सा महाफला महाविस्तारा, न चिरेणासौ अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । सचेन्न श्रद्धध्वं गच्छत स्वयं पश्यत" । ते च तां दुष्करचर्यामुत्सृज्य मम दुष्करचर्यां दृष्ट्वा येषां श्रावकयानसन्तानबीजाङ्कुरं प्रतिष्ठितं स्यात्, यावद्यथा पूर्वोक्तम् । ये मनुष्यराजा (२४४) वा भट्टा वा नैगमजानपदा गृहस्थप्रव्रजिता
गृहागारसंपन्नास्तेऽपि मम दुष्करचर्यामुपसंक्रामेयुर्यावच्छ्रावकयानिका यथा पूर्वोक्तम् । यश्च मातृग्रामो मम दर्शनयोपसंक्रमेत्, स तस्य पश्चिमको मातृग्रामप्रतिलाभो भवेदिति, ये श्रावकयानिका यथा पूर्वोक्तम् । ये मृगपक्षिणो दुष्करं चरमाणं निषण्णं पश्येयुस्स तेषां पश्चिमकस्तिर्यग्योनिप्रतिलाभो भवेदिति; यैश्च मृगपक्षिभिः श्रावकयाने बीजान्यवरोपितानि तेनैकजातिप्रतिबद्धा मम चैव वैनेया भवेयुर्ये प्रत्येकबुद्धयाना यावद्यथा पूर्वोक्तम् । एवंविधाः क्षुद्रकास्तिर्यग्योनिका वक्तव्या, एवं प्रेता वक्तव्यास्तावच्चिरं चाहमेवंरूपां दुष्करचर्यां चरेयमेकपर्यङ्केन यावद्बहुसत्त्वकोटीनयुतशतसहस्राणि दुष्करचर्यायां साक्षिभूता भवेयुः आश्चर्यप्राप्ताश्च, तेषां च सन्तानेऽप्रमेयासंख्येयानां मोक्षबीजां प्ररोपयेयम् । तथारूपामहं दुष्करचर्यां चरेयं यथा न पूर्वं केनचित्सत्त्वसंख्यातेन अन्यतीर्थिकेन वा श्रावकयानिकेन वा प्रत्येकबुद्धयानिकेन वा अनुत्तरमहायानिकेन वा एवं दुष्करचर्याचीर्णपूर्वः स्यात्; न च पुनः पश्चात्कश्चित्सत्त्वसंख्यातश्चरेतन्यतीर्थिका वा एवंरूपां दुष्करचारिकां (२४५) शक्तांश्चरन्तु यथाहं चरेयम् । अप्राप्तायामनुत्तरायां सम्यक्संबोधौ तदाहं पुरुषकारं कुर्यां सबलकायं मारं पराजयेयं, सावशेषकर्मफलं चाधिष्ठिहेयं, क्लेशमारं जिनेयं, अनुत्तरां च सम्यक्संबोधिमभिसंबुध्येयम् । तदहमेकसत्त्वस्य
सन्तानेऽर्हत्वं प्रतिष्ठापयेयं, तथा द्वितीयस्य तथा तृतीयस्य तथा चतुर्थस्य धर्मं देशयेयं, सन्ताने चार्हत्वं प्रतिष्ठापयेयम् । एकैकस्य सत्त्वस्यार्थमहं शतसहस्रशः प्रातिहार्याणि दर्शयेयं, तस्य च सन्ताने सम्यग्दृष्टिं प्रतिष्ठापयेयं, बहुनि च धर्मार्थव्यञ्जनसहस्राणि भाषयेयं, यथा शक्त्या च फले प्रतिष्ठापयेयम् । वज्रमयांश्च सत्त्वानां सन्ताने क्लेशपर्वतां ज्ञानवज्रेण भिन्द्यां त्रियानेन व्यवस्थानेन धर्मं देशयेयम् । एकसत्त्वस्यार्थायाहं बहुयोजनशतानि पद्भ्यां गच्छेयं धर्मदेशनार्थमभयपदे प्रतिष्ठापनार्थम् । अप्रतिषेधश्च मे शासने भवेत्प्रव्रज्यायाः, दुर्बलस्य मुष्टस्मृतेः विभ्रान्तचित्तस्य मुखरप्रगल्भचित्तस्य प्रदुष्टचित्तस्य दुःप्रज्ञचित्तस्य बहुक्लेशाकुलचित्तस्य मातृग्रामस्य मम शासने प्रव्रज्योपसंपद्भवेत् । (२४६) चतस्रश्च मे पर्षाः स्युर्भिक्षुभिक्षुण्युपासकोपसिकाः । बहुजनप्रभूतं मे शासनं भवेत्देवानां सत्यदर्शनं यक्षाणां नागानामसुराणामार्याष्टाङ्गसमन्वागत उपोषधवासः, यावत्तिर्यग्योनिगतानामपि ब्रह्मचर्यावासो भवेत् ।

बोधिप्राप्तस्य च मे भदन्त भगवन् ये सत्त्वा मम प्रदुष्टचित्ता वधकचित्ताः शस्त्रेण वाग्निना वा शक्त्या व विविधेन वा प्रहरणेनोपसंक्रामेयुः, रुक्षैः परुषैर्वचनैराक्रोशेयुः परिभाषेयुर्दिग्विदिक्षु वायशःशब्दं चारेयुः, विषसंसृष्टं वाहारपानमुपनामयेयुः; एवंरूपां कर्मफलानपरिक्षीणानधिष्ठिहित्वानुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । यथा बोधिप्राप्तस्य मे सत्त्वाः पूर्वं वैरेण वधकोपकरणप्रयोगेन परुषवचनविविधप्रहरणविषान्नपानसंसृष्टेनोपसंक्रामेयुः रुधिरं च मे उत्पादयेयुः, तेषां सत्त्वानामहं शीलश्रुतसमाधिमहाकरुणाभावितेन ब्रह्मस्वरघोषदुन्दुभिनर्दितेन स्वरेण तथारूपं धर्मं देशयेयं, यत्तेषां चित्तानि प्रसादयेयं कुशले च नियोजयेयं; यथा ते सत्त्वाः कर्मावरणं देशयेयुः, आपत्यां संवरमापद्येयुः, (२४७) न च तेषां सत्त्वानां स्वर्गे मोक्षफले वैराग्ये आश्रवक्षये वा आवरणकर्म भवेदिति, मम चात्रापरिक्षीणकर्मफलक्षीणव्यन्तीकृतं भवेत् ।

बोधिप्राप्तस्य च मे भदन्त भगवन् यावन्तो मम रोमकूपा भवेयुस्तावन्तो दिवसं बुद्धविग्रहान्निर्मिणुयां द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलङ्कृतानशीतिभिरनुव्यञ्जनैस्तांश्चाहं बुद्धविग्रहान् शून्येषु बुद्धक्षेत्रेषु प्रेषयेयं, अशून्येषु च प्रेषयेयं, पञ्चकषायेषु बुद्धक्षेत्रेषु प्रेषयेयम् । ये चापि तेषु बुद्धक्षेत्रेष्वानन्तर्यकारकाः सत्त्वा भवेयुः सद्धर्मप्रतिक्षेपकाः आर्यापवादका यावदकुशलमूलसमवधानकाः, येऽपि तत्र सत्त्वाः श्रावकयानसंप्रस्थिताः प्रत्येकबुद्धयानसंप्रस्थिता महायानसंप्रस्थिताः शिक्षायां कल्माषकारिणः छिद्रचारिणः मूलापत्तिमापन्नाः दग्धसन्तानाः शुभमार्गप्रणष्टाः संसाराटवीसंप्रस्थिताः कुमार्गविहन्यमाना महासङ्कटप्राप्ताः, तथारूपाः सत्त्वाः सत्त्वकोटीनयुतशतसहस्रादेको बुद्धविग्रह एकदिवसे (२४८) सत्त्वानां धर्मं देशयेत् । ये सत्त्वा महेश्वरभक्तिकास्तेषां सत्त्वानां महेश्वररूपेण धर्मं देशयेयम् । सहे च बुद्धक्षेत्रे मम वर्णं भाषयेयुस्तत्र च सत्त्वानां प्रणिधानमुद्योजयेयम् । ते च सत्त्वा मम वर्णं श्रुत्वा ममैव बुद्धक्षेत्रे प्रणिधानं कुर्वीरन्, उपपत्तिं चाकाङ्क्षेयुः । याद्यहं भदन्त भगवन् तेषां सत्त्वानां मरणकालसमये पुरतः न तिष्ठेयं धर्मं न देशयेयं चित्तं न संप्रसादयेयं, मा चाहमनुत्तरां
सम्यक्संबोधिमभिसंबुध्येयम् । यदि मे सत्त्वाः कालं कृत्वा दुर्गतीषूपपद्येयुर्न च मम बुद्धक्षेत्रे मनुष्यप्रतिलाभं लभेयुः, सर्वे मम धर्मा संमोषं गच्छेयुर्मा च मे प्रतिभायेयुर्मा चाहं शक्यं सकलं बुद्धकार्यं निष्पादयितुम् । ये सत्त्वा नारायणभक्तिका यावत्ते सत्त्वाः कालं कृत्वा दुर्गतिं प्रपतेयुस्तन्मा चाहं शक्यं सकलं बुद्धकार्यं निष्पादयितुम् ।

बोधिप्राप्तस्य च मे सर्वबुद्धक्षेत्रेषु सत्त्वा आनन्तर्यकारका यावत्कुमार्गे विहन्यमाना महासङ्कटप्राप्ताः सत्त्वाः कालं कृत्वा मम बुद्धक्षेत्र उपपद्येरन्, इदं तेषां निमित्तं पांशुवर्णास्ते सत्त्वा भविष्यन्ति, (२४९) पिशाचमुखी मुष्टस्मृतयो दुर्गन्धा दुःशीला अल्पायुष्का विविधरोगोपहता विविधपरिष्कारपरिहीणाश्च ते सत्त्वा भविष्यन्ति; तेषां सत्त्वानामर्थेऽहं यावत्तस्मिन् समये सहे लोकधातौ चातुर्द्वीपिका भवेयुः, सर्वत्र च चातुर्द्वीपिकायां संतुषितभवनावतरणं मातुर्गर्भे चाहं जातुमुपदर्शयेयं, विस्तरेण कुमारक्रीडाशिल्पकर्मस्थानदुष्करचर्यामारधर्षणबोध्यभिसंबुध्यनधर्मचक्रप्रवर्तनं, सर्वत्र च चातुर्द्वीपिकासु सकलं बुद्धकार्यमुपदर्शयेयं, परिनिर्वाणं यावच्छरीरविभागमुपदर्शयेयम् ।

बोधिप्राप्तश्चाहमेकपदव्याहरेण धर्मं देशयेयम् । ये सत्त्वाः श्रावकयानिकास्ते श्रावकयानकथापिटकं धर्मं देशितमाजानीयुः; ये सत्त्वाः प्रत्येकबुद्धवैनेयास्ते प्रत्येकबुद्धयानकथाधर्मं देशितमाजानीयुर्ये सत्त्वा अनुत्तरमहायानिकास्तेऽनुत्तरमहायानकथाधर्मं देशितमाजानीयुः । ये सत्त्वाः संभारविरहितास्ते दानकथाधर्मं देशितमाजानीयुर्ये सत्त्वाः पुण्यविरहिताः सुखस्वर्गाभिलाषिनास्ते शीलकथाधर्मं देशितमाजानीयुः; ये परस्परभीतकलुषचित्ताः प्रदुष्टचित्तास्ते (२५०) मैत्र्याव्याहारकथाधर्मं देशितमाजानीयुः; प्राणातिपातिकाः करुणाधर्मं देशितमाजानीयुः; य ईर्ष्यामात्सर्याभिभूतास्ते मुदिताव्याहारकथाधर्मं देशितमाजानीयुः; ये रूपारूप्यमदमत्तचित्तास्ते उपेक्षाव्याहारकथाधर्मं देशितमाजानीयुः । ये कामरागमदमत्तचित्ता अशुभव्याहारेण धर्मं देशितमाजानीयुः; ये च सत्त्वा महायानिकौद्धत्यव्याकुलचित्तोपगतास्ते आनापानस्मृतिव्याहारेण धर्मं देशितमाजानीयुः; ये दुःप्रज्ञा वा प्रदीपप्रतीत्यसमुत्पादव्याहारेण धर्मं देशितमाजानीयुः; येऽल्पश्रुतवादिनस्तेऽसंप्रमोषश्रुतधारणीविप्रणाशव्याहारेण धर्मं देशितमाजानीयुः; कुदृष्टिसङ्कटप्राप्ताः शून्यताव्याहारेण धर्मं देशितमाजानीयुः; वितर्कसमुदाचारोपहता अनिमित्तव्याहारेण धर्मं देशितामाजानीयुरप्रणिहितापरिशुद्धोपहता अप्रणिहितव्याहारेण धर्मं देशितमाजानीयुः; आशयापरिशूद्धाः परिशुद्धाशयव्याहारेण धर्मं देशितमाजानीयुः; व्यवकीर्णसमुदाचारोपहता बोधिचित्तासंप्रमोषव्याहारेण धर्मं देशितमाजानीयुः; क्षमप्रयोगोष्मोपहता (२५१) अकृत्रिमव्याहारेण धर्मं
देशितमाजानीयुः; अध्याशयप्रश्रब्धोपहता अनिश्रितव्याहारेण धर्मं देशितमाजानीयुः; क्लिष्टचित्ताः पेयालं कल्पचित्तव्याहारेण; कुशलसंप्रमोषचित्ता वैरोचनव्याहारेण; मारकर्मोद्युक्ताः शून्यताव्याहारेण; परवधे संप्रतिपन्ना अभ्युद्गतव्याहारेण; विविधक्लेशोपहतचित्ता विगतव्याहारेण; विषममार्गसंप्रतिपन्ना आवर्तव्याहारेण; महायानकौतुहलचित्ता विवर्तव्याहारेण; संसारोद्विग्नानां बोधिसत्त्वानां रतिव्याहारेण; कुशलभूमिज्ञानवगता अमूढव्याहारेण; परस्परासंतुष्टकुशलमूलानां श्रुतव्याहारेण; परस्परासमचित्तानामप्रतिहतरश्मिव्याहारेण; विषमकर्मसंप्रतिपन्नानां क्रियावतारणव्याहारेण; पर्षद्भयोपगतानां सिंहकेतुव्याहारेण; चतुर्माराभिभूतचित्तानां (२५२) शूरव्याहारेण; बुद्धक्षेत्रानवभासगतानां सत्त्वानां प्रभाव्यूहव्याहारेण; अनुनयप्रतिघानां शैलोच्चयव्याहारेण; बुद्धधर्मालोकनाभिभूतानां ध्वजाग्रकेयूरव्याहारेण; महाप्रज्ञाविरहितानामुल्कापातव्याहारेण; मोहान्धकारगतानां भास्करप्रदीपव्याहारेण; क्षयानिरुक्तिप्रयुक्तानां गुणाकरव्याहारेण; फेनपिण्डोपमात्माभिकाङ्क्षिणां नारायणव्याहारेण; चलाचलबुद्धीनां सारानुगतव्याहारेण; अवलोकितमूर्धानां मेरुध्वजव्याहारेण; पूर्वप्रतिज्ञोत्सृष्टानां सारवतिव्याहारेण; च्युताभिज्ञानां वज्रपदव्याहारेण; बोधिमण्डाभिकाङ्क्षिणां वज्रमण्डव्याहारेण; सर्वधर्मजुगुप्सितानां वज्रोपमव्याहारेण; सत्त्वचरितमप्रजानतां चारित्रवतिव्याहारेण; इन्द्रियपरापरानभिज्ञानां प्रज्ञाप्रदीपव्याहारेण; परस्पररुतमप्रजानतां (२५३) रुतप्रवेशव्याहारेण; धर्मकायमप्रतिलब्धानां सद्धर्मकायविभावनव्याहारेण; तथागतदर्शनविरहितानामनिमिषव्याहारेण; सर्वालंबनविगोपितानामरण्यव्याहारेण; धर्मचक्रप्रवर्तनाभिकाङ्क्षिणां
चक्रविमलव्याहारेण; अहेतुविद्यासंप्रस्थितानां विद्याप्रतीत्यानुलोमव्याहारेण; एकबुद्धक्षेत्रशाश्वतदृष्टीनां सुकृतविचयव्याहारेण; लक्षणानुव्यञ्जनानवरुप्तबीजानामलङ्कारवतिव्याहारेण; वाचारुतप्रभेदासमर्थानां निर्हारवतिव्याहारेण; सर्वज्ञज्ञानाभिकाङ्क्षिणां धर्मधात्वविकोपनव्याहारेण; प्रत्युत्पन्नावर्तनधर्माणां दृढव्याहारेण; धर्मधातुमप्रजानतामभिज्ञाव्याहारेण; प्रज्ञोत्सृष्टानामच्युतव्याहारेण; मार्गविगोपितानामविकारव्याहारेण; आकाशसमज्ञानाभिकाङ्क्षिणां निष्किञ्चनव्याहारेण; (२५४) पारमितापरिपूर्णानां परिशुद्धप्रतिष्ठाव्याहारेण; अपरिपूर्णासंग्रहवस्तूनां सुसंगृहीतव्याहारेण; ब्रह्मविहारविमार्गितानां समप्रयोगव्याहारेण; बोधिपक्षरत्नापरिपूर्णानामव्यवस्थितनिर्याणव्याहारेण; सुभाषितज्ञानां प्रमुष्टचित्तानां सागरमुद्रव्याहारेण; अनुत्पत्तिकधर्मक्षान्तिकौतूहलचित्तानां निश्चितव्याहारेण; यथाश्रुतधर्मप्रमुष्टचित्तानामसंप्रमोषव्याहारेण; परस्परसुभाषितासंतुष्टानां वितिमिरव्याहारेण; त्रिरत्नाप्रतिलब्धप्रसादानां पुण्योत्सदव्याहारेण; धर्ममुखप्रवर्षणासंतुष्टानां धर्ममेघव्याहारेण; त्रिरत्नोच्छेददृष्टीनां रत्नव्यूहव्याहारेण; ज्ञानार्दितकर्माभियुक्तानामनुपमव्याहारेण; सर्वसंयोजनबन्धनगतानां (२५५) गगनमुखव्याहारेण; सर्वधर्मानन्यचित्तानां ज्ञानमुद्रव्याहारेण; तथागतगुणापरिपूर्णानां लोकविद्यासंमुखीभावव्याहारेण; पूर्वबुद्धासुकृताधिकारिणां विनिश्चितप्रातिहार्यव्याहारेण; एकधर्ममुखापरान्तककल्पानिर्दिष्टानां सर्वधर्मनयव्याहारेण; सर्वसुत्रान्ताविनिश्चितानां धर्मस्वभावसमताविनिश्चितव्याहारेण; षट्पारायणीयधर्मपरिवर्जितानां सर्वधर्मनयव्याहारेण; विमोक्षचित्ताशयानभियुक्तानां
विक्रिडिताभिज्ञाव्याहारेण; तथागतगुह्यानुप्रवेशविमर्शितानामपरप्रणेयव्याहारेण; बोधिसत्त्वचर्यानभियुक्तानां ज्ञानागमव्याहारेण; ज्ञातिकामसंदर्शिकानां सर्वत्रानुगतव्याहारेण; सावशेषबोधिसत्त्वचारिकानामभिषेकव्याहारेण; दशतथागतबलापरिपूर्णानामनवमर्दव्याहारेण; (२५६) चतुर्वैशारद्याप्रतिलब्धानामपर्यादीनवव्याहारेण; आवेणिकबुद्धधर्माप्रतिलब्धानामसंहार्यव्याहारेण; अमोघश्रवणदर्शनानां प्रणिधानव्याहारेण; सर्वबुद्धधर्मसंमुखानुबोधाय श्रोताविलानां विमलसमुद्रव्याहारेण; सावशेषसर्वज्ञज्ञानानां सुविबुद्धव्याहारेण; अप्राप्तसर्वतथागतकार्याभिप्रायानामपर्यन्तनिष्ठाव्याहारेण धर्मं देशितमाजानीयुरिति । ये बोधिसत्त्वा अशठा अमायाविनो ऋजुका ऋजुक जातीयाश्च तेषां चतुरशीतिधर्ममुखसहस्राणि चतुरशीतिसमाधिमुखसहस्राणि पञ्चसप्ततिधारणीमुखसहस्राणि अप्रमेयासंख्येयानां महायानसंप्रस्थितानामेकपदव्याहारेण इमे गुणाः सन्ताने प्रतिष्ठापयेयं; (२५७) येन बोधिसत्त्वा महासत्त्वा महासंनाहसंनद्धा भवेयुः; अचिन्त्यप्रणिधानविशेषाभ्युद्गता भवेयुरचिन्त्यज्ञानदर्शनबोधिसद्गुणालङ्कृता भवेयुः, तद्यथा कायालङ्कृता लक्षणानुव्यञ्जनैः, वागलङ्कृता भवेयुर्यथाभिप्रायाः, सत्त्वाः सुभाषितेन संतोषयेयुः, श्रुतालङ्कृताः समाध्यवचनतया, स्मृत्यालङ्कृता धारण्यसंप्रमोषतया, मनोऽलङ्कृता निर्वृत्यालङ्कृताः कुगत्यवबुध्यनतया, आशयालङ्कृता दृढप्रतिज्ञातया, प्रयोगालङ्कृताः प्रतिज्ञोत्तारणतया, अध्याशयालङ्कृता भूम्या भूमिसंक्रमणतया, दानालङ्कृताः सर्ववस्तुपरित्यागतया, शीलालङ्कृताः सुश्रुतावितविमलतया, क्षान्त्यलङ्कृताः सर्वसत्त्वाप्रतिहतचित्ततया, वीर्यालङ्कृताः सर्वसंभारोपचिततया, ध्यानालङ्कृताः सर्वसमापत्तिविक्रीडिताभिज्ञा भवेयुः,
प्रज्ञालङ्कृताः (२५८) क्लेशवासनपरिज्ञाविनो, मैत्र्यालङ्कृताः सर्वसत्त्वस्य त्रायानुगताः, करुणालङ्कृताः सर्वसत्त्वापरित्यागस्थिता, मुदितालङ्कृताः सर्वधर्माकथंकथाप्राप्ता, उपेक्षालङ्कृता उन्नामावनामद्वयविगताः, अभिज्ञालङ्कृताः सर्वविक्रीडिताभिज्ञाः, पुण्यालङ्कृता अक्षयभोगरत्नपाणिताप्रतिलब्धा, ज्ञानालङ्कृताः सर्वसत्त्वचित्तचरिताभिज्ञा, बुद्ध्यालङ्कृताः सर्वसत्त्वकौशल्यधर्मविबोधयितारः, आलोकालङ्कृताः प्रज्ञाचक्षुरालोकं प्रतिलभेयुः, प्रतिसंविदलङ्कृता अर्थधर्मनिरुक्तिप्रतिभानप्रतिसंवित्प्रतिलब्धा भवेयुर्वैशारद्यालङ्कृताः सर्वमारपरप्रवादिनभिभूता, गुणालङ्कृता बुद्धानां गुणानुप्राप्ता, धर्मालङ्कृताः सततसमितमसङ्गप्रतिभानेन सत्त्वानां धर्मं देशयेयुः, आलोकालङ्कृताः सर्वबुद्धधर्मावभासगताः, प्रभालङ्कृताः सर्वबुद्धक्षेत्रावभासगता, आदर्शनप्रातिहार्यालङ्कृता अक्षुणव्याकरणा, (२५९) अनुशासनीप्रातिहार्यालङ्कृता यथावदनुशासनीप्रदायका, ऋद्धिप्रातिहार्यालङ्कृताश्चतुरृद्धिपादपरमपारमिताप्राप्ताः, सर्वतथागताधिष्ठानालङ्कृतास्तथागतगुह्यानुप्रविष्टा, धर्मैश्वर्यालङ्कृता अपराधीनज्ञानप्रतिलब्धाः, सर्वकुशलधर्मप्रतिपत्तिसारालङ्कृता यथावादितथाकारिसर्वतोऽनवमर्दिता भवेयुरिति । अप्रमाणासंख्येयानां महायानसंप्रस्थितानां सत्त्वानामेकपदव्याहारेणाहं महता कुशलविशोधनसंनिचयेन संतर्पयेयम् । ततस्ते बोधिसत्त्वा महासत्त्वाः सर्वधर्मेष्वपरप्रत्ययज्ञानं प्रतिलभेयुः, महता च धर्मावभासेन समन्वागता भवेयुः, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्येयुरिति ।

येऽपि ते भदन्त भगवन् सत्त्वा भवेयुरन्येषु लोकधातुष्वानन्तर्यकारका यावन्मूलापत्तिसापराधिका दग्धसन्तानाः श्रावकयानिका वा प्रत्येकबुद्धयानिका वा अनुत्तरमहायानिका वा प्रणिधानवशेन मम बुद्धक्षेत्रे प्रत्याजायेयुः । अकुशलमूलसमवधाना रुक्षाः पापेच्छाः (२६०) क्रूरखटुङ्कसन्ताना विपरीतबुद्धय आगृहीतसन्तानाः तेषां चाहं चतुरशीतिश्चित्तरुतसहस्रां देशयेयुः, यावत्कुशीदचित्तानां सत्त्वानामहं चतुरशीतिधर्मस्कन्धसहस्राणि विस्तरेण देशयेयम् । ये च तत्र सत्त्वा अनुत्तरमहायानिका भवेयुः तेषां चाहं विस्तरेण षट्पारमिताधर्मं देशयेयं, दानपारमितां विस्तरेण देशयेयं यावत्प्रज्ञापारमितां विस्तरेण देशयेयम् । ये च पुनस्तत्र सत्त्वाः श्रावकयानिका वा प्रत्येकबुद्धयानिका वा भवेयुः, अनवरुप्तकुशलमूला भवेयुः, शास्ताराभिकाङ्क्षिणः, तांश्चाहं त्रिशरणगमनेन व्यवस्थापयेयं, पश्चात्पारमितासु नियोजयेयं; विहिंसारतानां प्रानातिपातवैरमण्यां व्यवस्थापयेयं; विषमलोभाभिभूतानामदत्तादानवैरमण्यां व्यवस्थापयेयं; अधर्मरागरक्तां काममिथ्याचारवैरमण्यां व्यवस्थापयेयं; परस्परपरुषवचनभाषिणो मृषावादवैरमण्यां (२६१) व्यवस्थापयेयं; उन्मत्ताभिरतान् सुरामैरेयमद्यप्रमादवैरमण्यां व्यवस्थापयेयम् । येषां च सत्त्वानां सर्वपञ्चदोषा भवेयुस्तां पञ्चदोषवैरमण्योपासकसंवरे व्यवस्थापयेयम् । ये सत्त्वा अनभिरताः कुशलेषु धर्मेषु तांश्चाहं रात्रिंदिवसमष्टाङ्गे शीले प्रतिष्ठापयेयं
। ये सत्त्वाः परीत्तकुशलमूलाभिरतचित्तास्तांश्चाप्यहं स्वाख्याते धर्मविनये उपश्लेषयेयं, प्रव्रज्यासंवरे दशशिक्षापदे ब्रह्मचर्ये स्थापयेयम् । ये सत्त्वाः कुशलान् धर्मान् पर्येष्टुकामास्तानप्यहं कुशलेषु धर्मेषु समादाप्य सकले ब्रह्मचर्यवासे प्रतिष्ठापयेयम् । एवंरूपानामानन्तर्यकारकानां यावदागृहीतसन्तानानां सत्त्वानामर्थे चाहं बहुविविधनानार्थपदव्यञ्जनप्रातिहार्यैर्धर्मं देशयेयं, अनित्यदुःखानात्मशून्यस्कन्धधात्वायतनानि दर्शयेयं, कुशले क्षेमे शिवे शान्तेऽभयपुरे निर्वाणे प्रतिष्ठापयेयम् । एवमहं चतुर्णां पर्षदां भिक्षुभिक्षुण्युपासकोपासिकानां धर्मं देशयेयं; ये च वादार्थिनो भवेयुस्तेषामहं धर्मवादशास्त्रं प्रकाशयेयं; ये च नाभिरताः कुशलेषु धर्मेषु तेषां चाहं (२६२) वैयावृत्यकर्माणि निर्दिशेयम्, स्वाध्यायाभिरतानामेकांशेन शून्यतां ध्यानविमुक्तिगामिनां निर्देशयेयम् । एकैकस्य सत्त्वस्यार्थायाहं बहुयोजनशतसहस्राणि प्रद्भ्यां गच्छेयं, बहुविविधनानाप्रकारार्थपदव्यञ्जनोपायप्रातिहार्यैरखेदमुत्सहेयं, यावन्निर्वाणे स्थापयेयं; यावत्समाधानबलेनाहं पञ्चमभागमायुःसंस्काराणामवसृजेयं, परिनिर्वाणकालसमये चाहं स्वयमेव स्वशरीरसर्षपफलप्रमाणमात्रं भिन्देयं, सत्त्वानां कारुण्यार्थे चाहं पश्चात्परिनिर्वापयेयं; परिनिर्वृतस्य च मे वर्षसहस्रं सद्धर्मस्तिष्ठेत्, पञ्चपुनर्वर्षशतानि सद्धर्मप्रतिरूपकस्तिष्ठेत् ।

ये च सत्त्वा मम परिनिर्वृतस्य शरीरेषु पूजौत्सुक्यमापद्येयू रत्नैर्यावद्वाद्यैरन्तश एकबुद्धनामैकवन्दना एकप्रदक्षिनीकरणेन एकाञ्जलिकर्मणा एकपुष्पेण पूजां कुर्वीरन्, सर्वे तेऽवैवर्तिका भवेयुर्यथाभिप्रायास्त्रिभिर्यानैः । ये च सत्त्वा मम परिनिर्वृतस्य शासनेऽन्तश एकशिक्षापदमपि गृह्णीयुर्यथोक्तं समादाय वर्तेयुर्यावच्चतुष्पदगाथां पर्यवाप्नुयुर्वाचयेयुः, परेषां च देशयेयुः, येऽपि शृणुयुश्चित्तं (२६३) वा प्रसादयेयुर्धर्मभाणकस्य वा पूजां कुर्युरन्तश एकपुष्पेणापि एकवन्दनेनापि, सर्वे तेऽवैवर्तिका भवेयुस्त्रिभिर्यानैर्यथाभिप्राया; यावत्सद्धर्मेऽन्तर्हिते सद्धर्मोल्कायां निर्वापितायां धर्मध्वजे पतिते ते च मम जन्मशरीरमवतरेयुर्यावत्काञ्चनचक्रे तिष्ठेयुर्यस्मिन् काले सहे बुद्धक्षेत्रे रत्नदुर्भिक्षं भवेत्तस्मिन् समये केतुमतिर्नाम मणिवैडुर्यमयमग्निनिर्भासं तिष्ठेत् । तच्च ततोऽभ्युद्गम्योर्द्ध्वं यावदकनिष्ठभवने स्थित्वा विविधां पुष्पवृष्टिं प्रवर्षेत्, मान्दारवमहामान्दारवपारिजातकमञ्जुषकमहामञ्जुषकरोचमहारोचमानपूर्णाचन्द्रविमलाशतपत्रसहस्रपत्रशतसहस्रपत्रसमन्तप्रभासमन्तगन्धासुरुचिरसदाफलाहृदयनयनाभिरम्याज्योतिप्रभाज्योतिरसानन्तवर्णानन्तगन्धानन्तप्रभानां (२६४) एवंरूपानां पुष्पवर्षमभिप्रवर्षेत् । ततश्च पुष्पवर्षाद्विविधा शब्दा निश्चरेयुस्तद्यथा बुद्धशब्दो धर्मशब्दः सङ्घशब्द उपासकसंवरशब्द आर्याष्टाङ्गसमन्वागतोपोषधोपवासशब्दो दशप्रव्रज्याशिक्षापदसंवरशब्दो दानशब्दः शीलशब्दः सकलब्रह्मचर्यपरिपूर्णोपसंपदाशब्दो वैयावृत्तिशब्दोऽध्ययनशब्दः प्रतिसंलयनशब्दः योनिशोमनसिकारशब्दोऽशुभशब्दो आनापानस्मृतिशब्दो
नैवसंज्ञानासंज्ञायतनशब्द आकिञ्चन्यायतनशब्दो विज्ञानानन्त्यायतनशब्द आकाशानन्त्यायतनशब्दोऽभिभवायतनशब्दः कृत्स्नायतनशब्दः शमथविपश्यनाशब्दः शून्यताप्रणिहितशब्दोऽनिमित्तशब्दः प्रतीत्यसमुत्पादशब्दः सकलश्रावकपिटकशब्दश्च निश्चरेत्, सकलप्रत्येकबुद्धयानपिटकशब्दो निश्चरेत्, सकलमहायानकथाषट्पारमिताशब्दः ते पुष्पा अवकिरेयुः । सर्वे च रूपावचरा देवाः शृणुयुः (२६५) स्वकस्वकानि पूर्वकृतानि कुशलमूलान्यनुस्मरेयुः, सर्वकुशलेषु धर्मेषु महासत्त्वा अजुगुप्सनीयास्ते ततोऽवतरेयुः सर्वे सहे लोकधातौ मनुष्यां दशकुशलेषु कर्मपथेषु नियोजयेयुः प्रतिष्ठापयेयुः । एवमेव सर्वे कामावचरा देवाः शृणुयुस्तेषां च तृष्णासंयोजनरतिक्रीडासौमनस्याभिरतांश्चित्तचैतसिकां सर्वान् प्रश्रम्भयेयुः, ते सर्वे स्वकानि पूर्वकृतानि कुशलमूलान्यनुस्मरेयुः, ते च देवलोकादवतीर्य सर्वे सहे लोकधातौ मनुष्यां दशकुशलेषु कर्मपथेषु समादापयेयुः प्रतिष्ठापयेयुः । ते च पुष्पा आकाशे विविधा रत्नाः प्रादुर्भवेयुः, तद्यथा भदन्त भगवन् रूप्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडरजतजातरूपाश्मगर्भदक्षिणावर्ताः, सर्वे सहे बुद्धक्षेत्रे एवंरूपां रत्नवृष्टिमभिप्रवर्षेयुः । सर्वे च सहे बुद्धक्षेत्रे कलिकलहविवाददुर्भिक्षरोगपरचक्रपरुषवाग्रुक्षविषं सर्वेण सर्वं प्रशमेयुः, क्षेमारोग्या अकलहाबन्धनविग्रहाः सुभिक्षाः सर्वे सहे बुद्धक्षेत्रे संस्थिहेयुः । (२६६) यानि च सत्त्वानि तानि रत्नानि पश्येयुः स्पृश्येयुः
उपभोगकर्म वा कुर्वीरन् ते सर्वे त्रिभिर्यानैरवैवर्त्या भवेयुस्ते च पुनरधो यावत्काञ्चनचक्रे स्थिहेयुरेवमेव भदन्त भगवन् शस्त्रान्तरकल्पकाले समये पुनस्त इन्द्रनीलमणिरत्नाः संस्थिहेयुरूर्ध्वं यावदकनिष्ठभवनपर्यन्ते, स्थित्वा विविधां पुष्पवृष्टिमभिप्रवर्षेयुः, तद्यथा मान्दारवमहामान्दारवपारियात्रा यावदेवानन्तप्रभास्तस्माच्च पुष्पवर्षाद्विविधा मनोज्ञाः शब्दा निश्चरेयुस्तद्यथा बुद्धशब्दो धर्मशब्दः सङ्घशब्दो यावत्पूर्वोक्तम् । ते पुनः शरीरा अधो यावत्काञ्चनचक्रे स्थिहेयुः । एवं तस्मिं समये दुर्भिक्षान्तरकल्पकाले पुनस्ते शरीरा ऊर्ध्वमुद्गच्छेयुर्यावदकनिष्ठभवनपर्यन्तं पुष्पवृष्टिर्यावत्पूर्वोक्तम् । यावद्रोगान्तरकल्पं यथा पूर्वोक्तम् । यथा भद्रके महाकल्पे मम परिनिर्वृतस्य शरीरास्तृकार्यं कुर्युः, गणनातिक्रान्तान्वैनेयां त्रिभिर्यानैरवैवर्तिकान् स्थापयेयम् । एवं पञ्चबुद्धक्षेत्रपरमाणुरजःसमैर्महाकल्पे वर्तमानैर्मम शरीराः सत्त्वान् विनेयुस्त्रिभिर्यानैरवैवर्तिकां स्थापयेयुः; यदा (२६७) पश्चात्सहस्रगङ्गानदीवालिकासमैरसंख्येयैरतिक्रान्तैर्दशसु दिक्ष्वप्रमेयैरसंख्येयैरन्योन्येभ्यो लोकधातुभ्यस्ते बुद्धा भगवन्त उत्पद्येयुर्ये मया बोधिसत्त्वभूतेनानुत्तरायां सम्यक्संबोधौ चर्यां चरता प्रथममनुत्तरायां सम्यक्संबोधौ समादापिताः स्युः प्रतिष्ठापिता, मया च षट्पारमितासु समादापिता निवेशिताः प्रतिष्ठापिताः स्युः ।

बोधिप्राप्तश्चाहमपि सत्त्वाननुत्तरायां सम्यक्संबोधौ समादापयेयं निवेशयेयं प्रतिष्ठापयेयं, ये च पुनः परिनिर्वृतस्य शरीरविकुर्वणेनापि सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेयुस्तेऽपि पश्चात्सहस्रगङ्गानदीवालिकासमैरसंख्येयैर्वर्तमानैरसंख्येयैरतिक्रान्तैर्दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा मम वर्णं भाष्ययेयुः श्रावयेयुर्घोषं चोदीरयेयु"र्यच्चिरं भद्रको नाम कल्पो बभूव, तस्मिंश्च भद्रके महाकल्पेऽनुप्रविष्टे चतुर्थे जिनभास्कर एवंनामा तथागतो बभूव, येन वयं प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता (२६८) निवेशिताः प्रतिष्ठापिताः, दग्धसन्ताना अकुशलसमवधानगता आनन्तर्यकारका यावन्मिथ्यादृष्टिकास्तेन वयं षट्पारमितासु समादापिता निवेशिताः प्रतिष्ठापिताः । येन वयमेतर्हि सर्वज्ञाः सर्वाकारधार्मिकं धर्मचक्रं प्रवर्तयामः, निर्वर्ते तु गतिचक्रे बहुसत्त्वकोटीनयुतशतसहस्रान् स्वर्गे मोक्षफले च प्रतिष्ठापयामः स्युः" । ये च सत्त्वा बोध्यर्थिकास्तेषां तथागतानां सकाशे मम वर्णकीर्तियशश्च शृणुयुस्ते तं तथागतं पृच्छेयुः, "कमर्थवशं सम्पश्यमानः स भगवांस्तथागत एवं पञ्चकषाये कलियुगे वर्तमानेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः?" ते च तथागतास्तेषां बोध्यर्थिकानां कुलपुत्राणां कुलदुहितॄणां वा इमं मम महाकरुणासमन्वागतं प्रथमचित्तोत्पादं बुद्धक्षेत्रगुणव्यूहं
प्रणिधानपूर्वयोगं च भाषेयुस्ते च बोध्यर्थिकाः कुलपुत्राः कुलदुहितरो वा आश्चर्यप्राप्ता भवेयुस्तेऽप्युदाराधिमुक्तिका भवेयुस्तेऽप्येवंरूपां महाकरुणां सत्त्वेषूत्पादयेयुरेवंरूपं च प्रणिधानं कुर्वीरन्, एवंरूपे तीव्रपञ्चकषाये क्लेशकषाये कलियुगे बुद्धक्षेत्रे आनन्तर्यकारकां यावदकुशलसमवधानां वैनेयां (२६९) प्रतिगृह्णीयुस्ते च बुद्धा भगवन्तस्तान्महाकरुणासमन्वागतां बोध्यर्थिकां कुलपुत्रान् वा कुलदुहितॄन् वा एवंरूपेण व्याकरेणन व्याकुर्युर्यथाभिप्रायां तैः कुलपुत्रैः कुलदुहितृभिर्वा तीव्रपञ्चकषाये क्लेशे कलियुगे प्रणिधानं कृतम् । अपरे बुद्धा भगवन्तो मम शरीरविवर्तनेभिः पूर्वयोगैः सत्त्वानां बोध्यर्थिकानां कुलपुत्राणां कुलदुहितॄणां वा विस्तरेण भाषयेयुः, "एवं चिरमेवंनामा जिनसूर्यो बभूव; परिनिर्वृतस्य शरीरेभिरेवं चिरमेवंरूपणां दुःखितानां सत्त्वानामर्थाय एवंरूपाणि विविधानि प्रातिहार्याणि विविधा च नानाप्रकारा विकुर्वणाकृतास्तस्य शरीरविकुर्वणाभिर्वयं प्रथममनुत्तरायां सम्यक्संबोधौ संचोदिताः, अनुत्तरायां सम्यक्संबोधौ वयं कुशलमूलसमवधानान् प्रथमचित्तोत्पादादिदं पारमितासु चोद्योगः कृतः, यावद्यथा पूर्वोक्तं विस्तरेण" ।

अथ खलु समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितो रत्नगर्भस्य तथागतस्य पुरतः सदेवगन्धर्वमानुषिकायाः प्रजायाः इमां महाकरुणासमन्वागतां पञ्चशतानि प्रणिधानानि (२७०) कृतवान्, स एवमाह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तथा चाहमनागतेऽध्वनि भदरके कल्पे तीव्रक्लेषे रणकषाये कलियुगे वर्तमाणेऽन्धलोकेऽनायकेऽपरिणायके दृष्टिव्यसनान्धकारप्रक्षिप्ते लोके आनन्तर्यकारकानां यावत्पूर्वोक्तं; यदि चाहं शक्तः सकलमेवं बुद्धकार्यं निष्पादयितुं यथा च मे प्रणिधानं कृतं, न च विसरामि बोधौ प्रणिधानं, न चान्यक्षेत्रे कुशलमूलं परिणामयामि; एवमेव भदन्त भगवन् व्यवसायम् । न च पुनरहमनेन कुशलमुलेन प्रत्येकबुद्धयानं प्रार्थयामि, न च श्रावकयानं प्रार्थयामि, न देवमनुष्यलोके राजत्वं प्रार्थयामि, न देवमनुष्यलोके ऐश्वर्यं प्रार्थयामि, न पञ्चकामगुणपरिभोगार्थं, न देवोपपत्तिं प्रार्थयामि, न गन्धर्वासुरयक्षराक्षसनागगरूडोपपत्तिं प्राथयामि, न चात्र कुशलमूलं परिणामयामि । यच्च भगवानेवमाह - "दानं महाभोगतायै संवर्तते, शीलं स्वर्गोपपत्तये श्रुतं महाप्रज्ञतायै भावना विसंयोगाय" । उक्तं चैतत्पुनर्भगवता, (२७१) "ऋध्यति आशयोऽभिप्रायः कुशलमूलपरिणामना पुण्यवतः सत्त्वस्य" । यच्च मया भदन्त भगवन् दानमयं वा शीलमयं वा श्रुतमयं वा भावनामयं वा पुण्यमार्जितं स्यात् । यदि नैवंरूपा आशा परिपूर्येत यथा मे प्रणिधानं कृतं तदहं तत्सर्वं कुशलमूलं नैरयिकानां सत्त्वानां परिणामयामि; ये सत्त्वाः प्रचण्डमण्डघोरेऽवीचौ नरके दुःखान्यनुभवन्ति
ते चानेन कुशलमूलेन ततो व्युत्तिष्ठन्तु, इह च बुद्धक्षेत्रे मनुष्यप्रतिलाभं प्रतिलभन्तु, तथागतप्रवेदितं च धर्मविनयमारागयेयुः, अग्रत्वे च परिनिर्वायेयुः । यच्च तेषां सत्त्वानामपरिक्षीणकर्मफलं स्यात्तदहमेतर्हि कालं कृत्वाविचौ महानरके उपपद्येयं; बुद्धक्षेत्रपरमाणुरजःसमाध्यगमणीयाश्च मे कायाः प्रादुर्भवेयुः । एकैकश्च मे कायः सुमेरुपर्वतराजप्रमाणो महान् संभवेत्; एकैकश्च मे काय (२७२) एवंरूपाः सुदुःखा वेदना जानीयाद्यथैतर्हि एष एकः शरीरः सुदुःखां वेदनां संजानाति; एकैकश्च मे आत्मभावो बुद्धक्षेत्रपरमाणुरजःसमां तीव्रां चण्डां खरां नैरयिकां कारणामनुभवेयुर्ये चैतर्हि बुद्धक्षेत्रपरमाणुरजःसमेषु दशसु दिक्ष्वन्येषु लोकधातुषु सत्त्वा आनन्तर्यकारका यावदवीचिपरायणानि कर्माणि समुदानीतानि स्युर्यच्च यावद्बुद्धक्षेत्रपरमाणुरजःसमेषु महाकल्पेष्वतिक्रान्तेषु दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेष्वन्येषु बुद्धक्षेत्रेषु गत्वानन्तर्यकर्माणि क्षिपेयुः समुत्थापयेयुर्वा, सर्वेषामर्थायाहं तत्कर्मावीचौ महानरके स्थितोऽनुभवेयं, मा च मे सत्त्वा नरकेषूपपद्येयुः, सर्वे च ते सत्त्वा बुद्धा भगवन्त आरागयेयुः, संसाराच्चोत्तारयेयुः, निर्वाणनगरं प्रवेशयेयुः; तदाहमेतच्चिरेण नरकात्परिमुच्येयम् । यावद्दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेष्वन्येषु बुद्धक्षेत्रेषु सत्त्वैस्तथारूपं
कर्मसमुत्थापितमाक्षिप्तं नियतवेदनीयं प्रतापने नरके उपपद्यितव्यं, यावद्यथा पूर्वोक्तम् । एवं (२७३) सन्तापने महारौरवे सङ्घाते कालसूत्रे संजीवने, एवं नानाविधा तिर्यग्योनिर्वाच्याः, एवं यमलोके वक्तव्यः, एवं यक्षदारिद्रे वक्तव्यं, एवं कुम्भाण्डपिशाचासुरगरुडा वाच्याः । यदा बुद्धक्षेत्रपरमाणुरजःसमेषु दशसु दिक्ष्वन्येषु लोकधातुषु सत्त्वैरेवंरूपं कर्माक्षिप्तं स्यात्, ये च मनुष्यान्धबधिरा अजिह्वाका अहस्तका अपादकाः स्मृतिप्रमुष्टचित्तैरुत्पाद्यितव्यमशुचिभक्षयितव्यं, पेयालं यथा पूर्वोक्तम् । पुनरेवमहमवीचौ महानरके उपपद्येयं; यावच्चिरं संसारे धात्वायतनस्कन्धं प्रतिगृह्णीयुस्तावच्चिरमहमेवंरूपां विविधे नरकतिर्यक्प्रेतेषु यक्षासुरराक्षसेषु यावन्मनुष्यदुःखोपपत्तिभिरेवं दुःखमनुभवेयं, यथा पूर्वोक्तं; यदि मे एवंरूपा अनुत्तरायां सम्यक्संबोधौ आशा न परिपूर्येत ।

अथ खलु च पुनर्मे एवंरूपानुत्तरायां सम्यक्संबोधौ आशा परिपूर्येत यावत्पूर्वोक्तं, साक्षीभूता मे बुद्धा भगवन्तो भवन्तु । ये दशसु दिक्ष्वप्रमेयासंख्येयेषु अन्येषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति यापयन्ति धर्मं च देशयन्ति ते मम बुद्धा भगवन्तः (२७४) साक्षीभूता भविष्यन्ति, ज्ञानभूता भविष्यन्ति । व्याकरोतु मे भदन्त भगवन्ननुत्तरायां सम्यक्संबोधौ, भद्रके कल्पे भवेयमहं विंशोत्तरवर्षशतायुष्कायां प्रजायां तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसम्पन्नो यावद्बुद्धो भगवान्; शक्तोऽहमेवंरूपं बुद्धकार्यमभिनिष्पादयितुं या मे प्रतिज्ञा कृताः" ।

अथ तावदेव सर्वावती पर्षा सदेवगन्धर्वमानुषासुरश्च लोकः क्षितिगगनस्थिताः, स्थापयित्वा तथागतं ते सर्वेऽश्रूणि प्रवर्तयमानाः पञ्चमण्डलेन पादौ वन्दित्वाहुः । "साधु साधु महाकारुणिक, गंभीरा ते स्मृतिर्गंभीरेषु सत्त्वेषु महाकरुणोत्पन्ना, गंभीरं च महाप्रणिधानं कृतम् । तदाध्याशयेन सर्वसत्त्वा महाकरुणया संच्छादिताय भूयसानन्तर्यकारका यावदकुशलमूलसमवधानगता वैनेयाः प्रतिगृहीता; एतेन प्रणिधानेन ज्ञायते यथा त्वं प्रथमचित्तोत्पादेनानुत्तरायां सम्यक्संबोधौ सत्त्वानां भैषज्यभूतस्त्राणं परायणं; सत्त्वानां दुःखप्रमोचनार्थं प्रणिधानं कृतं तथा ते आशा परिपूर्यतु व्याकरोतु च भगवाननुत्तरायां सम्यक्संबोधौ" ।

(२७५)
स्वयं च राजा अमृतशुद्धः प्ररुदमानो ब्राह्मणस्य पञ्चमण्डलेन पादौ वन्दित्वाह ।

"अहो परमगम्भीर सुखेषु त्वमनास्रितः ।
सत्त्वेषु त्वं दयापन्नः अस्माकं त्वं निदर्शकः" ॥

पेयालं, अवलोकितेश्वर आह -

"सत्त्वेषु सक्तेषु भवानसक्त अतीन्द्रियार्थेषु अतीन्द्रियाश्च ।
करोषि चैश्वर्यमिहेन्द्रियाणां भाषिष्यसे धारणि ज्ञानकोशं" ॥

पेयालं, महास्थामप्राप्तस्त्वाह -
(२७६)
"बहुकोटीसहस्रसत्त्वानां कुशलार्थं समागताः ।
रुदन्ते त्वयि कारुण्य महापरमदुष्करं" ॥

मञ्जुश्रीर्बोधिसत्त्व आह -

"दृढवीर्यसमाधान वरप्रज्ञाविचक्षण ।
त्वमस्मानर्हसे पूजां माल्यगन्धविलेपनैः" ॥

गगनमुद्रो बोधिसत्त्व आह -

"एवं दत्तं त्वया दानं सत्त्वेभ्यो महती कृपा ।
क्षीणकालेऽस्मिं त्वं नाथ भेष्यसे वरलक्षणः" ॥

(२७७)
वज्रच्छेदप्रज्ञावभासो बोधिसत्त्वोऽप्येवमाह -

"यथाकाशं सुविस्तीर्णमेवं त्वं करुणाश्रयः ।
त्वया सत्त्वेभ्योऽयं पन्था बोधिचर्या प्रदर्शितः" ॥

वेगवैरोचनो बोधिसत्त्व आह -

"न चान्ये कृपा सत्त्वेषु स्थापयित्वा तथागतम् ।
यस्त्वं सर्वगुणोपेतो वरप्रज्ञाविचक्षणः" ॥

(२७८)
सिंहगन्धस्त्वाह -

"अनागते य अध्वाने भद्रके क्लेशमारके ।
यशः कीर्तिं त्वमाप्नोषि सत्त्व मोचयि दुःखितान्" ॥

समन्तभद्रो बोधिसत्त्व आह -

"जन्मकान्तार उद्युक्ता मिथ्यामाश्रय सङ्कटा ।
गृहीता दग्धसन्ताना मांसरुधिरभोजना" ॥

अक्षोभ्य आह -

"अविद्याण्डकप्रक्षिप्ता क्लेशपङ्के समुत्थिताः ।
गृहीता दग्धसन्ताना (२७९) आनन्तर्यकारकाः" ॥

गन्धहस्तोऽप्याह -

"त्वमनागतभयं दृष्ट्वा यथा आदर्शमण्डले ।
गृहीता दग्धसन्तानाः सद्धर्मप्रतिक्षेपकाः" ॥

रत्नकेतुरप्याह -

"ज्ञानशीलसमाधानः कृपाकरुणभूषितः ।
गृहीता दग्धसन्ताना आर्याणामपवादकाः" ॥

(२८०)
विगतभयसंताप आह -

"त्वं दुःखं दृष्ट्वा सत्त्वानां त्र्यपायगतिमध्वनि ।
गृहीता दग्धसन्तानाः तुच्छमुष्टित्वयाश्रिताः" ॥

उत्पलहस्तोऽप्याह -

"कृपाज्ञानेन वीर्येण पर्षा त्वयि मर्दिता ।
गृहीता दग्धसन्ताना जन्मामरणपीडिताः" ॥

ज्ञानकीर्तिराह -
"बहुरोगोपहता क्लेशवायुसमीरिताः ।
शमेसि ज्ञानतोयेन (२८१) मारबलं प्रमर्दसि" ॥

धरणीमुद्रोऽप्याह -

"न वीर्यं दृढमस्माभिः क्षीणे क्लेशविमोक्षणे ।
यथा त्वं शूरसूर्येव क्लेशजालं प्रमर्दसि" ॥

उत्पलचन्द्रोऽप्याह ।

"दृढवीर्यसमुत्साह यथा गुणकृपाश्रयः ।
मोचेसि त्वं त्रयं लोक्यं प्रबद्धं भवबन्धनैः" ॥

(२८२)
विमलेन्द्र आह -

"महाकारुणि निर्दिष्ट बोधिसत्त्वान गोचरः ।
वयं हि त्वां नमस्यामः कृपाहेतुसमुत्थितः" ॥

बलवेगधार्यप्याह -

"क्लेशयोगे कलियुगे या बोधिस्त्वया समाश्रिता ।
छिन्द क्लेशे समूलांस्त्वं सिध्यते प्रणिधिर्दृढा" ॥

ज्योतिपालोऽप्याह -

"ज्ञानकोशसमं तुल्यं कृता प्रणिधि निर्मला ।
(२८३)
वर्तसे बोधिचर्याय सत्त्वौषधिस्तवाश्रयः" ॥

बलसन्दर्शनो बोधिसत्त्वो महासत्त्वः प्ररुदमानो ब्राह्मणस्य पञ्चमण्डलेन पादौ वन्दित्वाञ्जलिं प्रगृहीतवानाह -

"अहो ज्ञानोल्क सत्त्वेभ्यः क्लेशरोगविशाटनी ।
कृपालु प्रज्वालिता ते सत्त्वान्मोचेसि दुःखितान्" ॥

सर्वावती च कुलपुत्र सा पर्षा सदेवगन्धर्वमाणुषा ब्राह्मणस्य पञ्चमण्डलेन पादौ वन्दित्वा कृताञ्जलिः स्थित्वा विचित्राभिरन्वयपदयुक्ताभिर्गाथाभिसभिस्तवित्वा तस्थौ ॥

(२८४)
यदा च कुलपुत्र समुद्ररेणुर्ब्राह्मणो रत्नगर्भस्य तथागतस्याग्रतो दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठापयति । अथ तावदेव महापृथिविचालः प्रादुर्भूतः समन्ताच्च दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु बुद्धक्षेत्रेषु पृथिवी चलति प्रचलति संप्रचलति क्षुभति प्रक्षुभति संप्रक्षुभति वेधति प्रवेधति संप्रवेधति रणति प्ररणति संप्ररणति । पुनरपि महानवभासः प्रादुर्भूता, विविधा च पुष्पवृष्टिः प्रवर्षितास्तद्यथा मान्दारवमहामान्दारवं यावदनन्तप्रभा एवंरूपा पुष्पवृष्टिः प्रवर्षितवती । यद्दशसु दिशासु बुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ति यापयन्ति परिशुद्धेषु बुद्धक्षेत्रेषु अपरिशुद्धेषु वा सत्त्वानां धर्मं देशयन्ति । ये च तत्र बोधिसत्त्वा महासत्त्वास्तेषां बुद्धानां भगवतामन्तिके निषण्णा धर्मश्रवणाय ते बोधिसत्त्वा महासत्त्वास्तं पृथिवीचालं दृष्ट्वा पुनस्ते बोधिसत्त्वास्तां बुद्धां भगवतः परिपृच्छन्ति । "को भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य (२८५) लोके प्रादुर्भावाय, महत्याश्च पुष्पवृष्टेरभिप्रवर्षतु?" ।

तेन खलु पुनः समयेन पूर्वस्यां दिशि इतो बुद्धक्षेत्रादेकगङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रम्य रत्नविचया नाम लोकधातुस्तत्र रत्नविचये बुद्धक्षेत्रे रत्नचन्द्रो नाम तथागतोऽर्हन् सम्यक्संबुद्धो भगवांस्तिष्ठति यापयति अप्रमेयेभ्योऽसंख्येयेभ्यो बोधिसत्त्वेभ्यः पुरस्कृतः परिवृतो धर्मं देशयति स्म यदुत बुद्धक्षेत्रे महायानकथा । तत्र बुद्धक्षेत्रे रत्नकेतुर्नाम बोधिसत्त्वो महासत्त्वाश्चन्द्रकेतुश्च; तौ द्वौ बोधिसत्त्वौ येन रत्नचन्द्रस्तथागतस्तेनाञ्जलिं प्रणम्य रत्नचन्द्रं तथागतमेतदवोचतां - "को भदन्त भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य लोके प्रादुर्भावाय, महत्याश्च पुष्पवृष्टेः प्रवर्षणतायै?" । रत्नचन्द्रस्तथागत आह - "अस्ति कुलपुत्र पश्चिमायां दिशीतो बुद्धक्षेत्रादेकगङ्गानदीवालिकासमान् बुद्धक्षेत्रानतिक्रम्य तत्र सन्तीरणो नाम लोकधातुः । तत्र सन्तीरणे बुद्धक्षेत्रे (२८६) रत्नगर्भस्तथागतो यावद्बुद्धो भगवांस्तिष्ठति यापयति बहुबोधिसत्त्वकोटिर्व्याकरोत्यनुत्तरायां सम्यक्संबोधौ बोधिसत्त्वविषयसंदर्शनप्रणिधानव्यूहसमाधिविषयधारणीमुखव्यूहं धर्मपर्यायं भाषमाण; एकश्चात्र महाकारुणिको बोधिसत्त्वो महासत्त्वस्तेनैवंरूपं प्रणिधानं कृतं महाकरुणापरिभाविता वाग्भाषिता अनुत्तरायां सम्यक्संबोधौ व्याकरणनिर्देशं बोधिसत्त्वानां तथारूपा प्रणिधाना उद्भाषिता यद्बहुभिः प्राणकोटिभिर्बोधौ प्रणिधानं कृतं, बुद्धक्षेत्रगुणव्यूहाश्च परिगृहीता वैनेयसत्त्वाश्च परिगृहीताः, सर्वतश्च स एको महाकरुणासमन्वागतो महाबोधिसत्त्वो यः सर्वावतीं तां पर्षदमभिभूय क्लिष्टं पञ्चकषायं
क्लेशरणिकलियुगं बुद्धक्षेत्रं सर्व आनन्तर्यकारका यावदकुशलमूलसमवधानगता दग्धसन्ताना वैनेयाः परिगृहीताः; सर्वावती च सा पर्षत्सदेवगन्धर्वमाणुषासुरश्च लोकस्तं रत्नगर्भं तथागतमपहाय तस्य महाकारुणिकस्य पश्चिमकस्य पूजायोद्युक्ताः पञ्चमण्डलेन च वन्दित्वा प्राञ्जलीभूताः स्थितास्तस्य वर्णं भाषते । स च (२८७) महासत्त्वस्तस्य भगवतो रत्नगर्भस्य तथागतस्य पुरतो निषण्णो व्याकरणं शृण्वानः । यदा च स महासत्त्वस्तस्य भगवतः पुरतो दक्षिणं जानुमण्डलं पृथिव्यां निक्षिप्तवांस्तदा स भगवांस्तथारूपं स्मितं प्रादुरकार्षिद्यथा दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमा लोकधातवश्चलिताः पुष्पवर्षं चाभिप्रवर्षितम् । सर्वत्र च तेषु बुद्धक्षेत्रेषु ते बोधिसत्त्वा महासत्त्वाः प्रबोधनार्थं महाकरुणाबोधिसत्त्वप्रणिधानचर्यानिदर्शनार्थं बोधिसत्त्वानां च महासत्त्वानां बुद्धक्षेत्रपरमाणुरजःसमेभ्यो दिग्भ्यो बुद्धक्षेत्रेभ्यः सन्निपतनार्थं बोधिसत्त्वानां च महासत्त्वानां समाधानमुखनिर्देशचर्यावैशारद्यधर्मपर्यायां भाषणार्थं तेन तथागतेन एवंरूपाणि प्रातिहार्याणि दर्शितानि" ।

तौ च कुलपुत्र द्वौ बोधिसत्त्वौ तं रत्नचन्द्रं तथागतं परिपृच्छते स्म । कियच्चिरोत्पादितं भदन्त भगवांस्तेन महाकारुणिकेन बोधिसत्त्वेन महासत्त्वेन बोधिचित्तं?; कियच्चिरं बोधिचारिकां चीर्णवान्, येन पञ्चकषाये लोके तीव्रक्लेशरणे कलियुगे वर्तमाने कालः (२८८) परिगृहीत आनन्तर्यकारका यावदकुशलमूलसमवधानगता दग्धसन्तानाः सत्त्वा वैनेयाः परिगृहीताः?" । रत्नचन्द्रस्तथागत आह - "सांप्रतं कुलपुत्र तेन महाकारुणिकेन प्रथमचित्तमुत्पादितमनुत्तरायां सम्यक्संबोधौ । गच्छत कुलपुत्र यूयं तत्सन्तीरणं बुद्धक्षेत्रं तस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय । तं च समाधानमुखनिर्देशं चर्यावैशारद्यधर्मपर्यायं श्रोष्यथ । तं च महाकारुणिकं बोधिसत्त्वं महासत्त्वं मद्वचनान् पृच्छथ; एवं च वदथ, "रत्नचन्द्रस्तथागतस्त्वां सत्पुरुषं पृच्छति । इदं च चन्द्ररोचविमलं पुष्पं प्रेषितवान्, साधुकारश्चानुप्रदत्त । एवं च प्रथमचित्तोत्पादेन त्वं सत्पुरुष महाकारुणिकव्याहारेण दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमासु लोकधातुषु बुद्धक्षेत्राणि शब्देनापूरितानि, तेन त्वया सर्वत्र महाकारुणिक नाम प्रतिलब्धम् । तेन त्वं सत्पुरुष साधु भूयः पश्चिमकानां महाकारुणिकानां बोधिसत्त्वानां महासत्त्वानां महाकरुणाव्याहारेण प्रणिधाननेत्रीध्वजमुच्छ्रयणम् । तेन त्वं सत्पुरुष (२८९) भूयो बुद्धक्षेत्रपरमाणुरजःसमाननागतानसंख्येयान् कल्पान् बुद्धक्षेत्रपरमाणुरजःसमान् दशदिशि लोकधातुषु
यशःकीर्तिशब्देनापूरय । येन त्वया बह्वसंख्येयसत्त्वकोटीनयुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ समादापितानि निवेशितानि प्रतिष्ठापितानि भगवतः सकाशमुपनीतानि, अवैवर्तिकानि स्थापितान्यनुत्तरायां सम्यक्संबोधौ । भविष्यन्ति केचित्तत्र प्रणिधानेन बुद्धक्षेत्रगुणव्यूहां परिगृहीष्यन्ति, ये पश्चाद्व्याकरणं लप्स्यन्ते, ये त्वया बोधौ समादापिताः सर्वे ते पश्चाद्यावद्बुद्धक्षेत्रपरमाणुरजःसमासंख्येयकल्पैर्दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु अन्येषु लोकधातुषु बुद्धत्वं प्राप्य धर्मचक्रं प्रवर्तयित्वा त्वामारभ्य वर्णं भाषिष्यन्ते । अनेन तृतीयेन कारणेन ते साधु सत्पुरुष" ।

तेन खलु पुनः समयेन द्वानवतिबोधिसत्त्वकोट्य एककण्ठेन वदन्ति । "वयमपि भदन्त भगवन् सन्तीरणं बुद्धक्षेत्रं गच्छेमः तस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकं दर्शनाय वन्दनाय पर्युपासनाय, तं च सत्पुरुषं दर्शनाय (२९०) वन्दनाय, यस्य तथागतेन त्रिभिरङ्गैः साधुकारः प्रेषित, इमं च चन्द्ररोचविमलं पुष्पं प्रेषितं" । स च कुलपुत्र रत्नचन्द्रस्तथागत आह - "गच्छत कुलपुत्रा यस्यैतर्हि कालं मन्यध्वे, तत्र च रत्नगर्भस्य तथागतस्य सकाशात्समाधानमुखनिर्देशं चर्यावैशारद्यधर्मपर्यायं श्रोष्यध्वे" ।

अथ तौ द्वौ कुलपुत्रौ रत्नकेतुश्चन्द्रकेतुश्च रत्नचन्द्रस्य तथागतस्य सकाशाच्चन्द्ररोचविमलं पुष्पं गृहीत्वा सार्धं द्वानवतिभिर्बोधिसत्त्वकोटीभी रत्नविचयायां लोकधातौ संप्रस्थितौ । तद्यथापि नाम विद्युता एवमेव ततो बोधिसत्त्वपर्षाद्रत्नविचये बुद्धक्षेत्रेऽन्तर्हितौ, इह संतीरणे बुद्धक्षेत्रे जम्बूवनोद्याने च स्थितौ । येन रत्नगर्भस्तथागतस्तेनोपसंक्रामे तमुपेत्य रत्नगर्भस्य तथागतस्य पादौ शिरसा वन्दित्वा विविधाभिर्बोधिसत्त्वविकुर्वणाभिः पूजां कृत्वा रत्नगर्भस्य तथागतस्याग्रतो ब्राह्मणं दृष्ट्वा सर्वावतीं च बोधिसत्त्वपर्षां प्राञ्जलीभूतां वर्णं भाषमाणां तयोर्बोधिसत्त्वयोरेतदभवद् । "अयं स महाकरुणासमन्वागतो यस्य रत्नचन्द्रेण तथागतेनेमे (२९१) चन्द्ररोचविमलाः पुष्पाः प्रेषिताः" । अथ तौ द्वौ बोधिसत्त्वौ भगवतः सकाशात्परिवर्तित्वा ब्राह्मणस्य पुष्पमुपनामयित्वा एतदवोचतां - "इमं ते सत्पुरुष रत्नचन्द्रेण तथागतेन चन्द्ररोचविमलं पुष्पं प्रेषितं, साधुकारश्च ते सत्पुरुषः प्रेषितः; यावद्यथोक्तं पूर्वम् । पेयालं, अप्रमेयासंख्येयेभ्यः पूर्वायां दिशायां बुद्धक्षेत्रेभ्यो बोधिसत्त्वा महासत्त्वाः सन्तीरणं बुद्धक्षेत्रं संप्राप्ताः, चन्द्ररोचविमलपुष्पां गृहीत्वा ब्राह्मणस्य पुष्पाः प्रेषिताः, त्रिभिश्चाङ्गैः साधुकारः प्रेषितो; यथा पूर्वोक्तम् ।

एवं दक्षिणायां दिशायामितो बुद्धक्षेत्रात्सप्तनवतिबुद्धक्षेत्रकोटीनयुतशतसहस्रानतिक्रमित्वा तत्र निर्यूहविजृंभितो नाम लोकधातुस्तत्र निर्यूहविजृंभिते बुद्धक्षेत्रे सिंहविजृंभितेश्वरराजा नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति यापयति शुद्धानां बोधिसत्त्वानां महासत्त्वानां शुद्धां महायानकथां धर्मं देशयति स्म । तस्मिंश्च पर्षदि द्वौ बोधिसत्त्वौ महासत्त्वौ, एको ज्ञानवज्रकेतुर्नाम द्वितीयः (२९२) सिंहवज्रकेतुस्तौ द्वौ बोधिसत्त्वौ सिंहविजृंभितेश्वरराजं तथागतं परिपृच्छतः स्म - "को भदन्त भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य लोके प्रादुर्भावाय महतश्च पुष्पवर्षस्य?"; यावद्यथा पूर्वोक्तम् । पेयालं, यावदप्रमेयासंख्येया दक्षिणस्यां दिश्यन्येभ्यो बुद्धक्षेत्रेभ्योऽप्रमेयासंख्येया बोधिसत्त्वकोटीनयुतशतसहस्राः संतीरणं बुद्धक्षेत्रमनुप्राप्ताः, यावद्यथा पूर्वोक्तम् ।
तेन खलु पुनः समयेन पश्चिमायां दिशीतो बुद्धक्षेत्रादेकोननवतिबुद्धक्षेत्रकोटीनयुतशतसहस्रबुद्धक्षेत्रानतिक्रमित्वा तत्र जयावतिर्नाम बुद्धक्षेत्रं, तत्र जितेन्द्रियविशालनेत्रो नाम तथागतस्तिष्ठति यापयति, चतुर्णां पर्षदां त्रिभिर्यानैर्धर्मं देशयति स्म । तत्र भद्रवैरोचनो नाम बोधिसत्त्वो महासत्त्वः सिंहविजृंभितकायश्च नाम द्वितीयो बोधिसत्त्वो महासत्त्वस्तौ द्वौ सत्पुरुषौ जितेन्द्रियविशालनेत्रं (२९३) तथागतमेतमर्थं परिपृच्छतः - "कुतोऽयं महापृथिवीचालप्रादुर्भावो, महातश्च पुष्पवृष्टिप्रवर्षणस्य?"; यावद्यथा पूर्वोक्तम् ।

तेन खलु पुनः समयेनोत्तरस्यां दिशीतो बुद्धक्षेत्राद्बुद्धक्षेत्रकोटीनयुतशतसहस्राण्यतिक्रम्य तत्र जम्बुर्नाम लोकधातुस्तत्र लोकेश्वरराज नाम तथागतो यावद्बुद्धो भगवान् शुद्धानां महायानसंप्रस्थितानां बोधिसत्त्वानां शुद्धां महायानकथां धर्मं देशयति स्म । तत्र द्वौ बोधिसत्त्वौ, एकोऽचलस्थावरो नाम द्वितीयः प्रज्ञाधरो नाम, तौ लोकेश्वरराजं तथागतं परिपृच्छतः स्म - "को भदन्त भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य लोके प्रादुर्भावस्य, महत्याश्च पुस्पवृष्टेर्[?"];यावद्यथा पूर्वोक्तम् ।

तेन खलु पुनः समयेनाधो दिशीतो बुद्धक्षेत्रादष्टानवतिबुद्धक्षेत्रनयुतानतिक्रम्य तत्र विगततमोऽन्धकारा नाम लोकधातुस्तत्र विगतभयपर्युत्थानघोषो नाम तथागतस्तिष्ठति यापयति, चतुर्णां पर्षदां (२९४) त्रिभिर्यानैर्धर्मं देशयति स्म । तत्र बुद्धक्षेत्रे द्वौ बोधिसत्त्वौ महासत्त्वावेकोऽरजवैरोचनो नाम द्वितीयः स्वर्गवैरोचनो नाम, यावद्यथा पूर्वोक्तम् ।

तेन खलु पुनः समयेनोपरिष्ठायां दिशीतो बुद्धक्षेत्राद्द्वे शतसहस्रे बुद्धक्षेत्राणामतिक्रमित्वा तत्र संकुसुमिता नाम लोकधातुस्तत्र संकुसुमिते बुद्धक्षेत्रे प्रस्फुलितकुसुमवैरोचनो नाम तथागत यावद्बुद्धो भगवांस्तिष्ठति यापयति, चतुर्णां पर्षदां त्रिभिर्यानैर्धर्मं देशयति स्म । तत्र बुद्धक्षेत्रे द्वौ बोधिसत्त्वौ महासत्त्वौ प्रतिवसत, एकः स्वविषयसंकोपितविषयो नाम द्वितीयो धारणीसंप्रहर्षणविकोपितो नाम बोधिसत्त्वस्तौ द्वौ सत्पुरुषौ प्रस्फुलितकुसुमवैरोचनं तथागतं पृष्टवन्तौ । "को भदन्त भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य लोके प्रादुर्भावाय (२९५) महत्याश्च पुष्पवृष्टेः?" । प्रस्फुलितकुसुमवैरोचनस्तथागत आह - "अस्ति कुलपुत्राधो दिशीतो बुद्धक्षेत्रात्द्वे शतसहस्रे बुद्धक्षेत्राणामतिक्रम्य तत्र संतीरणो नाम लोकधातुस्तत्र रत्नगर्भो नाम तथागतो यावद्बुद्धो भगवांस्तिष्ठति धर्मं च देशयति स्म । बहुसत्त्वकोट्यो व्याकरोत्यनुत्तरायां सम्यक्संबोधौ बोधिसत्त्वविषयक्षेत्रसन्दर्शनप्रणिधानविषयव्यूहसमाधिविषयधारणीमुखनिर्यूहं धर्मपर्यायं भाषमाण ; एकश्च तत्र महाकारुणिको बोधिसत्त्वो महासत्त्वः स एवंरूपं प्रणिधानं कृतवान्, महाकरुणापरिभाविता वाचा भाषिता, अनुत्तरायां सम्यक्संबोधौ व्याकरणनिर्देशं बोधिसत्त्वानां महासत्त्वानां, यथारूपा प्रणिधाननेत्र्युद्भाविता यथा बहुबोधिसत्त्वकोटीभिर्बुद्धक्षेत्रप्रणिधानं कृतं, बुद्धक्षेत्रगुणव्यूहा वैनेयसत्त्वाश्च परिगृहीताः; स चैको महाकरुणासमन्वागतो बोधिसत्त्वः सर्वावतिं पर्षदमभिभूय
क्लिष्टं पञ्चकषायं क्लेशारणिकलियुगं बुद्धक्षेत्रं (२९६) परिगृहीतं, सर्वे चानन्तर्यकारका यावदकुशलमूलसमवधानगता दग्धसंताना वैनेयाः परिगृहीताः । सर्वावतीर्च सा पर्षा सदेवगन्धर्वासुरमानुषश्च लोको रत्नगर्भस्य तथागतस्य पूजामपहाय तस्य महाकारुणिकस्य पूजाकर्मणे उद्युक्ताः पञ्चमण्डलेन वन्दित्वा प्राञ्जलिभूताः स्थित्वा वर्णं भाषन्ते स्म । स च महासत्त्वो रत्नगर्भस्य तथागतस्य पुरतो निषण्णो व्याकरणं शृण्वानः । यदा च तेन महासत्त्वेन तस्य भगवतः पुरतो दक्षिणं जानुमण्डलं पृथिव्यां निक्षिप्तं तदा तेन भगवता तथारूपं स्मितं प्राविष्कृतं, यदा दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु महापृथिवी षड्विकारं चलिता प्रचलिता संप्रचलिता कंपिता यावत्पुष्पवृष्टिः प्रवर्षिता । सर्वेभ्यश्च तेभ्यो बुद्धक्षेत्रेभ्यो बोधिसत्त्वा महासत्त्वाः प्रबोधनार्थं, महाकारुण्या बोधिसत्त्वप्रणिधानचर्या निदर्शनार्थं, बोधिसत्त्वा महासत्त्वा बुद्धक्षेत्रपरमाणुरजःसमेभ्यो लोकधातुभ्यो दशभ्यो दिग्भ्यस्तत्र बुद्धक्षेत्रे सन्निपतनार्थं, बोधिसत्त्वानां च महासत्त्वानां समाधानमुखनिर्देशचर्यावैशारद्यं धर्मपर्यायं भाषणार्थं तेन तथागतेनैवंरूपाणि (२९७) प्रातिहार्याणि दर्शितानि" ।

तौ च कुलपुत्र द्वौ बोधिसत्त्वौ महासत्त्वौ स्वविषयसंकोपितविषयश्च धारणीसंप्रहर्षणविकोपितश्च तं प्रस्फुलितकुसुमवैरोचनं तथागतं परिपृच्छतः स्म । "कियच्चिरोत्पादितं भदन्त भगवंस्तेन महाकारुणिकेन बोधिसत्त्वेन महासत्त्वेन बोधाय चित्तं?; कियच्चिरं वा स महाकारुणिको बोधिसत्त्वो महासत्त्वो बोधिचारिकां चीर्णं, येन पञ्चकषाये लोके तीव्रक्लेशरणिके कलियुगे वर्तमाने कालः परिगृहीत आनन्तर्यकारका यावदकुशलमूलसमवधानगता दग्धसंताना वैनेयाः परिगृहीताः?" । प्रस्फुलितकुसुमवैरोचनस्तथागत आह - "संप्रति कुलपुत्र तेन महाकारुणिकेन प्रथममनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । गच्छत कुलपुत्रा यूयं सन्तीरणं लोकधातुं तस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय तं च समाधानमुखनिर्देशं चर्यावैशारद्यं धर्मपर्यायं श्रवणाय । तं च महाकारुणिकं बोधिसत्त्वं महासत्त्वं मम वचनेन पृच्छथ एवं च वक्तव्यः; प्रस्फुलितकुसुमवैरोचनस्तथागतस्त्वां (२९८) सत्पुरुष पृच्छते चन्द्ररोचविमलं पुष्पं प्रेषितं साधुकारश्चानुप्रदत्तः । एवं च त्वया सत्पुरुष प्रथमचित्तोत्पादेन महाकरुणाव्याहारेण दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमा लोकधातवः शब्देनापूरिताः, महाकरुणाशब्दश्च प्रतिलब्धस्तेन त्वं सत्पुरुष साधु भूयः, पश्चिमकानां महाकरुणामहायानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां महाकरुणाव्याहारेण प्रणिधाननेत्रीध्वजामुच्छ्रेपयसि; तेन त्वं सत्पुरुष साधु भूयस्त्वं
सत्पुरुष बुद्धक्षेत्रपरमाणुरजःसमानागता असंख्येयकल्पबुद्धक्षेत्रपरमाणुरजःसमा दशदिश लोकधातवो यशःकीर्तिशब्देनापूरितास्तेन त्वं सत्पुरुष बह्वसंख्येयसत्त्वकोटीनयुतशतसहस्रा अनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिता, भगवतः सकाशमुपनीता, अवैवर्तिकाश्च स्थापिता अनुत्तरायां सम्यक्संबोधौ । कैश्चित्तत्रैव भगवतः सकाशे प्रणिधानेन बुद्धक्षेत्रगुणव्यूहाः परिगृहीता वैनेयाः सत्त्वाः स्वकरुणारश्मिभिराच्छादिता; (२९९) ये त्वयानुत्तरायां सम्यक्संबोधौ समादापिता न च व्याकरणप्रतिलब्धं, तेऽपि पश्चाद्व्याकरणं प्रतिलप्स्यन्ते, सर्वे ते पश्चाद्यावद्बुद्धक्षेत्रपरमाणुरजःसमैरसंख्येयैः कल्पैर्दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेष्वन्येषु लोकधातुषु बुद्धत्वं प्राप्य धार्मिकं धर्मचक्रं प्रवर्तयित्वा त्वामेवारभ्य वर्णं भाषिष्यन्ति । एतेन तृतीयेन कारणेन त्वं सत्पुरुष साधु" ।

तेन खलु पुनः समयेन बहुबोधिसत्त्वकोट्य एवमूचुर्["]वयमपि भदन्त भगवंस्तत्र संतीरणे बुद्धक्षेत्रे गच्छेम, तस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय, तं च सत्पुरुषं दर्शनाय वन्दनाय पर्युपासनाय, यस्य तथागतेन त्रिभिरङ्गैः साधुकारोऽनुप्रेषित, इमे च चन्द्ररोचविमलाः पुष्पाः प्रेषिताः" । स च कुलपुत्र प्रस्फुलितकुसुमवैरोचनस्तथागतस्तानाह - "गच्छत यूयं कुलपुत्रा यस्यैतर्हि कालं मन्यध्वे । तत्र यूयं कुलपुत्रा रत्नगर्भस्य तथागतस्य सकाशात्समवधानमुखनिर्देशचर्यावैशारद्यं धर्मपर्यायं (३००) श्रोष्यथ" ।

अथ खलु कुलपुत्र तौ द्वौ बोधिसत्त्वौ स्वविषयसंकोपितविषयश्च धारणीसंप्रहर्षणविकोपितश्च तस्य प्रस्फुलितकुसुमवैरोचनस्य तथागतस्य सकाशाच्चन्द्ररोचविमलां पुष्पां गृहीत्वा बहुबोधिसत्त्वकोटीभिः सार्धं संकुसुमिताद्बुद्धक्षेत्रात्प्रस्थापिता इह बुद्धक्षेत्र एकक्षणेन संप्राप्ता जम्बूवनोद्याने तस्थुर्येन च रत्नगर्भस्तथागतस्तेनोपसंक्रान्तः । तेन खलु पुनःसमयेन सर्वावन्तं संतीरणं बुद्धक्षेत्रमेवंरूपं परिपूर्णं महायानिकैर्बोधिसत्त्वैः प्रत्येकबुद्धयानिकैः श्रावकयानिकैः कुलपुत्रैर्देवैर्यावन्महोरगैस्तद्यथापि नाम इक्षुवनं वा नडवनं वा तिलवनं वा शालिवनं वा संपन्नं स्फुटं भवेत् । एवमेव तस्मिन् समये संतीरणं बुद्धक्षेत्रं परिपूर्णं स्फुटं महायानिकैः कुलपुत्रैर्यावन्महोरगैस्ते च बोधिसत्त्वा रत्नगर्भस्य तथागतस्य पादौ शिरसा वन्दित्वा विविधसमाधानबलेन बोधिसत्त्वविकुर्वणेन पूजां कृत्वा रत्नगर्भस्य तथागतस्य पुरतः ब्राह्मणं दृष्ट्वा सर्वावत्यश्च ताः पर्षाः प्राञ्जलिभूताः स्थित्वा वर्णं भाषमाणाः । तेषां बोधिसत्त्वानामेतदभवत्- (३०१) "अयं महाकारुणिको बोधिसत्त्वो महासत्त्वो यस्य प्रस्फुलितकुसुमवैरोचनेन तथागतेन इमे चन्द्ररोचविमलाः पुष्पा विसर्जितास्[" । ]ते च बोधिसत्त्वा भगवतः सकाशात्परावृत्य तस्य ब्राह्मणस्य ते चन्द्ररोचविमलाः पुष्पा उपनामयित्वाहुः । "इमे ते सत्पुरुष प्रस्फुलितकुसुमवैरोचनेन तथागतेन चन्द्ररोचविमलाः पुष्पाः प्रेषिताः, साधुकारश्च
ते सत्पुरुषानुप्रदत्तः" । यावत्पूर्वोक्तं त्रिभिरङ्गैः साधुकारं निवेदितमिति । यानि च तानि पुष्पाणि शून्येषु बुद्धक्षेत्रेषु प्रवर्षितानि, विविधश्च कुशलशब्दैस्तावद्बुद्धक्षेत्राण्यापूरितानि; तद्यथा बुद्धशब्देन धर्मशब्देन सङ्घशब्देनावभासशब्देन पारमिताशब्देन बलशब्देन वैशारद्यशब्देन अभिज्ञाशब्देनानभिसंस्कारशब्देनानुत्पादशब्देनानिरोधशब्देन शान्तशब्देनोपशान्तशब्देन प्रशान्तशब्देन महामैत्रीशब्देन महाकरुणाशब्देन । यद्दशसु दिशासु तेषु शून्येषु बुद्धक्षेत्रेषु तेनावभासेनावभासितास्तत्र (३०२) ये केचित्सत्त्वा मनुष्या वामनुष्यास्ते सर्वे ये केचित्सत्त्वा यमसदृशाः केचिदुदकसदृशाः केचिच्छिखरसदृशाः केचिद्ब्रह्मसदृशाः केचिच्छक्रसदृशाः केचित्पुष्पसदृशाः केचिद्गरुडसदृशाः केचित्सिंहसदृशाः केचित्सूर्यसदृशाः केचिच्चन्द्रसदृशाः केचित्तारकसदृशाः केचिद्गृध्रसदृशाः शृगालकायाः संदृश्यन्ते; यथारूपेण कुशलपक्षमनस्कारेण ते सत्त्वाः सन्निषण्णा धर्मश्रवणाय, तथारूपेण कायेन संदृश्यन्ते । तथारूपाश्च कुलपुत्र तत्र सत्त्वाः स्वकं कायं पश्यन्ति; तथारूपाश्च ते सत्त्वा रत्नगर्भस्य तथागतस्य कायं समनुपश्यन्ति । स च कुलपुत्र समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितो रत्नगर्भं तथागतं पुरतः सहस्रपत्रे सप्तरत्नमयपद्मकेशरे निषण्णं समनुपश्यति । सर्वे चात्र कुलपुत्र सत्त्वा निषण्णा वा स्थित्वा वा क्षितौ वा अम्बरे वा एकैकः सत्त्वो रत्नगर्भं तथागतमेवं पश्यन्ति; "अग्रतो रत्नगर्भस्तथागतो निषण्णोऽहं" सर्वचेतसा समन्वाहरन्ति, "मामेकमारभ्य धर्मं देशयति" ।

(३०३)
स च कुलपुत्र रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धः समुद्ररेणोर्ब्राह्मणस्य साधुकारमनुप्रदत्तः । "साधु साधु महाकारुणिक महाब्राह्मण, गणनातिक्रान्तानां सत्त्वानां त्वमसि कारुणिकहितकरः प्रभासकरो लोके संदृश्यसे । तद्यथापि नाम ब्राह्मण संपन्नं पुष्पक्षेत्रं नानावर्णं नानागन्धं नानास्पर्शं नानापत्रं नानादण्डं नानामूलं नानाभैषज्योपकरणस्थानम् । केचिदत्र पुष्पा योजनशतं प्रमाणेन वर्णेन गन्धेन तपन्ति विरोचन्ति, केचिद्द्वियोजनशतं केचित्त्रियोजनशतं, पेयालं, केचिदत्र पुष्पा यावत्सर्वचातुर्द्वीपिकां लोकधातुं वर्णेन गन्धेन तपन्ति विरोचन्ति । ये च तत्र सत्त्वाश्चक्षुर्हीनास्ते पुष्पगन्धं घ्रात्वा चक्षुंसि प्रतिलभन्ते, बधिराः श्रोत्राणि प्रतिलभन्ते, यावत्सर्वाङ्गविहीनाः सर्वाङ्गानि प्रतिलभन्ते । ये च तत्र सत्त्वाश्चतुरुत्तररोगशतोपद्रुतास्ते तं गन्धं घ्रात्वा सर्वरोगेभ्यः परिमुच्येयुः । ये च तत्र सत्त्वा मत्तोन्मत्तपरमत्ताः सुप्तचित्ता विक्षिप्तचित्ताः स्मृतिप्रणष्टास्तेषां पुष्पाणां गन्धमाघ्रात्वा (३०४) सर्वे स्मृतिं प्रतिलभेयुः । एवं च तत्र मध्ये पुष्पक्षेत्रे पुण्डरीकमुत्पन्नं, दृढसारं वज्रमयं वैदूर्यदण्डं शतकोमलं कनकपत्रमश्मगर्भकिंशुकं लोहितमुक्तिकेशरं, चतुरशीतिर्योजनसहस्राण्युच्चत्वेन योजनशतसहस्रं विस्तारेण । तच्च पुण्डरीकं दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमाल्लोकधातुं वर्णेन गन्धेन स्फुरित्वा विरोचते । ये च ब्राह्मण तेषु दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु
लोकधातुषु सत्त्वा धातुविरुद्धाः काया व्याध्युपहता अङ्गविहीना वा मत्तप्रमत्तोन्मत्ताः सुप्तस्मृतिप्रणष्टा विक्षिप्तचित्तास्तेषां सत्त्वानां तस्य पुण्डरीकस्यावभासं दृष्ट्वा गन्धं घ्रात्वा सर्वव्याधयः प्रशमं गच्छेयुः स्मृतिं च प्रतिलभेयुः । ये च तत्र बुद्धक्षेत्रेषु सत्त्वा मृता अचिरकालगता अविक्षिप्तशरीरास्तेषां कुणपेभ्यः तस्य पुण्डरीकस्य रश्मयो निपतित्वा गन्धेन वा स्पृष्ट्वा पुनस्ते कुणपा जीवितेन्द्रियं प्रतिलभेयुः, पुनश्चोत्तिष्ठेयुर्मित्रसालोहितांश्च दृष्ट्वा ते सर्वे उद्यानं प्रविश्य पञ्चभिः कामगुणैः समर्पिताः समङ्गीभूता विहरेयुस्ये च पुनस्ततश्च्यवेयुस्तेषु द्वे ब्रह्मविहार उपपद्येयुः, ये च तत्र चिरस्थायिनो भवेयुरपरीत्तायुष्का, न च तत्र च्यूत्वा अन्यत्रोपपद्येयुः । (३०५) यथा ब्राह्मणास्तं पुष्पक्षेत्रमेवमयं महायानसन्निपातो द्रष्टव्यः । यथा सूर्योद्गमनकाले प्रत्युपस्थिते ते पुष्पा विसरिता प्रस्फुलिता भवन्ति तपन्ति विरोचन्ति केचिद्योजनशतमुच्चत्वेन केचिद्यावद्योजनसहस्रमुच्चत्वेन, बहुनां सत्त्वानां विविधरोगाः प्रशमन्ति, एवमेव सत्पुरुषाः तथागतो बुद्धसूर्यो लोक उदपादि । यथा ते पुष्पाः सूर्योदितस्य अस्य रश्मिभिर्विकसिता भासन्ति तपन्ति विरोचन्ति, विविधरोगोपहतानां सत्त्वानां रोगोपशमो भवति । एवमेवाहं सत्पुरुष लोक उत्पन्नः सत्त्वां कारुण्यरश्मिभिः छादयित्वा विकसित्वा भूयः सत्त्वांस्त्रिषु पुण्यक्रियावस्तुषु नियोजयामि, त्वयाप्यप्रमेयासंख्येयाः सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिता निवेषिताः प्रतिष्ठापिता मम च सकाशमुपनीतास्तैश्च
सत्त्वैर्मम सकाशे स्वकस्वकानि प्रणिधानानि कृतानि बुद्धक्षेत्राणि च परिगृहीतानि, केचित्परिशुद्धा बुद्धक्षेत्राः परिगृहीताः केचिदपरिशुद्धाः, तथा चैवं मया व्याकृताः । यैः सत्पुरुषैर्मम सकाशात्परिशुद्धा बुद्धक्षेत्राः परिगृहीतास्तैः शुद्धाशयाः सुविनेया अवरुप्तकुशलमूला वैनेयाः सत्त्वाः परिगृहीता, (३०६) न ते बोधिसत्त्वा महासत्त्वा उच्यन्ते, न च तेषां महापुरुषकार्यं, न च तेषां महाकरुणाचित्तचैतसिकेषु प्रवर्तते, न च ते बोधिसत्त्वाः सर्वसत्त्वानां करुणार्थायानुत्तरां सम्यक्संबोधिं पर्येषन्ते । येऽपि ते परिशुद्धं बुद्धक्षेत्रं परिगृह्णन्ति, उत्सृष्टकृपास्ते बोधिसत्त्वा; ये श्रावकप्रत्येकबुद्धयानिकैः परिवर्जितं बुद्धक्षेत्रमाकाङ्क्षन्ति, न च ते बोधिसत्त्वाः कुशलज्ञानाशयभूता । येषामेवं प्रणिधानं कृतं यथा वयं श्रावकप्रत्येकबुद्धवर्जिता अकुशलमूलसमवधानगतैर्मातृग्रामैर्विवर्जिते नरकतिर्यग्योनियमलोकविवर्जिते बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयुर्महायानसंप्रस्थितानां बोधिसत्त्वानां श्रावकप्रत्येकबुद्धपरिवर्जितां शुद्धां महायानकथां धर्मं देशयेयं, बोधिप्राप्तश्चाहं दीर्घायुष्को भवेयं चिरस्थायी, बहूनि कल्पानि शूद्धाशयानां सुविनीतानां कुशलमूलसमवधानगतानां धर्मं देशयेयम् । तेन ते बोधिसत्त्वा न कुशलज्ञानाशयसंभूता, न महासत्त्वा इत्युच्यते ।

(३०७)
स च कुलपुत्र रत्नगर्भस्तथागतो बाहुं प्रसारयित्वा पञ्चभिरङ्गुलीभिर्नानावर्णा अनेकवर्णा अनेकशतसहस्रवर्णा रश्मयः प्रामुञ्चन्, ते गत्वा रश्मयोऽप्रमेयासंख्येया पुरिमायां दिशीतो बुद्धक्षेत्रानवभासयित्वा, तत्राङ्गुष्ठा नाम लोकधातुः, तत्राङ्गुष्ठायां लोकधातौ दशवर्षायुष्का मनुष्या दुर्वर्णा द्रोहोडिमका अकुशलमूलसमवधानगता अङ्गुष्ठमात्रमुच्चत्वेन । तत्र ज्योतीरसो नाम तथागतोऽर्हन् सम्यक्संबुद्धः । स च कलियुगप्रमाणानां मनुष्याणां हस्तप्रमाणेन हस्तमेकं तथागत ऊर्ध्वत्वेन हस्तश्च; अङ्गुष्ठप्रमाणानां पुरुषानां प्रमाणेन सप्ताङ्गुष्ठानि । स च तथागतस्तिष्ठति ध्रियति यापयति चतुर्णां पर्षदां त्रिभिर्यानैर्धर्मं देशयति ।

अथ खलु कुलपुत्र तच्च बुद्धक्षेत्रं तांश्च मनुष्यांस्तं च तथागतं सर्वावती च सा पर्षाद्राक्षीत् । रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्ध आह - "अनेन ज्योतीरसेन तथागतेनाप्रमेयासंख्येयैः कल्पैरतिक्रान्तैः प्रथमचित्तमुत्पादितमनुत्तरायां सम्यक्संबोधौ (३०८) रत्नच्छत्राभ्युद्गतावभासस्य तथागतस्याग्रतो, बहुप्राणकोटीनयुतान्यनुत्तरायां सम्यक्संबोधौ समादापितानि निवेशितानि प्रतिष्ठापितानि; यथाभिप्रायां सत्त्वैस्तस्य तथागतस्य पुरतः प्रणिधानं कृतं, केचिद्बुद्धक्षेत्रगुणव्यूहाः परिगृहीताः परिशुद्धाः केचिदपरिशुद्धाः पञ्चकषायाः परिगृहीताः । तत्र च तेन महासत्त्वेनाहं समादापितो निवेशितश्चानुत्तरायां सम्यक्सबोधौ । तत्र च मया रत्नच्छत्राभ्युद्गतावभासस्य तथागतस्य पुरतोऽनुत्तरायां सम्यक्संबोधौ पञ्चकषाये बुद्धक्षेत्रगुणव्यूहप्रणिधानं कृतम् । स च मे तथागतः साधुकारमदासीत्व्याकृतश्चाहमनुत्तरायां सम्यक्संबोधौ । योऽसावस्माकं बोधाय समादायकः कल्याणमित्रोऽतीव सत्पुरुषस्तीव्रपञ्चकषाये कलियुगे वर्तमाने काले प्रतिक्लिष्टं बुद्धक्षेत्रं परिगृहीतं, आनन्तर्यकारका यावदकुशलमूलसमवधानगता दग्धसन्तानाः संसाराटवीकान्तारसङ्कटप्राप्ता वैनेयसत्त्व प्रणिधानः परिगृहीतस्तस्य सत्पुरुषस्य दशसु दिक्ष्वप्रमेयासंख्येयेभ्योऽन्योन्यलोकधातुभ्यस्तिष्ठन्तो (३०९) यापयन्तो बुद्धा भगवन्तः साधुकारं प्रदत्तवन्तः प्रेषितवन्तो, महाकरुणावैरोचनसौम्यो नाम कृतम् । स च महाकरुणावैरोचनसौम्यो बोधिसत्त्वो महासत्त्वोऽस्माकं कल्याणमित्रो हितकर एतर्ह्यचिराभिसंबुद्धो
ऽङ्गुष्ठवत्यां लोकधातौ अङ्गुष्ठप्रमाणानां पुरुषाणां मध्ये, तेषामेवाङ्गुष्ठप्रमाणानां पुरुषाणां हस्तप्रमाणेन हस्तप्रमाणकः स तथागतो दशवर्षायुष्कायां प्रजायां धार्मिकं धर्मचक्रं प्रवर्तितवान्; तस्यापि बोधिप्राप्तस्य दशसु दिक्ष्वप्रमेयासंख्येयेभ्यो लोकधातुभ्यस्तिष्ठद्भिर्यापयद्भिस्तैस्तैर्बुद्धैर्भगवद्भिर्दूताः प्रेषिताः पूजनार्थाय, ये तेन प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः । ये तेन प्रथमं दानपारमितायां यावत्प्रज्ञापारमितायां समादापिता निवेशिताः प्रतिष्ठापितास्तैर्बुद्धैर्भगवद्भिः पूर्वकृतज्ञतामनुस्मरणमाणैस्तस्य तथागतस्य पुष्पाः प्रेषिताः । पश्य ब्राह्मण यथा ते बुद्धा भगवतः सर्वेषु बुद्धक्षेत्रेषु दीर्घेणायुषा परिशुद्धाशयानां सुखविहारिणां सत्त्वानां बुद्धकार्यं (३१०) कुर्वन्ति; स च ज्योतीरसस्तथागत एवं प्रतिक्रुष्टे पञ्चकषाये बुद्धक्षेत्रे बुद्धत्वं प्राप्तवान्, आनन्तर्यकारकानां यावदकुशलमूलसमवधानगतानां सत्त्वानामेवाल्पकेनायुषा बह्वतिरेकं बुद्धकार्यं करोति, अनुज्झित्वा श्रावकां प्रत्येकबुद्धांश्च धर्मं देशयरि । एवमेव त्वया सत्पुरुष सर्वामिमां बोधिसत्त्वपर्षामभिभूय विशिष्टतरं प्रणिधानं कृतं, प्रतिक्रुष्टे बुद्धक्षेत्रे पञ्चकषाये वर्तमाने आनन्तर्यकारका यावदकुशलमूलसमवधानगता वैनेयाः सत्त्वाः परिगृहीताः । ये च ते महासत्त्वा यैः
परिशुद्धा बुद्धक्षेत्राः परिगृहीता नरकतिर्यग्योनिपरिवर्जिताः श्रावकप्रत्येकबुद्धपरिवर्जिताः शुद्धाशयाः सुविनीता अवरुप्तकुशलमूलाः सत्त्वा वैनेयाः परिगृहीता इमे सत्त्वाः पुष्पोपमा उच्यन्ते, न ते महासत्त्वाः पुण्डरीकोपमा ये सुविनीतानामवरुप्तकुशलमूलानां मध्ये बुद्धकार्यं करिष्यन्ति ।

चत्वारि ब्राह्मण बोधिअत्त्वानां कुशीदवस्तूनि । कतमानि चत्वारि? परिशुद्धबुद्धक्षेत्रप्रणिधानं, परिशुद्धाशयानां सत्त्वानां बुद्धकार्यप्रणिधानं, (३११) श्रावकप्रत्येकबुद्धयानकथा बोधिप्राप्तस्य देशनाप्रणिधानं, बोधिप्राप्तस्य दीर्घायुष्कताप्रणिधानम् । इमानि चत्वारि बोधिसत्त्वानां कुशीदवस्तूनि । येन बोधिसत्त्वाः पुष्पोपमा इत्युच्यन्ते, न पुण्डरीकोपमा न महासत्त्वा इत्युच्यन्ते । तद्यथापि नाम ब्राह्मण इमान्महाबोधिसत्त्वपर्षां स्थापयित्वा वायुविष्णुना येनापरिशुद्धं बुद्धक्षेत्रं परिगृहीतं क्लेशाकुलाः सत्त्वा वैनेयाः परिगृहीता एकत्यो भद्रकल्पिकाः कुलपुत्राः ।

चत्वारीमानि बोधिसत्त्वानां महासत्त्वानामारब्धवीर्यवस्तूनि । कतमानि चत्वारि? अपरिशुद्धबुद्धक्षेत्रप्रणिधानं, अपरिशुद्धाशयानां सत्त्वानां बुद्धकार्यप्रणिधानं, बोधिप्राप्तस्य श्रावकप्रत्येकबुद्धयानकथादेशनप्रणिधानं, मध्यमाया प्रतिपदा बोधिप्राप्तस्य नातिदीर्घतानाल्पायुष्कताप्रणिधानम् । इमानि चत्वारि बोधिसत्त्वानां महासत्त्वानामारब्धवीर्यवस्तूनि । येन ते बोधिसत्त्वाः पुण्डरीकोपमा इत्युच्यन्ते, न पुष्पोपमास्ते बोधिसत्त्वा महासत्त्वा इत्युच्यन्ते । तद्यथापि (३१२) त्वं ब्राह्मणैतर्हि अप्रमेयानामसंख्येयानां बोधिसत्त्वानां मध्ये कुशलव्याकरणक्षेत्रं तथागतस्याग्रतः करुणापुण्डरीकमुत्पन्नं प्रणिधानविशेषेण । यदा त्वया आनन्तर्यकारका यावदकुशलमूलसमवधानगता वैनेयाः परिगृहीतास्तीव्रं पञ्चकषायं बुद्धक्षेत्रं परिगृहीतम् । महाकरुणाव्याहारेण त्वं सत्पुरुष दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमैर्बुद्धैर्भगवद्भिः साधुकारो दत्तो, दूताश्च प्रेषिता, महाकारुणिकश्च ते नाम कृतं, सर्वा चेयं पर्षत्तवैव पूजाकर्मणे उद्युक्ताः ।

भविष्यसि त्वं महाकारुणिकानागतेऽध्वन्यतिक्रान्तानामेकगङ्गानदीवालिकासमानामसंख्येयानां कल्पानां परीत्तावशिष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये, तस्मिनेव सहे बुद्धक्षेत्रे भद्रके कल्पे विंशोत्तरवर्षशतायुष्कायां प्रजायां, जरामरणाद्यधिके बुद्धक्षेत्रेऽन्धलोकेऽनायकेऽकुशलमूलसमवधानगते कुमार्गे विहन्यमानानां महासङ्कटप्राप्तानां सत्त्वानामानन्तर्यकारकानामार्यापवादकानां सद्धर्मप्रतिक्षेपकानां मूलापत्तिसमापन्नानां यावद्यथा पूर्वोक्तं, आकीर्णे (३१३) लोके तथागतो भविष्यसि विद्याचरणसंपन्नो यावद्बुद्धो भगवान्; विवर्तितगतिचक्रः प्रवर्तितधर्मचक्रः विवर्तितवशवर्तिमारक्लेशमारश्च अनन्तापर्यन्तानि दशसु दिक्षु बुद्धक्षेत्राणि शब्देनापूरयित्वा, महाश्रावकसन्निपातश्च ते भविष्यन्ति यदुतार्धत्रयोदशैर्भिक्षुशतैः; अनुपूर्वेण पञ्चचत्वारिंशतिभिर्वर्षैरेवंरूपं सकलं बुद्धकार्यं परिपूरयिष्यसि, यथा प्रणिधानं कृतम् । यथा तस्मिन् समयेऽयं राजामृतशुद्धोऽमितायुर्नामाप्रमेयैः कल्पैः सकलं बुद्धकार्यं करिष्यति, एवमेव त्वं महाकारुणिक तत्र सहे बुद्धक्षेत्रे भद्रके महाकल्पे विंशोत्तरवर्षशतायां प्रजायां पञ्चचत्वारिंशतिभिर्वर्षैरेवंरूपं सकलं महाबुद्धकार्यं करिष्यसि, शाक्यमुनिर्नाम तथागतो भविष्यसि । परिनिर्वृतस्य च ते सत्पुरुषानुत्तरपरिनिर्वाणेनाधिकं वर्षसहस्रं सद्धर्मः स्थास्यते । सद्धर्मे चान्तर्हिते तव सत्पुरुष तेऽपि धातवः जन्मशरीरे एवंरूपं बुद्धकार्यं करिष्यन्ति,
यथा स्वयं प्रणिधानं कृतं, एवं चिरं सत्त्वान् विनयिष्यसि, (३१४) यथा पूर्वोक्तं" ॥

तत्काले कैतपुरे ब्राह्मण आसीत्, स एवमाह - "तेषु तेष्वप्रमेयेष्वसंख्येयेषु कल्पेषु तव सत्पुरुष बोधिचारिकां चरमाणस्याहं नित्योपस्थायक उपकरणमैत्र्यानुकूलः सहायको भूत्वा त्वामुपस्थिहेयं; चरमभविकस्याहं तव पिता भवेयम् । बोधिप्राप्तस्य च ते सत्पुरुष अग्रदानपतिर्भवेयं; त्वं च मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ" । अपरा च तत्र विनीतबुद्धिर्नाम समुद्रदेवता, साप्याह - "तेषु तेषु यावच्चरमभविकस्याहं जनेत्री माता भवेयम् । बोधिप्राप्तश्च त्वं महाकारुणिक मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ" । वरुणचारित्रनक्षत्रा देवता, साप्याह - "तेषु तेषु यावच्चरमभविकस्याहं क्षीरधात्री माता भवेयम् । बोधिप्राप्तश्च मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ" । सनेमो नाम शक्रः, अपरस्तु पारचिन्ती नाम शक्रः, ते उभयेऽप्याहतुः । "वयमपि भो महाकारुणिक तेषु तेषु यावद्; बोधिप्राप्तस्य च ते वयं श्रावकयुगप्रज्ञावन्तो (३१५) ऋद्धिमन्तश्च भवेमः" । अपरश्चारित्रचरणसुदर्शयूथिको नाम शक्रः, स एवमाह - "अहं ते महाकारुणिक तेषु तेषु यावच्चरमभविकस्य पुत्रो भवेयं" । अपरा शिखरदेवता सौरभ्याकिंशुका नाम, साप्याह - "अहं ते महाकारुणिक तासु तासु जातिषु भार्या भवेयम् । बोधिप्राप्तश्च त्वं सत्पुरुष मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ" । कदुश्चरो नामासुरेन्द्रः, सोऽप्याह - "अहं ते महाकारुणिका तेषु तेष्वप्रमेयासंख्येयेषु कल्पेषु सत्पुरुष बोधिचारिकां चरमाणस्याहमुपकरणमैत्र्यानुकुलः सहायो दासत्वेनोपस्थिहेयं,
चरमभविकस्याहं ते उपस्थायको भवेयम् । बोधिप्राप्तस्य च ते सत्पुरुष धार्मिकं धर्मचक्रं प्रवर्तनेऽध्ययेयं, अहं च ते धर्मदेशनां प्रथमां सफलां कुर्यां, धर्मरसं च पिवेयं, अमृतं चौषधिं गच्छेयं, यावत्सर्वक्लेशप्रहाणादर्हत्वं प्राप्नुयां" । पेयालं, गङ्गानदीवालिकासमाश्च तत्र देवनागासुरा महाकारुणिकस्यानुप्रवृत्तिचर्याय (३१६) प्रणिधानं कृतवन्तो वैनेयमुपन्यस्ता । एकश्च तत्र संज्ञाविकरणभीष्मो नामाजीविकः, स आह - "अहं ते भो महाब्राह्मण बहूपकरणसहायको भविष्यामि । नित्यमहं तेऽप्रमेयेषु कल्पेषु सफलचारिकोपजीवीज्ञातिको भवेयं; नित्यं च त्वत्सकाशमुपसंक्रमेयं वस्तुयाचनार्थं शय्यासनवाहनहस्त्यश्वरथग्रामनिगमनगरकुलपुत्रदुहितृमांसरुधिरचर्मास्थिहस्तपादजिह्वाकर्णनासनयनशीर्षाणि च याचेयम् । एवंरूपोऽहं तव महाब्राह्मण दानपारमितासहायको भवेयं, यावत्प्रज्ञापारमितासहायको भवेयम् । एवंरूपोऽहं महाब्राह्मण बोधिचारिकां चरमाणस्य तव षट्सु पारमितासु सहायको भवेयं; यावत्त्वं बोधिं प्राप्नुया अहं च ते श्रावकस्थानमासादयेयं, अशीतिधर्मस्कन्धसहस्राण्युद्गृह्णीयां पृष्ठश्च धर्मदेशको भवेयम् । त्वं च मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ" । श्रुत्वा च कुलपुत्र महाकारुणिको ब्राह्मणो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा वन्दित्वा, तं संज्ञाविकरणभीष्माजीविकं शब्दापयित्वाह - (३१७) "साधु साधु सत्पुरुष यस्त्वं मम सहायको भविष्यसि अनुत्तरचर्याय, यावच्च त्वं
ममाप्रमेयासंख्येयजन्मान्तरनयुतसहस्रेषूपसंक्रमेर्वस्तुयाचनार्थाय । तदाहं प्रसन्नचित्तो दद्यां, मा च त्वमपुण्यभागी भवेः" ।

भूयश्च कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पुरत आह - "सचेन्मे भदन्त भगवंस्तेषु तेष्वप्रमेयेष्वसंख्येयेषु कल्पकोटीनयुतशतसहस्रेष्वनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणस्य ये मम पुरतो याचनकाः स्थित्वान्नं याचन्ति मृदुवचनेन वा पुरुषवचनेन वा उल्लङ्घनवचनेन वा स्पष्टवचनेन वा याचेयुः; सचेदहं भदन्त भगवन् याचनकस्यान्तिके एकचित्तक्षणमपि रोषमुत्पादयेयम् । अप्रसादं वोत्पादयेयं दानस्य वा फलविपाकं काङ्क्षमाणो दानं दद्यां, विसंवादिता मे भवेयुः येऽप्रमेयासंख्येयेषु दशसु दिक्ष्वन्येषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ति यापयन्ति धर्मं च देशयन्ति, मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । सचेदहं (३१८) भदन्त भगवन् याचनकस्य प्रसन्नचित्तो दानं दद्यां, तदपि दानप्रतिग्राहकस्य श्रद्धादेयविनिपातनं, माकुशलैर्धर्मैरन्तरायकरं भवेत्; अन्तशो वालाग्रकोटीप्रमाणमात्रमपि विसंवादिता मे बुद्धा भगवन्तो भवेयुः । यदीदं प्रतिग्राहकस्य वालाग्रकोटीप्रमाणमात्रमपि कुशलेषु धर्मेष्वन्तरायं कुर्युः, अहमप्यवीचिपरायणो भवेयम् । यथान्नस्य तथा वस्त्रस्य । यावद्ये मम याचनकाः शीर्षं याचेयुः, मृदुवचनेन वा परुषवचनेन वा उल्लङ्घ्यवचनेन वा स्पष्टवचनेन वा शीर्षं याचयेरन्; सचेदहं भदन्त भगवन् याचनकस्यान्तिके एकचित्तक्षणमपि रोषमुत्पादयेयं, अप्रसादचित्तमुत्पादयेयं, दानफलविपाकमाकाङ्क्षं शीर्षं
परित्यजेयं, विसंवादिता मे बुद्धा भगवन्तो भवेयुः; यावदहमप्यवीचिपरायणो भवेयम् । यथा दानमेवं शीलं यावत्प्रज्ञा परित्यागो वाच्यः" ।

(३१९)
स च कुलपुत्र रत्नगर्भस्तथागतो महाकारुणिकस्य बोधिसत्त्वस्य महासत्त्वस्य साधुकारमदासीत् । "साधु साधु सत्पुरुष, महाकरुणाप्रतिष्ठितेन मनसा त्वया सत्पुरुषेमं प्रणिधानं कृतं" । सा च कुलपुत्र सर्वावती पर्षा सदेवगन्धर्वमानुषासुरश्च लोकः प्राञ्जलीभूतः स्थित्वा साधुकारं प्रादासीत् । "साधु साधु सत्पुरुष, महाकरुणाप्रतिष्ठितेन मनसा त्वया सत्पुरुष प्रणिधानं कृतम् । त्वमपि सत्त्वां षट्परायणीयधर्मैः संतर्पयिष्यसि" । स च कुलपुत्र यथा संज्ञाविकारभीष्माजीविको बोधिसत्त्वो दानप्रतिग्राहिकया प्रणिधानं कृतवान्, एवमेव चतुरशीतिभिः प्राणिसहस्रैः प्रणिधानं कृतम् । स च कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वस्तान्येवंरूपाणि प्रणिधानानि चतुरशीतीनां प्राणिसहस्राणां सकाशाच्छ्रुत्वा संज्ञाविकारभीष्मेण प्रणिधानं कृतम् । अथ महाकारुणिकः परमप्रीतिसौमनस्यजातः प्राञ्जलीभूतः स्थित्वा सर्वावतीं पर्षां व्यवलोक्य परमप्रीतमना आह । "अहो आश्चर्यं, भविष्याम्यहं धर्मदुर्भिक्षक्षीणकाले महाक्लेशरणे कलियुगे पञ्चकषाये वर्तमाने लोकेऽनायके सार्थवाहोऽवभासकरः प्रदीपकरः अत्राणानामन्धानां मार्गनिदर्शकः । यत्र (३२०) हि नामाहं प्रथमचित्तोत्पादेनैवमेवंरूपामनुत्तरायां बोधिचर्यायां सहायकाः प्रतिलब्धा ये मम जन्मान्तरेषु शीर्षप्रतिग्राहका भविष्यन्ति नयनकर्णनासाजिह्वाहस्तपादचर्मास्थिरुधिरं यावदन्नस्य प्रतिग्राहका भविष्यन्ति" ।

पुनरपि कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पुरतो निषण्ण आह - "ये च मम भदन्त भगवन् तेषु तेष्वप्रमेयासंख्येयेषु कल्पकोटीनयुतशतसहस्रेषु जन्मान्तरेषु याचनका उपसंक्रामेयुर्यदि वान्नं यदि वा पानं यावच्छिरः प्रतिगृह्णीयुरन्तशो वालाग्रकोटीप्रमानमात्रमपि मम हस्तदानं प्रतिगृह्णीयुर्यावद्बोधिपर्यन्तेन । सचेदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्य न तां सत्त्वां संसारात्परिमोचयेयं, न च पुनर्व्याकुर्यां छ्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा, विसंवादिता मे बुद्धा भगवन्तो भवेयुः य एतर्हि दशसु दिक्षु, यावन्, मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं" ।

पुनरपि कुलपुत्र रत्नगर्भस्तथागतो महाकारुणिकस्य बोधिसत्त्वस्य महासत्त्वस्य साधुकारं प्रादासीत् । (३२१) "साधु साधु सत्पुरुष, एवंरूपं ते सत्पुरुष बोधिचारिकाप्रणिधानं, यथा मेरुशिखरिंधरेण तथागतेन पूर्वं प्रथमचित्तोत्पादेन लोकेश्वरज्योतिषस्तथागतस्य पुरतः एवंरूपया बोधिसत्त्वचर्यया प्रणिधानं कृतमेवंरूपा बोधिसत्त्वचारिका चीर्णा यथा प्रणिधानं कृतम् । गङ्गानदीवालिकासमा महाकल्पा अतिक्रान्ता यथा तेन सत्पुरुषेण पुरिमायां दिशीतो कोटीशतसहस्रबुद्धक्षेत्रे ज्वालप्रतिसंख्यायां लोकधातौ वर्षशतायुष्कायामनुत्तरां सम्यक्संबोधिमभिसंबुद्धो, ज्ञानकुसुमविरजसमुच्छ्रयबोधीश्वरो नाम बभूव तथागतोऽर्हन् सम्यक्संबुद्धो भगवान्, पञ्चचत्वारिंशद्वर्षाणि बुद्धकार्यं कृत्वानुपधिशेषे निर्वाणधातौ प्रविष्टः । तस्य खलु महाकारुणिक ज्ञानकुसुमविरजसमुच्छ्रयबोधीश्वरस्य तथागतस्य परिनिर्वृतस्य वर्षसहस्रं सद्धर्मनेत्री अस्थासीत्; सद्धर्मस्यान्तर्हितस्य वर्षसहस्रं पुनः सद्धर्मप्रतिरूपकमस्थासीत् । ये खलु महाकारुणिक ज्ञानकुसुमविरजसमुच्छ्रयबोधीश्वरस्य तथागतस्य परिनिर्वृतस्य सद्धर्मनेत्र्यवस्थितायां (३२२) सद्धर्मप्रतिरूपका वा भिक्षुर्भिक्षुणी वा दुःशीलपापधर्मा विषमसमुदाचाराः स्तौपिकवस्तुग्राहकालज्जिका वा धर्मपूजाच्छेदालज्जसंसृष्टा वा चतुर्दिशसङ्घस्य वा संमुखीभूतसङ्घस्य वा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारं वा छिन्नं पौद्गलिकपरिग्रहे यावदात्मना परिभुक्तं गृहस्थानां वा दत्तं; तेन खलु महाकारुणिक ज्ञानकुसुमविरजसमुच्छ्रयबोधीश्वरेण तथागतेन सर्वेऽनुपूर्वेण व्याकृतस्त्रिभिर्यानैः । ये केचिन्महाकारुणिक
तस्य भगवतः शासने रक्तकाषायप्रावृताः सर्वे ते अवैवर्तिका व्याकृतास्त्रिभिर्यानैः; येऽपि केचिन्मूलापत्तिसमापन्ना भिक्षुभिक्षुण्युपासकोपासिका वा पूर्वमेव ते तेन तथागतेन शास्तृसंज्ञाकुशलमूलविपाकेन त्रिभिर्यानैरवैवर्तिका व्याकृताः" ।

पुनरपरं कुलपुत्र स महाकारुणिको बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पुरत आह - "एषैव मे भदन्त भगवन् प्रणिधिर्यावदेवाहमनुत्तरायां बोधिचर्यायां चरमाणो यान् सत्त्वानहं दानपारमितायां नियोजयेयं समादापयेयं प्रतिष्ठापयेयं यावत्(३२३) प्रज्ञापारमितायामन्तशो वालाग्रकोटीप्रमाणमात्रमपि कुशलमूले नियोजयेयं; यावद्बोधिपर्यन्तेन चर्यां चरमाणो न तान् सत्त्वांस्त्रिभिर्यानैरवैवर्तिकभूमौ स्थापयेयमन्तश एकसत्त्वमपि, विसंवादिता मे बुद्धा भगवन्तो भवेयुः ये दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । अनुत्तरज्ञानप्रतिलब्धश्चाहं भदन्त भगवन् ये मे सत्त्वाः शासने रक्तकाषायप्रावृता भवेयुः; यदि वा मूलापत्तिमापन्नाः स्युर्यदि वा दृष्टिव्यसनं संप्रतिपन्नाः स्युर्यदि वा त्रिषु रत्नेषु स्खलिताः सापराधा भवेयुर्भिक्षुभिक्षुण्युपासकोपासिका य एकक्षणमपि मम सकाशे शास्तृसंज्ञां वा गौरवचित्तं वोत्पादयेयुर्धर्मे वा सङ्घे वा गौरवचित्तमुत्पादयेयुः; सचेदहं भदन्त भगवंस्तान् सत्त्वांस्त्रिभिर्यानैरवैवर्तिकां न व्याकुर्यामन्तश एकसत्त्वमपि रिंचेयुर्विसंवादिता मे बुद्धा भगवन्तो भवेयुर्यावन्मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । बोधिप्राप्तस्य (३२४) च मे भदन्त भगवन् देवमनुष्यसत्कृतं गुरुकृतं मानितं पूजितं रक्तकाषायचीवरं भवेत् । सहदर्शनेन सत्त्वाः काषायकण्ठास्त्रिभिर्यानैरवैवर्तिका भवेयुर्ये सत्त्वाः क्षुत्तर्षपीडिता
अन्नपानविरहिता यक्षदारिद्रा वान्तशः यामलौकिकाः सत्त्वा ये काषायमभिलषेयुरन्तशश्चतुरङ्गुलमपि, सर्वे तेऽन्नपानसंपन्ना भवेयुः परिपूर्णाभिप्रायाः । ये सत्त्वाः परस्परविरुद्धवैरबहुलाः परस्परयुद्धसंग्रामगता वा देवा वा यक्षा वा राक्षसा वा नागा वा असुरा वा गरुडा वा किन्नरा वा महोरगा वा कुंभाण्डा वा पिशाचा वा मनुष्या वा संग्रामगताः काषायमनुस्मरेयुः, ते सत्त्वाः करुणाचित्ता मृदुचित्ता अवैरचित्ताः कर्मण्यचित्ता भवेयुर्ये सत्त्वाः संग्रामे वा विवादे वा युद्धे वा कलहे वा काषायखण्डकं रक्षार्थं पूजनार्थं गौरवार्थं हरेयुस्ते सत्त्वाः सदा अपराजिता भवेयुरस्खलिता अविहेठिता भवेयुः, स्वस्तिना ततः संग्रामाद्वा युद्धाद्वा कलहाद्वा विवादाद्वा परिमुच्येयुः । यदि मे भदन्त भगवन्नेभिः पञ्चभिरार्यगुणै रक्तं काषायं न समन्वागतं भवेत्, विसंवादिता मे बुद्धा भगवन्तो भवेयुर्ये दशसु दिक्षु, (३२५) यावन्, मा चाहं शक्तः सकलं बुद्धकार्यं परिनिष्पादयितुं, धर्मा मे संमोषं गच्छेयुर्मा चाहं शक्तः अन्यतीर्थिकां परिगृहीतुम् । ये च भदन्त भगवन्ममाभिसंबुद्धस्य यावत्परिनिर्वृतस्य वा नमस्कारं करिष्यन्ति, "नमः शाक्यमुनये तथागताये"ति वाचं भाषिष्यन्ते, तेषां सर्वकर्मावरणक्षयो भविष्यति, अन्ते चानुत्तरेण बुद्धपरिनिर्वाणेन परिनिर्वास्यन्ति"ति ।

स च पुनः कुलपुत्र रत्नगर्भस्तथागतो दक्षिणं बाहुं प्रसारयित्वा करतलेन महाकारुणिकस्य बोधिसत्त्वस्य शिरः परिमार्जयित्वाह - "साधु साधु सत्पुरुष, कल्याणं ते प्रणिधानं भद्रकप्रतिविमर्श; एवमेव ते सत्पुरुष पञ्चभिरार्यगुणै रक्तकाषायं सत्त्वानामुपजीव्यं भविष्यति" ।

स भो पुनः कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वस्तेन व्याकरेणेन साधुकारप्रामोद्य प्रसादेन तथागतपुण्यदीर्घाङ्गुलिपरिच्छादितेन दक्षिणेन मृदुतरुणकरतलसंस्पर्शेण कुमारभूतः संवृतो विंशद्वर्षसदृशो जातिप्रमाणेन ।

(३२६)
पुनरपि कुलपुत्र सर्वावती सा पर्षा सदेवगन्धर्वमानुषा प्राञ्जलिभूता तस्थौ, महाकारुणिकस्य पूजाकर्मणे उद्युक्ताः पुष्पैर्वाद्यैर्महाकारुणिकस्य बोधिसत्त्वस्य महासत्त्वस्य पूजां कृत्वा विचित्रवर्णैः श्लोकैस्तुष्टाव ॥

इति श्रीकरुणापुण्डरीके महायानसूत्रे बोधिसत्त्वव्याकरणपरिवर्तश्चतुर्थः ॥४॥


(३२७)
व्दानपरिवर्तो नाम पञ्चमः

स च पुनः कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा वन्दित्वा रत्नगर्भस्य तथागतस्य पुरतो निषसाद रत्नगर्भं तथागतं परिपृच्छत्- "समाधानमुखनिर्देशसंभारविशुद्धिमुखो धर्मपर्यायो बोधिसत्त्वानां मार्गो भगवता निर्दिष्टः; कियता भदन्त भगवन् समाधानमुखनिर्देशसंभारविशुद्धिमुखो धर्मपर्यायो बोधिसत्त्वानां मार्गो भगवता निर्दिष्टः?; कियता भदन्त भगवन् समाधानमुखनिर्देशसंभारविशुद्धिमुखो धर्मपर्यायः परिपूर्णो भवति?; कियद्रूपेण वा भदन्त भगवन् संभारेण समन्वागतः कुलपुत्रो वा कुलदुहिता वा दृढप्रतिष्ठितो भवति?; कियद्रूपेण समाधानमुखनिर्देशनालङ्कृतो भवति?" स भोः पुनः कुलपुत्र रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धो महाकारुणिकं बोधिसत्त्वमेतदवोचत्- "साधु (३२८) साधु महाकारुणिक भद्रकः प्रश्नः कल्याणं ते प्रतिभानम् । भूयस्या मात्रया त्वं महाकारुणिकाप्रमेयासंख्येयानां बोधिसत्त्वानां महासत्त्वानां हितकरो बहुकरश्चोत्पन्नो, यत्र हि नाम त्वं महाकारुणिक तथागतमिदमेवंरूपं प्रश्नं परिप्रष्टव्यं मन्यसे । तेन हि महाकारुणिक शृणु साधु च सुष्ठु च मनसिकुरु च ।

महायानसंप्रस्थितानां कुलपुत्राणामस्ति महाकारुणिक शूरंगमो नाम समाधिर्यत्र समाधौ स्थितो बोधिसत्त्वः सर्वसमाधिष्वनुप्रविष्टो भवति । अस्ति रत्नमुद्रो नाम समाधिर्येन सर्वसमाधयो मुद्रिता भवन्ति । अस्ति सिंहविक्रीडितो नाम समाधिर्यत्र स्थितः सर्वसमाधिभिर्विक्रीडति । सुचन्द्रो नाम समाधिः सर्वसमाधीनवभासयति । चन्द्रध्वजकेतुः समाधिः सर्वसमाधीनां ध्वजं धारयति । सर्वधर्मोद्गतः समाधिः सर्वसमाधयोऽन्तर्गच्छन्ति । विलोकितमुद्रो नाम समाधिः सर्वसमाधीनां मुर्धानं व्यवलोकयति । धर्मधातुविगतसमाधौ स्थितो बोधिसत्त्वः सर्वधर्मधातुविनिश्चयाय (३२९) गच्छति । नियतध्वजकेतौ समाधौ स्थितः सर्वसमाधीनां ध्वजं धारयति । वज्रे समाधौ स्थितः सर्वसमाधीन्निर्भिनत्ति । धर्मप्रवेशमुद्रे समाधौ स्थितः सर्वधर्मान्मुद्रयति । समाधिराजसुप्रतिष्ठितेन समाधिना सर्वसमाधिषु राजत्वेन प्रतिष्ठितो भवति । रश्मिमुक्तेन समाधिना सर्वसमाधिषु रश्मयोऽवसरन्ति । बलवीर्येण समाधिना सर्वसमाधिषु बलवीर्यतां कारयति । समुद्गतेन समाधिना सर्वसमाधिषूद्गच्छति । निरुक्तिनिर्देशेन समाधिना सर्वसमाधिवचनप्रवेशां प्रविशति । अधिवचनप्रवेशेन समाधिना सर्वसमाधीनां नामधेयान्यनुप्रविशति । दिग्विलोकेन समाधिना सर्वसमाधीनवलोकयति । सर्वधर्मप्रभेदेन समाधिना सर्वधर्मप्रभेदतामनुप्रविशति । धारणीमुद्रेण समाधिना सर्वसमाधीनां मुद्रान् धारयति । सर्वधर्मविविक्तेन समाधिना सर्वसमाधिषु विवेकधर्मतामनुप्रविशति । असंप्रमोषेण समाधिना सर्वसमाधयो न मुष्यन्ति । सर्वधर्माचलेन समाधिना सर्वसमाधिष्वचलतायै संतिष्ठते । सर्वधर्मसमवसरणसागरमुद्रे (३३०) समाधौ सर्वसमाधयः संग्रहं समवसरणं गच्छन्ति
। सर्वधर्मामन्यने समाधौ सर्वसमाधय उदयव्ययामन्यनतां गच्छन्ति । आकाशस्फरणेन समाधिना सर्वसमाधय आकाशे स्फुरन्ति । सर्वधर्माच्छेदनेन समाधिना सर्वसमाधयोऽनुपच्छेदं गच्छन्ति । वज्रमण्डलेन समाधिना सर्वसमाधीनां मण्डलं धारयति । सर्वधर्मैकरसेन समाधिना सर्वसमाधीनां रसं धारयति । रणं जहेन समाधिना सर्वोपकरणक्लेशां जहाति । सर्वधर्मानुत्पादेन समाधिना सर्वधर्मानुत्पादानिरोधं दर्शयति । वैरोचनेन समाधिना सर्वसमाधीन् भावयति तपति विरोचति । सर्वधर्मानिरोधेन समाधिना सर्वसमाधीन् विभजति । अनिमिषेण समाधिना सर्वसमाधयो न कदाचित्समाधिधर्मा एषन्ते । अनिकेतेन समाधिना सर्वसमाधिषु न कदाचिद्(३३१) धर्मस्थितिं समनुपश्यति । गगनकल्पेन समाधिना सर्वसमाधीन् गगनस्वभावासारत्वाय समनुपश्यति । निश्चित्तेन समाधिना सर्वसमाधिषु चित्तचैतसिका धर्माः प्रहीयन्ते । रूपापर्यन्तेन समाधिना रूपमवभासयति । विमलप्रदीपेन समाधिना सर्वसमाधीनां प्रदीपं करोति । सर्वधर्मापर्यन्तेन समाधिना सर्वसमाधिष्वपर्यन्तज्ञानं दर्शयति । विद्युदुन्मिषेण समाधिना सर्वसमाधिष्वपर्यन्तं ज्ञानं दर्शयति । सर्वप्रभंकरेण समाधिना सर्वसमाधिषु प्रभंकरमुखमुपदर्शयति । धातुपर्यन्तेन समाधिना सर्वसमाधीनपर्यन्तविज्ञापनायोपदर्शयति । समाधिशुद्धसारेण समाधिना शून्यतां समाधिधर्मेष्वनुप्राप्नोति । मेरुचित्रेण समाधिना सर्वधर्मेषु ऋक्ततां संदर्शयति । विमलप्रभेन समाधिना सर्वसमाधीनां मलमपकर्षयति । सर्वधर्मासंप्रभेदेन समाधिना सर्वसमाधीनां व्युपकृष्टतां संदर्शयति । (३३२) रतिकरेण समाधिना सर्वसमाधिषु रतिं प्रतिलभते । सर्वधर्मस्वभावविक्रीडितेन समाधिना सर्वसमाधिषु रूपानुपलब्धिं दर्शयति । विद्युद्विकरणेन समाधिना
सर्वसमाधिष्वलक्षणत्वं दर्शयति । सर्वधर्मानिक्षेपविरजेन समाधिना सर्वसमाधीनां विरजं ज्ञानमुपदर्शयति । अक्षयवतेन समाधिना सर्वसमाधीनां न क्षयं नाक्षयं दर्शयति । सर्वधर्माचिन्त्यशुद्धेन समाधिना सर्वधर्मां प्रतिभासोपमां दर्शयति । तेजोवता समाधिना सर्वसमाधिषु ज्ञानं ज्वालयति । क्षयापगतेन समाधिना सर्वसमाधीनक्षयानुपगतां दर्शयति । अनिञ्जितेन समाधिना सर्वधर्मेषु नेञ्जति न वेपति न प्रपञ्चयति । विवर्धनेन समाधिना सर्वसमाधिसमापत्तिषु विवर्धमानां ज्ञेयं समनुपश्यति । सूर्यप्रदीपेन समाधिना सर्वसमाधिषु रश्मिमुखान्यवकिरति । चन्द्रविमलेन समाधिना सर्वसमाधिष्वालोकं (३३३) करोति । शुद्धप्रतिभासेन समाधिना सर्वसमाधिषु चतस्रः प्रतिसंविदाः प्रतिलभते । काराकारेण समाधिना कारविहारक्रियां करोति ज्ञानकेतुं समनुपश्यति । वज्रोपमेन समाधिना सर्वधर्मान्निर्वेधीकरोति यस्य वेधमपि न समनुपश्यति । चित्तस्थितेन समाधिना चित्तं न चलति न वेधति न प्रतिभासति न विघातमापद्यते, न चास्यैवं भवति "चित्तमेतद्" इति । समन्तालोकेन समाधिना सर्वसमाधिष्वालोकं समनुपश्यति । सुप्रतिष्ठितेन समाधिना सर्वसमाधिषु सुप्रतिष्ठितत्वे प्रतिष्ठति । रत्नकूटेन समाधिना सर्वसमाधिषु रत्नकूट इव संदृश्यते । वरधर्ममुद्रेण समाधिना सर्वसमाधयो मुद्रिता भवन्ति, धर्मसमतया न कंचिद्धर्मं समतानिर्मुक्तं समनुपश्यति । रतिं (३३४) जहेन समाधिना सर्वधर्मेषु रतिं जहाति । धर्मोल्केन समाधिना सर्वधर्मेष्वसमारकृतां प्रतिलभते । अक्षरापगतेन समाधिना सर्वधर्मेष्वेकाक्षरमपि नोपलभते । आलंबनच्छेदेन समाधिना सर्वालंबनां
व्युपच्छिनत्ति । अविकारेण समाधिना सर्वधर्माणां विकारं नोपलभते । प्रकृतिविशुद्धेन समाधिना सर्वधर्माणामुपकारं नोपलभते । अनिकेतचरेण समाधिना सर्वधर्मेषु निकेतं नोपलभते । तिमिरापगतेन समाधिना सर्वसमाधिचरणं न समनुपश्यति, तमोविषयं समतिक्रामति । सर्वगुणसंचयगतेन समाधिना सर्वधर्मेषु सन्निचयं जहाति । स्थितनिश्चित्तेन समाधिना सर्वधर्मेषु चित्तमिति नोपलभते । बोध्यङ्गगतेन समाधिना सर्वधर्मां बुध्यति । स्मृतिविकरणेन समाधिना सर्वधर्मेष्वसंख्येयप्रतिभानं (३३५) प्रतिलभते । तत्करज्ञानविशुद्धेन समाधिना सर्वधर्मेष्वसमासमतां प्रतिलभते । ज्ञानकेतुसमाधिना सर्वत्रैधातुकमतिक्रामति । ज्ञानोपच्छेदसमाधिना सर्वधर्मव्यवच्छेदं समनुपश्यति । ज्ञानविकरणेन समाधिना सर्वधर्मविकरणतामनुप्राप्नोति । निरधिष्ठानेन समाधिना सर्वधर्मामनाश्रयभूतां समनुपश्यति । एकव्यूहेन समाधिना न कंचिद्धर्मद्वयं समनुपश्यति । आकारनिर्हारवता समाधिना सर्वधर्माणामनाकारनिर्हारं समनुपश्यति । सर्वाधिकारसर्वभवतलविकरणेन समाधिना सर्वधर्मेषु निर्वेधज्ञानं प्रविशति, यस्यानुप्रवेशान्न कंचित्प्रतिलभते । सङ्केतरुतप्रवेशेन समाधिना सर्वरुतसङ्केतेष्वनुप्रविशति । घोषवाग्भिरक्षरविमुक्तेन समाधिना सर्वधर्मेष्वक्षरविमुक्तिं (३३६) समनुपश्यति । ज्ञानोल्कामता समाधिना सर्वसमाधिषु तेन भासति तपति विरोचति । वरज्ञानलक्षणविजृंभितेन समाधिना सर्वधर्मेष्वपरिशुद्धं लक्षणं दर्शयति । अनभिज्ञालक्षणवतेन समाधिना सर्वधर्मेष्वनभिलक्षणार्थं समनुपश्यति । सर्वाकारवरोपतेन समाधिना सर्वधर्मसमाधिषु सर्वाकारवरोपेतो भवति । सर्वदुःखसुजहेन समाधिना सर्वधर्मेष्वनिश्रियं
समनुपश्यति । अक्षयकारणेन समाधिना सर्वधर्मेष्वक्षयं न समनुपश्यति । धारणपदेन समाधिना सर्वसमाधीं सर्वधर्मांश्च धारयति, सम्यक्त्वमिथ्यात्वं न समनुपश्यति । निरोधविधप्रशमेन समाधिना सर्वधर्मानुरोधविरोधां न (३३७) समनुपश्यति । विमलप्रभासेन समाधिना सर्वसमाधिषु संस्कृतविमलं न समनुपश्यति । सारानुगतेन समाधिना सर्वधर्मेष्वसारं नोपलभते । पूर्णचन्द्रविमलेन समाधिना सर्वसमाधिषु गुणपरिपूर्णो भवति । महाव्यूहेन समाधिना सर्वसमाधिषु महाव्यूहसमन्वागतो भवति । सर्वलोकप्रभेदेन समाधिना सर्वधर्मेषु ज्ञानेनावभासयति । समाधिसमताविरोचनेन समाधिना सर्वसमाधिष्वेकाग्रतां प्रतिलभते । अरणेन समाधिना सर्वधर्मेषु न रणति । अनिलनिकेतेन समाधिना सर्वधर्मेष्वालयं न करोति । तथास्थितनीश्चित्तेन समाधिना सर्वधर्मेषु तथता न विनिवर्तते । कायकलिसंप्रमथनेन समाधिना सर्वधर्मेषु सत्कायं नोपलभते । वाक्कलिविध्वंसनगगनप्रतिलब्धेन समाधिना (३३८) बोधिसत्त्वः सर्वधर्मेषु वाक्कर्म नोपलभते । आकाशसंगगतिविमुक्तिनिरुपलेपसमाधिस्थितो बोधिसत्त्वः सर्वधर्मेष्वाकाशसंगतामनुप्राप्नोति । अयं समाधिमुखो महायानसंप्रस्थितानां बोधिसत्त्वानां निर्वेशः ।

तत्र कतमो बोधिसत्त्वानां महासत्त्वानां संभारविशुद्धिमुखसंग्रहो धर्मपर्यायः? दानसंभारो बोधिसत्त्वानां सत्त्वपरिपाचनतया संवर्तते । शीलसंभारो बोधिसत्त्वानां प्रणिधानपूर्या संवर्तते । क्षान्तिसंभारो बोधिसत्त्वानां लक्षणानुव्यञ्जनपरिपूर्या संवर्तते । वीर्यसंभारो बोधिसत्त्वानां सर्वकार्यपरिपूर्या संवर्तते । ध्यानसंभारो बोधिसत्त्वानामाजानेयचित्ततया संवर्तते । प्रज्ञासंभारो बोधिसत्त्वानां सर्वक्लेशपरिज्ञया संवर्तते । श्रुतसंभारो बोधिसत्त्वानामसङ्गप्रतिभानतया संवर्तते । पुण्यसंभारो बोधिसत्त्वानां सर्वसत्त्वोपजीव्यतया संवर्तते । ज्ञानसंभारो बोधिसत्त्वानामसङ्गज्ञानतया संवर्तते । (३३९) शमथसंभारो बोधिसत्त्वानां कर्मण्यचित्ततया संवर्तते । विपश्यनासंभारो बोधिसत्त्वानां विगतकथंकथया संवर्तते । मैत्रीसंभारो बोधिसत्त्वानामप्रतिहतचित्ततया संवर्तते । करुणासंभारो बोधिसत्त्वानां परिपाकाखेदतायै संवर्तते । मुदितासंभारो बोधिसत्त्वानां धर्मारामरतिरमणतायै संवर्तते । उपेक्षासंभारो बोधिसत्त्वानामनुनयप्रतिघप्रहाणाय संवर्तते । धर्मश्रवणसंभारो बोधिसत्त्वानां विवरणप्रहाणाय संवर्तते । निष्क्रमणसंभारो बोधिसत्त्वानां सर्वपरिग्रहोत्सर्गाय संवर्तते । अरण्यवाससंभारो बोधिसत्त्वानां कृतकर्माविप्रणाशतया संवर्तते । स्मृतिसंभारो बोधिसत्त्वानां धारणीप्रतिलाभतया संवर्तते । मतिसंभारो बोधिसत्त्वानां बुद्धिप्रभेदनतया संवर्तते । गतिसंभारो बोधिसत्त्वानामर्थगत्यनुबुध्यनतया संवर्तते । स्मृत्युपस्थानसंभारो
बोधिसत्त्वानां कायवेदनाचित्तधर्मानुबुध्यनतया संवर्तते । सम्यक्प्रहाणसंभारो बोधिसत्त्वानां सर्वाकुशलधर्मप्रहाणतायै संवर्तते, सर्वकुशलधर्मभावनाय च (३४०) । ऋद्धिपादसंभारो बोधिसत्त्वानां कायचित्तलघुत्वतया संवर्तते । इन्द्रियसंभारो बोधिसत्त्वानां सर्वसत्त्वेन्द्रियपरिपूर्या संवर्तते । बलसंभारो बोधिसत्त्वानां सर्वक्लेशानवमर्दनतया संवर्तते । बोध्यङ्गसंभारो बोधिसत्त्वानां धर्मस्वभावानुबुध्यनतया संवर्तते । मार्गसंभारो बोधिसत्त्वानां सर्वकुमार्गसमतिक्रमताय संवर्तते । सत्यसंभारो बोधिसत्त्वानामकुशलधर्मापसरणस्वर्गोपपत्तिप्रतिलाभाय संवर्तते । प्रतिसंवित्संभारो बोधिसत्त्वानां सर्वसत्त्वसंशयच्छेदनतया संवर्तते । प्रतिसरणसंभारो बोधिसत्त्वानामपराधीनज्ञानतया संवर्तते । कल्याणमित्रसंभारो बोधिसत्त्वानां सर्वगुणाय द्वारतया संवर्तते । आशयसंभारो बोधिसत्त्वानां सर्वलोकाविसंवादनतया संवर्तते । प्रयोगसंभारो बोधिसत्त्वानां सर्वसंभारोत्तरणतया संवर्तते । अध्याशयसंभारो बोधिसत्त्वानां विशेषगामितया संवर्तते । प्रतिसंलानसंभारो बोधिसत्त्वानां यथाश्रुतधर्मप्रतिपत्या संवर्तते । सङ्ग्रहवस्तुसंभारो बोधिसत्त्वानां सत्त्वपरिपाचनतया (३४१) संवर्तते । सद्धर्मपरिग्रहसंभारो बोधिसत्त्वानां त्रिरत्नवंशानुपच्छेदनतया संवर्तते । परिणामनाविधिज्ञकौशल्यसंभारो बोधिसत्त्वानां बुद्धक्षेत्रपरिशुद्ध्या संवर्तते । उपायकौशल्यसंभारो बोधिसत्त्वानां सर्वज्ञज्ञानपरिपूर्या संवर्तते । अयं कुलपुत्र बोधिसत्त्वानां संभारविशुद्धिमुखसङ्ग्रहो
धर्मपर्यायः" ।

पुनरपि कुलपुत्र रत्नगर्भस्तथागतो महाबोधिसत्त्वपर्षदं व्यवलोक्य महाकारुणिकं बोधिसत्त्वं महासत्त्वमामन्त्रयित्वाह - "तत्र महाकारुणिका कियद्रूपेण वैशारद्यालङ्कारेणालङ्कृतो बोधिसत्त्वो महासत्त्वः क्षान्तिं परिपूरयति? परमार्थदर्शिनो बोधिसत्त्वस्य महासत्त्वस्यामोघव्यायामपरिग्रहचित्तः सर्वत्रैधातुके योऽपरिग्रहचित्तः सर्वसत्त्वेभ्यः स उच्यते महावैशारद्यश्रमणधर्मो यस्याकाशपाणिसमचित्तं सर्वधर्मेषु । अयं महाकारुणिक बोधिसत्त्वस्य वैशारद्यालङ्कारः ।

कथं च पुनः क्षान्त्या परिपूरिर्भवति? अणुरपि (३४२) तत्र धर्मन्नोपलभते यदनुबुध्येय प्रतिबुद्ध्येयुर्वा अविपाकधर्मानधिमुच्यते; यदुत मैत्र्या चैव नैरात्म्यं च, करुणा च निःसत्त्वता च, मुदिता च निर्जीविता चोपेक्षा च निष्पुद्गलता च, दानं च दान्तचित्तता च, शीलं च शान्तचित्तता च, क्षान्तिश्च क्षमाचित्तता च, वीर्यं च विवेकचित्तता च, ध्यानं च निध्यप्तिचित्तता च, प्रज्ञा चाप्युदारचित्तता च, स्मृत्युपस्थानता च स्मृत्यमनसिकारचित्तता च, सम्यक्प्रहाणं चानुत्पादनिरोधचित्तता च, ऋद्धिपादाश्चाप्रमाणचित्तता च, श्रद्धा चासङ्गचित्तता च, स्मृतिश्च स्वयंभूचित्तता च, समाधिश्च समापद्यनुचित्तता च, प्रज्ञेन्द्रियं चातीन्द्रियचित्तता च, बलं चानवमर्दचित्तता च, बोध्यङ्गश्च बुद्धिप्रभेदनचित्तता च, मार्गश्च भावनाचित्तता च, शमथश्चोपशमचित्तता च, विपश्यना चासंमोहचित्तता च, आर्यसत्यभावना चात्यन्तपरिज्ञाभावनाचित्तता च, बुद्धमनसिकारश्चास्वकारचित्तता (३४३) च, धर्ममनसिकारश्च धर्मधातुसमचित्तता च, सङ्घमनसिकारश्चाप्रतिष्ठितचित्तता च, सत्त्वपरिपाचनश्चादिविशुद्धिचित्तता च, सद्धर्मपरिग्रहश्च धर्मधात्वसंभेदचित्तता च, क्षेत्रपरिशुद्धिश्चाकाशसमचित्तता च, लक्षणपरिपूरिश्चालक्षणचित्तता च, क्षान्तिप्रतिलाभश्चानुपलम्भचित्तता च, अवैवर्तिकभूमिश्च संवर्तानिवर्तचित्तता च, बोधिमण्डालङ्कारचित्तं च त्रैधातुकमण्डलचित्तता च, मारनिग्रहचित्तं च सर्वसत्त्वेभ्यः सर्वसत्त्वानुग्रहचित्तता च, बोधिश्च सर्वधर्मसमता च बोधिचित्तता च, धर्मचक्रप्रवर्तनं च सर्वधर्माप्रवर्तनचित्तता च, महापरिनिर्वाणसंदर्शनं च संसारस्वभावचित्तता च" ॥

(३४४)
अस्मिन् धर्मपर्याये भाष्यमाणे चतुःषष्टीनां बोधिसत्त्वशतसहस्राणां ये दशभ्यो दिग्भ्यो गृध्रकूटे पर्वते शाक्यमुनेस्तथागतस्यान्तिके पूर्वयोगसमाधानमुखनिर्देशं संभारविशुद्धिमुखधर्मपर्यायं श्रवणार्थमागतास्तैरनुत्पत्तिकेभ्यो धर्मेभ्यः क्षान्तिः प्रतिलब्धाः । शाक्यमुनिस्तथागत आह - "अस्य खलु पुनः कुलपुत्र धर्मपर्यायस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य भाषमाणस्याष्टचत्वारिंशतीनां गङ्गानदीवालिकासमानां बोधिसत्त्वानां महासत्त्वानामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभोऽभूत् । चातुर्द्वीपिकलोकधातुपरमाणुरजःसमैर्बोधिसत्त्वैर्महासत्त्वैरवैवर्तिकभूमिः प्रतिलब्धो बभूव । गङ्गानदीवालिकासमानां बोधिसत्त्वानां महासत्त्वानामस्य समाधानमुखनिर्देशस्य संभारविशुद्धिमुखधर्मपर्यायस्य सकलपरिपूर्णं विशुद्धज्ञानाधिगमो बभूव" ॥

स च कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वस्तेन प्रामोद्यप्रसादेन विंशतिवर्षसदृशः कुमारभूतः संवृत्तो, रत्नगर्भस्य तथागतस्य पृष्ठतः समनुबद्धोऽस्थात् । स च कुलपुत्र राजामृतशुद्धः सार्धं (३४५) पुत्रसहस्रेणाशीतिभिश्च कोट्टराजसहस्रैरन्यैश्च द्वानवतिभिः प्राणकोटिभिः सार्धं निष्क्रम्य प्रव्रजितः शीलश्रुतसमाधिसौरत्यैरभियोगकृतवान् ।

स च कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वोऽनुपूर्वेण चतुरशीतिधर्मस्कन्धसहस्राणि रत्नगर्भस्य तथागतस्य सकाशाच्छ्रावकयानकथां पठितवान् पर्यवाप्तवांश्च; नवतिधर्मस्कन्धसहस्राणि प्रत्येकबुद्धयानकथामुद्दिष्टवां पठितवान् पर्यवाप्तवान्; ततः शतसहस्रमनुत्तरमहायानकथायां तथा कायस्मृत्युपस्थानकथायामुद्दिष्टवान् पठितवान् पर्यवाप्तवांश्च, शतसहस्रं वेदनास्मृत्युपस्थानकथायां, शतसहस्रं चित्तस्मृत्युपस्थानकथायां, शतसहस्रं धर्मस्मृत्युपस्थानकथायामुद्दिष्टा पठिता पर्यवाप्ताश्च; शतसहस्रं धातुस्कन्धकथां, शतसहस्रमायतनस्कन्धकथां, शतसहस्रं रागसंयोजनप्रहाणस्कन्धकथां, शतसहस्रं द्वेषसंयोजनप्रहाणस्कन्धकथां, शतसहस्रं मोहप्रहाणप्रतीत्यसमुत्पादस्कन्धकथां, शतसहस्रं समाधिविमोक्षस्कन्धकथां, शतसहस्रं (३४६) बलवैशारद्यावेणिकबुद्धधर्मस्कन्धकथामुद्दिष्टवान् पठितवान् पर्यवाप्तवांश्च । यावद्दशधर्मस्कन्धशतसहस्रं रत्नगर्भस्य तथागतस्य सकाशादुद्गृहीतवान् पर्यवाप्तवांश्च ।

यावदपरेण कालसमयेन रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धोऽनुपधिशेषे निर्वाणधातौ परिनिर्वृतः । स च कुलपुत्र महाकारुणिको बोधिसत्त्वः नानाविधाप्रमेयासंख्येया वाद्यपुष्पचूर्णामाल्यगन्धविलेपनच्छत्रध्वजपताकारत्नैः पूजां कृतवान्, नानागन्धैश्च स्नापनं कृतवान्, शरीरप्रतिष्ठापनं च सप्तरत्नमयं स्तूपं कृतवान् पञ्चयोजनमुच्चत्वेनार्धयोजनं विस्तारेण । ततः सप्तदिवसान्यप्रमेयासंख्येया वाद्यपुष्पमाल्यगन्धविलेपनच्छत्रध्वजपताकारत्नैश्च पूजां कृत्वा, पुनरपि तत्राप्रमेयासंख्येयास्त्रिषु यानेषु समादापिता निवेशिताः प्रतिष्ठापिताः । स तेषां सप्तानां दिवसानामत्ययेन चतुरशीतिभिः प्राणसहस्रैः सार्धं निष्क्रम्य केशश्मश्रूण्यवतार्य काषायानि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धयागारादनागरिकां प्रव्रज्य रत्नगर्भस्य तथागतस्य परिनिर्वृतस्य शासनं ज्वालितवान्; दशवर्षसहस्राणि (३४७) सद्धर्मधारको बभूव । तत्र चाप्रमेयासंख्येयां सत्त्वांस्त्रिभिर्यानैः समादापयामास निवेशयामास प्रतिष्ठापयामास, त्रिशरणगमने च प्रतिष्ठापयामास, उपासकसंवरे च श्रामणेरसंवरे उपसंपदायां भिक्षुभावे ब्रह्मचर्यवाससंवरे निवेशिताः प्रतिष्ठापिताः । स बहूनि प्राणकोटीनयुतशतसहस्राणि अभिज्ञर्द्धिकौशल्ये च नियोजयित्वा सौरत्यब्रह्मचर्यवासे नियोजयित्वा शत्रुभूतेषु च स्कन्धेसु परिज्ञायां नियोजयित्वा शून्यग्रामायतनपरिज्ञायां नियोजयित्वा प्रतीत्यसमुत्पन्नाः सर्वधर्माः संस्कृतज्ञानपरिज्ञायां नियोजयित्वा प्रतिभासोपमान्मरीच्युपमान् दकचन्द्रोपमान् सर्वधर्मान् दर्शयित्वानुत्पादानिरोधाप्रतिसंधिनिरोधशान्तप्रशान्तोपशान्तपरमप्रणीतनिरोधनिर्वाणपरिज्ञानं
दर्शयित्वा आर्याष्टाङ्गे मार्गे प्रतिष्ठापयित्वा कालं कृतवान् । एवमेव च ते सत्त्वास्तस्य महाकारुणिकस्य महाश्रमणस्य शरीरेषु शरीरपूजां कृतवन्तो, यथा राज्ञश्चक्रवर्तिनः शरीरेषु शरीरपूजा क्रियते । एवमेव तस्मिन् समये ते सत्त्वा महाकारुणिकस्य महाश्रमणस्य शरीरेषु शरीरपूजां कृतवन्तो । यस्मिंश्च दिवसे महाकारुणिको (३४८) महाश्रमणः कालगतस्तस्मिन् दिवसे रत्नगर्भस्य तथागतस्य सद्धर्मोऽन्तर्हितस्तैश्च बोधिसत्त्वैर्महासत्त्वैः प्रणिधानवशेनान्यत्र लोकधातुषूपपत्तिः परिगृहीताः; केचित्प्रणिधानवशेन तुषितभवन उपपन्नाः, केचिन्मनुस्येषु केचिन्नागेषु केचिदसुरेषु केचित्प्रणिधानेन विविधासु तिर्यग्योनिषूपपन्नाः ॥

कालगतश्च कुलपुत्र महाकारुणिको महाश्रमणः प्रणिधानवशेन दक्षिणायां दिशायामितो बुद्धक्षेत्राद्दशबुद्धक्षेत्राण्यतिक्रम्य तत्र संकर्षणो नाम लोकधातुरशीतिवर्षायुष्काश्च तत्र मनुष्या अकुशलमूलसमवधाना रौद्रा लोहितपाणयः पापनिविष्टा अदयापन्नः सर्वसत्त्वेषु अमातृज्ञा अपितृज्ञा अपरलोकभयादर्शिनः । प्रणिधानवशेन महाकारुणिको महाश्रमणस्तत्र संकर्षणे बुद्धक्षेत्रे चण्डालकुल उपपन्नोऽभूत् । स चातीवदीर्घशरीरोऽभूदतीवबलवानतीववेगवानतीवस्मृतिमानतीवप्रतिभानवानतीवजवसमन्वागतोऽभूत् । स दृढेन बलवेगेन सत्त्वान् संगृहीत्वाह - "यदि यूयं भो सत्त्वा अदत्तादानात्प्रतिविरमत, काममिथ्याचाराद्यावन् (३४९) मिथ्यादृष्ट्याः प्रतिविरमत, तदहं युष्माकं जीवितं प्रयच्छामि जीवितोपकरणानि च दास्यामि । अथ च पुनर्न प्रतिविरमत, अहं जीविताद्व्यपरोपयित्वा प्रक्रमिष्यामि" । ततस्ते सत्त्वा अञ्जलिं प्रगृह्याहुः । "वयमिदानीन् तव नाथस्य वचनेनाद्याग्रेण यावज्जीवमदत्तादानाद्यावन्मिथ्यादृष्ट्याः प्रतिविरमामः" । स बलचण्डालो गत्वा राज्ञो वा राजभट्टानां वा निवेदयति । "जीवितोपकरणेन मे प्रयोजनमन्नेन वा पानेन वा खाद्येन वा भोज्येन वा पेयवस्त्रशय्यागन्धहिरण्यसुवर्णमणिमुक्तवैडूर्यशङ्खशिलाप्रवाडरजतजातरूपेण वा प्रभूतानि जीवितोपकरणानि ददत मम" । स बलचण्डालः सत्त्वान् यावज्जीवं दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयामास । ततस्ते मनुष्याः पञ्चवर्षशतायुष्का बभूवुः । यश्च तत्र राजा स कालगतः ततस्तै राजामात्यैः स बलचण्डालो राजाभिषेकेनाभिषिच्य राज्ये प्रतिष्ठापितः पुण्यबलो नाम संस्कृतः ।

अथ कुलपुत्र राजा पुण्यबलो न चिरेणैव तं विषयमनुशासितवान्, दृढवीर्यपराक्रमेण द्वितीयं (३५०) विषयं समनुशासितवान् । यावद्राजा पुण्यबलो न चिरेण सर्वजम्बूद्वीपे राजा बलचक्रवर्ती बभूव । यदा च राज्ञा पुण्यबलेन सर्वजम्बूद्वीपे राजत्वं प्रतिगृहीतं ततः पश्चात्सत्त्वाः प्राणातिपातविरमणे समादापिता निवेशिताः प्रतिष्ठापिताः । एवमदत्तादानाद्यावन्मिथ्यादृष्टिवैरमण्ये समादापिताः सम्यग्दृष्ट्यां प्रतिष्ठापिता, यथाभिप्रायाः सत्त्वास्त्रिषु यानेषु समादापिता निवेशिताः प्रतिष्ठापिताः । अथ राजा पुण्यबलः सर्वजम्बूद्वीपिकां सत्त्वां दशकुशलेषु कर्मपथेषु प्रतिष्ठापयित्वा त्रिषु यानेषु संनियोज्य सर्वजम्बूद्वीपे घोषमनुश्रावयमास । "ये केचिद्याचनका अन्नार्थिका यावद्रत्नार्थिका वा ते सर्व आगच्छन्तु । अहं सर्वदानानि दास्यामि" । ततोऽपरेण कालसमयेन सर्वजम्बूद्वीपिकाः सत्त्वा आगत्वा राजानं पुण्यबलं याचितवन्तः; राजापि पुण्यबलस्तान्यारभ्य विविधानि दानानि दत्तवान् ।

तत्र पांशुघोषो नामाजीविको राजानं पुण्यबलमुपसंक्रम्याह । "यदि त्वं महाराज विविधं महादानपरित्यागं परित्यजसि, अनुत्तरां सम्यक्संबोधिमाकाङ्क्षसि । यदि त्वं महाराज ममाशां परिपूरयिष्यसि, भविष्यसि त्वं महाराज लोकप्रदीपो जिन" इति । राजाह - "केन ते (३५१)ऽर्थः" । पांशुघोष आजीविक आह - "अहं महाराज विद्याधरत्वमिच्छामि महासुरसंग्रामप्रमर्दनकल्पं साधयितुम् । तेनाहं तव पुरतः स्थित्वा विज्ञापयामि जीवतः पुरुषस्य चर्मणा प्रयोजनं चक्षुषा च प्रयोजनं" । अथ कुलपुत्र राजा पुण्यबल एवं चिन्तयति । "प्रतिलब्धम्मया बलचक्रवर्तिराजत्वम् । गणनातिक्रान्तश्च सत्त्वा दशकुशलेषु कर्मपथेषु प्रतिष्ठापितास्त्रिषु च यानेषु नियोजिता, अप्रमेयं च मे दानं दत्तम् । अयं च मे कल्याणमित्रोऽसारात्कायात्सारमाददामि" । स राजाह - "तुष्टो भव ददामि ते इमं प्राकृतमांसचक्षुस्तेनाहं लभेयानुत्तरं धर्मचक्षुः । ददामि ते इमं स्वकं चर्म प्रसन्नचित्तेन, तेन चाहं लप्स्येऽनुत्तरां सम्यक्संबोधिं" । अथ कुलपुत्र राजा पुण्यबलो दक्षिणेन हस्तेनोभौ नेत्रावुत्पाद्याजीविकस्य दत्वा रुधिरम्रक्षितेन मुखेनाह । "शृण्वन्तु मे इह देवयक्षमहर्द्धिका ये केचिन्नरा येऽसुरा ये च भूता इहागताः खेचरा भूमौ स्थिता ये नरा, बोधाय मया दानं नामितं शुभं प्राप्स्येऽहं शान्तं पदं, सत्त्वांस्तारयेयं, घोरात्संसारार्णवात्पारेऽनुत्तरे निर्वाणे शिवे स्थापयेयं" । पुनराह - (३५२) "यद्यहमनुत्तरां सम्यक्संबोधिं
प्राप्नुयां, तावच्चिरं मम जीवितेन्द्रियं मा निरुध्येत मा च मे स्मृतिर्नश्येत मा च मे विप्रतिसारो भवेद्, यावच्चिरमस्याजीविकस्य सा विद्या न सिद्धा भवेत्" । आह - "गृह्णाहि चर्म" । स च कुलपुत्र पांशुघोषाजीविकस्तीक्ष्णं शस्त्रं गृहीत्वा राज्ञो ध्रियतः कायच्चर्ममपनेत्वा चर्म गृहीत्वा विद्यां साधयित्वा, तथा सप्तदिवसानि राज्ञः पुण्यबलस्य जीवितेन्द्रियं न निरुद्धं, न च स्मृतिः प्रमुष्टा, न च तां दुःखां वेदनां वेदयति, न चास्यैकक्षणमपि विप्रतिसारो जातः ।

तत्किं मन्यध्वे कुलपुत्रान्यः स तेन कालेन तेन समयेन महाकारुणिको नाम बभूव, न चान्यो द्रष्टव्योऽहं स तेन कालेन तेन समयेन महाकारुणिको नाम बभूव रत्नगर्भस्य तथागतस्य पिता । अयं मे प्रथमचित्तोत्पादोऽभूतनुत्तरायां सम्यक्संबोधौ । प्रथमचित्तोत्पादेन च मे गणानातिक्रान्ताः सत्त्वाः समादापिता अनुत्तरायां सम्यक्संबोधौ । अयं मे प्रथमः शूरभावः शूरकार्यं च । सोऽहं प्रणिधानवशेन ततश्च्यवित्वा संकर्षणे बुद्धक्षेत्र उपपन्नश्चण्डालकुले द्वितीयः शूरभावः शूरकार्यं च । तदा मे चण्डालवंशे (३५३) स्थित्वा सत्त्वां कुशले नियोज्य स्वबलपराक्रमेण यावद्बलचक्रवर्तित्वं प्राप्तं, सर्वजंबूद्वीपे च कलिकलुषकलहाः प्रशमिता, आयुश्च वर्धापिताः । अयं च मे प्रथम आत्मपरित्यागः, यदा च मे स्वनेत्राः परित्यक्ताः स्वचर्मपरित्यागश्च । सोऽहं ततश्च्युतस्तत्रैव संकर्षणे क्षेत्रे द्वितीये द्वीपे प्रणिधानवशेन चण्डालकुल उपपन्नः । पेयालं, तत्र च मयैवंरूपेण दृढवीर्यपराक्रमेण सत्त्वान्नियोजयित्वा कुशलेषु कर्मेषु, यावद्बलचक्रवर्तित्वं मे प्राप्तम् । तत्र च कलिकलुषकलहवैरविग्रहाः प्रशमिता, आयुश्च वर्धापितम् । तत्र च स्वशरीरात्जिह्वा कर्णौ च परित्यक्तौ, यावत्सर्वन् तत्संकर्षणं महासाहस्रं बुद्धक्षेत्रं सर्वद्वीपेष्वेवं पुरुषकारं कृतम् । प्रणिधानदृढवीर्यपराक्रमेणानुप्रबन्धेन प्रणिधानवशेन गङ्गानदीवालिकासमेषु पञ्चकषायेषु बुद्धक्षेत्रेषु एवंरूपं महापुरुषकारं कृतं, सत्त्वाश्च कुशलेषु
नियोजिताः, त्रिषु च यानेषु समादापिताः, कलिकलुषकलहरणविग्रहाः शमिताः । इत्यर्थं कुलपुत्रान्येषां बुद्धानां भगवतां बुद्धक्षेत्रं परिशुद्धम् । यदा ते बुद्धा भगवन्तः पूर्वेऽनुत्तरां सम्यक्संबोधिचर्यां चरमाणा न परामापत्त्या (३५४) चोदयन्ति, न च परस्य भयं दर्शयन्ति, न श्रावकप्रत्येकबुद्धयाने सत्त्वां समादापयन्ति । इत्यर्थं तेषां बुद्धानां भगवतां परिपूर्णाभिप्रायाणां परिशुद्धं बुद्धक्षेत्रं भवति । न च तत्र बुद्धक्षेत्रे आपत्तिनाम, न शिक्षाग्रहणस्य, न च परुषवचनं श्रूयते, न चाकुशलशब्दः; अन्यत्र धर्मशब्देन तद्बुद्धक्षेत्रमपगतामनापशब्देन स्फुटं भवति । तत्र च सत्त्वा यथाकामकरणीया भवन्ति, न च तत्र श्रावकप्रत्येकबुद्धयानस्य नाम प्रज्ञप्तिप्रादुर्भावोऽस्ति । यदा च मया गङ्गानदीवालिकासमेषु महाकल्पेषु गङ्गानदीवालिकासमेषु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु परुषवचनभयेन सत्त्वाः प्राणातिपातवैरमण्ये समादापिता यावत्त्रिषु यानेषु समादापिता निवेशिताः प्रतिष्ठापिताः । (३५५) तेन कर्मावशेषेण म एतर्ह्येवं परिक्लिष्टं बुद्धक्षेत्रमकुशलशब्देनापूरितमकुशलमूलसमवधानगतैः सत्त्वैः परिपूर्णं, त्रिभिश्च यानैर्धर्मं देशयामि । यथा च मे पूर्वं प्रणिधानं कृतं तथारूपं बुद्धक्षेत्रं परिगृहीतम् । यादृशाश्च मे सत्त्वा वैनेयाः परिगृहीतास्तदृशेनैव बलवीर्योद्योगेन बोधिचारिकाः चीर्णाः, यादृशं चैव
बीजं प्रक्षिप्तं तादृशं बुद्धक्षेत्रं प्रतिलब्धम् । यथारूपं मया प्रणिधानं कृतम् ।

संक्षिप्तेन ते कुलपुत्र दानपारमितां कथयिष्यामि यथा मया बोधिसत्त्वचारिकां चरमाणेन दानपरित्यागः परित्यक्तः, न केनचित्पूर्वं बोधिसत्त्वेनैवंरूपः दानपरित्यागः परित्यक्तः, न च पुनः कश्चिद्बोधिसत्त्वो भविष्यति य एवंरूपं दानपरित्यागं बोधिचारिकां चरमाणः परित्यजति, यथा मया बोधिसत्त्वचारिकां चरमाणेन दानं परित्यक्तं, अन्यत्राष्टौ सत्पुरुषाः । धरणिदत्तो नाम सत्पुरुषो बभूव, दक्षिणायां दिशायां (३५६) सर्वघोषायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुद्धः संकरमर्दार्चिर्नाम तथागतो वर्षशतायुष्कायां प्रजायां धर्मं देशयति । स सप्तमे दिवसे परिनिर्वास्यति । एवं वीर्यसंचोदनो नाम बभूव बोधिसत्त्वः, यः पुरिमायां दिशायामजयवत्यां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, वर्षशतायुष्कायां प्रजायां बुद्धकार्यं कृतवान् गङ्गानदीवालिकासमा कल्पातिक्रान्ताः । यदा स तथागतोऽनुत्तरपरिनिर्वाणेन परिनिर्वृतः, अद्यापि तस्य महाकारुणिकस्य शरीराणि शून्येषु बुद्धक्षेत्रेषु पञ्चकषायेषु बुद्धकार्यं कुर्वन्ति । एवं च वदन्ति सारकुसुमितो बोधिसत्त्वो दृढवीर्यसमाधानो बलवेगपरित्यागेन बोधिसत्त्वचारिकां चरति । दशगङ्गानदीवालिकासमैर्महाकल्पैरतिक्रान्तैः पश्चात्स तत्रोत्तरायां दिशायां सहेतुसंकर्षणो नाम भविष्यति पञ्चकषाये बुद्धक्षेत्रे तत्रासौ सत्पुरुषोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यति,
सहेतुकृष्णविध्वंसनराजो नाम भविष्यति तथागतोऽर्हन् सम्यक्संबुद्धो यावद्बुद्धो भगवान् । प्रज्ञार्चिःसंकोपितदष्टो (३५७) नाम बोधिसत्त्वः सत्पुरुष एकस्य महाकल्पस्यात्ययेन पश्चिमायां दिशि भैरवती नाम लोकधातुर्भविष्यति पञ्चकषाये वर्षशतायुष्कायां प्रजायामनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, सूर्यगर्भार्चिविमलेन्द्रो नाम भविष्यति तथागतोऽर्हन् सम्यक्संबुद्धो भगवान् । अयं पुनः संरोचनो गणनातिक्रान्तैः कल्पैर्निर्दिष्टितैरुपरिमस्यां दिशि क्षारवर्चनिकुञ्जितायां लोकधातौ पञ्चकषाये तीव्रकलुषसंक्षोभणे कल्पेऽसौ संरोचनः पूर्वप्रणिधानेन पञ्चाशद्वर्षायुष्कायां प्रजायां तत्र क्षारवर्चनिकुञ्जिते बुद्धक्षेत्रेऽनुत्तरां (३५८) सम्यक्संबोधिमभिसंभोत्स्यते, अचिन्त्यरोचनो नाम तथागतो भविष्यति यावद्बुद्धो भगवान् । स पूर्वप्रणिधानेन दशवर्षानि सकलं बुद्धकार्यं कृत्वा परिनिर्वास्यति । तत्रैव दिवसे तस्य तथागतस्य सद्धर्मोऽन्तर्धास्यति, दशवर्षाणि पुनस्तं बुद्धक्षेत्रं शून्यं भविष्यति । ततः पश्चादसौ प्रहसितबाहुर्बोधिसत्त्वस्तत्र च क्षारवर्चनिकुञ्जिते बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, वैरोचनधर्मो नाम भविष्यति तथागतोऽर्हन् सम्यक्संबुद्धो । सोऽपि दशवर्षाणि सकलं बुद्धकार्यं कृत्वानुपधिशेषे निर्वाणधातौ परिनिर्वास्यति । तस्य च परिनिर्वृतस्य पूर्वप्रणिधानेन सप्तवर्षाणि सद्धर्मः स्थास्यति । अत्र द्वौ सत्पुरुषौ लब्धपूर्वव्याकरणौ लब्धास्वादावनुत्तरायां सम्यक्संबोधौ
भगवतः पुरतः पादौ शिरसा वन्दित्वा प्रीतिसौमनस्यप्रामोद्येन सप्ततालमात्रप्रमाणमुपर्यन्तरीक्षेऽभ्युद्गम्य प्राञ्जलीभूतौ स्थित्वा भगवन्तमेकस्वरेण गाथाभिरध्यभाषताम् ।

"विरोचसे बुद्ध यथैव सूर्य अभ्युद्गतो मेरुरिमस्मिं लोके ।
विशुद्धचक्षुर्विरजा विनायका आलोकभूता सुगता नमोऽस्तु ते ॥
बहूनि कल्पान ति वीर्यभाविता पर्येषमाणेन ति अग्रबोधि ।
(३५९)
बहुजिना पूजिता पूर्वे ये त्वया न चैव ते व्याकर्षीमतितनायकाः ॥
प्रहीणरागा परिमुक्तचित्ता कृतं ति कार्यमिह सर्वलोके ।
प्रणष्टमार्गाण देशेसि धर्मं सत्त्वांश्च उत्तारयसे भवार्णवात् ॥
वयं पि प्रव्रज्य स्वयंभूशासने या प्रातिमोक्ष जिन शिक्ष देशिता ।
वयं पि शिक्षित्व समाहितेन्द्रिया तवैव आसन्न सदा भवेमः ॥
(३६०)
अनिश्रिता जीवितकर्मकामा शास्तारमाज्ञाय श्रुणित्व धर्मम् ।
आस्वाद लप्स्याम्यभिसेकभूमि जिनोऽभिव्याकार्षी इदमेव अर्थं" ॥

भगवानाह - "तौ च कुलपुत्र द्वौ अनुत्पादितबोधिचित्तौ; इमौ च संरोचनः प्रहसितबाहुः, ते चत्वारो धरणिदत्तो वीर्यसंचोदनः सारकुसुमितः प्रज्ञार्चिःसंकोपितदष्टः, इमे षट्सत्पुरुषा मया प्रथमं बोधाय समादापितास्तां शृणु ।

भूतपूर्वं कुलपुत्रातीतेऽध्वन्यसंख्येयैरप्रमाणैः कल्पैरतिक्रान्तैः, यदासीत्तेन कालेन तेन समयेनेदं बुद्धक्षेत्रमरजमेरुजुगुप्सितं नामाभुत्, तदाहं महाकल्पे वर्तमाने वर्षशतायुष्कायां प्रजायां गन्धपद्मस्य तथागतस्य शासने सद्धर्मप्रतिरूपके (३६१) वर्तमानेऽहं च कुलपुत्र तेन कालेन दुर्धनो नाम बभूव बलचक्रवर्ती जम्बूद्वीपविजयी सहस्रं पुत्राणां बभूव । तानप्यहमनुत्तरायां सम्यक्संबोधौ समादापितवान् । तेऽप्यपरेण समयेन निष्क्रम्य गन्धपद्मस्य तथागतस्य शासने प्रव्रजितास्ते च भूयस्या मात्रया गन्धपद्मस्य तथागतस्य शासनं ज्वालितवन्तः, स्थापयित्वा षट्पुत्रां ये न प्रव्रजिता न चेच्छन्ति बोधिचित्तमुत्पादयितुम् । अहं च पुनः पुनर्विज्ञापयामि । "को युष्माकमभिप्रायो यद्यूयं बोधिचित्तं नोत्पादयथ, न च प्रव्रजथ?" । ते आहुः । "न वयं प्रव्रजामः । तत्कस्माद्धेतोः?, यः क्षयान्तकाले सद्धर्मप्रतिरूपके वर्तमाने प्रव्रजितोऽशक्तः सकलं शीलस्कन्धमाराधयितुं, स च सप्तधनविरहितो भवति, मग्नः संसारपङ्के, पुनश्च स देवमनुष्यश्रीः कदाचिल्लभति, नित्यं त्रिष्वपायेषु परिभ्रमति, बुद्धशिक्षायां न समादाय वर्तते । इत्यर्थं वयं न परिव्रजामः" । तानहं पुनः पृष्टवान् । "किं पुनर्यूयं बोधौ चित्तं नोत्पादयथ?" । त आहुर्["]यद्यस्माकं सर्वं जम्बूद्वीपं दद्यादेवं (३६२) वयमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेमः" ।

तदहं कुलपुत्र श्रुत्वा परमप्रीतमना एवं चिन्तयामि । "मया सर्वं जम्बुद्वीपका मनुष्यस्त्रिशरणगमने प्रतिष्ठापिता, आर्याष्टाङ्गे उपोषधवासे समादापितास्त्रिषु च यानेषु समादापिता । यन्नूनमहमिमं जम्बुद्वीपं षड्भागं कृत्वा षण्णां पुत्राणां दद्यां; दत्वा चानुत्तरायां सम्यक्संबोधौ समादापयेयम् । अहं च निष्क्रम्य प्रव्रजेयं" । एवं सर्वं जम्बूद्वीपं षड्भागं कृत्वा पुत्राणां दत्तम् । अहं च निष्क्रम्य प्रव्रजितस्ते च षज्जम्बूद्वीपराजानः परस्परविरुद्धाः कलहभण्डनविग्रहरोगपरचक्रसंक्षोभविविदमापन्नाः । यतः सर्वजम्बूद्वीपे दुर्भिक्षं संवृत्तं, शष्पानि न संपद्यन्ते, वर्षं न प्रवर्षति, वृक्षेभ्यश्च पत्रपुष्पफलानि न निष्पद्यन्ते, ओषधितृणानि च न संपद्यन्ते, मृगपक्षिणोऽपि क्षुत्तृष्णाप्रज्वालितगात्रा विहन्यन्ते । तदाहमेवं चिन्तयामि । "मया चैतर्हि आत्मपरित्यागः कर्तव्यः, सत्त्वाः स्वमान्सरुधिरेण संतर्पयितव्यास्[ । "]ततोऽहमाश्रमं परित्यज्य मध्यमेषु जनपदेषु गत्वा दगपालं पर्वतमभिरुह्य प्रणिधानमकरोत् ।

(३६३)
"यथा त्यजामि स्वशरीरजीवितं कारुण्यहेतोर्न च स्वर्गहेतोरर्थाय
लोकस्य सदेवकस्य भवेदिहापर्वतमात्रमुच्छ्रयम् ॥
यथा त्यजामि प्रियरूपसंपदं न शक्रब्रह्माण न मारकारणात् ।
अर्थं करो भेष्यसि देवलोके भवेयं मह्यं बहुमान्सशोणितम् ॥
शृण्वन्तु नागा नरदेवयक्षा ये देवता शैलगिरौ निवासिणः ।
कृपा ममोत्पन्नय सत्त्वहेतोः तर्पष्य सत्त्वां स्वकमांसशोणितैः" ॥

(३६४)
यदा च मया कृतं प्रणिधानं, क्षुभितास्त्रयो लोकाः, कंपिता धरणी, चलितो मेरुः, रुदन्ति देवगणास्ततोऽहमात्मानं दगपालात्पर्वतात्पातयामास । प्रणिधानवशेन मम पर्वतप्रमाणमात्मभावः संवृत्तः, योजनशतं विस्तारेण योजनमुच्चत्वेन; यावन्मनुष्यमृगपक्षिणः आरब्धा मान्सरुधिरं भक्षयितुम् । मम च कुलपुत्र स कायः सत्त्वैः परिभुज्यमानः प्रतिदिनं वर्धते, योजनशतसहस्रं विस्तारेण संवृत्तः योजनसहस्रमुच्चत्वेन । सर्वत्र मानुषशिराः प्रादुर्भूताः सकेशकर्णनयनानासौष्ठदान्ताः सजिह्वा अनेकमुखशतसहस्राः प्रादुर्भूताः । ते च मुखा मनुष्यशब्देन घोषयन्ति । "भोः सत्त्वा भो गृह्णथ येनार्थं, मान्सं परिभुञ्जथ, रुधिरं पिवथ, नयनां गृह्णथ, कर्णनासां केशौष्ठदन्तजिह्वां गृह्णथ । यस्यार्थं येनार्थं यावदर्थं संतर्पितशरीराः परिपुर्णाभिप्राया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयथ, श्रावकयानेन वा प्रत्येकबुद्धयानेन वा । अयं युष्माकमुपभोगपरिभोगो न क्षीयते, न च युष्माकं श्रद्धादेयं भविष्यति, मा वः क्षिप्रमेव जीवितक्षयो भवतु" । (३६५) ये च तत्र विज्ञाः सत्त्वास्ते केचिच्छ्रावकयाने चित्तमुत्पादयन्ति, केचित्प्रत्येकबुद्धयाने, केचिदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्ति, केचित्पुनर्देवमनुष्योपपत्तौ चित्तान्युत्पादयन्ति; मान्सं भक्षयन्ति, रुधिरं पिवन्ति, केचिन्नयनानि गृह्णन्ति, केचित्कर्णौ, केचिन्नासां, केचिदोष्ठौ, केचिद्दान्तां गृह्णन्ति; गृहित्वा प्रक्रमन्ति; प्रणिधानवशेन चान्योन्यं प्रादुर्भवति,
मान्सं न चापचयं भवति, न परिक्षयं गच्छति । यावद्दशवर्षसहस्राणि सर्वजम्बूद्वीपका मनुष्या यक्षमृगपक्षिणोऽपि स्वशरीरेण संतर्पयामास । तैश्च दशभिर्वर्षसहस्रैर्गङ्गानदीवालिकासमानि मया नेत्राणि परित्यक्तानि, चतुःसमुद्रोदकप्रमाणं मया रुधिरं परित्यक्तं, सुमेरुसहस्रप्रमाणं मया मान्सं परित्यक्तं, चक्रवाडपर्वतप्रमाणा मया जिह्वा परित्यक्ता, युगन्धरमेरुप्रमाणा मया कर्णाः परित्यक्ताः, विपुलासुमेरुप्रमाणा मया नासाः परित्यक्ताः, इमं गृध्रकूटपर्वतप्रमाणा मया दान्ताः परित्यक्ताः, कृत्स्नं सहं बुद्धक्षेत्रं प्रज्ञापनप्रमाणं मे तत्र स्वचर्म परित्यक्तम् ।

(३६६)
पश्य कुलपुत्र दशवर्षसहस्राणि एवमप्रमेयासंख्येयापरिमाणाः स्वशरीरपरित्यागाः परित्यक्ता एकजीवितेन; एवमप्रमेयासंख्येयापरिमाणाः सत्त्वाः संतर्पिताः; एकचित्तक्षणमपि मे विप्रतिसारो नोत्पन्नः । एवं च मे तत्र प्रणिधानं कृतम् । यद्यहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, इयं मे आशा परिपूर्यतु, यथा मयैकद्वीपे स्वशरीरेण सर्वसत्त्वाः संतर्पिताः, एवमेव गङ्गानदीवालिकासमा वर्षसहस्रा अस्मिन्नरजमेरुजुगुप्सिते बुद्धक्षेत्रे सर्वद्वीपेष्वेवंरूपो ममात्मभावः प्रादुरभवत्, यथैकद्वीपे दशवर्षसहस्राणि एवं सर्वद्वीपेषु सत्त्वां स्वमान्सरुधिरचर्मनयनकर्णनासौष्ठजिह्वाकेशैः संतर्पयित्वा त्रिषु यानेषु समादापयेयं, मनुष्यां यक्षराक्षसां सर्वतिर्यग्योनिकान् ये केचिन्मान्सरुधिरभोजनाहाराः पृथग्यक्षा यावदन्तशः यामलौकिकाः तांश्चाहं संतर्पयेयम् । यथा चाहमेकस्मिन् बुद्धक्षेत्रे स्वशरीरेण सर्वसत्त्वां संतर्पयेयम् । एवमेव समन्तद्दशसु दिक्षु गङ्गानदीवालिकासमेषु (३६७) बुद्धक्षेत्रेषु स्वमान्सरुधिरचर्मनयनां यावज्जिह्वाभिरेवंरूपेणात्मभावेन गङ्गानदीवालिकासमान्महाकल्पान् तेषु तेषु बुद्धक्षेत्रेषु स्वकायजीवितेन सत्त्वां संतर्पयेयं, एवंरूपमात्मभावं प्रतिलभ्य । विसंवादिता मे बुद्धा भगवन्तो भवेयुर्ये दशसु दिक्ष्वन्येषु बुद्धक्षेत्रेषु प्रवर्तितधर्मचक्राः तिष्ठन्ति यापयन्ति धर्मं
च देशयन्ति, माहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, मा चाहं संसारे संसरमाणो बुद्धशब्दं शृणुयां मा च धर्मशब्दं मा सङ्घशब्दं मा पारमिताशब्दं मा मारबलपराशयशब्दं मा वैशारद्यशब्दं यावत्कुशलशब्दमपि संसारे मा शृणुयां, नित्यं चावीचौ नरके संभवेयं; यदि मे एवंरूपः स्वशरीरपरित्यागः सत्त्वसंतर्पणार्थे न संपद्यत, नैवंरूपं च मे प्रणिधानं परिपूरि स्याद्यथा मे आशा चिन्तिता । येऽपि चेमस्मिं बुद्धक्षेत्रे सर्वत्र द्वीपेष्वेकैकस्मिं द्वीप एवंरूपा आत्मभावाः परित्यक्ताः सत्त्वांश्च मान्सरुधिरेण संतर्पिता, एवं दशसु दिक्षु गङ्गानदीवालिकासमेष्वन्येषु बुद्धक्षेत्रेषु सत्त्वा एवंरूपेणात्मभावेन स्वमान्सरुधिरेण सन्तर्पिताः । पश्य (३६८) कुलपुत्र तथागतस्य दानपारमिता आत्मभावपरित्यागं य मयानुप्रबन्धेन तत्कालं नेत्राः परित्यक्ताः तेषां पुनरयं जम्बूद्वीपे यावत्त्रायस्त्रिंशद्देवपर्यन्तप्रमाणे राशिर्भवेत् । अयं कुलपुत्र तथागतस्य संक्षिप्तेन आत्मपरित्यागदानपारमिता ।

पुनरपरं कुलपुत्र ततः पश्चादप्रमेयानां कल्पानामत्ययेन अयं बुद्धक्षेत्रश्चन्द्रविद्युतो नाम बभूव; तमपि पञ्चकषायं बभूव । अहं चास्मिं जम्बुद्वीपे राजा बभूव प्रदीपप्रद्योतो नाम बलवांश्चक्रवर्ती । एवं च मया सर्वजंबूद्वीपकाः सत्त्वाः कुशलेषु नियोजिता, यथा पूर्वोक्तम् । पश्चादहमुद्यानभूमिं निर्यातः स्वभूमिदर्शनाय; तत्र चाहं पुरुषमद्राक्षं, पश्चाद्बाहुं गाढबन्धनं बध्यमानं दृष्ट्वा मयामात्याः पृष्टाः । "किमनेन पुरुषेण कृतं?" । अमात्या मां प्रत्यूचुर्[ । "]अयं पुरुषो देवस्य सापराधिको; यदेतस्य पुरुषस्य संवत्सरे शष्पं धान्यं चोत्पद्यते ततो देवस्य षट्कांशो देयः, यथान्ये कुटुम्बिनो ददन्त्यायद्वारं ये देवस्य नगरग्रामजनपदकर्वटेषु प्रतिवसन्ति (३६९) कर्मान्तेन जीविकां कल्पयन्ति; तं चैष पुरुषो न ददाति" । तानहमेतदवोचं - "उत्सृजत एतं पुरुषम् । मा कस्यचिद्बलाद्धनधान्यं गृह्णीत" । ते कथयन्ति । "देव न कश्चित्सुप्रसन्नचित्तो ददाति, यद्देवस्य दिवसेदिवसेऽन्नपानभोजनपरिभोगो देवीनां देवस्य चान्तःपुरदेवस्य पुत्राणां दुहितृणामुपभोगपरिभोगः सर्वं तत्परः सकाशादुद्ध्रियते । न च कश्चित्प्रसन्नः प्रयच्छति" । तच्चाहं परमदुर्मनाश्चिन्तयामि । "कस्याहमिमं सर्वं जम्बूद्वीपं राज्यैश्वर्यं दद्यां?" । मम पञ्चपुत्रशतानि बभूवुस्तांश्च बोधौ समादापयित्वा, इमं जम्बूद्वीपं पञ्चभागशतानि कृत्वा पुत्राणां प्रदत्तम् । अहं च तपोवनं
गत्वा रिषिप्रव्रज्येन ब्रह्मचर्यं चचार; वनखण्डे उडुम्बरमूले दक्षिणस्य महासमुद्रस्य नातिदूरे नवमूलफलाहारो विहरामि ध्यायी अनुपूर्वेण पञ्चाभिज्ञः संवृत्तः ।

तेन खलु पुनः समयेन पञ्चशता जम्बूद्वीपकानां वाणिजानां महासमुद्रमवतीर्णास्तैस्ततः प्रभूतो रत्नस्कन्ध आसादितः । तत्र च चन्द्रो नाम सार्थवाहः (३७०) तेन भाग्यवता विज्ञपुरुषेण चिन्तामणिः समासादितः । स ततो रत्नद्वीपाद्विपुलं रत्नधनस्कन्धं तं च चिन्तामणिं गृहीत्वा संप्रस्थितः, ततः क्षुभितः समुद्रो नागा आकुला रुदन्ति देवता यास्तत्र निवासिन्यस्तत्र चाश्वस्तो नाम रिषिर्बोधिसत्त्वः पूर्वप्रणिधानेन तत्रोपपन्नः; तेन महासत्त्वेन स सार्थः स्वस्तिना क्षेमेण च महासमुद्रादुत्तारितस्तस्य च सार्थवाहस्यान्यतरो दुष्टराक्षसः प्रत्यर्थिकोऽवतारप्रेक्षी विवरगवेषी पृष्ठतः पृष्ठतः समनुबद्धः । तेन सप्तदिवसानि परमकलुषा वातवृष्टिरवसृता; यतस्ते वणिजः प्रणष्टमार्गा परमभीतादुच्चस्वरेण क्रन्दन्ति रुदन्ति परिदेवन्ति, देवतामायाचन्ति शिववरुणां यावन्मातापितरमाक्रन्दन्ति प्रियपुत्राम् । यावदश्रोषीदहं दिव्येन श्रोत्रेण यावत्तत्रागत्वा वणिजः समाश्वासिताः, "समागतोऽहं; मा भायथ; अहं युष्माकं मार्गामुपदर्शयिष्यामि, यावज्जम्बूद्वीपं (३७१) स्वस्तिना क्षेमेण च प्राप्स्यथ" । तदाहं पट्टं तैलेन म्रक्षयित्वा स्वहस्तं वेष्ट्य अग्निना प्रज्वाल्य सत्यवचनमकरोत्- "यदि मया षट्त्रिंशद्वर्षा चतुर्भिर्ब्राह्मैर्विहारैर्वनखण्डनिवासिनां सत्त्वानामर्थाय हिताय नवमूलफलाहारेण चतुरशीतीनां नागयक्षसहस्राणां चित्तसन्ततिः परिपाचिता अवैवर्तिकाश्च स्थापिता अनुत्तरायां सम्यक्संबोधौ । तेन सत्येन सत्यवचनेन कुशलमूलपरिपाकेन ज्वलतु मे हस्तं; लभन्तु मार्गं
वणिजः स्वस्तिना क्षेमेण जम्बूद्वीपं प्रापयन्तु" । यावत्सप्तरात्रिदिवसाः स्वहस्तं ज्वालितवान्, ते वणिजो जम्बूद्वीपे स्थापितास्तत्र मया प्रणिधानं कृतं : यदा जम्बूद्वीपं रत्नपरिहीणं भवेत्, तद्यदाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, तदा इयं मे आशा परिपूर्यतु, सार्थवाहो भवेयं जम्बुद्वीपे सप्तवारां चिन्तामणिमानयित्वा विविधं रत्नवर्षमभिप्रवर्षयेयं; यावत्सर्वद्वीपेष्वस्मिन् बुद्धक्षेत्रे एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेषु शून्येषु बुद्धक्षेत्रेषु पञ्चकषायेषु रत्नं प्रवर्षयेयं, यावत्पूर्वोक्तम् । (३७२) एवं च मे आशा परिपूर्णा गङ्गानदीवालिकासमानां महाकल्पानामन्तरेण सार्थवाहोऽभूवन्, गङ्गानदीवालिकासमेषु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु रत्नानि प्रवर्षितानि; एकैकद्वीपे सप्तवारां विविधं रत्नवर्षं प्रवर्षितम् । एवमप्रमेयासंख्येयाः सत्त्वा रत्नैः परिपुर्णाभिप्रायाः कृतास्त्रिषु च यानेषु नियोजिताः । पश्य कुलपुत्र तथागतस्य रत्नपरित्यागलक्षणं विपाककुशलमूलम् ।

पुनरपरं कुलपुत्राप्रमेयाणां कल्पानामत्ययेनान्तरेणायं बुद्धक्षेत्रस्तिमिरं नामाभूत्; संतोषणे कल्पे वर्तमाने पञ्चकषाये पञ्चवर्षसहस्रिकायां प्रजायां प्रणिधानेनाहमस्मिन् जम्बूद्वीपे सूर्यमालगन्धो नाम ब्राह्मणोऽभूवन् वेदपाठकः । तत्कालं च सत्त्वा भूयसा शाश्वतदृष्टयोऽभूवन् सवैरपराक्रमाः सकलहाधिष्ठानाः । तेषां चाहं महाबलवेगपराक्रमेण सत्त्वानां शत्रुभूतं स्कन्धप्रयोगेन धर्मं देशयामि, शून्यग्रामायतनप्रत्यवेक्षणाप्रत्ययसमनुबद्धं सोत्पादव्ययमानापानस्मृतिमनस्कारं दर्शयामि । तेऽनुत्तरायां (३७३) सम्यक्संबोधौ चित्तोत्पादनकुशलमूलपरिणामनाभियोजिताः, स्वयमेव चाहं पञ्चाभिज्ञः संवृत्तः; तेन च समयेनाप्रमेयासंख्येयाः सत्त्वा ममाववादानुशासनेन पञ्चाभिज्ञाः संवृत्ताः । एवमप्रमेयासंख्येयाः सत्त्वाः कलहविग्रहवैरानवसृज्य वनखण्डमाशृत्य वनखण्डे मूलफलाहारा ध्यायन्तश्चतुर्भिर्ब्राह्मैर्विहारै रात्रिदिवसमतिनामितवन्तः । ततः क्षीयमाणे कल्पे यदा तैर्दक्षिणीयैः कृत्स्नं जम्बूद्वीपं स्फुटमभूत् । ते च कलिकलहरणवैरविग्रहविवादाः प्रशान्ताः, अकालवातवर्षाः प्रशमिताः, प्रणीता ओजवतीपृथिवीसंनिश्रिताः शष्पा बभूवुः । केवलं विविधरोगोपहता बभूवुः कल्पदोषेण ।
तदाहमेवं चिन्तयामि, "यद्यहं सत्त्वानां व्याधिं न शक्तः शमयितुं" । तस्य ममैतदभवद्, "यन्नूनमहं शक्रं महाब्राह्मणं लोकपालानन्ये च देवर्षयो वा (३७४) नागर्षयो वा शक्रर्षयो वा मनुष्यर्षयश्च सन्निपातयेयं, भैषज्योपकरणशास्त्रं सत्त्वानां हितार्थमुपदर्शयेयम् । तदाहमृद्ध्या गत्वा शक्रब्रह्माणलोकपालदेवर्षीणां नागर्षीणां शक्रर्षीणां मनुष्यर्षीणामारोचयेयम् । एकविडपतिर्नाम पर्वतः, तत्र संनिपातयित्वा विडचरकमूर्धनि नाम स्थानं भूतसंनिवारणप्रतिशरणं रक्षावातपित्तश्लेष्मसंप्रसादनशास्त्रं निर्देशयेयं" । पेयालं, अप्रमेयासंख्येयानां सत्त्वानां व्याधिप्रशमनं कृतम् । तत्र महाप्रणिधानं कृतं यथा मयैकदिवसेऽप्रमेयासंख्येयानां सत्त्वानां प्रज्ञावभासः कृतः, त्रिषु च यानेषु नियोजिता, अपायपथाः पिथिताः, स्वर्गपथप्रतिष्ठापिता, विविधाश्च व्याधयः प्रशमिताः परिमोचित्ताश्च । एवमप्रमेयानामसंख्येयानां सत्त्वानां प्रज्ञालोको दत्तः, सौख्येऽवस्थापिताः । तदनेन कुलपुत्र (३७५) कुशलमूलविपाकेन इयं मे प्रणिधानाशा परिपूर्णाः । यदा च मयैकदिवसेऽप्रमेयानामसंख्येयानां सत्त्वानामपायपथा निरोधिताः, स्वर्गपथे च प्रतिष्ठापिता, ग्लानप्रत्ययोपकरणार्थं देवर्षियक्षसङ्घाः सन्निपातिताः सत्त्वानामर्थाय विडचरकमूर्धनि देवलोके प्रकाशिते सत्त्वानामारोग्यकौशल्यमेवमेव तिमिरे बुद्धक्षेत्रे सर्वद्वीपेषु
चैवंरूपः पुरुषकारः कृतः, सत्त्वाश्च स्वर्गपथे प्रतिष्ठापिता, देवनागयक्षमनुष्या ऋषयः सन्निपातिता यैस्सत्त्वानामर्थाय विविधा विद्यास्थानाः प्रकाशिताः । यथेन तिमिरे बुद्धक्षेत्रे एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेषु पञ्चकषायेषु बुद्धक्षेत्रेष्वेवंरूपः पुरुषकारः कृतः, सत्त्वाश्च त्रिषु यानेषु नियोजिताः, स्वर्गपथे च प्रतिष्ठापिता, विविधाश्च विद्यास्थाना लोके प्रकाशिताः, सत्त्वा व्याधितः परिमोचिता, अनुत्तरा च मे कुलपुत्रैवंरूपा आशा परिपूर्णाः । अपि तत्र तिमिरे बुद्धक्षेत्रे सर्वद्वीपेष्वेवंरूपः पुरुषकारः कृतो यथा प्रणिधानं कृतम् । अप्यनुत्तरेण (३७६) ज्ञानेन दशसु दिक्षु गङ्गानदीवालिकासमेषु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेष्वैकैकस्मिन् बुद्धक्षेत्रे सर्वद्वीपेष्वेवंरूपः पुरुषकारः कृतो, यथा मे पूर्वप्रणिधानं कृतम् । पश्य कुलपुत्र प्रज्ञाविशेषं बोधिचर्यायां, अयं च तथागतस्य त्रयाणां सुचरितानां कुशलमूलबीजम् ।

तथा प्रत्यवरकालसमयेऽसंख्येयैः कल्पैरधिकतरैरन्तरेणेदं बुद्धक्षेत्रं विचितदोषं नामाभूत्, संश्रयसे महाकल्पे वर्तमाने तदपि पञ्चकषायम् । पुरिमायां दिश्यनुपञ्चाशायां चातुर्द्वीपिकायां वडं नाम जम्बूद्वीपमभूत् । तत्राप्यहं सत्त्वपरिपाचनार्थमुपपन्नः, चतुर्द्वीपेश्वरः चक्रवर्ती राजा अम्बरो नाम बभूव । तत्र च मया सत्त्वा दशसु कुशलेषु कर्मपथेषु समादापिता निवेशिताः प्रतिष्ठापितास्त्रिषु यानेषु समादापिता निवेशिताः प्रतिष्ठापिताः । सर्वंददश्च बभूव सर्वत्रदायी । तत्र च मे याचनका आगत्वा विविधानि रत्नानि याचन्ति, तद्यथा हिरण्यसुवर्णं (३७७) यावच्चेन्द्रनीलमहानीलज्योतीरसदकप्रसादकानि याचनकानां तावत्प्रभूतानि रत्नानि लभ्यन्ते । तदाहममात्यां पृष्टवान् । "कुत एषां रत्नानां प्रादुर्भावः?" । त आहुः । "नागराजानो निधीर्निदर्शयन्ति, निधीनां लोके प्रादुर्भावाद्रत्नानां प्रादुर्भावो भवति । न केवलं तात्तका निर्देशयन्ति यात्तका देवस्य याचनकाः" । तदाहं प्रणिधानमकरोत् । "यद्यहं पञ्चकषाये लोके वर्तमाने तीव्रक्लेशारणे कलियुगे वर्तमाने वर्षशतायुष्कायां प्रजायामनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येयम् । तदियं मे आशा परिपूर्यतु, यदहमस्मिन् बुद्धक्षेत्रे निधिदर्शको नाम नागराजा भवेयम् । सर्वत्र चास्मिं विजितघोषे बुद्धक्षेत्रे सर्वद्वीपेषु च एकैकस्मिन् द्वीपे सप्तजन्मानि परिगृह्णीयाम् । एकैकस्मिंश्च जन्मनि निधिकोटीनयुतशतसहस्राणि दर्शयेयं प्रयच्छेयं च नानारत्नपरिपूर्णानि: तद्यथा हिरण्यसुवर्णं यावदिन्द्रनीलमहानीलज्योतीरसदकप्रसादाश्च । एकैकश्च निधियोजनसहस्राणि
गत्वा विस्तरेण परिपूर्णमपि रत्नं सत्त्वानां निदर्शयेयं प्रयच्छयेयं (३७८) च, यदस्मिं बुद्धक्षेत्रे एवंरूपं शूरभावं कुर्याम् । एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेषु बुद्धक्षेत्रेषु पञ्चकषायेषु लोकधातुषु एकैकस्मिन् क्षेत्रे सर्वत्र द्वीपे सप्तजन्मानि प्रतिगृह्णीयां", यावद्यथा पूर्वोक्तम् ।

यदा च मे कुलपुत्रैवंरूपं प्रणिधानं कृतं तदा गगनतले देवकोटीनयुतशतसहस्रैरन्तरीक्षात्पुष्पवृष्टिः प्रवर्षिता साधुकारश्चानुप्रदत्तः । "साधु साधु सर्वंदद, ऋधिष्यति ते एवंरूपा आशा यथा ते प्रणिधानं कृतं" । अश्रोषीन्महाजनकायः राज्ञोऽम्बरस्य देवैर्गगनतलगतैः सर्वंदद इति नाम कृतं, श्रुत्वा चैषमेतदभवत् । "यन्नूनं वयं दुष्करपरित्यागं दानं याचेमः । यदि परित्यक्ष्यति तदा सर्वंदद इति नाम भविष्यति" । ततस्ते सर्वा आरब्धा राज्ञोऽम्बरस्यान्तःपुरिकां याचितुं, देवीमग्रमहिषीं पुत्रदुहितॄणां याचितुं; तदा राजाम्बरः प्रयच्छति प्रसन्नचित्तस्तेषामेतदभवत् । "न चेदं दुष्करं यो भार्यां परित्यजति । यन्नूनं वयं राज्ञोऽम्बरस्याङ्गप्रत्यङ्गानि याचमः । तद्यदि दास्यति सर्वंददो भविष्यति, (३७९) अथ न दास्यति न सर्वंददो भविष्यति" ।

ततस्तस्याग्रतः तत्र ज्योतीरसो नाम माणवको राज्ञोऽम्बरस्याग्रतः स्थित्वा, "सर्वंदद राज्यं ददस्वे"ति प्रार्थितवान् । श्रुत्वा च राज्ञाम्बरेण परमप्रीतिमनसा स्वयमेव ब्राह्मणं स्नापयित्वा पट्टं बध्वा राजाभिषेकेनाभिषिच्य राजत्वे प्रतिष्ठापयित्वा सर्वं जम्बूद्वीपं निर्यातयित्वा, प्रणिधानमकरोद् । "अहं सर्वजम्बूद्वीपपरित्यागेनानुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । यदीयं मे आशा परिपूर्यति, योऽयं ममैतर्हि सर्वजम्बूद्वीपे राजा प्रतिष्ठापितो वर्तत्वस्य जम्बूद्वीपे आज्ञा, दीर्घायुष्च भवतु, राजा चक्रवर्ती चिरस्थायी । यदा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, यदा युवराजत्वेन व्याकुर्यामनुत्तरायां सम्यक्संबोधौ" । रोचो नाम ब्राह्मणस्तेन मे उभौ पादौ याचितौ, तस्य मया स्वयमेव प्रसन्नचित्तेन तीक्ष्णं शस्त्रं गृहीत्वा स्वपादौ छित्वा प्रदत्तौ, प्रणिधानं चाकरोत् । "लभेयाहमनुत्तरां शीलपादां" । (३८०) तत्र द्राष्टावो नाम ब्राह्मणस्तेन मे उभे नेत्रे याचिते, तस्य च मया उभे नेत्रे उत्पाद्य दत्ते, पेयालं, अनुत्तरं पञ्चचक्षुः प्रतिलभाय प्रणिधानं कृतवान् । न चिरेण सरच्छिघोषो नाम ब्राह्मणस्तेन मे उभौ कर्णौ याचितौ, स्वयमेव तस्य मया कर्णौ छित्वा दत्तौ, अनुत्तरश्रोताप्रतिलाभाय च प्रणिधानं कृतम् । संजीवनश्च नामाजीविकोऽभूत्, तेन मे पुरुषनिमित्तं पुरुषेन्द्रियं याचितं, स्वयमेव च मया छित्वा दत्तः, अनुत्तरवस्तिगुह्यतालक्षणप्रतिलाभाय च प्रणिधानं कृतम् । अपरेण च मे मांसरुधिरं याचितं, स्वयमेव च मया दत्तं, सुवर्णवर्णतालक्षणप्रतिलाभाय च मे प्रणिधानं कृतम् । अपरश्च क्षीरसो नाम परिव्राजकस्तेन च मे उभौ हस्तौ याचितौ, स्वयमेव
च मया दक्षिणेन हस्तेन वामं हस्तं छित्वा दक्षिणं छेदापयित्वा दत्तो, अनुत्तरश्रद्धाहस्तप्रतिलाभाय च प्रणिधानं कृतम् । यदा चाङ्गप्रत्यङ्गानि छिन्नानि तदा च मया रुधिरम्रक्षितेन कायेन प्रणिधानं कृतम् । "यदि (३८१) मेऽनेन परित्यागेनानुत्तरायां सम्यक्संबोधौ आशा परिपूर्येत, अवश्यमहमस्य कायस्य प्रतिग्राहकं प्रतिलभेयं" ।

तेऽप्यकृपका अनार्या अकृतज्ञाः सत्त्वाः कोट्टराजानोऽमात्याश्चाहुः । "अयं दुर्बुद्धिरल्पमेधाः सर्वाङ्गविकर्तितः सर्वराज्यैश्वर्यपरिभ्रष्टः । किं भूयोऽनेन मान्सपेशिना प्रयोजनं?" । ते मां गृहीत्वा बहिर्नगरश्मशानभूमौ छोरित्वा प्रकान्ताः । तत्र दंशमशका आगत्वा रुधिरं पिबन्ति, कुर्कुरशृगालगृध्रा आगत्वा मान्सं भक्षयन्ति । तत्र चाहं प्रसन्नचित्तः प्रणिधानमकरोत् । "यदा च मया सर्वराज्यैश्वर्यं परित्यक्तं, सर्वशरीरं चैवाङ्गप्रत्यङ्गानि परित्यजता, एकक्षणमपि न विप्रतिसारिकृतं चित्तं, न च मे रोष उत्पादितस्तेन मे आशा परिपूर्यतु, अयं मे कायो मान्सपर्वतः संतिष्ठतां, ये केचित्सत्त्वा मान्साहारा रुधिरपानास्ते मांसं भक्षयन्तु रुधिरं पिबेयन्तु । यावच्च (३८२) मे सत्त्वा मांसं भक्षयेयू रुधिरं च पिबेयुस्तावन्मे प्रणिधानवशेन शरीरं वर्धतु, अनुपूर्वेण यावद्योजनशतसहस्रमुच्चत्वेन कायः संवर्धतु पञ्चयोजनसहस्रं विस्तारेण । तत्र मया वर्षसहस्रं स्वमान्सरुधिरेण सत्त्वाः संतर्पिता; यावभ्यश्च मया जिह्वाः परित्यक्ता या मृगपक्षिभिः परिभक्ताः प्रणिधानवशेन चान्योन्याः प्रादुर्भूताः तेषामयं गृध्रकूटपर्वतप्रमाणो राशिः स्यान्नित्यं चानुत्तराप्रभूताजिह्वतालक्षणप्रतिलाभाय मे प्रणिधानं कृतम् ।

तत्राहं च्युत्वा रूढवडे जम्बूद्वीपे पूर्वप्रणिधानेन नागेषूपपन्नो निधिसंदर्शनो नाम नागराजा बभूव । यामेव रात्रिं नागेषूपपन्नस्तामेव रात्रिं निधिकोटीनयुतशतसहस्राणि निधानानां संदर्शितानि स्वयमेव घोषं चारयामि । "भोः सत्त्वा अस्मिन् प्रदेशे निधिः प्रादुर्भूतः, नानारत्नपरिपूर्णस्तद्यथा हिरण्यसुवर्णः यावद्दकप्रसादकम् । यूयं गृह्णध्वम् । गृहीत्वा भोः सत्त्वा दशकुशलान् कर्मपथान् समादाय वर्तध्वं, अनुत्तरायां च सम्यक्संबोधौ चित्तमुत्पादयत, (३८३) श्रावकयानेन वा प्रत्येकबुद्धयानेन वा चित्तमुत्पादयथ । गच्छथ गृह्णथ रत्नानि यावदर्थं" । तत्र च रूढवडे जम्बूद्वीपे सप्तनागजन्मपरिवर्तेन सप्तसप्तवर्षकोटीनयुतशतसहस्रेष्वप्रमेयासंख्येया निधयो निर्दर्शिताश्च प्रदत्ताश्च । एवं च तत्राप्रमेयासंख्येयाः सत्त्वास्त्रिभिर्यानैर्निवेशिता, दशसु कुशलेषु कर्मपथेसु निवेशिता, नानाविधैश्च रत्नैः संतर्पिता, अनुत्तरद्वात्रिंशल्लक्षणप्रतिलाभाय प्रणिधानं कृतम् । एवं द्वितीये द्वीपे सप्तभिर्नागजन्मपरिवर्तैरेवंरूपं पुरुषकारं कृतवान् । एवं त्रितीये यावत्सर्वत्र विजितदोषायां लोकधातौ सर्वेषु द्वीपेषु एवंरूपः पुरुषकारः कृतः । एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेसु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु, एकैकस्मिन् द्वीपे एवंरूपाः सप्तनागजन्मपरिवर्तेषु मया यावत्सप्तसप्तवर्षकोटीनयुतशतसहस्रैरेवमप्रमेयासंख्येया निधयः सत्त्वानां प्रदत्ता, यावद्यथा पूर्वोक्तम् । पश्य कुलपुत्र तथागतस्य बोधिचारिकां, यथा तथागतस्तीव्रेण बलवीर्येण द्वात्रिंशल्लक्षणपर्येषणबोधिचर्यां
चीर्णवान्, यथात्र पूर्वे न (३८४) ये बोधिसत्त्वा एवंरूपां तीव्रबलवीर्येण बोधिचारिकां चीर्णवन्तः, न कश्चिदेतर्हि, न च पुनः कश्चित्पश्चाद्भविष्यति बोधिसत्त्वो य एवं तीव्रेणोद्योगबलवेगेनानुत्तरायां सम्यक्संबोधौ चारिकां चरेत्, स्थापयित्वा तानष्टौ यथा पूर्वोक्तम् ।

तदा चासंख्येयानां कल्पानामत्ययेन प्रत्यवरकालसमयेनेदं बुद्धक्षेत्रं प्रवाडोदुपानिर्नाम बभूव । शून्ये पञ्चकषाये उत्पले महाकल्पे वर्तमानेऽस्यां चातुर्द्वीपिकायामहं शक्रोऽभूवन् सविरोचनो नाम । अपश्यमहमस्मिन् जम्बूद्वीपे सत्त्वानामकुशलपर्येष्टिचर्यां; दृष्ट्वा चाहं परमभीषणकं यक्षरूपमात्मानमभिनिर्मायास्मिं जम्बूद्वीपेऽवतीर्य मनुष्याणां पुरतः प्रत्यस्थाम् । ते च मां दृष्ट्वा भीता मां पृच्छन्ति । "केन ते प्रयोजनं?, वयं ते तद्दास्यामः" । मयोक्तम् । "आहारेण मे प्रयोजनं" त आहुः । "कीदृशस्त आहारः?" । मयोक्तम् । "मनुष्यान्मारयित्वा भक्षयामि । तांश्चाहं न खादयामि ये मनुष्या यावज्जीवं प्राणातिपाताद्विरता, यावन्मिथ्यादृष्ट्याः प्रतिविरता, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्ति प्रत्येकबुद्धयानेन वा श्रावकयानेन (३८५) वा चित्तान्युत्पादयन्ति तानप्यहं न खादयामि" । तत्र च मे सत्त्वा निर्मितकाः परिभूक्तायां दृष्ट्वा ते सत्त्वा भयेन यावज्जीवं प्राणातिपातात्प्रतिविरता अदत्तादानाद्यावन्मिथ्यादृष्टेः प्रतिविरताः । कैश्चिदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं, कैश्चित्प्रत्येकबुद्धयाने कैश्चिच्छ्रावकयाने चित्तमुत्पादितम् । सर्वे चातुर्द्वीपिकाः सत्त्वा दशसु कुशलेषु कर्मपथेषु त्रिषु च यानेषु प्रतिष्ठापितास्तत्र मया प्रणिधानं कृतम् । "यदि मेऽनुत्तरायां सम्यक्संबोधौ आशा परिपूर्येत, तदिदं मे प्रणिधानपरिपूर्णं भवेत्, यथा च मे चातुर्द्वीपिकाः सत्त्वाः कुशले मार्गे नियोजिता । एवमेव सर्वत्रास्मिं बुद्धक्षेत्रे
सर्वचातुर्द्वीपिकेषु सत्त्वाः एवंरूपेण भयेन मां पश्येयुः, दशसु चैव कुशलेषु कर्मपथेषु प्रतिष्ठापयेयं, त्रिषु च यानेषु नियोजयेयम् । एवमेव समन्ताद्दशसु दिक्षु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु सत्त्वां दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेयं, त्रिषु च यानेषु नियोजयेयं" । एवमेव मे कुलपुत्र आशा प्रणिधिश्च परिपूर्णः सर्वत्र प्रवाडोदुपानायां लोकधातौ मनुष्या यक्षरूपेण विनीताः कुशलेषु धर्मेषु । एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेषु (३८६) शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु यक्षरूपेण मया मनुष्याः कुशलमार्गचर्यायां प्रतिष्ठापिताः । यथा च मया बहवः सत्त्वा भयात्कुशलचर्यायां प्रतिष्ठापिताः; तेन कर्मावशेषेण ममैतर्हि बोधिवृक्षमूले वज्रासने निषण्णस्य बोधिमभिसंबोधुकामस्य मारः पापीयां महासैन्येनोपसंक्रान्तो बोधौ व्याक्षेपकरणार्थम् । अयं मे कुलपुत्र संक्षिप्तेन दानपारमिता; बोधिचर्यां चरमाणस्य लब्धा चाहं गंभीरां क्षान्तिं गंभीरां धारणीं गंभीरां समाधिं पञ्चलौकिकाभिज्ञाः प्रतिलब्धाः; एवंरूपं महापुरुषकारं कृतवान् । एवमप्रमेयासंख्येयाः सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः । एवमप्रमेयासंख्येयाः
सत्त्वाः प्रत्येकबुद्धयाने, एवमप्रमेयासंख्येयाः सत्त्वाः श्रावकयाने समादापिता निवेशिताः प्रतिष्ठापिताः । स्थापयित्वा यावन्तो मया बोधिसत्त्वचर्यायां चरमाणेन, बुद्धक्षेत्रपरमाणुरजःसमा मे बुद्धा (३८७) भगवन्तः पर्युपासिताः, एकैकस्य बुद्धस्यान्तिके सागरोदकबिन्दुप्रमाणा मया गुणाः परिगृहीताः, गणनातिक्रान्तानां प्रत्येकबुद्धानां मया पूज कृता, गणनातिक्रान्तानां तथागतश्रावकानां पूजा कृता, एवं मातापितॄणां पञ्चाभिज्ञानामृषीणां पूजा कृता । मया च कृपया पूर्वं बोधिसत्त्वचर्यां चरमाणेन स्वमांसरुधिरेण सत्त्वाः संतर्पिता, इदानीमपि धर्मेण संतर्पिताः ॥

इति श्रीकरुणापुण्डरीके महायानसूत्रे दानपरिवर्तो नाम पञ्चमः ॥ ५ ॥


(३८८)
वि (एपिलोगुए) यथाहं कुलपुत्र बुद्धचक्षुषा पश्यामि दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमान् बुद्धान् भगवतः परिनिर्वृतान्, ये मया प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः, ये मया दानपारमितायां प्रथमं समादापिता यावत्प्रज्ञापारमितायां समादापिता निवेशिताः प्रतिष्ठापिताः । एवमेवैतर्हि पूर्वस्यां दिशि अप्रमेयासंख्येयास्ते बुद्धा भगवन्तः प्रवर्तितधार्मिकधर्मचक्राः तिष्ठन्तो यापयन्तो धर्मं देशयन्तोऽद्रक्षं, ये मया प्रथममनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादिता निवेशिताः प्रतिष्ठापिताः । एवं यावत्षट्सु पारमिताषु वक्तव्यं, एवं दक्षिणपश्चिमोत्तरहेष्टिमोपरिषु दिक्षु वक्तव्यम् ।

पश्याम्यहं कुलपुत्र पुरिमे दिग्भागे इतो बुद्धक्षेत्रादेकनवतिबुद्धक्षेत्रशतसहस्राण्यतिक्रम्य (३८९) संपुष्पिते लोकधातौ विमलतेजगुणराजो नाम तथागतस्तिष्ठति ध्रियते यापयति धर्मं च देशयति । मया स भगवान् पूर्वं प्रथममनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितः समादापितो निवेशितः प्रतिष्ठापितः; मया दानपारमितायां यावत्प्रज्ञापारमितायां प्रथमं समादापिताः, पेयालम् । पुरिमायां दिशि अभिरत्ये बुद्धक्षेत्रे अक्षोभ्यो नाम तथागतो, जम्बूनदे बुद्धक्षेत्रे सूर्यगर्भो नाम तथागतः, रतीश्वरे बुद्धक्षेत्रे रतीश्वरघोषज्योतिर्नाम तथागतः, सूर्यप्रतिष्ठिते बुद्धक्षेत्रे ज्ञानभास्करो नाम तथागतः, जयवैश्रये बुद्धक्षेत्रे नागनिनर्दितो नाम तथागतः, संजीवने बुद्धक्षेत्रे वज्रकीर्तिर्नाम तथागतः, स्वरजे बुद्धक्षेत्रे व्याघ्ररश्मिर्नाम तथागतः, अरतीये बुद्धक्षेत्रे सूर्यगर्भो नाम तथागतः, वैरप्रभे बुद्धक्षेत्रे कीर्तिश्वरराजो नाम तथागतः, मेरुप्रभे बुद्धक्षेत्रे (३९०) अचिन्त्यराजो नाम तथागतः, संवरे बुद्धक्षेत्रे ज्योतिश्रीर्नाम तथागतः, कुसुमप्रभे बुद्धक्षेत्रे प्रभाकेतुर्नाम तथागतः, क्षमोत्तरे बुद्धक्षेत्रे मेरुस्वरसन्दर्शनमेरुर्नाम तथागतः, धरणावत्यां बुद्धक्षेत्रे ज्ञानबिम्बो नाम तथागतः, कुसुमविचित्रे बुद्धक्षेत्रे विमलनेत्रो नाम तथागतः । एतां पूर्वंगमां कृत्वा कुलपुत्र पुरिमायां दिश्यप्रमेयासंख्येयान् बुद्धान् भगवतस्तिष्ठतो यापयतो धर्मं देशयतो बुद्धचक्षुषा पश्यामि । येऽनुत्पादितबोधिचित्ताः पूर्वेऽनुत्तरायां
सम्यक्संबोधौ समादापिता मया च प्रथमं दानपारमितायां यावत्प्रज्ञापारमितायां समादापिताः प्रतिष्ठापिता, मया च प्रथमं तिष्ठतां यापयतां बुद्धानां भगवतां सकाशमुपनीता यत्र तैः सर्वप्रथमं व्याकरणं प्रतिलब्धमनुत्तरायां सम्यक्संबोधौ" ॥

अथ तस्यां वेलायां संपुष्पितायां लोकधातौ तस्य विमलगुणतेजराजस्य तथागतस्यासनं प्रकंपितम् । ये तत्र बोधिसत्त्वास्ते तस्य विमलगुणतेजराजस्य (३९१) तथागतस्यासनं प्रकंपितं दृष्ट्वा तमेव तथागतं पृष्टवन्तः । "को भदन्त भगवन् हेतुः कः प्रत्ययो यदि इदमदृष्टपूर्वं भगवत आसनं प्रकंपितम्[?"]इति । स तथागतस्तानवोचत्- "अस्ति कुलपुत्राः पश्चिमे दिग्भागे इतो बुद्धक्षेत्रादेकोननवतिबुद्धक्षेत्रानतिक्रम्य तत्र सहा नाम लोकधातुस्तत्र शाक्यमुनिर्नाम तथागतस्तिष्ठति ध्रियते यापयति । स एतर्हि चतुर्णां पर्षदां पूर्वयोगमारभ्य धर्मं देशयति । तेन तथागतेन पूर्वं बोधिसत्त्वभूतेनानुत्तरायां सम्यक्संबोधौ समादपिताः, येन मे प्रथममनुत्तरायां सम्यक्संबोधौ चित्तमुत्पन्नं; तेन तथागतेनाहं प्रथमं दानपारमितायां समादापितो निवेशितः प्रतिष्ठापितो यावत्प्रज्ञापारमितायां; तेन तथागतेन पूर्वबोधिसत्त्वचर्यां चरताहं प्रथमं तिष्ठतां यापयतां बुद्धानां भगवतां सकाशमुपनीतो, यत्र मे प्रथमं व्याकरणं प्रतिलब्धमनुत्तरायां सम्यक्संबोधौ । स च मे शाक्यमुनिस्तथागतः कल्याणमित्रः सहे लोकधातौ तिष्ठति यापयति, स एवं चतुर्णां पर्षदामिमं पूर्वयोगमारभ्य धर्मं देशयति । तेन तथागताधिष्ठानेन ममासनं कंपते । को युष्माकं कुलपुत्रोत्सहते (३९२) मद्वचनात्सहं बुद्धक्षेत्रं गन्तुं शाक्यमुनेस्तथागतस्यारोग्यकौशल्यं परिपृच्छनाय?"
। ततस्ते बोधिसत्त्वा विमलगुणतेजराजानं तथागतमाहुर्[ । "]य इह भदन्त भगवन् संपुष्पिते बुद्धक्षेत्रे ऋद्धिमन्तः सर्वबोधिसत्त्वगुणपारमिताप्राप्तास्तेऽद्य पूर्वाह्नसमये महान्तमवभासं दृष्ट्वान्यस्माद्बुद्धक्षेत्राद्विकुर्व्याभ्यागतस्तेनायं मुहूर्तं पृथिवीचालः पुष्पवृष्टिश्च" । ते च बोधिसत्त्वा आहुः । "वयमपि भदन्त भगवन् गमिष्यामस्तं सहं बुद्धक्षेत्रं तं शाक्यमुनिं वन्दनाय पर्युपसनाय तं च सर्वज्ञताकारधारणीमुखप्रवेशं धर्मपर्यायं श्रवणाय" ।

ते बहुबोधिसत्त्वशतसहस्राः स्वेनर्द्ध्यनुभावेन ततो बुद्धक्षेत्रात्संप्रस्थिताः । ते नावगच्छन्ति क्व गन्तव्यम् । तेऽप्याहुः । "तामपि वयं भदन्त भगवन् दिशं न जानीमो यत्र सहा लोकधातुः शाक्यमुनेस्तथागतस्य बुद्धक्षेत्रं" । ततः स विमलगुणतेजराजस्तथागतो बाहुं प्रसार्य पञ्चभ्योऽङ्गुलिभ्यो विविधान्यर्चिंषि प्रमुमोच । ततस्तार्चिष एकोननवतिबुद्धक्षेत्रसहस्राण्यवभासितवान्, (३९३) यावच्चेमं सहं बुद्धक्षेत्रमवभासितवान् । यतस्ते बोधिसत्त्वाः पश्यन्ति सर्वावदिमं सहं बुद्धक्षेत्रं स्फुटं बोधिसत्त्वैर्गगनतले च देवनागयक्षासुरैः स्फुटम् । दृष्ट्वा च पुनस्ते बोधिसत्त्वास्तं विमलगुणतेजराजानं तथागतमेवमाहुः । "पश्यामो वयं भदन्त भगवन् सहं बुद्धक्षेत्रं सर्वावन्तं स्फुटं, नास्ति तत्रावकाशोऽन्तशो दण्डनिक्षेपणमात्रमपि यन्न स्फुटं बोधिसत्त्वैः । पश्यामः शाक्यमुनिस्तथागतोऽस्मान्निरीक्षते धर्मं च देशयति" । स च विमलगुणतेजराजस्तथागतस्तेषां बोधिसत्त्वानामेवमाह - "समन्तचक्षुः कुलपुत्राः शाक्यमुनिस्तथागतो । ये केचित्कुलपुत्राः सहे लोकधातौ सत्त्वा भूमिस्थिता वा अन्तरीक्षस्थिता वा ततश्चैकैकः सत्त्व एवं संजानाति, "मं शाक्यमुनिस्तथागतः सर्वचेतसा निरीक्षते ममैकमारभ्य धर्मं देशयति" । सर्ववर्णंश्च स कुलपुत्र शाक्यमुनिस्तथागतो धर्मं देशयति एकवर्णस्थानम् । (३९४) ये च तत्र कुलपुत्र सत्त्वा ब्राह्मभक्तास्ते शाक्यमुनिं तथागतं ब्रह्माणं समनुपश्यन्ति, महाब्रह्मपतिव्याहारेण धर्मं शृण्वन्ति; यावद्ये मारभक्तिका,
ये सूर्यभक्तिका, ये चन्द्रभक्तिका, ये वैश्रवणभक्तिका, ये विरूढकभक्तिका, ये विरूपाक्षभक्तिका, ये धृतराष्ट्रभक्तिका, ये महेश्वरभक्तिकास्ते सत्त्वा महेश्वररूपवर्णसंस्थानवचनव्याहारेण शाक्यमुनिं तथागतं पश्यन्ति धर्मं च शृण्वन्ति । यावच्चतुरशीतिस्तत्र सत्त्वानां वर्णसंस्थानभक्तिरूपव्याहारसहस्राणि ते तथा चैव शाक्यमुनिं तथागतं पश्यन्ति धर्मं च शृण्वन्ति" ।

तस्यां च पर्षदि रहगर्जितो नाम बोधिसत्त्वो द्वितीयश्च ज्योतिरश्मिर्नाम बोधिसत्त्वः । अथ विमलगुणतेजराजस्तथागतस्तान् बोधिसत्त्वानामन्त्रयति स्म । "गच्छथ यूयं कुलपुत्राः सहे लोकधातौ शाक्यमुनिं तथागतं मद्वचनादारोग्यकौशल्यं सुखस्पर्शविहारतां परिपृच्छथ" । ते बोधिसत्त्वा आहुः । "सर्वावन्तं भदन्त भगवन् सहं बुद्धक्षेत्रं सक्षितिगगनं (३९५) बोधिसत्त्वैः स्फुटं समनुपश्यामः । न चात्रैकसत्त्वस्याप्यवकाशोऽस्ति क्षितौ गगने वा यत्र वयं प्रतितिष्ठेमः" । स च विमलगुणतेजराजस्तथागत आह - "मा कुलपुत्रा एवं वदथ, "नास्ति सहे बुद्धक्षेत्रेऽवकाशः" । विस्तीर्णावकाशः स शाक्यमुनिस्तथागतोऽचिन्त्यैर्बुद्धगुणैः, पूर्वप्रणिधानेन विस्तीर्णा तथागतस्य कृपाशासनावतारप्रवेशा, त्रिशरणगमनं, त्रियानधर्मदेशनामारभ्य धर्मं देशयति, त्रिविधं च शिक्षासंवरं देशयति, त्रीणि च विमोक्षद्वाराण्युपदर्शयति, त्रिभ्योऽपायेभ्यः सत्त्वानुद्धरति, तिसृषु च शिवेषु पथेषु प्रतिष्ठापयति ।

एकस्मिं समये कुलपुत्र शाक्यमुनिस्तथागतोऽचिराभिसंबुद्धो वैनेयसत्त्वावेक्षया मध्ये शैलपर्वते इन्द्राक्षस्य यक्षस्य भवने सालगुहायां विहरति, सप्ताहमेकपर्यङ्केनातिनामयति, विमुक्तिप्रीतिसुखं प्रतिसंवेदयति । सर्वावती च सा सालगुहा तथागतकायेन स्फुटा, नास्ति तत्रावकाशोऽन्तशश्चतुरङ्गुलप्रमाणं (३९६) यत्तथागतकायेन न स्फुटम् । तस्य च सप्ताहस्यात्ययेन दशभिर्दिशाभिर्द्वादशनयुता बोधिसत्त्वानां तत्र सहे लोकधातौ यस्तस्य पर्वतस्याभिमुखं स्थित्वा शाक्यमुनेस्तथागतस्य वन्दनाय पर्युपासनाय धर्मश्रवणाय । स च कुलपुत्र शाक्यमुनिस्तथागतस्तत्र पर्शदि रिध्यभिसंस्कारमभिसंस्कृतवान्; सा च सालगुहा एवं विस्तीर्णा चैवं विपुला च प्रादुर्भूता, यदा ते द्वादशनयुता बोधिसत्त्वानां तत्र सालगुहायां प्रविष्टा विस्तीर्णावकाशं पश्यन्ति स्म । एकैकश्च बोधिसत्त्वस्तत्र तथागतस्य विविधबोधिसत्त्वविकुर्वणेन पूजां कृत्वा, एकैको बोधिसत्त्वस्तत्र सप्तरत्नमयासनं निर्मितवान् यत्रोपविष्टा धर्मं शृण्वन्ति स्म । एवं विस्तीर्णावकाशः कुलपुत्र स शाक्यमुनिस्तथागतः । ते च बोधिसत्त्वास्तस्य शाक्यमुनेस्तथागतस्य सकाशाद्धर्मं श्रुत्वा शाक्यमुनेस्तथागतस्य पादौ शिरसा वन्दित्वा त्रिष्कृत्वः प्रदक्षिणीकृत्य स्वकस्वकेषु बुद्धक्षेत्रेषु संप्रस्थिताः । अचिरप्रकान्तानां च तेषां बोधिसत्त्वानां सालगुहा यथा पौर्वाणां संस्थिता ।

(३९७)
तत्र चतुर्द्वीपिकायां कौशिको नाम शक्र आयुःपरीक्षीणस्तिर्यग्योन्युपपत्तिभयभीतः, स चतुरशीतिभिस्त्रयस्त्रिंशद्देवसहस्रैः सार्धं येन सालगुहा येन च भगवांस्तेनोपसंक्रामति । उपसंक्रम्य सामन्तके इन्द्राक्षस्य सालगुहाभवने स्थितः, तस्य भगवतोऽनुभावेन एतदभवत् । "यन्नूनं वयं पञ्चशिखं गन्धर्वपुत्रमध्येषेमः । स च पञ्चशिखो मधुरेण स्वरेण भगवन्तमभिमुखं स्तविष्यति, तदा भगवान् ध्यानसमाधिभ्यो व्युत्थास्यति" । ततः शक्रः पञ्चशिखं गन्धर्वपुत्रमधीष्ठवान् । अथ पञ्चशिखो वीणां मनोज्ञेन गीतवादितेन भगवतोऽनुभावेन पञ्चभिः स्तवशतैर्भगवतो वर्णमभाषत । यदा च कुलपुत्र पञ्चशिख आरब्धो भगवतोऽभिस्तवनाय ततः स शाक्यमुनिर्भगवान् सुघोषवैरोचनकेतुं नाम समाधिं समापन्नस्तेन समाधिना ये सहे लोकधातौ महर्द्धिकयक्षराक्षसा वासुरा वा गरुडा वा किन्नरा वा महोरगा वा गन्धर्वा वा सर्वे कामावचरा देवा सर्वे रूपावचरा देवपुत्रास्तत्र सन्निपाता बभूवुर्ये च स्वरभक्तिकास्ते स्वरं श्रुत्वा प्रसीदन्ति, ये वर्णयशोभक्तिकास्ते भगवतो वर्णं (३९८) श्रुत्वा तस्य भगवतः सकाशे तीव्रप्रेमप्रसादगुरुगौरवचित्रीकारजाताः प्रसीदन्ति, ये वेणुवाद्यभक्तिकास्ते वेणुवाद्यं श्रुत्वा प्रसीदन्ति । ततः शाक्यमुनिर्भगवांस्ततः समाधेर्व्युत्थाय सालगुहाया द्वारं दर्शापयामास । शक्रश्चोपसंक्रान्तो भगवन्तं पृष्टवान् । "भगवं कुत्रोपविशामः?" । स शाक्यमुनिस्तथागत उवाच - "निषीदध्वं यक्षा यावत्तस्थुः समागताः" । ततः सालगुहा एवं विस्तीर्णा संस्थिता यथा द्वादशगङ्गानदीवालिकासमा यक्षास्तत्र गुहायां प्रविष्टा, निषण्णायाश्च तस्याः
पर्षदः स शाक्यमुनिस्तथागतस्तथारूपां धर्मदेशनां कृतवां; यथा ये तस्मिन् पर्षदि श्रावकयानिका निषण्णास्ते श्रावकयानकथां शृण्वन्ति, नवनवतिकोट्यस्तत्र श्रोतापत्तिफलं प्राप्ताः; ये च तत्र पर्षदि अनुत्तरसम्यक्संबुद्धयानिकास्ते शुद्धां महायानकथां शृण्वन्ति; तत्र च पञ्चशिखगन्धर्वपूर्वंगमा अष्टादशनयुता अवैवर्तिकाः संस्थिता अनुत्तरायां सम्यक्संबोधौ; यैश्च तत्रानुत्पादितं त्रिषु यानेषु चित्तं, तत्र कश्चिदनुत्तरायां सम्यक्संबोधौ (३९९) चित्तमुत्पादितं, केश्चित्तत्र प्रत्येकबुद्धयाने चित्तमुत्पादितं, कश्चिच्छ्रावकयाने चित्तमुत्पादितं; स च तत्र कौशिकः शक्रो भयात्परिमुक्तो, वर्षसहस्रं चायुर्विवृद्धं, अवैवर्तिकश्चानुत्तरायां सम्यक्संबोधौ बभूव । तदेवं विस्तीर्णावकाशः कुलपुत्र स शाक्यमुनिस्तथागतः ।

एवं विस्तीर्णं चास्य तथागतस्य स्वरमण्डलम् । न शक्यं केनचित्तस्य तथागतस्य स्वरमण्डलस्य पर्यन्तमुद्गृहीतुं वा गणायितुं वा । विस्तीर्णं तस्य तथागतस्योपायकौशल्यं सत्त्वपरिपाकश्च: न शक्यं तस्य तथागतस्योपायकौशल्यं पर्यन्तमुद्गृहीतुम् । विस्तीर्णकायश्च कुलपुत्र तथागतो; न शाक्यं केनचित्तस्य मूर्धानमवलोकयितुं, कायस्य वा पर्यन्तमधिगन्तुम् । यावन्तश्च सत्त्वा एतर्हि तत्र सहे बुद्धक्षेत्रे सन्निपतिता यदि ते सत्त्वाः शाक्यमुनेस्तथागतस्य कुक्षौ प्रविशेयुस्ते सर्वे तत्र विचरेयुस्ते च सत्त्वास्तस्य तथागतस्यैकरोममुखे प्रविशेयुः निष्क्रमेयुश्च; ते एकरोममुखात्तस्य तथागतस्य न शक्ताः पर्यन्तमुद्गृहीतुमूनत्वं वा पूर्णत्वं वान्तशो (४००) दिव्येनापि चक्षुषा । तदेवं विस्तीर्णकायः स शाक्यमुनिस्तथागतः ।

पुनरपरं कुलपुत्र विस्तीर्णबुद्धक्षेत्रः स शाक्यमुनिस्तथागतो । यावन्तश्च दशसु दिक्षु गङ्गानदीवालिकसमा बुद्धक्षेत्रा एवं परिपूर्णा भवेयुः सत्त्वैस्तद्यथापि नामैतर्हि सहं बुद्धक्षेत्रं सर्वे ते सत्त्वा एतर्हि सहे बुद्धक्षेत्रे विशेयुः सर्वे ते तत्र विचरेयुः । तत्कस्माद्धेतोस्[? । ] तथैव तस्य तथागतस्य पूर्वं प्रथमचित्तोत्पादेनानुत्तरायां सम्यक्संबोधौ प्रणिधानं बभूव । तिष्ठतु कुलपुत्रैकं गङ्गानदीवालिकासमा लोकधातवः, सचेत्कुलपुत्र यावद्दशसु दिक्षु सहस्रं गङ्गानदीवालिकासमा बुद्धक्षेत्रा एवं विस्तीर्णाः तद्यथैतर्हि सहबुद्धक्षेत्रं परिपूर्णं सत्त्वैः ते सर्वे एतर्हि सहे लोकधातौ प्रविशेयुस्ते सर्वे तत्र विचरेयुरेवंरूपं तस्य तथागतस्य पूर्वं प्रथमचित्तोत्पादितानुत्तरज्ञानप्रतिलाभाय प्रणिधानं बभूव । एवं विस्तीर्णबुद्धक्षेत्रः स कुलपुत्र शाक्यमुनिस्तथागतः । एभिश्चतुर्धर्मैर्विशिष्टतरः स शाक्यमुनिस्तथागतो यथावद्गृह्णीत (४०१) यूयं कुलपुत्रा इमां चन्द्ररोचविमलां पुष्पां, गच्छथ पश्चिमां दिशं यथा स्वयं दृष्ट्वा सहं बुद्धक्षेत्रं, मम वचनेन तं शाक्यमुनिं तथागतमारोग्यकौशल्यं पृच्छत" ।

स च विमलगुणतेजराजस्तथागतश्चन्द्ररोचविमलां पुष्पां गृहीत्वा रहराजस्य बोधिसत्त्वस्य ज्योतिरश्मेश्च बोधिसत्त्वस्य दत्वाह - "गच्छत कुलपुत्रौ ममर्द्धिबलाधानेन सहां लोकधातुं" । तत्र च विंशतिः प्राणिसहस्राण्याहुर्[ । "]वयमपि भदन्त भगवन् गच्छेमः तथागतानुभावेन सहं लोकधातुं तस्य शाक्यमुनेस्तथागतस्य दर्शनाये वन्दनाय पर्युपासनाय" । विमलगुणतेजराजस्तथागत आह - "गच्छत कुलपुत्रा यथाभिप्रायाः" । तौ च द्वौ बोधिसत्त्वौ रहराजश्च ज्योतिरश्मिश्च सार्धं विंशतिभिर्बोधिसत्त्वसहस्रैस्तस्य विमलगुणतेजराजस्य तथागतस्य रिद्धिबलेन ततः संपुष्पिताया लोकधातोः संप्रस्थिता एकचित्तक्षणेनेदं सहं बुद्धक्षेत्रमनुप्राप्ता गृध्रकूटे पर्वते प्रत्यस्थातः । ते येन भगवां शाक्यमुनिस्तथागतस्तेनाञ्जलिं प्रणम्याहुः । "अस्ति भगवन् (४०२) पुरस्तिमे दिग्भागे एकोननवतिबुद्धक्षेत्रसहस्राण्यतिक्रम्य तत्र संपुष्पितो नाम लोकधातुः, तत्र विमलगुणतेजराजो नाम तथागतः । स च पुनस्तथागतो बोधिसत्त्वगणपरिवारस्तथागतस्य गुणवर्णकीर्तयमान एवमाह - "शाक्यमुनिर्नाम तथागतः सहे बुद्धक्षेत्रे तिष्ठति यापयति । तेन च तथागतेन पूर्वं बोधिसत्त्वभूतेन बोधिसत्त्वचारिकां चरमाणेनाहं सर्वप्रथममनुत्तरायां सम्यक्संबोधौ समादापितो निवेशितः प्रतिष्ठापितस्तस्य च वचनेन मयानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं तेन तथागतेनाहं प्रथमं दानपारमितायां निवेशितो, यावत्पूर्वोक्तम् । एवमेभिश्चतुर्भिर्धर्मैर्विशिष्टतरः स शाक्यमुनिस्तथागतो । यथा तेनेमे चन्द्ररोचविमला पुष्पाः प्रेषिता आरोग्यकौशल्यं च पृच्छति" ।

एवमभिरत्या बुद्धक्षेत्रादक्षोभ्यस्य तथागतस्यासनं कंपति । ये च तत्र बोधिसत्त्वाः सन्निपत्तितस्ते चापि दृष्ट्वाक्षोभ्यस्य तथागतस्यासनं कंपितं परिपृच्छन्ति स्म । पेयालं यथा पूर्वोक्तम् । (४०३) सर्वेषामेवं वक्तव्यम् । तेन च समयेनाप्रमेयासंख्येयाः पुरिमायां दिशि तथागतदूता बोधिसत्त्वा इमं सहं बुद्धक्षेत्रं सहचन्द्ररोचविमलैः पुष्पैः संप्राप्ताः शाक्यमुनेस्तथागतस्य परिपृच्छनाय पूजनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च ।

समनन्तरपरिवासितो भगवतः पुरिमायां दिशि बुद्धक्षेत्रनाम परिकीर्तनं बुद्धानां भगवतां, दक्षिणां दिशं पुनर्भगवानारब्धः परिकीर्तयितुम् । "पश्याम्यहं कुलपुत्र दक्षिणस्यां दिशीतो बुद्धक्षेत्रादेकगङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रम्य तत्र सर्वशोकापगतो नाम लोकधातुस्तत्राशोकश्रीर्नाम तथागतस्तिष्ठति ध्रियति यापयति । मया स भगवान् सर्वप्रथमं पूर्वं बोधिसत्त्वचारिकां चरमाणेनानुत्तरायां सम्यक्संबोधौ समादापितो, यावद्यथा पूर्वोक्तम् । जंबूप्रभे बुद्धक्षेत्रे धर्मेश्वरविनर्दिर्नाम तथागतः, मेरुप्रतिष्ठिते बुद्धक्षेत्रे गतीश्वरसालेन्द्रो (४०४) नाम तथागतः, गुणेन्द्रनिर्यूहे बुद्धक्षेत्रे सिंहविजृम्भितराजा नाम तथागतः, मणिमूलव्यूहे बुद्धक्षेत्रे नारायणविजितगर्भो नाम तथागतः, मुक्ताप्रभसंचये बुद्धक्षेत्रे रत्नगुणविजृम्भितसंचयो नाम तथागतः, देवसोमे बुद्धक्षेत्रे ज्योतिगर्भो नाम तथागतः, चन्दनमूले बुद्धक्षेत्रे नक्षत्रविधानकीर्तिर्नाम तथागतः, विशिष्टगन्धे बुद्धक्षेत्रे पुण्यबलसालराजा नाम तथागतः, सुविदिते बुद्धक्षेत्रे मनोज्ञघोषस्वरविनर्दितो नाम तथागतः, दुरण्ये बुद्धक्षेत्रे सालजयबिन्दुराजा नाम तथागतः, नर्दश्चोचे बुद्धक्षेत्रे तेजेश्वरप्रभासो नाम तथागतः, अभिगर्जिते बुद्धक्षेत्रे सुमनोज्ञस्वरनिर्घोषे नाम तथागतः, रत्नविसभे बुद्धक्षेत्रे रत्नतलनागेन्द्रो नाम तथागतः, पलामरत्नवृक्षरत्ने (४०५) बुद्धक्षेत्रे धर्ममेघनिर्घोषेश्वरसौम्यो नाम तथागतः, पेयालं यथा पूर्वोक्तम् । एवमप्रमेयासंख्येयानां
बुद्धानां भगवतां दक्षिणस्यां दिश्यासनानि कंपन्ति । सर्वे ते बुद्धा भगन्तः शाक्यमुनेस्तथागतस्य वर्णं यशः कीर्तिमुदीरयन्ति । यावत्तेन समयेनाप्रमेयासंख्येया दक्षिणस्यां दिशि तथागतदूता बोधिसत्त्वाः सहचन्द्ररोचविमलैः पुष्पैरिमं सहं बुद्धक्षेत्रमनुप्राप्ताः शाक्यमुनेस्तथागतस्य पृच्छनाय यावद्धर्मश्रवणाय" ।

पुनश्च भगवानाह - "पश्याम्यहं कुलपुत्र पश्चिमायां दिशीतो बुद्धक्षेत्रात्सप्तानवतिबुद्धक्षेत्रनयुतशतसहस्राण्यतिक्रम्य तत्रोपशान्तमतिर्नाम बुद्धक्षेत्रस्तत्र रत्नगिरिर्नाम तथागतः तिष्ठति ध्रियति यापयति धर्मं च देशयति । मया स भगवान् पूर्वं बोधिसत्त्वभूतेन बोधिसत्त्वचर्यां चरमाणेन सर्वप्रथममनुत्तरायां सम्यक्संबोधौ समादापितो, (४०६) यावद्यथा पूर्वोक्तम् । बुद्धक्षेत्राणां पेयालं, वररश्मिकोशो नाम तथागतः, स्वरज्ञकोशो नाम तथागतः, हरितालकीर्तिः, समन्तगर्भः, ब्रह्मकुसुमः, करधरविक्रमः, धर्मवेशप्रदीपः, असमन्तरमेरुस्वरविघुष्टराजः, ब्रह्मेन्द्रघोषः, यथा पूर्वोक्तम् । एवमप्रमेयासंख्येयानां पश्चिमायां बुद्धानां भगवतां येषां शाक्यमुनिना तथागतेन नामानि परिकीर्तितानि तेषामासनानि कंपन्ति । यावत्तेन समयेनाप्रमेयासंख्येयाः पश्चिमायां दिशि बुद्धदूता बोधिसत्त्वाः सहचन्द्ररोचविमलैः पुष्पैरिमं सहं बुद्धक्षेत्रमनुप्राप्ता यावन्निषण्णा धर्मश्रवणाय । पेयालं, एवमुत्तरा दिग्वक्तव्या, एवमुपरिमायामेवमधः, एवं पूर्वदक्षिणा, एवं दक्षिणपश्चिमा, एवं पश्चिमोत्तरा, एवमुत्तरपूर्वा" ।

पुनः शाक्यमुनिर्भगवानाह - "पश्याम्यहं कुलपुत्रोत्तरपूर्वायां दिशीतो बुद्धक्षेत्रादष्टानवतिबुद्धक्षेत्रकोटीनयुतशतसहस्राण्यतिक्रम्य (४०७) तत्र विजयं नाम बुद्धक्षेत्रं, विगतसंतापोभववैश्रवणसालराजो नाम तथागतः । मया स तथागतः पूर्वं बोधिसत्त्वभूतेन बोधिसत्त्वचर्यां चरमाणेन सर्वप्रथममनुत्तरायां सम्यक्संबोधौ समादापितो, यावत्षट्सु पारमितासु; यावन्मया सर्वप्रथमं तिष्ठतां यापयतां बुद्धानां भगवतां सकाशमुपनीतो, यत्र तेन व्याकरणं प्रतिलब्धमनुत्तरायां सम्यक्संबोधौ; यदा नाम परिकीर्तितं तदासनं कंपितां; यावच्चतुरशीतिसत्त्वानां वर्णभक्तिसंस्थानरूपव्याहारसहस्राणि तथा शाक्यमुनिं तथागतं पश्यन्ति धर्मं च शृण्वन्ति ।

तत्र च पर्षदि द्वौ बोधिसत्त्वौ, एकः विगोपशिखरो नाम द्वितीयः संरोचनबुद्धो नाम; स च विगतसंतापोद्भववैश्रवणसालराजो नाम तथागतस्तौ द्वौ बोधिसत्त्ववामन्त्रयित्वैवमाह - "गच्छत यूयं कुलपुत्रौ सहे बुद्धक्षेत्रे, मद्वचनाच्छाक्यमुनेस्तथागतस्यारोग्यकशल्यं (४०८) सुखस्पर्शविहारतां परिपृच्छत" । तावाहतुः । "सर्वावन्तं भदन्त भगवन्नावां सहं बुद्धक्षेत्रं सक्षितिगगनं समनुपश्यामः । न च तत्रैकसत्त्वस्याप्यवकाशोऽस्ति क्षितौ वा गगने वा यत्रावां प्रतिष्ठेवहि" । स च तथागत आह - "मा कुलपुत्रैवं वदत, "नास्ति सहे बुद्धक्षेत्रेऽवकाशः" । तत्कस्माद्धेतोर्[? । ]विस्तीर्णावकाशः कुलपुत्रौ स शाक्यमुनिस्तथागतोऽचिन्त्यैर्बुद्धगुणैः, पूर्वप्रणिधानेन विस्तीर्णा तस्य तथागतस्य कृपाशासनावतारप्रवेशा, त्रिशरणगमनं, त्रिभिर्यानैर्धर्मं देशयति, त्रिविधं शिक्षासंवरं देशयति, त्रीणि विमोक्षद्वाराणि प्रकाशयति, त्रिभ्यश्चापायेभ्यः सत्त्वानुद्धरति, त्रिषु च शिवपथेषु सत्त्वान् प्रतिष्ठापयति ।

एकस्मिन् समये कुलपुत्र स शाक्यमुनिस्तथागतोऽचिराभिसंबुद्धो वैनेयसत्त्वावेक्षया विषमशैलेन्द्रपर्वतमध्ये इन्द्राक्षस्य यक्षस्य भवने सालगुहायां विहरति स्म, सप्ताहमेकपर्यङ्केनातिनामयति स्म, विमुक्तिप्रीतिसुखसंवेदी । सर्वावती च सा सालगुहा (४०९) स्फुटा तथागतकायेन, नास्ति तत्रावकाशोऽन्तशश्चतुरङ्गुलप्रमाणं यन्न तथागतकायेन स्फुटम् । तस्य च सप्ताहस्यात्ययेन दशभ्यो दिग्भ्यः द्वादशनयुता बोधिसत्त्वानां महासत्त्वानां सहे लोकधातौ संप्राप्तास्तस्य शाक्यमुनेस्तथागतस्य वन्दनाय । यावदिमैश्चतुर्भिर्धर्मैर्विशिष्टतरः स शाक्यमुनिस्तथागतो यथान्ये तथागता ।

गृह्णीध्वं यूयं कुलपुत्रा इमां चन्द्ररोचविमलां पुष्पां; गृहीत्वा गच्छत दक्षिणपश्चिमां दिशं, यथा स्वयं दृष्ट्वा तं सहं बुद्धक्षेत्रं; मम वचनात्तस्य शाक्यमुनेस्तथागतस्यारोग्यकौशल्यं पृच्छत" । स च विगतसंतापोद्भववैश्रवणसालराजस्तथागतः चन्द्ररोचविमलान् पुष्पां गृहीत्वा विगोपशिखरस्य बोधिसत्त्वस्य ददाति संरोचनबुद्धस्य च बोधिसत्त्वस्य महासत्त्वस्य, एवं चाह - "गच्छत कुलपुत्रौ ममर्द्धिबलाधानेन सहं बुद्धक्षेत्रं" । तत्र विंशतिप्राणसहस्राण्याहुः । (४१०) "वयमपि भगवन् गमिष्यामस्तथागतस्यानुभावेन सहं बुद्धक्षेत्रं शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय" । तथागत आह - "गच्छत कुलपुत्रा यथाभिप्रायाः" । ततस्तौ द्वौ बोधिसत्त्वौ सार्धं विंशतिभिर्बोधिसत्त्वसहस्रैस्तस्य तथागतस्य रिद्ध्यनुभावेन ततो विरजाद्बुद्धक्षेत्रात्संप्रस्थिताः, एकक्षणेनेह बुद्धक्षेत्रेऽनुप्राप्ता गृध्रकूटे पर्वते प्रत्यस्थुः । एकान्तस्थिताश्च येन शाक्यमुनिस्तथागतस्तेनाञ्जलिं प्रणम्याहुः । "अस्ति भदन्त भगवन्नुत्तरपूर्वायां दिशि, यथा पूर्वोक्तम् । तेन तथागतेनेमे चन्द्ररोचविमलाः पुष्पाः प्रेषिता, भगवतश्चारोग्यकौशल्यं पृच्छति" । एवं मारभवनविध्वंसनस्य तथागतस्यासनं कंपितम् । ये च तत्र बोधिसत्त्वाः सन्निपतितास्ते चापि दृष्ट्वा तं मारभवनविध्वंसनं तथागतस्यासनं कंपितं तथागतं परिपृच्छन्ति, यावद्यथा पूर्वोक्तम् । एवं सालेन्द्रराजा विक्रमरश्मिः पद्मोत्तरः (४११) चन्दनो मेरुराजः
सागरः सारज्योतिर्ज्ञानविक्रमस्तथागतः । यावत्तेन च समयेनाप्रमेयासंख्येया उत्तरपुरिमायां दिशि तथागतास्ते बोधिसत्त्वाः सहचन्द्ररोचविमलपुष्पैरिह सहे बुद्धक्षेत्रे संप्राप्ताः शाक्यमुनेस्तथागतस्य पृच्छनाय पूजनाय वन्दनाय धर्मश्रवणाय ॥

तावदेव शाक्यमुनिस्तथागत ऋद्ध्यनुभावेन सर्वेषां सत्त्वानां ये सहे बुद्धक्षेत्रे सन्निपतितास्तेषामेकैकस्य सत्त्वस्य योजनप्रमाणमात्रमात्मभावः संस्थितः; सर्वावन्तं च सहं बुद्धक्षेत्रमेवंरूपैः सत्त्वैः स्फुटं, न कश्चिद्बुद्धक्षेत्रे क्षितौ वा गगने वावकाशो यः सत्त्वैरस्फुटोऽन्तशोऽञ्जनशलाकाप्रदेशमात्रमपि यः सत्त्वेभ्यो न स्फुटोऽभूत् । सर्वे च ते सत्त्वाः शून्यमाकाशं पश्यन्ति, न च परस्परं पश्यन्ति; न चैषां पर्वतसुमेरुचक्रवाडमहाचक्रवाडपर्वताश्चक्षुष आभासमागच्छन्ति, न लोकान्तरिका (४१२) दिव्या विमाना ऊर्द्धं यावदधो काञ्चनचक्रं ततोर्द्धं पृथिवी चक्षुषो नाभासमागच्छन्ति, स्थापयित्वा तथागतं शाक्यमुनिम् । ते तथागतं पश्यन्ति । तत्र च भगवानाकाशस्फुरणं धर्मावच्छेदप्रश्रब्धिसमाधिं समापन्नो । यतस्ते चन्द्ररोचविमलाः पुष्पाः सर्वरोममुखेसु भगवतः प्रविशन्ति । सर्वे च ते सत्त्वाः पश्यन्ति सहे लोकधातावन्तर्गता विगताः सर्वसत्त्वानां चित्तचैतसिकेषु मनसिकाररूपसंदर्शनताः, ते चैव भगवतो रोममुखे निरीक्षन्ते स्म । तत्र चोद्यानमद्राक्षुः, नानारत्नवृक्षं नानापत्रं नानापुष्पं नानाफलाकीर्णां नानावस्त्रं नानाच्छत्रध्वजपताकाकेयूरमुक्तिकाहारालङ्कृतांस्तां वृक्षां पश्यन्ति, तद्यथापि नाम सुखावत्यां लोकधातावुद्यानाम् । सर्वेषां च तेषां सत्त्वानामेतदभवत् । "गच्छामो वयमेतदुद्यानं दर्शनाय" । सर्वे च ते सत्त्वा ये (४१३) सहे लोकधातावन्तर्गताः, स्थापयित्वा नैरयिकां
यामलौकिकां तैर्यग्योनिकामारूप्यावचरां, सर्वे परिशिष्टाः सत्त्वास्तस्य तथागतस्य रोममुखेभ्यस्तथागतशरीरे प्रविष्टाः । अथ भगवांस्तामृद्धिं प्रतिप्रस्रम्भयित्वा व्युत्थितः । ततस्ते सत्त्वा अन्योन्यं दृष्ट्वाहुः । "कुत्र शाक्यमुनिस्तथागतः? । मैत्रेयो बोधिसत्त्व आह - "संप्रजानं ततः सत्त्वाः समन्वाहरत सर्वे वयं तथागतस्य कुक्षौ सन्निपतिताः" । ततस्ते सत्त्वाः सान्तरबाहिरं तथागतकायं दृष्ट्वा स्वयं प्रत्यक्षीभूता "यथा वयं तथागतस्य कुक्षावन्तर्गताः सन्निपतिताश्च", तेषामेतदभवत् । "कुतो वयं तथागतस्य कुक्षौ प्रविष्टाः, केनास्मिन् प्रवेशिताः?" । ततो मैत्रेयः सर्वावती पर्षदं स्वरेण विज्ञपयन्नुवाच - "शृण्वन्तु भवन्तस्तथागतस्यैवमृद्धिविकुर्वणप्रातिहार्यं यदस्माकं हितकरः शास्ता धर्मं देशयति तद्युष्माभिः सर्वचेतसा समन्वाहर्तव्याः" । ततः सर्वावती पर्षत्प्राञ्जलीभूताः ।

(४१४४)
भगवांश्च सर्वसुखचर्याधर्मं देशयति स्म । तत्र कतरा सर्वसुखचर्या? । यदुत संसारपङ्कादुत्तारणमार्याष्टाङ्गमार्गेऽवतारणं सर्वज्ञता स्वयंभूज्ञानपरिपूर्णता । तत्र दशप्रकारा ध्याननिवेशचित्तोत्पादपरिणामनता, यदुत सर्वसत्त्वेभ्यो महाकरुणाचित्ताधिष्ठानं, हितवस्तुसंजननता, अतीर्णसत्त्वोत्तारणतया महानावसमुदाननता, अमुक्तमोचनतासन्नाहमसन्तविपर्यासपरिमोचनतया, महासिंहनादानुत्रासनसन्नाह नैरात्म्यधर्मप्रत्यवेक्षणतया, सर्वलोकधातुगमनसन्नाह मायास्वप्नप्रतिभासोपमसर्वधर्मावबुध्यनतया, सर्वलोकधात्ववभासनालङ्करणसन्नाहः शीलस्कन्धाधिष्ठानपरिशुद्ध्या, दशतथागतबलपरिनिष्पादनसन्नाहः सर्वपारमितापरिपूर्या, चतुर्वैशारद्यप्रतिलाभसन्नाहं यथावादितथाकारितया, यावदष्टादशावेणिकबुद्धधर्मनिरवशेषप्रतिलाभसन्नाहं, बोधिसत्त्वानां यथाश्रुतधर्मप्रतिपत्तिरप्रपञ्चनता चेयं दशप्रकारा निवेशधर्ममुखचर्या । अलक्षणामुखपरिज्ञागतिचर्याया सर्वधर्मनैरात्म्यमनसिकारचित्तानुत्पादानिरोधासमयम् (४१५) अवैवर्तिकभूमिर्यत्र संवर्तविवर्तानुच्छेदमशाश्वतमविक्षिप्तम् । इमस्य खलु पुनर्धर्मपर्यायस्य भाष्यमाणस्याशीतिकोटीगङ्गानदीवालिकासमाः सत्त्वास्तथागतस्य कुक्षिगता अवैवर्तिका अभूवन्ननुत्तरायां सम्यक्संबोधौ; गणनातिक्रान्ताश्च तत्र बोधिसत्त्वा महासत्त्वा ये नानाविधधारणीक्षान्तिप्रतिलब्धा अभून् । सर्वे च पुनस्तथागतशरीराद्रोममुखेभ्यो निष्क्रान्ता आश्चर्यप्राप्ता, भगवतः पादौ शिरसा वन्दित्वा, दशदिशः प्रकान्ताः, स्वकस्वकेषु बुद्धक्षेत्रेषु गतास्तथागतस्य स्वरमण्डलकायप्रमाणज्ञपनार्थम् ।

तत्र ये बोधिसत्त्वाः पुरिमां दिशं गच्छन्ति अप्रमेयासंख्येयाः, पुरिमायां दिशि यद्बुद्धक्षेत्रानतिक्रामन्ति न च शाक्यमुनेस्तथागतस्य स्वरमण्डलं प्रतिहन्यते, एवं च तत्र स्वरं शृण्वन्ति विचित्रपदार्थव्यञ्जनाः, तद्यथा शाक्यमुनेस्तथागतस्य पुरतो निषण्णैर्धर्मः श्रुतः, एवमेवास्य धर्मं शृण्वन्ति । (४१६) अपि च तत्रापि शाक्यमुनेस्तथागतस्य कायस्योनत्वं वा पूर्णत्वं वा न प्रज्ञायते, शाक्यमुनेस्तथागतस्य कायः स्फुटो दृश्यते बोधिसत्त्वैः श्रावकैश्चाप्रमेयासंख्येया बोधिसत्त्वाः श्रावकाश्चैकरोममुखे शाक्यमुनेस्तथागतस्य प्रविशन्तो निष्क्रामन्तश्च संदृश्यन्ते । एवं द्वितीये रोममुखे, यावत्सर्वरोममुखेभ्यः प्रविशन्तो निष्क्रामन्तश्च संदृश्यन्ते, यावच्चैवं दशसु दिक्षु वक्तव्यम् ।

सर्वावती च सा पर्षा यावद्भगवतः कायान्तर्गताः सा भगवतः कायरोममुखेभ्यो निष्क्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिष्प्रदक्षिणी कृत्वा भगवतोऽभिमुखं प्रत्यवस्थाद्भगवन्तमेव विचित्रार्थपदव्यञ्जनरुतव्याहारैः स्तवमानाः । अथ तावच्चैव कामावचरा रूपावचराश्च देवपुत्रा विचित्रां च गन्धमाल्यविलेपनवृष्टिं प्रवर्षिता, दिव्यानि च तूर्याणि प्रवादितवन्तो, दिव्यानि च छत्रध्वजपताकावस्त्रदुष्याभरणानि भगवतः पूजायोद्युक्ताः ॥

तत्र वैशारद्यसमुद्धारणिर्नाम बोधिसत्त्वो येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- (४१७) "किं नामायं भदन्त भगवन्महाव्याकरणं सूत्रान्तः?" । भगवानाह - "सर्वज्ञताकारधारणीमुखप्रवेशो नाम, बहुबुद्धकं नाम, बहुसन्निपातं नाम, बोधिसत्त्वव्याकरणं नाम, वैशारद्यमार्गोत्तारणं नाम, समाधानकल्पावतरणो नाम, बुद्धक्षेत्रसन्दर्शनो नाम, सागरोपमो नाम, गणनातिक्रान्तो नाम, करुणापूण्डरीको नाम" ।

पुनरप्याह - "कियन्तं भदन्त भगवन् कुलपुत्रो वा कुलदुहिता वा पुण्यस्कन्धं प्रसविष्यति, य इमं धर्मपर्यायं श्रोष्यति उद्गृहीष्यति धारयिष्यति वाचयिष्यति परेषां च विस्तरेण संप्रकाशयिष्यति लिखिष्यति लिखापयिष्यति अन्तश एकगाथामपि?" । आह - "पूर्वं च मयोक्तमिह पुण्यस्कन्धं; संक्षेपेणेदानीं कथयिस्यामि । यः कश्चिदिमं धर्मपर्यायं श्रोष्यति उद्गृहीष्यति धारयिष्यति वाचयिष्यति परेभ्यश्च विस्तरेण संप्रकाशयिष्यति अन्तश एकगाथामपि, यश्च पुनः पश्चिमायां पञ्चाशत्यामन्तशो लिखित्वा धारयिष्यति, स बहुतरं पुण्यस्कन्धं प्रसविष्यति, न त्वेवं षोडशमहाकल्पान् षट्पारमिताचरमाणस्य बोधिसत्त्वस्य पुण्यस्कन्धः । (४१८) तत्कस्माद्धेतोः? । सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रवणब्राह्मणिकायाः प्रजायाः सयक्षनागगन्धर्वकुम्भाण्डप्रेतपिशाचकिन्नरासुराणां दुष्टचित्तानां प्रसादनः, सर्वरोगाणां प्रशमनः, सर्वकलिकलहविग्रहविवादव्युपशमनः, सर्ववाताकालमरणरोगप्रशमनः, सर्वदुर्भिक्षप्रशमनकरः, क्षेमकरणीयः, सुभिक्षकरः, आरोग्यसामग्रीकरः, भीतानामभयसुखकरः, क्लेशव्युपशमनकरः, कुशलमूलविवृद्धिकरः, अपायदुःखप्रमोचनकरस्त्रिभिर्यानैर्मार्गसन्दर्शनकरः, समाधिधारणीक्षान्तिप्रतिलाभकरः, सर्वसत्त्वानामुपजीवकरो, वज्रासननिषीदनकरः, चतुर्मारधर्षणकरो, बोधिपक्षाभिसंबुध्यनकरो, धर्मचक्रप्रवर्तनकरः, आर्यसप्तधनविरहितानां
सत्त्वानां बोधिपक्षसमृद्धिकरः, बहुपरिवारः; अभयपुरनगरप्रवेशकरणार्थं मया धर्मपर्यायो भाषितः" ।

"कस्य हस्ते इमं धर्मपर्यायं परिन्दामि? । को ममेमं धर्मपर्यायं पश्चिमायां पञ्चाशत्यां रक्षिष्यति, अधर्मभूमिष्ठानां सत्त्वानां भिन्नशीलानां च भिक्षूणां (४१९) कर्णपुटे प्रकाशयिष्यति, अधर्मरागरक्तानां विषमलोभाभिभूतानां मिथ्याधर्मपरिचितानामपरिपक्वचित्तां संवेजयिष्यति?" । सर्वावती च सा पर्षा भगवतश्चेतसा चित्तमाज्ञाय; तत्र पर्षदि मेरुपुण्यो नाम यक्षरिषिर्निषण्णः । अथ मैत्रेयो बोधिसत्त्वो महासत्त्वस्तं मेरुपुण्यं यक्षरिषिं गृहीत्वा भगवतः सकाशमुपनीतवान् । भगवानाह - "उद्गृह्ण त्वं महर्ष इमं धर्मपर्यायं, यावत्पश्चिमायां पञ्चाशत्यां देशान्तरगतानामवैवर्तिकानां बोधिसत्त्वानां कर्णपुटेषु प्रकाशस्व । अद्य चावैवर्तिकचित्तं संजनयस्वा "है"वं� भदन्त भगवंश्चतुरशीतिमहाकल्पा अतिक्रामन्ता यन्मया भदन्त भगवन् पूर्वं प्रणिधानेन यक्षरिषित्वालब्ध्यानुत्तरायां सम्यक्संबोधौ बोधिचारिकां चरमाणो गणनातिक्रान्ताः सत्त्वा मया चतुर्षु ब्राह्मविहारेषु प्रतिष्ठापिताः, अवैवर्तिकभूमौ च प्रतिष्ठापिताः । (४२०) अहं च सत्त्वानां स्वयमेव परिपाचयामि यावत्पश्चिमायां पञ्चाशत्यां य इमं धर्मपर्यायमुद्गृहीष्यति, यावद्य इतश्चतुष्पदिकामपि गाथां धारयिष्यति" ॥

इदमवोचद्भगवानात्तमनाः सर्वावती पर्षत्सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति ॥

इति श्रीकरुणापुण्डरीकं नाम महायानसूत्रं समाप्तम् ॥

शुभमस्तु ॥

ये धर्मा हेतुप्रभवा हेतु तेषां तथागतः ।
हेवदत्तेषां च यो निरोध एवं वादि महाश्रमणम् ॥

शुभमस्तु सर्वदात् ॥ शुभम् ॥ शुभम् ॥ शुभम् ॥