कर्मविभङ्गसूत्रम्
[[लेखकः :|]]




ओं नमो भगवते मञ्जुश्रिये कुमारभूताय

शङ्खक्षीरेन्दुकुन्दस्फटिकहिमदलक्षौमशुभ्राभ्रगौरैश्चञ्चत्स्पष्टाट्टहासैर्गगनतलगतैश्छत्त्रपङ्क्त्य्[आतपत्रैः] स्तव्यैर्भूर्भाति यस्य त्रिदशनरगरुत्सिद्धगन्धर्वाजुष्टैः प्रह्वास्तं सर्व एव प्रणमत सततं बुद्धमादित्यबन्धुम्.

दिव्यैश्चन्दनचूर्णमिश्रनिकरैर्मन्दानिलोद्भासितैर्
वीणावेणुमृदङ्गदुन्दुभिरवैर्गन्धर्वगीतिस्वरैः
यो जातः क्षितिपालकः प्रचलयन् कृत्स्नं त्रिलोकालयं
सर्वज्ञाय निरुद्धसर्वगतये बुद्धाय तस्मै नमः.

भगवता सूत्रं भाषितम्.

एवं मया श्रुतमेकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म. जेतवने अनाथपिण्डदस्यारामे. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्त्यां पिण्डाय प्राविक्षत्. सावदानं श्रावस्त्यां पिण्डोपचरणम्. येन शुकस्य माणवस्य तौदेयपुत्रस्य (म्क्व्२२) निवेशनं तेनोपसंक्रान्तः. तेन खलु पुनः समयेन शुकस्य माणवस्य तौदेयपुत्रस्य निवेशने शङ्खकुञ्जरो गोनिकास्तृते पर्यङ्के निषण्णः. अश्मन्तकोपधानायां कांस्यपात्र्यां शालिमांसोदनं भुङ्क्ते. भगवानद्राक्षीत्शङ्खकुञ्जरं गोणिकास्तृते पर्यङ्के निषण्णमश्मन्तकोपाधानायां कांस्यपात्र्यां परिभुञ्जानम्. अद्राक्षीत्शङ्खकुञ्जरो भगवन्तं द्वारमूले गत्वा च पुनर्बुक्कति. अथ भगवान् शङ्खकुञ्जरमेतदवोचत्. एतदपि ते शङ्ख [चित्तं] न दमयति यदसि भोकाराद्बुक्कारमागतः. एवमुक्ते शङ्खकुञ्जरोऽतिशयितरोषश्चण्डीभूतोऽनात्तमना गोणिकास्तृतात्पर्यङ्कादवतीर्याधस्तात्पर्यङ्कस्य दारुस्यन्दनिकायां निषण्णः. तेन खलु पुनः समयेन शुको माणवस्(म्क्व्२३) तौदेयपुत्रो बहिर्गतोऽभूत्केनचिदेव करणीयेन. अथागच्छच्छुको माणवस्तौदेयपुत्रः. अद्राक्षीत्शुको माणवस्तौदेयपुत्रश्(म्क्व्२४) शङ्खकुञ्जरमधस्ताद्दारुस्यन्दनिकायां प्रपतितम्. दृष्ट्वा ः जनमामन्त्रयते. केन वो युष्माकं शण्खकुञ्जरः (म्क्व्२५) किंचिदुक्तः. कोऽस्माकं मध्ये मदीयपुत्रं शङ्खकुञ्जरं किंचिद्वक्ष्यति. अपि त्वागतोऽभूत्श्रमणो गौतमः. द्वारमूले (म्क्व्२६)ऽवस्थितं तमित्थं बुक्कति. तमेनं श्रमणो गौतम एवमाह. एतदपि ते शङ्ख न दमयति यदसि भोकाराद्बुक्कारमागतः. एवमुक्ते शण्खकुञ्जरोऽतिशयितकुपितश्चण्डीभूतोऽनात्तमना गोणिकास्तृतात्पर्यङ्कादवतीर्याधस्तात्पर्यङ्कस्य दारुस्यन्दनिकायां निषण्णः. अथ शुकः (क्रो)धाभिषक्तः कुपितस्चण्डीभूतोऽनात्तमना गोणिकान्निष्क्रम्य येन जेतवनमनाथपिण्डदस्यारामस्तेनोपसंक्रान्तः. तेन खलु पुनः समयेन भगवाननेकशतायां भिक्षुपर्षदि पुरस्तान्निषण्णो धर्मं देशयति. अद्राक्षीद्भगवान् शुकं माणवकं तौदेयपुत्रं दूरादेवागच्छन्तम्. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म. पश्यत यूयं भिक्षवः शुकं माणवं तौदेयपुत्रमित एवागच्छन्तम्. एवं भदन्त. सचेच्छुको माणवस्तौदेयपुत्रोऽस्मिन् समये कालं कुर्यात्. यथा भल्लो निक्षिप्तः एवं कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातेऽविचौ नरकेषूपपद्येत. तथा ह्यनेन ममान्तिके चित्तं प्रदूषितम्. चित्तप्रदूषनाद्धेतोरेवमिह [के] सत्वाः कायस्य भेदात्परं मरणादपायदुर्गत्यवीचौ नरकेषूपपद्यन्ते. अथान्यतमो भिक्षुस्तस्यां वेलायां गाथां भाषते स्म.

प्रदुष्टचित्तं दृष्ट्वैव एकत्यमिह पुद्गलम्
एतमर्थं व्याकार्षीच्छास्ता भिक्षुगणान्तिके.
इदानीं बताविक्षेपं कालं कुर्वीत माणवः
नरकेषूपपद्येत चित्तं ह्येतेन दूषितम्.
यथा ह्युचितं निक्षिप्तमेवमेव तथागते
चित्तप्रदूषणाद्धेतोः सत्वा गच्छन्ति दुर्गतिम्.

अधिक्षेप्य माणवस्तौदेयपुत्रो येन भगवान् तेनोपसंक्रान्तः. (म्क्व्२७) उपसंक्रम्य भगवता सार्धं सुखसंभावनायां संरजनीयां विविधां कथां व्यतिसार्यैकान्ते निषण्णः शुको माणवस्तौदेयपुत्रो भगवन्तमिदमेवावोचत्. आगतो भगवान् गौतमोऽस्माकं निवेशनम्. आगमने भगवता गौतमेन शङ्खकुञ्जरः किंचिदुक्तः. इहाहं माणव पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्त्यां पिण्डाय प्राविक्षत्. सावदानं श्रावस्त्यां पिण्डोपचरणम्. येन भवतोऽत्र निवेशनं तेनोपसंक्रान्तः. उपसंक्रम्य द्वारमूलेऽवस्थितः. तेन खलु पुनः समयेन शङ्खकुञ्जरो गोणिकास्तृतमञ्चकेऽधिरूढोऽश्मन्तकोपधानायां कांस्यपात्र्यां शालिमांसोदनं परिभुङ्क्ते. अद्राक्षीत्शङ्खकुञ्जरो मां द्वारमूलेऽवस्थितं दृष्ट्वा च पुनर्बुक्कति. तमेनमेवं वदा[मि. एतदपि ते] शङ्ख न दमयति यदसि भोकाराद्बुक्कारमागतः. एवमुक्ते शङ्खकुञ्जरोऽभिषक्तः कुपितश्चण्डीभूतोऽनात्तमना गोणिकास्तृतात्पर्यङ्कादवतीर्याधस्तात्पर्यङ्कस्य दारुस्यन्दनिकायां निषण्णः. किं पुनर्भगवान् गौतमः शङ्खकुञ्जरस्यास्माकं पूर्वस्यां जातं जानीते. अलं माणव तिष्ठ मा एतमर्थं परिप्राक्षीत्. मा ते भविष्यति आघातश्चाक्षान्तिश्च चेतसो दौर्मनस्यम्. द्विरपि त्रिरपि शुको माणवस्तौदेयपुत्रो भगवन्तमेतदवोचत्. किं पुनर्भगवान् गौतमोऽस्माकं शङ्खकुञ्जरं पूर्विकायां जातं संजानीते. अलं माणव तिष्ठ मा मामेतमर्थं परिप्राक्षीत्. मा इहैव च ते भविष्यत्याघातश्चाक्षान्तिश्च चेतसो दौर्मनस्यम्. अनाथ त्वं माणव यावद्द्विरपि त्रिरप्येत मर्थं ना ...... माणव शृणु साधु च सुष्ठु च मनसि कुरु. भाषिष्ये. यस्ते माणव पिता तौदेयः स एष कायस्य भेदाद्धीनायां श्वयोनावुपपन्नः. तद्भो गौतम एवं भविष्यति. अस्माकं पिता य इष्टयज्ञ आहिताग्निरुच्छ्रितयूपः सन्नीयते कायस्य भेदात्शुभ्रे ब्रह्मलोके उपपन्नो भविष्यत्य्. अनेनैव ते माणव मानाभिमानेन पिता तौदेयो महादानपतिः श्वयोनावुपपन्नः. पितुर्माणव यदि मे भाषितं न (म्क्व्२८) श्रद्दधासि तेन हि त्वं माणव येन ते निवेशनं तेनोपसंक्रम. उपसंक्रम्य शङ्खकुञ्जरमेवं वद. सचेद्भवाञ्छङ्खकुञ्जरोऽस्माकं पूर्विकायां जातः पिताभूत्तौदेयोऽधिरोह गोणिकास्तृतं पर्यङ्कम्. अधिरोक्ष्यति. अधिरूढं चैवं वद. सचेद्भवाञ्छङ्खकुञ्जरोऽस्माकं पूर्विकायां जातः पिताभूत्तौदेयः परिभुञ्जीत भवान्. अश्मन्तकोपधानायां कांस्यपात्र्यां शालिमांसोदनं परिभोक्ष्यते. भुक्तवन्तमेनं वद. सचेद्भवाञ्छङ्खकुञ्जरोऽस्माकं पूर्विकायां जातः पिताभूत्तौदेयः यत्तेऽस्माकं मरणसमये मम सन्तं स्वापतेयं नोपदर्शितं तदुपदर्शय. उपदर्शयिष्यति.

अथ शुको माणवस्तौदेयपुत्रो भगवता भाषितमुद्गृह्य पर्यवाप्य येन स्वकं निवेशनं तेनोपसंक्रान्तः. उपसंक्रम्य शङ्खकुञ्जरमेतदवोचत्. सचेद्भवाञ्छङ्खकुञ्जरोऽस्माकं पूर्विकायां जातः पिताभूत्तौदेयः अधिरोह. गोणिकास्तृतपर्यङ्केऽधिरूढं चैनमेवमाह. सचेद्भवाञ्छङ्खकुञ्जरोऽस्माकं पूर्विकायां जातः पिताभूत्तौदेयः परिभुञ्जीत भवानश्मन्तकोपधानायां कांस्यपात्र्यां शालिमांसोदनम्. परिभुक्तवान्. भुक्तवन्तं चैनमेवमाह. सचेद्भवाञ्छङ्खकुञ्जरोऽस्माकं पूर्विकायां जातः पिताभूत्तौदेयः यत्तेऽस्माकं मरणसमये मम सन्तं स्वापतेयं नोपदर्शितं तदुपदर्शय. अथ शङ्खकुञ्जरो गोणिकास्तृतपर्यङ्कादवतीर्य येनान्यतमपुराणवासगृहं तेनोपसंक्रान्तः. उपसंक्रम्य चतुरः पर्यङ्कपादुकान् पादनखरिकाभिरवलिखितमध्यं च मुखतुण्डकेनोपजिघ्रति. यतः स शुको माणवस्तौदेयपुत्रः कृताकृतस्य हिरण्यसुवर्णस्य चतुरो लोहसंघाटानधिगतवान्मध्याच्च सौवर्णकमण्डलुम्.
अथ शुको माणवस्तौदेयपुत्रस्तत्सुवर्णं गोपयित्वा हृष्टतुष्टोदग्रप्रीतिसौमनस्यजातः श्रावस्त्या निष्क्रम्य येन भगवांस्तेनोपसंक्रान्तः. तेन खलु पुनः समयेन भगवाननेकशतायां भिक्षुपर्षदि पुरस्तान्निषण्णो धर्मं देशयति. अद्राक्षीद्(म्क्व्२९) भगवाञ्छुकं माणवं तौदेयपुत्रं दूरत एवागच्छन्तं दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म. पश्यथ यूयं भिक्षवः शुकं माणवं तौदेयपुत्रं दूरत एवागच्छन्तम्. एवं भदन्त. सचेच्छुको माणवस्तौदेयपुत्रोऽस्मिन् समये कालं कुर्याद्यथा भल्लो निक्षिप्तः एवं कायस्य भेदात्सुगतौ स्वर्गलोकेषूपपद्येत. तथा ह्यनेन ममान्तिके चित्तं प्रसादितम्. चित्तप्रसादनहेतोर्भिक्षवः एवमिहैके सत्वा कायस्य भेदात्सुगतौ स्वर्गलोकेषूपपद्यन्ते. अथान्यतमो भिक्षुस्तस्यां वेलायां गाथां भाषते.

प्रसन्नचित्तं दृष्ट्वैव एकत्यमिह पुद्गलम्
एतमर्थं व्याकार्षीच्छास्ता भिक्षुगणान्तिके.
इदानीं गतदोषोऽयं कालं कुर्वीत मानवः
उपपद्येत देवेषु चित्तमस्य प्रसादितम्.
यथा दुरितं निक्षिप्तमेवमेव तथागते
चित्तप्रसादनाद्धेतोः सत्वा गच्छन्ति सद्गतिम्.

अथ शुको माणवस्तौदेयपुत्रो येन भगवान् तेनोपसंक्रान्तः. उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकान्ते निषण्णः. एवं निषण्णं शुकं माणवं तौदेयपुत्रं भगवानिदमवोचत्. कच्चिन्माणव तथैव यथा मया शङ्खकुञ्जरो व्याकृतः. भो गौतम तत्तथैव यथा भगवता गौतमेन शङ्खकुन्जरो व्याकृतः. अन्यदपि तावद्वयं भगवन्तं गौतमं पृच्छेम कंचिदेव प्रदेशं सचेदवकाशं कुर्यात्प्रश्नव्याकरणाय. पृच्छ माणव यद्येवं काङ्क्षसि. को भो गौतम हेतुः कः प्रत्ययः येनेहैके सत्वा अल्पायुषोऽपि दीर्घायुषोऽपि बह्वाबाधा अपि अल्पाबाधा अपि दुर्वर्णा अपि सुवर्णा अपि अल्पेशाख्या अपि महेशाख्या अपि नीचकुलीना अपि उच्चकुलीना अपि अनादेयवाक्या अपि आदेयवाक्या अपि अल्पभोगा अपि महाभोगा अपि दुष्प्रज्ञा अपि महाप्रज्ञा अपि. कस्य नु भो गौतम कर्मणो विपाकेनेदं सत्वानां नानात्वं प्रज्नायते.

तत्र भगवाञ्छुकं माणवकं तौदेयपुत्रमिदमवोचत्. कर्मविभङ्गं ते माणवक धर्मपर्यायं देशयिष्यमि. तेनहि (म्क्व्३०) शृणु साधु सुष्ठु च मनसि कुरु. भाषिष्ये. एवं भगवन्निति शुको माणवकस्तौदेयपुत्रो भगवतः प्रत्यश्रौषीत्. भगवानिदमवोचत्. कर्मस्वकानहं माणव सत्वान् वदामि कर्मदायादान् कर्मयोनीन् कर्मप्रतिशरणान्. कर्म माणव सत्वान् विभजति. यदिदं हीनोत्कृष्टमध्यमतायाम्. तद्यथा. अस्ति कर्म अल्पायुःसंवर्तनीयम्. अस्ति कर्म दीर्घायुःसंवर्तनीयम्. अस्ति कर्म बह्वाबाधासंवर्तनीयम्. अस्ति कर्म अल्पाबाधासंश्. अ. क्. दुर्वर्णस्. अ. क्. प्रासादिकस्. अ. क्. अल्पेशाख्यस्. अ. क्. महेशाख्यस्. अ. क्. नीचाकुलोपपत्तिस्. अ. क्. उच्चकुलोपपत्तिस्. अ. क्. अल्पभोगस्. अ. क्. महाभोगस्. अ. क्. दुष्प्रज्नस्. अ. क्. महाप्रज्ञस्. अ. क्. नरकोपपत्तिस्. अ. क्. तिर्यग्योन्युपपत्तिस्. अ. क्. प्रेतलोकोपपत्तिस्. अ. क्. असुरलोकोपपत्तिस्. अ. क्. मनुष्यलोकोपपत्तिस्. अ. क्. कामावचरदेवोपपत्तिस्. अ. क्. रूपावचरदेवोपपत्तिस्. अ. क्. आरूप्यावचरदेवोपपत्तिस्. अ. क्. कृतं नोपचितम्. अ. क्. उपचितं न कृतम्. अ. क्. कृतमुपचितं च. अ. क्. नैव कृतं नोपचितम्. अ. क्. येन समन्वागतः पुद्गलो नरकेषूपपन्नः परिपूर्णं नैरयिकमायुः क्षपयित्वा च्यवति. अ. क्. येन समन्वागतः पुद्गलो नरकेषूपपन्नः सार्धनैरयिकमायुः क्षपयित्वा च्यवति. अ. क्. य्. स्. प्. नरकेषूपपन्नमात्र एव च्यवति. अ. क्. नियतोपपत्तिस्. अ. क्. अनियतोपपत्तिस्. अ. क्. देशान्तरविपक्षम्. अ. क्. य्. स्. प्. पूर्वं सुखितो भूत्वा पश्चाद्दुःखितो भवति. अ. क्. य्. स्. प्. पूर्वं दुःखितो भूत्वा पश्चादपि सुखितो भवति. अ. क्. य्. स्. प्. पूर्वं सुखितो भूत्वा पश्चात्सुखितो भवति. अ. क्. य्. स्. प्. पूर्वं दुःखितो भूत्वा पश्चादपि दुःखितो भवति. अ. क्. (म्क्व्३१) य्. स्. प्. आढ्यो भवति मत्सरी. अ. क्. य्. स्. प्. दरिद्रो भवति त्यागवान्. अ. क्. य्. स्. प्. आढ्यो भवति त्यागवान्. अ. क्. य्. स्. प्. [सिच्] अस्ति पुद्गलो यस्य कर्म क्षीणं भवति नायुः. अस्ति पुद्गलो यस्यायुः क्षीणं न कर्म. अ. प्. य्. आयुः कर्माणि च क्षीणानि. अ. प्. य्. आयुः क्षीणं पुण्यानि च. अ. प्. यस्य नायुः क्षीणं भवति न कर्म. अपि तु क्लेशाः क्षीणाः. अ. प्. कायेन सुखी न चित्तेन. अ. प्. चित्तेन सुखी न कायेन. अ. प्. कायेन च सुखी चित्तेन च. अ. प्. नैव कायेन सुखी न चित्तेन. अ. क्. य्. स्. पुद्गलोऽपायेषूपपन्नोऽभिरूपो भवति स्निग्धकायः स्निग्धच्छविर्नयनाभिरामो दर्शनीयः. अ. क्. य्. स्. पुद्गलोऽपायेषूपपन्नो दुर्वर्णो भवति रूक्षकायो घोरदर्शनः प्रतिकूलदर्शनः. अ. क्.
य्. स्. प्. अपायेषूपपन्नो दुर्गन्धो भवति जिह्मेन्द्रियो भवत्यव्यक्तेन्द्रियः. दशानामकुशलानां कर्मपथानां विपाकेन दशानां बाह्यानां भावानामभिवृद्धिः प्रज्ञायते. दशानां कुशलानां कर्मपथानां विपाकेन दशानां बाह्यानां भावानां विपत्तिः प्रज्ञायते. दशानुशंसास्तथागतचैत्याञ्जलिकर्मणः. दशानुशंसास्तथागतचैत्यवन्दनायाः. दशानुशंसाश्छत्त्रप्रदानस्य. दशानुशंसा घण्टाप्रदानस्य. दशानुशंसा वस्त्रप्रदानस्य. दशानुशंसा आसनप्रदानस्य. दशानुशंशा भाजनप्रदानस्य. दशानुशंसा भोजनप्रदानस्य. दशानूशंसा यानप्रदाने. दसानुशंसाः प्रतिश्रयप्रदानस्य. दशानुशंसाः पानकप्रदाने. दशानुशंसाः फलप्रदाने. दशानुशंसा मालाप्रदानस्य. दशानुसंसा मुक्तपुष्पप्रदानस्य. दशानुशंसाः प्रदीपप्रदानस्य. दशानुशंसा गन्धप्रदानस्य. (म्क्व्३२) दशानुशंसाः प्रव्रज्यायाः. दशान्न्शंसा अरण्यवासे. दसानुशंसाः पैण्डपातिकत्वे. दश वैशारद्यानि.

उद्देशः कर्मविभङ्गस्य धर्मपर्यायस्य.

इ. तत्र कतमत्कर्म अल्पायुःसंवर्तनीयम्? उच्यते. प्राणातिपातः. प्राणातिपातस्य अनुमोदनम्. प्राणातिपातस्य वर्णवादिता. अमित्रमरणाभिनन्दनम्. अमित्रमरणस्य समादापनम्. अमित्रमरणस्य वर्णवादिता. गर्भशातनम्. गर्भशातनस्य वर्णवादिता. स्थण्डिलप्रतिष्ठापनं यत्र बहवः प्राणिनो घात्यन्ते महिषपशुशूकरकुक्कुटादयः तस्य यज्ञप्रवर्तकस्य पुत्राः पौत्राश्चान्ये च जनाः फलार्थिनो भयभीताश्चानुवृत्तिं कुर्वाणाः सत्त्वान्निर्घातयन्ति.

अ) यथा काश्मीरायां महानगर्यां भिक्षुः किलार्हन्नन्यतरस्मिन् गृहद्वारे तिष्ठति. तस्य गृहस्य पार्श्वेन राजपथस्तेन पशू रवमाणो नीयते. स भिक्षुस्तं दृष्ट्वा हाहा धिक्कष्टमिति वदति. पुरुषास्तं पृच्छन्ति. आर्य किमयं हाधिक्कष्टमिति शब्दः. स आह. न वक्तव्यमेतदश्राद्धानाम्. कार्यार्थं तु ब्रवीमि. य एष पशू रवमाणो नीयते. अनेन पुरा वणिगीश्वरेण भूत्वा स्थण्डिलं प्रतिष्ठापितम्. सांवत्सरिकश्च पशुयज्ञः प्रवर्तितः. तत्रानेन बहवः पशवो घातिताः. मरणकाले च पुत्रानाहूय प्राह. पुत्राः. यद्यस्ति मयि स्नेहो य एष मया सांवत्सरिकः पशुयज्ञः प्रवर्तितः. एष मयि कालगतेऽनुप्रवर्तयितव्य इति. पुत्रैस्तथास्त्विति प्रतिश्रुतम्. स कालगतस्तेन मोहजेन प्राणातिपातेन (म्क्व्३३) समन्वागतः स्वगृहे पशुः प्रत्याजातः. स तत्र जातौ जातौ घात्यते. अधुना एकषष्टितमं वारं नीयते. अथ स भिक्षुस्तं पशुं करुणायमाण आह. स्वयमेव ते स्थण्डिलं कृतं स्वयमेव यज्ञः प्रवर्तितः बहवः पशवश्च घातिताः. किं रवसे. सर्वमिदं निरर्थकम्.

ब्) यथैवंविधं स्थण्डिलप्रतिष्ठापनम्. तथा युद्धदर्शनम्. यत्र बहवः सत्त्वा घात्यन्ते हस्त्यश्वमनुष्यादयः. युद्धप्रतिबद्धानां च शस्त्राणामभिनन्दनम्.

च्) यथा चोक्तं भगवता वैशाल्यां कालिकसूत्रे. प्राणातिपात आनन्द सेवितो बहुलीकृतो निरय संवर्तनीयो भवति. तिर्यग्योनिसंवर्तनीयोऽपि भवति. प्रेतविषयसंवर्तनीयोऽपि भवति. यस्मादल्पप्राणातिपातस्य विपाको मनुष्यभूतस्य सतो अल्पायुःसंवर्तनीयोऽपि भवति.

द्) तथा दशादीनवा नन्दिकसूत्र उक्ताः प्राणातिपातस्य.

इदं कर्म अल्पायुःसंवर्तनीयम्.

इइ. तत्र कतमत्कर्म दीर्घायुःसंवर्तनीयम्. उच्यते. प्राणातिपातान्निवृत्तिः. प्राणातिपातनिवृत्तौ वर्णवादिता. तत्र समादापनम्. तद्वर्णवादिता. वध्यप्राप्तानां मनुष्यपशुसूकरकुक्कुटादीनां परिमोचनम्. भीतानां सत्त्वानामभयप्रदानम् (म्क्व्३४) अनाथानां सत्त्वानां मध्ये कारुण्यचित्तता. ग्लानानां सत्त्वानां मध्ये मैत्रचित्तता. अन्येषां च बालवृद्धानाम्. तेषामेव भोजनप्रदानम्. प्रतिग्राहकेषु च मैत्रचित्तता. यत्पूर्वोक्तं कुशलपक्षेण युद्धदर्शनादि. तथा स्तूपचैत्यविहाराणां शीर्णानां प्रतिसंस्करणम्. अतएवोक्तम्.

अकालमृत्युर्न भवेत्तस्य
यो भग्नशीर्णं प्रतिसंस्करोति.

अ) तथा बकप्रत्येकब्रह्मसूत्रं वर्णयन्ति स्म. तेन किल ऋषिभूतेन पञ्चाभिज्ञेन तृष्णार्तस्य सार्थस्य पथभ्रष्टस्य उपरि ऋद्ध्या वर्षं पातितम्. तदर्थं च भगवता गाथा भाषिता.

तत्ते पुराणं व्रतशीलवृत्तं
स्वप्नाद्विबुद्धोऽहमिह स्मरामि.

तत्र च सार्थे बोधिसत्त्वः सार्थवाहोऽभूत्.

य एणीकूलेजनतां गृहीताम्.

एणी नाम नदी यस्या अनुकूले राजा कश्चिद्गृहीतः प्रत्यमित्रेण (म्क्व्३५) हिमवन्तमनुप्रविश्य स नीयमान एव वध्यं प्राप्तः सबलवाहनः. तेन ऋषिभूतेन ऋद्ध्या वातवर्षं मुक्तम्. स चोपायेन प्रत्यमित्रजनकायो विभ्रामितः. स राजा मोक्षितः.

तत्ते द्वितीयं व्रतशीलवृत्तं
स्वप्नाद्विबुद्धोऽनुस्मरामि.

स च राजा बोधिसत्त्वो बभूव.


गङ्गास्रोतसि नावा गृहीता
नागेन घोरेण ऋद्धिकेन.

स च तदा ऋषिर्गङ्गाकूले महर्द्धिकः पञ्चाभिज्ञः प्रतिशरति. तेन च कायः क्रन्दमानो जीवितेन निराशस्ततो मोक्षितः.

तत्ते तृतीयं व्रतशीलवृत्तं
स्वप्नाद्विबुद्धोऽनुस्मरामि.

तस्यां च नावायां नौस्वामी बोधिसत्त्वस्तेन कालेनाभूत्. एवं विधं ते त्रिविधं कर्म कृतम्, ततोऽतीव दीर्घायुः.

ब्) यथा केचिदाचार्याः कथयन्ति. भगवानाह. भूतपूर्वं भिक्षवो जम्बुद्वीपे सर्वजनपदमारी वर्तते स्म. अथान्यतरेण सत्त्वेनान्यलोकधातौ स्थितेन ऋद्धिमतः सकाशाच्छ्रुतम्. यथा जम्बुद्वीपे सर्वमारी पातितेति. तेन कृतपुण्येन प्रणिधानं कृतम्. (म्क्व्३६) जम्बुद्वीपे उपपद्याहं सर्वसत्त्वानां व्याधिप्रणाशाय जायेयेति. स तत्रोपपन्नः. ये च सत्त्वास्तृषितास्तेषां पानीयेन व्याधिं नाशयति. ये च बुभुक्षितास्तेषां भक्तेन व्याधिं नाशयति. एवं येन यस्यार्थस्तेनैव तस्य व्याधिं नाशयति. न नाम तस्य किंचिदप्यनौषधं. यद्यदेव गृह्य प्रयच्छति तत्तदेवौषधम्. तस्य जम्बुद्वीपकैर्मनुष्यैः सर्वौषधिरेकनाम कृतम्. अथ भिक्षवः सर्वौषधिवैद्यराजो बहूनां सत्त्वसहस्राणां जीवितानि दत्त्वा कालगतः. कालान्तरेण मिथिलायां राजकुले उपपन्नः. ततोऽपि तेन महादेवभूतेन अशीतिक्षत्रियसहस्राणि धर्मदेशनया प्रव्रजितानि. जम्बुद्वीपेऽशीतिवर्षसहस्राणि मनुष्याणामायुर्न परिक्षीणम्. ततश्च्युतः कालान्तरेण कुशीनगर्यां मान्धाता संवृत्तः. भूयश्च सप्तसूर्योपदेशे (म्क्व्३७) सुनेत्रो नाम मानवो विज्ञेयः. अहं स भिक्षवस्तेन कालेन सर्वौषधिवैद्यराजोऽभूत्. तस्य कर्मणो विपाकेन महादेवस्यायुःप्रमाणं योजयितव्यम्. मान्धातृसुनेत्राभ्यामप्येवायुःप्रमाणं योजयितव्यम्. इदं कर्म दीर्घायुःसंवर्तनीयम्.

इइइ. कतमत्कर्म बह्वाबाधासंवर्तनीयम्. उच्यते. खटचपेटप्रदानम्. खटचपेटप्रदानस्यानुमोदनम्. खटचपेटप्रदानस्य वर्णवादिता. तेषां प्रदानेन तुष्टिः. मातापित्रोश्चित्तशरीरे पीडाकरणं तथान्येषां प्रव्रजितानां शीलवतां चित्तसंक्लेशः. अमित्रव्याधिना तुष्टिः. अमित्रव्याधिव्युत्थानेनातुष्टिः. व्याद्दितानामभैषज्यप्रदानम्. तथापरिजीर्णभोजनम्. इदं कर्म बह्वाबाधासंवर्तनीयम्.

इव्. कतमत्कर्म अल्पाबाधासंवर्तनीयम्. उच्यते. खटचपेटप्रदानान्निवृत्तिः. तत्र समादापनम्. तद्वर्णवादिता. तदभ्यनुमोदनम्. ग्लानानां मातापितॄणामुपस्थानकरणम्. तदप्यन्येषां गृहस्थप्रव्रजितानाम्. अमित्रव्याधिनानात्तमनस्कता. तस्य व्युत्थानेन चात्तमनस्कता. भैषज्यप्रदानम्. परिजीर्णभोजनं च. इदं कर्म अल्पाबाधासंवर्तनीयम्.

व्. कतमत्कर्म दुर्वर्णसंवर्तनीयम्. उच्यते. क्रोधः. उपनाहः म्रक्षः. प्रदाशः. मातापित्रोरवर्णवादिता. अन्येषां च (म्क्व्३८) गृहस्थप्रव्रजितानां बालवृद्धानाम्. स्तूपाङ्गणचैत्यगृहविहाराणां च भूमेरविशोधनम्. स्तूपानां प्रतिमाणां च दीपव्युच्छेदः. दुर्वर्णानां सत्त्वानामवहसनम्. तथा चौक्षसमुदाचारता. इदं कर्म दुर्वर्णसंवर्तनीयम्.

वि. कतमत्कर्म प्रासादिकसंवर्तनीयम्. उच्यते. अक्रोधः. अनुपनाहः. अम्रक्षः. वस्त्रप्रदानम्. स्तूपचैत्यगृहेषु च सुधादानम्. सुवर्णपात्र दानम्. गन्धलेपप्रदानम्. अलंकारप्रदानम्. मातापित्रोर्वर्णवादिता. आर्याणां शीलवतां वर्णवादिता स्तूपाङ्गणविहाराणां संमार्जनम्. सततं गृहसंमार्जनम्. विरूपाणां सत्त्वानामनवहसनं तथान्येषां बालवृद्धानाम्. तथा चौक्षसमुदाचारता.

अ) यथा आर्यसुन्दरनन्देन किल क्रकुच्छन्दे सम्यक्संबुद्धे भिक्षुसंघे जेन्ताकस्नानं कृतम्. तांश्च दृष्ट्वा चित्तं प्रसादितम्. भूयश्च सुवर्णेन हरितालेन प्रत्येकबुद्धस्तूपे लेपो दत्तः. इदमपि दृष्ट्वा चित्तं प्रसादितम्. अभिरूपतायां च परिणामितम्. भूयश्च स्तूपे क्रियमाणे प्रथमं छत्त्रं कारितम्. यथा पश्चिमभवे स एव व्याकरोति.

जेन्ताकस्य च स्नानेन हरितालस्य लेपनेन च
एकच्छत्त्रप्रदानाच्च प्राप्ता मे सुवर्णवर्णता.

तथैवायं शोभितवान्. इदं कर्म प्रासादिकसंवर्तनियम्.

(म्क्व्३९)
विइ. कतमत्कर्म अल्पेशाख्यसंवर्तनीयम्. उच्यते. ईर्ष्या. मात्सर्यम्. परस्य लाभेनातुष्टिः. परस्य वर्णवादिताया अतुष्टिः. मातापित्रोः परिभवः. आर्याणां शीलवतां परिभवः. तथान्येषां व्याधितबालवृद्धानाम्. हीने धर्महीनेऽकुशलमूले वर्णवादिता. बोधिचित्तोत्पादस्य निवारणम्. तदभ्यनुमोदनम्. इदं कर्म अल्पेशाख्यसंवर्तनीयम्.

विइइ. कतमत्कर्म महेशाख्यसंवर्तनीयम्. उच्यते. अनीर्ष्या. अमात्सर्यम्. परलाभेन तुष्टिः. परस्य यशोवर्णशब्दश्लोकश्रवणेन तुष्टिः. परस्य वर्णवादिताया आत्तमनस्कता. भगवतश्चैत्यस्तूपकारापणम्. हीने धर्महीनेऽकुशलमूले निवारणम्. महेशाख्यकुशलमूले समादापनम्. बोधिचित्तोत्पादनम्. सर्वमहेशाख्यकुशलमूले बोधिचित्तोत्पादनम्.

अ) यथोक्तं भगवता वाराणस्यां पूर्वापरान्तके सूत्रे (म्क्व्४०)ऽजितस्य बोधिसत्त्वस्य समुत्तेजनं कृतम्. महते खलु तेऽजित औत्सुक्याय चित्तं दमयति. यदिदं संघपरिहापणाय. वक्ष्यतेहि.

मैत्रेयस्तुषितसुरालयाधिवासी
प्राप्तव्या दिवि भुवि चेह येन पूजा
स श्रीमान् दशबलतामवाप्य शीघ्रं
लोकानां भवतु शशीव नित्यपूज्यः.

इदं कर्म महेशाख्यसंवर्तनीयम्.

इx. कतमत्कर्म नीचकुलसंवर्तनीयम्. उच्यते. स्तब्धता. अभिमानिता च. अमातापितृज्ञता. अश्रामण्यता. अब्राह्मण्यता. अकुलज्येष्ठापचायिता. मातापित्रोरप्रत्युपस्थानम्. आर्याणां शीलवतामप्रत्युपस्थानम्. अन्येषां च गुरुस्थानीयानामाचार्योपाध्यायानामप्रत्युपस्थानम्. नीचकुलानां सत्वानां परिभवः. इदं कर्म नीचकुलसंवर्तनीयम्.

x. कतमत्कर्म उच्चकुलसंवर्तनीयम्. उच्यते. अस्तब्धता. अनभिमानिता. मातापितृज्ञता. श्रामण्यता. ब्राह्मण्यता. कुलज्येष्ठापचायिता. मातापित्रोः प्रत्युपस्थानम्. आर्याणां शीलवतां प्रत्युपस्थानम्. अन्येषां च गुरुस्थानीयानामाचार्योपाध्यायानां प्रत्युपस्थानम्. नीचकुलानां सत्वानामपरिभवः.

अ) यथा च भगवता सूत्र उक्तम्. यतो भिक्षवः कुशलशीलवन्तो ब्रह्मचारिनः कल्याणधर्माणः प्रव्रजिता उपसंक्रमन्ति पञ्च तस्मिन् कुलेऽनुशंसाः प्रत्यनुशंसितव्याः. कतमे पञ्च. इह भिक्षवः उपसंक्रान्तेषु शीलवत्सु चित्तानि प्रसादयन्ति स्वर्गसंवर्तनीयं (म्क्व्४१) तद्भिक्षवः कुलं तस्मिन् समये प्रतिपदं प्रतिपन्नं भवति. पुनरपरं भिक्षवः उपसंक्रान्तेषु शीलवत्सु अभिवादयन्ति प्रत्युत्तिष्ठन्ति. उच्चकुलसंवर्तनीयं भिक्षवः. तस्मिन् समये प्रतिपदं प्रतिपन्नं भवति. एवं सर्वसूत्रं योज्यम्. इदं कर्म उच्चकुलसंवर्तनीयम्.

xइ. कतमत्कर्म अल्पभोगसंवर्तनीयम्. उच्यते. अदत्तादानम्. अदत्तादानसमादापनम्. चौर्यवर्णवादिता. तदभ्यनुमोदनम्. मातापित्रोर्वृत्त्युपच्छेदः. तथान्येषां व्याधितबालवृद्धकृपणानां वृत्त्युपच्छेदः. परस्य लाभेनातुष्टिः. परलाभान्तरायक्रिया दुर्भिक्षाभिनन्दनं च. इदं कर्म अल्पभोगसंवर्तनीयम्.

xइइ. तत्र कतमत्कर्म महाभोगसंवर्तनीयम्. उच्यते. अदत्तादानान्निवृत्तिः परेषां चादत्तादानान्निवारणम्. परेषामदत्तादाननिवृत्तानां समनुमोदनम्. मातापित्रोर्वृत्तिप्रदानम्. आर्याणां च शीलवतां वृत्तिप्रदानम्. तथान्येषां व्याधितबालवृद्धकृपणानां वृत्तिप्रदानम्. परलाभेन तुष्टिः. परस्यालाभेनातुष्द्ः. परलाभसमनुमोदनम्. सुभिक्षाभिनन्दनम्.

अ) तदेव सूत्रं योज्यम्. पुनरपरं भिक्षवः उपसंक्रान्तेषु शीलवत्सु दानानि ददन्ति पुण्यानि च कुर्वन्ति. महाभोगसंवर्तनीयं भिक्षवस्तत्कुलं तस्मिन् समये प्रतिपदं प्रतिपन्नं भवति. इदं कर्म महाभोगसंवर्तनीयम्.

xइइइ. तत्र कतमत्कर्म दुष्प्रज्ञसंवर्तनीयम्. उच्यते. इहैकत्यो न परान् पृच्छति. पण्डितान्. श्रमणान्. ब्राह्मणान्. को धर्मः किं धर्मं कुर्वतः श्रेयस्करमिति. अपि तु दुष्प्रज्ञान् सेवति. पण्डितान् परिवर्जयति. असद्धर्मं दीपयति. सद्धर्मं विगर्हति. सद्धर्मभाणकानां वैशारद्योपच्छेदं करोति. सद्धर्मभाणकानामभिनिवेशेन न साधुकारं ददाति. असद्धर्मभाणकानां (म्क्व्४२) साधुकारं ददाति. मिथ्यादृष्टिं वर्णयति. सम्यग्दृष्टिं विगर्हति. तथा पुस्तकलेखकवाचकानां वृत्त्युपच्छेदं करोति.

अ) सूत्रे चोक्तम्. उन्मत्तकसंवर्तनीयम् ... करोति. संमूढकश्च कालं करोति. दुष्प्रज्ञश्च भवति. यथोक्तं नन्दिकसूत्रे. पञ्चत्रिंशदादीनवाः सुरामैरेयमद्यप्रमादस्थाने योजयितव्याः. बुद्धे चागौरवो भवति. धर्मे संघे चागौरवो भवति. अतः शाक्यसूत्रं योजयितव्यम्. यदा च भगवान् कपिलवस्तुमागतः स मद्यपानदोषान्न कदाचिद्भगवन्तमुपसंक्रान्तः. चतुर्भिः स्थविरैर्भगवता प्रेषितैर्गत्वा विनीतः कालगतश्च. शाक्यः पृच्छति. भगवन्. तस्य का गतिरिति. भगवानाह. इमेऽपि च मे शाक्य भाषितस्यार्थमाजानीयुरिति सूत्रं (म्क्व्४३) योजयितव्यम्. यथा चूडा पन्थको नाम भिक्षुस्तस्य राजगृहे प्रतिवसतो भगवता गाथोद्दिष्टा. सा च वर्षात्ययेन न शकिता ग्रहीतुम्. भिक्षवो विस्मयं प्राप्ताः पृच्छन्ति. भगवन् कस्यैष कर्मणो विपाकेन दुष्प्रज्ञः. भगवानाह. काश्यपे सम्यक्संबुद्धे परिनिर्वृते एष आरण्यको भिक्षुस्त्रिपिटकस्तत्कालमभूत्. भिक्षूणां च बुद्धपूजामकुर्वतां बुद्धवचनमन्तर्हितम्. ते भिक्षवस्तस्य समीपं गताः अस्माकं बुद्धवचनमन्तर्हितम्. अस्माकमप्युपदेशं कुरुष्वेत्यनेन मात्सर्यदोषात्तेषामुपदेशो न कृतः. एवं तच्छासनमन्तर्हितम्. तस्य कर्मणो विपाकेनैष दुष्प्रज्ञः. इदं कर्म दुष्प्रज्ञसंवर्तनीयम्.

xइव्. तत्र कतमत्कर्म महाप्रज्ञसंवर्तनीयम्. उच्यते. (म्क्व्४४) इहैकत्यः परिपृच्छक जातीयो भवति पण्डिताञ्छ्रमणान् ब्राह्मणान् सेवते दुष्प्रज्ञान् परिवर्जयति. सद्धर्मं दीपयति. असद्धर्मं विगर्हति धर्मभाणकानां वैशारद्यं वर्णयति. सहितभाषिणां साधुकारं ददाति. अहितभाषिणं परिहरति. सम्यग्दृष्टिं वर्णयति. मिथ्यादृष्टिं विगर्हति. मसीपुस्तकलेखनीप्रदानानि ददाति. न च मद्यं पिबति. यथोक्तं च नन्दिकसूत्रे. पञ्चत्रिंशद्मद्यपानदोषा अकुशलपक्षेण योजयितव्याः. इदं कर्म महाप्रज्ञसंवर्तनीयम्.

xव्. तत्र कतमत्कर्म नरकोपपत्तिसंवर्तनीयम्. उच्यते. तीव्रं प्रदुष्टचित्तस्य कायवाङ्मनोदुश्चरितम्. उच्छेददृष्टिः. शाश्वतदृष्टिः. नास्तिकदृष्टिः. अक्रियादृष्टिः. मत्सरिवादः. अकृतज्ञता. आनन्तर्यम्. आर्याणां शीलवतामभूताभ्याख्यानदानम्. इदं कर्म नरकोपपत्तिसंवर्तनीयम्.

xवि. तत्र कतमत्कर्म तिर्यग्योन्युपपत्तिसंवर्तनीयम्. उच्यते. मध्यमं कायवाङ्मनोदुश्चरितं विचित्रं रागसमुत्थितं कर्म विचित्रं द्वेषसमुत्थितं कर्म विचित्रं मोहसमुत्थितं कर्म. मातापित्रोः प्रव्रजितानां चाकल्पिकप्रदानम्. तिर्यग्योनिगतानां सत्वानामवहसनम्. तथा प्रणिधानकर्म यथा गोव्रतिककुक्कुरव्रतिकप्रभृतीनां प्रणिधानमत्रोपपद्येयमिति.

अ) यथा च बोधिसत्वस्य सिंह जातकेऽवदानं वक्तव्यम्. यथा च वर्षाकारस्य ब्राह्मणस्य मर्कटोपपत्तिः. तद्यथा (म्क्व्४५) वर्षाकारेण ब्राह्मणेन स्थविरमहाकाश्यपो भिक्षू राजगृहस्योपरिमेण गृध्रकूटात्पर्वतादृषिगिरिपार्श्वं विहायसा गच्छन् दृष्टः. तेन प्रदुष्टचित्तेन देवदत्ताजातशत्रुसंसर्गाद्वाग्दुश्चरितं कृतम्. एष श्रमणो विहायसा गच्छन् पर्वतात्पर्वतं गच्छति. तद्यथा मर्कटो वृक्षाद्वृक्षमेव. भगवतः कथितम्. वर्षाकारेण ब्राह्मणेन क्रोधजातेन वाग्दुश्चरितं कृतम्. तस्य को विपाकः. भगवानाह. अस्य वाग्दुश्चरितस्य विपाकतो वर्षाकारो ब्राह्मणः पञ्च जन्मान्तरशतानि मर्कटो भविष्यतीति. ततस्तेन वर्षाकारेण श्रुतं भगवता निर्दिष्टत्वं किल पञ्च जन्मान्तरशतानि मर्कटो भविष्यतीति. स संविग्नचित्तं प्रसादितवान्. तेन भगवान् परिनिर्वाणकाले पृष्टः. तस्य कर्मणः कदा परिक्षय इति. भगवानाह. तान्येव पञ्च जन्मान्तरशतानि किं तु राजगृहे उत्पत्स्यसे यथा जम्ब्वा जम्बुद्वीपे जायते. यत्रोष्ट्रिकामात्राणि फलानि. यथा क्षौद्रमध्वनेडकमेवमास्वादानि. (म्क्व्४६) तत्रोपपत्तिर्भविष्यति. ततो व्युत्थितस्य ते सुगतिर्भविष्यति. यथा चित्तप्रदूषणेन सिंहेषूपपन्नः. तदर्थं च भगवता गाथा भाषिता.

दीर्घा जागरतो रात्रिर्दीर्घं श्रान्तस्य योजनम्
दीर्घो बालस्य संसारः सद्धर्ममविजानतः.

इदं कर्म तिर्यग्योन्युपपत्तिसंवर्तनीयम्.

xविइ. तत्र कतमत्कर्म यमलोकोपपत्तिसंवर्तनीयम्. उच्यते. क्रुद्धस्य प्रतिहतचित्तस्य कायवाङ्मनोदुश्चरितम्. लोभो विषमलोभो मिथ्याजीवो जिघांसितपिपासितस्य क्रुद्धस्य कालक्रिया. वस्तुष्वभिषक्तचित्तस्य कालक्रिया.

अ) यथा चोक्तं भगवता शतवर्गे आगमे कर्मविभङ्गसूत्रे. (म्क्व्४७) तस्य खलु पुनरानन्द पुद्गलस्यान्यजातिकृतं वा कर्म प्रत्युपस्थितं भवति. मरणकाले वा मिथ्यादृष्टिः. इदं कर्म यमलोकोपपत्तिसंवर्तनीयम्.

xविइइ. तत्र कतमत्कर्मासुरलोकोपपत्तिसंवर्तनीयम्. उच्यते. सर्वमृदुकायवाङ्मनोदुश्चरितम्. मानः. अभिमानः अधिमानः. अस्मिमानः. मिथ्यामानः. सुकृत कुशलामूलमसुरलोकोपपत्तिपरिणामितम्. सर्वोत्कृष्टरागसमुत्थितं दौःशील्यं प्रज्ञामुखेन. इदं कर्मासुरलोकोपपत्तिसंवर्तनीयम्.

xइx. तत्र कतमत्कर्म मनुष्यलोकोपपत्तिसंवर्तनीयम्. उच्यते. सुभाविता मन्दभाविताश्च दश कुशलाः कर्मपथाः. कतमे दश. त्रिविधं कायकर्म. चतुर्विधं वाक्कर्म. त्रिविधं मनःकर्म. इदं कर्म मनुष्यलोकोपपत्तिसंवर्तनीयम्.

xx. तत्र कतमत्कर्म कामावचरदेवोपपत्तिसंवर्तनीयम्. उच्यते. सुसमाप्ता दश कुशलाः कर्मपथाः. इदं कर्म कामावचरदेवोपपत्तिसंवर्तनीयम्.

xxइ. तत्र कतमत्कर्म रूपावचरदेवोपपत्तिसंवर्तनीयम्. उच्यते. सुसमाप्ताः सुसमाहितास्ततो विशिष्टतराः परिपूर्णा दश कुशलाः कर्मपथाः. इदं कर्म रूपावचरदेवोपपत्तिसंवर्तनीयम्.

xxइइ. तत्र कतमत्कर्मारूप्यावचरदेवोपपत्तिसंवर्तनीयम्. उच्यते. चतस्र आरूप्यसमापत्तयः. आकाशानन्त्यायतनम्. विज्ञानानन्त्यायतनम्. आकिंचन्यानन्त्यायतनम्. नैवसंज्ञानासंज्ञायतनम्. एताः समापत्तयो भाविता बहुलीकृताश्च भवन्ति. इदं कर्मारूप्यावचरदेवोपपत्तिसंवर्तनीयम्.

xxइइइ. तत्र कतमत्कर्म कृतं नोपचितम्. उच्यते. यत्कृत्वा कर्म आस्तीर्यति जिह्रेति विगर्हति विजुगुप्सति देशयति आचष्टे व्यक्तीकरोति. (म्क्व्४८) आयत्यां संवरमापद्यते. न पुनः करोति. इदं कर्म कृतं नोपचितम्.

xxइव्. तत्र कतमत्कर्मोपचितं न कृतम्. उच्यते. यत्कर्म कायेन परिपूरयितव्यम्. तत्र प्रदुष्टचित्तो वाचं भाषते एवं ते करिष्यामीति. इदं कर्मोपचितं न कृतम्.

xxव्. तत्र कतमत्कर्म कृतं चोपचितं च. उच्यते. यत्कर्म सांचेतनिकम्.

अ) यथोक्तं भगवता.

मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः
मनसा चेत्प्रदुष्टेन भाषते वा करोति वा
ततस्तं दुःखमन्वेति चक्रं वा वहतः पदम्
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः
मनसा चेत्प्रसन्नेन भाषते वा करोति वा
ततस्तं सुखमन्वेति छाया वा अनुयायिनी.

इदं कर्म कृतं चोपचितं च.

xxवि. तत्र कतमत्कर्म नैव कृतं नैवोपचितम्. उच्यते. यत्कर्म सांचेतनिकं स्वप्नान्तरे कृतं कारितं वा. इदं कर्म नैव कृतं नैवोपचितम्.

xxविइ. तत्र कतमत्कर्म येन समन्वागतः पुद्गलो नरकेषूपपन्नः परिपूर्णं नैरयिकमायुः क्षपयित्वा च्यवति. उच्यते. (म्क्व्४९) इहैकत्येन नरकीयं कर्म कृतं भवत्युपचितम्. स तत्कर्म कृत्वा नास्तीर्यति. न जिह्रीयति न विगर्हति न जुगुप्सति न देशयति नाचष्टे न व्यक्तीकरोति नायत्यां संवरमापद्यते भूयस्या मात्रया हृष्यति. प्रीतिमुत्पादयति. यथा देवदत्तकोकालिकादयः. इदं कर्म येन समन्वागतः पुद्गलो नरकेषूपपन्नः परिपूर्णनैरयिकमायुः क्षपयित्वा च्यवति.

xxविइइ. तत्र कतमत्कर्म येन समन्वागतः पुद्गलो नरकेषूपपन्नोऽर्धनैरयिकमायुः क्षपयित्वा च्यवति. उच्यते. इहैकत्येन नारकीयं कर्म कृतं भवत्युपचितम्. स तत्कृत्वा नास्तीर्यति न जिह्रीयति न विगर्हति न जुगुप्सते न देशयति नाचष्टे न व्यक्तीकरोति. नायत्यां संवरमापद्यते. अपि तु न भूयस्या मात्रया हृष्यति. न प्रितिमुत्पादयति. इदं कर्म येन समन्वागतः पुद्गलो नरकेषूपपन्नोऽर्धनैरयिकमायुः क्षपयित्वा च्यवति.

xxइx. तत्र कतमत्कर्म येन समन्वागतः पुद्गलो नरकेषूपपन्नमात्र एव च्यवति. उच्यते. इहैकत्येन नारकीयं कर्म कृतं भवत्युपचितं च. स तत्कृत्वास्तीर्यति. जिह्रीयति. विगर्हति विजुगुप्सति आचष्टे. देशयति. व्यक्तीकरोति. आयत्यां संवरमापद्यते. न पुनः कुरुते. स चेन्नरकेषूपपद्यते उपपन्नमात्र एव च्यवति.

अ) यथा राजाजातशत्रुः. तेन देवदत्तसहायेनानन्तर्यकर्म कृतम्. पितृवधः. संघभेदः. धनपालमोक्षणम्. शिलायन्त्रमोक्षणं देवदत्तस्यादेशेन. तस्मादवीचिनरकगमनं श्रुत्वा तेन संविग्नेन भगवति चित्तं प्रसादितम्. श्रामण्यफलसूत्रेऽत्ययदेशनं कृतम्. प्रतिसंदधाति कुशलमूलानि. तेन मरणकाले चित्तं प्रसादितम्. अस्थिभिरपि बुद्धं भगवन्तं (म्क्व्५०) शरणं गच्छामि. स उपपन्नमात्र एव च्यवति. इदं कर्म येन समन्वागतः पुद्गलो नरकेषूपपन्नमात्र एव च्यवति.

xxx. तत्र कतमत्कर्म नियतोपपत्तिसंवर्तनीयम्. उच्यते. यत्कृत्वा क्वचिदुपपत्तौ परिणामयति अमुत्रोपपद्येयमिति. स तत्रोपपद्यते.

यथा भगवतो जातके श्यामाकजातकप्रभृतिषु प्रणिधानवशादुपपत्तिर्वर्ण्यते. इदं कर्म नियतोपपत्तिसंवर्तनीयम्.

xxxइ. तत्र कतमत्कर्मानियतोपपत्तिसंवर्तनीयम्. उच्यते. यत्कृत्वा न क्वचिदुपपत्तौ परिणामयति अमुत्रोपपद्येयमिति. यथा सत्वाः कर्मवशादुपपद्यन्ते. इदं कर्मानियतोपपत्तिसंवर्तनीयम्.

xxxइइ. तत्र कतमत्कर्म देशान्तरविपाकमुच्यते. यत्कर्म तस्मिन्नेव जन्मान्तरे वा देशान्तरगतस्य विपच्यते शुभमशुभं वा. तत्कर्म देशान्तरविपाकम्. यथा भगवान् कथयति. भूतपूर्वं भिक्षवो जम्बुद्वीपे मनुष्याणमपरिमाणमायुर्भवति. यथा राज्ञो मान्धातुः. अथान्यतरस्मिन्नगरे मैत्रायज्ञो नाम (म्क्व्५१) सार्थवाहपुत्रो बभूव. स पञ्चशतसहायपरिवृत उद्यानं गतः. तैश्च सहायैरुक्तः. अस्मिन्नगरे बणिजस्तव पितरं पूर्वङ्गमं कृत्वा महासमुद्रमवतीर्य सुवर्णभूमिप्रभृतीनि देशान्तराणि गत्वा द्वीपान्तराणि च पश्यन्ति. द्रव्योपार्जनं च कुर्वन्ति. वयमपि त्वां पूर्वङ्गमं कृत्वा समुद्रमवतीर्य द्रव्योपार्जनं करिष्यामो द्वीपान्तराणि च द्रक्ष्यामः. ततस्तेन एवमिति प्रतिश्रुतम्. स रात्रौ गत्वा मातरमापृच्छति. अम्ब सुवर्णभूमिं गमिष्यामः. तस्य माताह. अपरिमाणं पुत्र द्रव्यं गृहे तिष्ठति. न गन्तव्यमिति. स मातुर्वचनेन निवृत्तः. स भूय उद्यानं गतः सहायैरुक्तः. तमर्थं विज्ञापयामः. तेन तथास्त्विति प्रतिश्रुतम्. स भूयो मातरं गत्वापृच्छति. भूयश्च मात्रा पादपतनान्निवर्तितः. एवं तृतीयमपि. स कालान्तरेण भूय (म्क्व्५२) उद्यानं गत्वा सहायैरुक्तः. तव दोषाद्वयमपि न गच्छामः. पृच्छामो वयम्. त्रयोदश्यां गमिष्याम इति. तेन मातुरविदितमेव बहिर्बहु भाण्डं निर्गमितम्. तस्य गमनकाले प्रस्थितस्य माता द्वारे पादपतनं कृत्वा स्थित्वा. पुत्र न गन्तव्यमिति. स क्रुद्धो मातुः पादं मस्तके दत्त्वातिक्रान्तः समुद्रकूलं च गतः. तेन सहाया उक्ताः. समुद्रमवतरतां न ज्ञायते जीवितं मरणं च. वयं सर्व एवाष्टाङ्गसमन्वागतं पोषधं गृह्णामः. तैस्तथास्त्विति प्रतिपन्नम्. पोषधं च गृहीतम्. ते समुद्रमवतीर्णाः. समुद्रमध्यगतानां च तेषां विषमवाताद्याहतः पोतो विनष्टस्तेन सर्वे कालगताः. मैत्रायज्ञश्च म. प्रटमुख्यानवबद्धं ताम्रघतं च गृह्य समुद्रकूल उत्तीर्णः स पर्यटमानः सौवर्णप्राकारं नगरं पश्यति. आरामसंपन्नं वनसंपन्नं पुष्करिणीसंपन्नम्. धूपितधूपनं मुक्तपुष्पावकीर्णमवसक्तपट्टदामकलापम्. ततश्चतस्रोऽप्सरसो निर्गताः. स ताभिर्गृह्य नगरं प्रवेशितः. स ताभिः सार्धं बहूनि वर्षाणि क्रीडितवान्. बहूनि वर्षशतानि. बहूनि वर्षसहस्राणि बहूनि वर्षशतसहस्राणि क्रीडितवान्. स ताभिरुक्तः. आर्यपुत्र तवायं पृथिवीप्रदेशोऽपूर्वः. अस्माकमविदितं न निर्गन्तव्यम्. यदि निर्गच्छसि सर्वथोत्तराभिमुखेन न गन्तव्यम्. इति. स तस्मात्कालान्तरेण निर्गतः. स भूयो गच्छन्नगरं पश्यति. रूप्यमयेन प्राकारेण. आरामसंपन्नं वनसंपन्नम्. पूर्ववद्यावत्. तस्मादप्यष्टावप्सरसो निर्गताः. ताभिरप्यसौ गृह्य प्रवेशितः. स ताभिः सार्धं बहूनि वर्षाणि क्रीडितवान्. बहूनि वर्षशतानि. बहूनि वर्षसहस्राणि बहूनि वर्षशतसहस्राणि क्रीडितवान्. पूर्ववत्. ततोऽपि कालान्तरेण निर्गतः. भूयश्च पर्यटन्नगरं पश्यति. वैदूर्यमयेन प्राकारेण आरामसंपन्नं वनसंपन्नम्. पुष्करिणीसंपन्नम्. धूपितधूपनम्. मुक्तपुष्पावकीर्णमवसक्तपट्टदामकलापम्. तस्मादपि षोडशाप्सरसो निर्गताः. ताभिरपि सार्धं बहूनि वर्षाणि क्रीडितवान्. पूर्ववत्. स ताभिरुक्तः. आर्यपुत्र तवायं पृथिवीप्रदेशोऽपूर्वः. अस्माद्विहारात्तेन न निर्गन्तव्यम्. अथ निर्गच्छसि. सर्वथोत्तरामुखेन न गन्तव्यमिति. स तस्मात्कालान्तरेण निर्गतः. भूयाः पर्यटमानः (म्क्व्५३) स्फटिकप्राकारेण नगरम्. तथैवारामसंपन्नम्. वनसंपन्नं
पुष्करिणीसंपन्नम्. धूपितधूपनं मुक्तपुष्पावकीर्णमवसक्तपट्टदामकलापम्. तस्मादपि द्वात्रिंशदप्सरसो निर्गताः. ताभिरपि सार्धं बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षशतसहस्राणि क्रीडितवान्. स ताभिरप्युक्तः. आर्यपुत्र तवायं पृथिवीप्रदेशोऽपूर्वः. अस्माद्विहारात्तेन न निर्गन्तव्यम्. अथ निर्गच्छसि. उत्तरामुखेन न गन्तव्यमिति. स तासां प्रमादाद्रतिखिन्नो निर्गतः. उत्तराभिमुखेन गच्छन् कण्टकाटवीं प्रपन्नः. अथ कृष्णायसेन प्राकारेण नगरं पश्यति. स तत्र प्रविष्टः. प्रविष्टमात्रस्य च नगरद्वारं पिहितम्. ऊर्ध्वं पश्यति. प्राकारो वर्धते भैरवं च शब्दं शृणोति. तत्रस्थश्च चिन्तयति. किमेतदिति. स तत्र गतः. अथ पश्यति पुरुषस्यासिधरं चक्रं शिरश्छिनत्ति. स भीतः पृच्छति. किमेतद्भो पुरुष. नैरयिकपुरुषः प्राह. एष प्रत्येकनरकः. मैत्रायज्ञ आह. किं त्वया पापकर्म कृतमिति. स कथयति. अस्मिन् जम्बुद्वीपे महाकोशली नाम नगरम्. तत्राहं महासार्थवाहपुत्रोऽभूवम्. स पञ्चभिः सहायशतैः सहोद्यानं गतः. ते कथयन्ति. तव पिता सार्थवाहोऽस्माकं पूर्वपुरुषोऽस्ति. पूर्वङ्गमं कृत्वा देशान्तराणि गत्वा द्रव्योपार्जनानि कुर्वन्ति. सुवर्णभूमिं सिंहलद्वीपं च प्रभृतीनि च द्वीपान्तराणि पश्यन्ति. वयमपि त्वया पूर्वङ्गमेन देशान्तरं पश्याम इति. वयमपि गच्छाम इति प्रतिश्रुतम्. सोऽहं गृहं गत्वा मातरमापृष्टवान्. अहमेवं देशान्तरं गमिष्यामीति. माता म आह. पुत्र तव पिता समुद्रमवतीर्णो देशान्तरं गत एव कालगतः. त्वमेकपुत्रकः. प्रभूतं गृहे द्रव्यं तिष्ठति. न गन्तव्यम्. इति. मया न गच्छामीति प्रतिश्रुतम्. एवं द्वितीयं तृतीयं चतुर्थमप्यापादपतनं निवर्तितः. कालान्तरेणाहं भूयोऽप्युद्यानं गतः सहायैरुक्तः. अवश्यं गन्तव्यमिति. गमिष्यामीति मया प्रतिश्रुतम्. अथ मम प्रस्थितस्य माता द्वारे पादपतनं कृत्वा स्थिता. पुत्र नार्हसि मां परित्यक्तुमिति. तस्याहं मस्तके पादं दत्त्वा प्रक्रान्तः. सोऽहं पञ्चभिः सहायशतैः सार्धं समुद्रकूलं गतः. अष्टाङ्गसमन्वागतं पोषधं गृह्य समुद्रमवतीर्णः. सुवर्णभूमिप्रस्थितानामस्माकं विषमवाताद्याहतः पोतो विनष्टः. ते सर्वे कालगताः. अहं तु बहुभिर्दिवसैः कथंचन समुद्रादुत्तीर्णोऽथ प्रपीड्यमानः सौवर्णेन प्राकारेण नगरम्. आरामसंपन्नम्. वनसंपन्नम्. पुष्करिणीसंपन्नम्. धूपितधूपनम्. मुक्तपुष्पावकीर्णम्. अवसक्तपट्टदामकलापम्. तस्माच्चतस्रोऽप्सरसो निर्गताः. ताभिः प्रवेशितोऽस्मि. यावत्. (म्क्व्५४) ताभिरपि सार्धं बहूनि वर्षाणि. बहूनि वर्षशतानि. बहूनि वर्षशतसहस्राणि क्रीडितम्. ततः कालान्तरेण निर्गच्छन् प ... पूर्ववत्. तस्मादप्सरसो निर्गताः. ताभिः प्रवेशितोऽस्मि. यावत्. ताभिरपि सार्धं बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षशतसहस्राणि क्रीडितम्. एवं वैदूर्यमयम्. तस्मादपि षोडशाप्सरसो निर्गताः .... तस्मादपि निर्गतह्. स्फटिकमयं
नगरं पश्यामि. पूर्ववत्. तस्माद्द्वात्रिंशदप्सरसो निर्गताः. ताभिरपि सह तथैव क्रीडितम् ...... कण्टकाटवीं प्रपन्नः. यावद्. आयसनगरं पश्यामि. सोऽहमत्र प्रविष्टः. प्रविष्टस्य मे द्वारं पिहितम्. अत्र च पूर्ववत्....... असिधरं चक्रं शिरसि परिवर्तमानं पश्यामि. तत्र च ममावस्थितस्य शिरसि असिधरं चक्रं संक्रान्तम्. यदहं मातु ... निवृत्तः. अष्टाङ्गसमन्वागतं च पोषधं गृहीतम्. तस्य कर्मणो विपाकेन चतुर्षु महानगरेषु प्रत्येकस्वर्गस्व .... मातुः शिरसि पादं दत्त्वा गतः. तस्य कर्मणो विपाकेन ममासिधरं चक्रं शिरश्छिनत्ति. मैत्रायज्ञश्चिन्तयति. मयाप्येतदेव कर्म कृतम्. उपस्थितो ममापि कर्मविपाक इति. नैरयिकपुरुसः प्राह. कुतस्त्वम्. मैत्रायज्ञः कथयति. अस्ति जम्बुद्वीपे तामलिप्तं नाम महानगरम्. ततोऽहम्. मयापि चैतत्सर्वमनुष्ठेयम्. नैरयिकपुरुषः प्राह. अस्ति मयाद्यान्तरिक्षे घोषः श्रुतः. क्षीणस्तव कर्मविपाकः. मैत्रायज्ञो नाम सार्थवाहपुत्रः अद्यागमिष्यति. एतदेव कर्म कृत्वेति. मैत्रायज्ञ आह. किं भोजनम्. स आह. अत एव मस्तकाच्छिद्यमानाद्यत्पूयशोणितं स्रवति. एवमुक्त्वा स पुरुषः कालगतः पतितः. मैत्रायज्ञो भीतः संविग्नः. सर्वेण भावेन मातापित्रोः प्रणिपातं कृत्वाह.

ऊर्ध्वं भवाग्रविततानधरादवीचिं
तिर्यक्प्रथानगणितानपि लोकधातून्
आत्मन्स्व सुरासुरनरोरगभूतकाये
सत्वानि यानि उपगतानि सुखिनो भवन्तु

(म्क्व्५५)
एवं चिन्तयित्वा सर्वेण भावेन मातापित्रोर्नमस्कारं कृत्वा प्रणिपातं च प्रणिधानं च कृतवान्. यत्र यत्रोपपद्यामि मातापित्रोः शुश्रूषां कुर्यामहमिति. ये च केचन सत्वा प्रत्येकनरके उपपद्यन्ते तेषां सर्वेषामर्थायाहमत्रावस्थितः. ये च केचन लोके युक्ताश्च मुक्ताश्च तेषां नमः. ते मां पालयन्तु. इदमुक्त्वा तस्मिन्नैरयिकपुरुषः काले स्थितः. पुनश्च प्रणिधानं कृत्वा पुनरप्याह.

कृत्वादौ नरकमवीचिमाभवाग्राद्
ये सत्वाश्च्युतिगतिबन्धनावबद्धाः
ते सर्वे सुखमतिनाप्य धर्मयुक्तं
निर्वाणं यदजरमच्युतं स्पृशन्तु.

अथ तच्चक्रमस्पृशमानं शिरसि नित्यकालमेवोपरि विहायसि स्थितम्. नित्यं च किल तस्य माताशिषं प्रयुङ्क्ते. यद्यस्ति मम किंचित्पुण्यफलं प्रदानेन वा शीलेन वा ब्रह्मचर्येण वा पतिव्रतत्वेन वा तेन पुण्यफलेन मम पुत्रस्य यत्र तत्र स्थितस्य मा किंचित्पापं भवतु. तेन च तस्य शिवमासीत्.

ब्) यथा श्यामजातके सविषेण शरेण ... श्यामकुमारस्य मातापित्रोराशीर्वचनेन शल्यश्च निर्गतो विषं च नष्टं मृतश्च संजीवितस्तद्वत्तस्यापि शिवमासीत्. यथा वज्रराजगृहे धनंजयसूत्रे आर्यशारद्वतीपुत्रेणोक्तम्. तमेनं ब्राह्मणं मातापितरौ समं मानितौ सम्यक्पूजितौ कल्याणेन मनसानुकम्पेते. (म्क्व्५६) अधोसी वतन पुत्रो धार्मिकेण कर्मगुणेन न च किंचित्पापं कर्म करोति. सर्वं सूत्रं योज्यम्. यथा च शिवालकसूत्रे भगवतोक्तम्. तमेवं गृहपतिपुत्र मातापितरौ पञ्चसु स्थानेषु प्रत्युपस्थितौ पञ्चसु स्थानेषु प्रतिष्ठापयतः. तस्य पुनर्गृहपतिपुत्र मातापितृभ्यामनुकम्पितस्य पुरुषपुद्गलस्य वृद्धिरेवं प्रत्याशंसितव्या.

च्) स तत्र प्रीत्याहारः स्थित्वा परिपूर्णेषु षष्टिवर्षसहस्रेषु कालगतः.

द्) यथा राजाजातशत्रुरपरिपूर्ण एव नैरयिकायुःप्रमाणे च्युतः. अबन्ध्यत्वात्कर्मणां कदाचिदतीव शिरोरुजा भवति.

ए) अत्र कृतप्रणिधानस्य मैत्रायज्ञस्य मातापितृशुश्रूषा वक्तव्या. यथा श्यामजातकेऽन्धौ मातापितरौ हस्तिभूतेन परिपालितौ. अन्येषु जातकशतेषु च.

f) अथ भगवान् प्राप्तकालं भिक्षूनामन्त्रयते. स्यादेवं भिक्षवो युष्माकमन्यः स तेन कालेन तेन समयेन मैत्रायज्ञो नाम सार्थवाहपुत्रो बभूवेति. नैवं द्रष्टव्यम्. अहं स तेन कालेन तेन समयेन मैत्रायज्ञो नाम सार्थवाहपुत्र आसीत्. तस्मात्तर्हि भिक्षवो मम वचनं श्रद्दधानैर्बुद्धे सगौरवैर्भवितव्यं धर्मे संघे सगौरवैर्भवितव्यम्. मातापितृषु आचार्योपाध्यायेषु सगौरवैर्भवितव्यम्. एवं वो भिक्षवः शिक्षितव्यम्. य एवं देशान्तरगतः सुखं दुःखं प्रत्यनुभवति. (म्क्व्५७) यथा मैत्रायज्ञेन देशान्तरगतेन तस्मिन्नेव जन्मनि प्रत्येकस्वर्गं प्रत्येकनरकं चानुभूतम्. य एवं देशान्तरगतः सुखं दुःखं प्रत्यनुभवति. इदं कर्म देशान्तरविपाकम्.

ग्) एतद्दर्शयति भगवान्. यथा मयि तथा मातापितृषु. आचार्योपाध्यायेषु वचनकारिणां समो विपाकः इह लोके परलोके च. कथमिह लोके समः कर्मविपाको भवति. यथा श्रावस्त्यां दरिद्रपुरुषो भगवन्तं सश्रावकसंघं भुञ्जानं दृष्ट्वा चित्तं प्रसादितवान्. तेन महापुण्यसंभार उपार्जितः राज्यसंवर्तनीयं कर्म कृतम्. तदेव च मोक्षबीजम्. तच्च ज्ञात्वा भगवता गाथा भाषिता.

ये तत्राभ्यनुमोदन्ते वैयावृत्यकराश्च ये
अनूना दक्षिणा तेषां तेऽपि पुण्यस्य भागिनः.

एतदेव गाथा समुत्थानम्.

मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः
मनसा चेत्प्रसन्नेन भाषते वाकरोति वा
ततस्तं सुखमन्वेति छाया वा अनुयायिनी.

ततश्च्युतश्च देवेषूपपन्नः. यथा च तगरशिखी नाम प्रत्येकबुद्धः. दुर्भिक्षे दरिद्रपुरुषेण सूपः प्रतिपादितः. स च तदहरेव तस्मिन्नगरे राजाभिषिक्तः. ततः कालान्तरेण प्रत्येकबुद्धः संवृत्तः. य एष सूत्रन्तरे परिपठितः प्रत्येकबुद्धस्(म्क्व्५८) तगरशिखी नाम. एवं तावद्भगवति सांदृष्टिकश्चित्तप्रसादस्य फलविपाकः.

ह्) कथं मातापितृषु. यथा मैत्रायज्ञः सार्थवाहपुत्रः आचतुर्थं प्रतिनिवृत्तो मातुर्वचनेन चतुर्षु महानगरेषु प्रत्येकस्वर्गसुखमनुभूतवान्. तत्तु तस्य मोक्षबीजम्. एवं मातापितृष्वपि सांदृष्टिकः फलविपाकः.

इ) कथं भगवति मातापितृषु च चित्तप्रदोषेण नरकगमनं भवति. उच्यते. देवदत्तो भगवति चित्तं प्र ... तोऽवीचौ महानरके पतितः. तथा सिन्धु विषये रौरुकं नाम नगरम्. तत्र शिखण्डी राजपुत्रः पितरं घातयित्वा नरके पतितः. एवं भगवति मातापितृषु च चित्तप्रदूषणेन नरकगमनं भवति.

ज्) तेन कारणेन किं नास्ति नानाकरणम्. उच्यते. महान्तं नानाकरणम्. भगवाननेककल्पशतसहस्रोपार्जितकुशलमूलसंभूतसंभारः अनुत्पन्नस्य मार्गस्योत्पादयिता बुद्धो बोधाय मार्गं देशयति. तस्मिन् कृतः प्रसादोऽप्रमेयफलविपाकः अन्ते च निर्वाणम्. मातापित्रोर्मोक्षमार्गोऽविदितः. अपि च न सर्वं मातापित्रोर्वचनं कार्यम्. सन्ति केचिन्मिथ्यादर्शनोपहतचित्ताः पुत्रान् ब्रुवन्ति. एहि मामवसनं नय. तव च भविष्यति हिताय (म्क्व्५९) सुखाय मम च. [प्रपाते मां पा]तयाग्नौ वा प्रवेशयेति. तन्नैव कर्तव्यम्. किं कारणम्. मातापितरौ घातयित्वावश्यं नरकगमनम्. अत एव भगवता प्रतिषिद्धो न मातापितृघातकः प्रव्राजयितव्यः नास्ति तस्य प्रव्रज्या नोपसंपदा. नास्ति फलप्राप्तिः. एवंविधं वर्जयित्वान्यथा समसमा मातापितर आचार्योपाध्यायाः. कथं च समसमा. ननु भगवतोक्तम्. मातापित्रोः पुत्रस्नेहो यावदस्थिमज्जामाश्रित्य तिष्ठत्यत एव मातापितृभ्यामननुज्ञातस्य नास्ति प्रव्रज्या. यथार्यराष्ट्रपालशोणप्रभृतयो भगवता मातापितरावननुज्ञाप्य न प्रव्राजिताः. अद्यापि तानननुज्ञातान्न प्रव्राजयन्ति. यथा च भगवति प्रव्रजिते शुद्धोदनस्य पुत्रशोकेन चक्षुषी अन्तर्हिते. उच्यते. मातापितरः पञ्च स्थानानि प्रत्याशंसमानाः पुत्रमिच्छन्ति. शंवर्धितो नो वृद्धीभूतान् पालयिष्यति कार्यं च करिष्यति द्रव्यस्वामी च भविष्यति. कालगतानां च पितृपिण्डं दास्यति. कुलवंशश्च चिरस्थितिको भविष्यति. इमानि पञ्च स्थानानि प्रत्याशंसमाना मातापितरः पुत्रमिच्छन्ति. नैवमाचार्योपाध्यायाः. केवलमेव कारुण्यं पुरस्कृत्य कथमस्या नादिकालप्रवृत्तस्य संसारचक्रस्य पर्यन्तं कुर्यादिति. यथा भगवता विनय उक्तम्. उपाध्यायस्य शिष्ये पुत्रसंज्ञा भवति. शिष्यस्याप्युपाध्याये पितृसंज्ञा भवति. एवमन्योन्यनिश्रिताः सुखिनो भविष्यन्ति. एवमाचार्योपाध्यायाः समसमा मातापितृभिः. यथा चक्रवर्तिसूत्र (म्क्व्६०) उक्तं भगवता. कस्य कर्मणो विपाकेन राजा चक्रवर्ती हस्तिरत्नान्यश्वरत्नानि च प्रतिलभते. दीर्घरात्रं राजा चक्रवर्ती मातरं पितरं वा स्वयं वा स्कन्धे वहति वा रथादिभिर्वाहयति वा. आचार्योपाध्यायान् स्वयं वहति वाहयति वा. तस्य कर्मणो विपाकेन राजा चक्रवर्ती हस्त्यश्वरत्नानि प्रतिलभते. अनेनापि कारणेन समसमा मातापितर आचार्योपाध्यायाश्च. अपि त्वस्त्यन्यत्र नानाकरणम्. गृहस्थानां मातापितृ प्रव्रजिताः पूज्याः. प्रव्रजितानामाचार्योपाध्याया एव पूजनीयाः. यथा महीशासका गोत्रान्तरीया विनयेऽर्थोत्पत्तिं धारयन्ति. यथाह भगवान्. न भिक्षवः आचार्योपाध्यायाननापृष्ट्वा देशान्तरं गन्तव्यम्. कस्माद्. भवति भिक्षवो जीवितान्तरायो भवति ब्रह्मचर्यान्तरायो भवति पात्रचीवरान्तरायः. भूतपूर्वं भिक्षवो मैत्रायज्ञो नाम सार्थवाहपुत्र आसीदिति. एतदेवावदानं यथावस्थितं वक्तव्यम्. एवमेव समसमा आचार्योपाध्याया मातापितरश्च. यथा चोक्तं भगवता. यो भिक्षवो मातापितरौ स्कन्धेन गृह्य जम्बुद्वीपं पर्यटेत योगोद्वहनं च कुर्यात्चतुर्षु (म्क्व्६१) द्वीपेषु हिरण्यसुवर्णं च दद्यात्. एवमपि मातापित्रोः प्रत्युपकारो न कृतो भवति. यश्च पुनर्बुद्धे प्रसादयेत्. धर्मे. संघे. पञ्चसु शिक्षापदेषु आर्यकान्तेषु शीलेषु प्रतिष्ठापयेत्. एवं मातापितॄणां पुत्रैः प्रत्युपकारः कृतो भवति. तच्च सर्वमाचार्योपाध्यायाः कुर्वन्ति. यथाह भगवान् दक्षिणाविभङ्गसूत्रे. यथानन्द पुद्गलः पुद्गलमागम्य बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति यथोक्तानि च शिक्षापदानि वक्तव्यानि. तेनानन्द पुद्गलेन तस्य पुद्गलस्य न शक्यं प्रतिकर्तुम्. यदिदमभिवादनप्रत्युत्थानमात्रेणैवमपि प्रतिविशिष्टतरा आचार्योपाध्याया मातापितृभ्याम्. यथा च महाकात्यायनेनावन्तिप्रभृतयः पश्चिमजनपदा अभिप्रसादिताः.
यथा चार्यमध्यन्दिनेन काश्मीरायां पञ्च नागशतनि विनीय देशोऽभिप्रसादितः (म्क्व्६२) अनवतप्तसरसश्च कुङ्कुममानीय कश्मीरायां प्रतिष्ठापितम्. तच्चाद्यापि लोकोपभुक्तम्. विहारश्च कारितोऽद्यापि च तत्रैव प्रतिवसन्ति. यथा आर्यगवांपतिना सुवर्णभूम्यां योजनशतं जनपदोऽभिप्रसादितः. यथा च पूर्वविदेहा आर्यपिण्डोलभारद्वाजेनाभिप्रसादिता विहाराश्च कारिता अद्यापि तत्रैव (म्क्व्६३) प्रतिवसन्ति. यथा चार्यमहेन्द्रेण सिंहलद्वीपे विभीषणप्रभृतयो राक्षसाः समये स्थापिता देशश्चाभिप्रसादितः. यथा चाध्यर्धशतके सूत्र आर्यपूर्णेन शूर्पारके नगरे पञ्चोपासकशतानि (म्क्व्६४) अभिप्रसादितानि. चन्दनमालश्च विहारः कारितः. यथा च भगवान् पञ्चभिर्भिक्षुशतैः सार्धं विहायसा तत्र गतो जनकायश्चाभिप्रसादितः. अपि च किमेकैकस्य भिक्षोर्नामग्रहणेन कृतेन यतो भगवान् परिनिर्व ... न्तर्यः कश्चिद्विनीतो भिक्षुर्वा भिक्षुणी वोपासको वोपासिका वा सर्वे ते भिक्षुभिरेव विनीताः. यश्च येनाभिप्रसादितः स तस्याचार्योपाध्यायाश्च एत .... त भगवान्मातापितरः पञ्च स्थानानि प्रत्यनुशंसमानाः पुत्रमिच्छन्ति. आचार्योपाध्यायास्तु कारुण्यान्निर्वाणं धर्मं देशयन्ति. अनेनापि कारणेन मातापितृभ्य आचार्योपाध्यायाः प्रतिविशिष्टतरा इति. अत एवमाह भगवान्. मम भिक्षवो वचनं श्रद्दधानैर्भगवति परः प्रसादः कार्यः धर्मे संघे मातापितृष्वाचार्योपाध्यायेषु परः प्रसादः कार्यः. तद्वो भविष्यति दीर्घरात्रं हिताय सुखायेति. इदं कर्म देशान्तरविपाकम्.

(म्क्व्६५)
xxxइइइ. कतमत्कर्म येन समन्वागतः पुद्गलः पूर्वं सुखितो भूत्वा पश्चाद्दुःखितो भवति. उच्यते. इहैकत्यो दानं याचितः समानः पूर्वं प्रहृष्टः प्रतिजानीते प्रमुदितो ददाति. दत्त्वा च खलु प्रतिसारी भवति. स यदा मनुष्येषूपपद्यते. आढ्येषु महाधनेषु महाभोगेषु कुलेषूपपद्यते. पश्चात्तस्य ते भोगाः परिक्षयं पर्यादानं गच्छन्ति. स पश्चाद्दरिद्रो भवति. यथार्यगोपकः. तेन किल ककुच्छन्दे सम्यक्संबुद्धे भिक्षुसंघस्य गोधेनुर्दत्ता. स पश्चात्परैर्गर्हितो न साधुकृतेयं दत्तेति. तेन चित्तं प्रदूषितम्. स यत्र यत्रोपपद्यते तत्र तत्र महाधनो भवति. पश्चात्तेन चित्तप्रदोषेण दरिद्रो भवति. पश्चिमे भवेऽपि राजगृहे नगरे (म्क्व्६६)ऽन्यतरस्मिन् गृहे प्रत्याजातः. तस्य जायमानस्य माता कालगता. अनेन माता मारिता जायमानेन मूलनक्षत्रे जातोऽयं मा निर्मूलं कुलं करिष्यत्यमङ्गलोऽयमिति मात्रा सार्धं श्मशाने उत्सृष्टः. तत्रापि च मातुरेकस्तनात्क्षीरं प्रघरति तेनैव पुण्यानुभावेन. विवृद्धश्च भगवतागत्य प्रव्राजितः. एतच्च सर्वमनुपूर्वेण भगवता भिक्षूणां कथितम्. एवमनेन पूर्वं क्षीरधेनुः प्रसादजातेन दत्ता पश्चाद्विप्रतिसारी संवृत्तः. तस्येदं कर्मफह्म्. यस्त्वसौ पूर्वकश्चित्तप्रसादस्तदेवास्य मोक्षबीजम्. यथा च चम्पायां महानगर्यामीश्वरो गृहपतिपुत्रः. तेन भृत्यानां हस्ते सर्वं धनं चतुर्दिशं बाणिज्याय प्रेषितम्. तच्च सर्वं देशान्तरगतं विनष्टम्. स च परकर्मकरः संवृत्तः. इदं कर्म येन समन्वागतः पुद्गलः पूर्वं सुखितो भूत्वा पश्चाद्दुःखितो भवति.

xxxइव्. कतमत्कर्म येन समन्वागतः पुद्गलः पूर्वं दुःखितो भूत्वा पश्चात्सुखितो भवति. उच्यते. इहैकत्यो दानं समादाय याचितः समानः प्रतिजानीते. कृच्छ्रेण ददाति. दत्त्वा तु दानं पश्चात्प्रीतिमुत्पादयति. स यदा मनुष्येषूत्पद्यते दरिद्रेषु कुलेषूत्पद्यते. तस्य पश्चात्ते भोगा अभिवृद्धिं गच्छन्ति. अत्र चानिरुद्धस्यावदानं वक्तव्यम्. तेन किल राजगृहे (म्क्व्६७) श्यामाकतण्डुलभक्तमुपरिष्ठस्य प्रत्येकबुद्धस्य पिण्डपातो दत्तः. तद्दिवसमेव राज्ञा तुष्टेनाष्टौ महाग्रामा दत्ताः. तच्च पश्चिमकं दारिद्र्यम्. यथा तस्यैव व्याकरणं पूर्वापरान्तके सूत्रे. यथा च श्रावस्त्यां दरिद्रपुरुषेण स्वजनफलानि याचित्वा क्षेत्रं नीतानि कर्षणार्थे. तस्य पत्न्या परगृहे भाजनमाधाय व्रीहिमानीय भक्तं सिद्धम्. अथ भगवता शारिपुत्रमौद्गल्यायनमहाकाश्यपसुभूतिप्रभृतयः एते उक्ताः. अमुकस्य गृहपतेर्गृहे प्रथमं भैक्ष्यं ग्रहीतव्यमिति. ते च सर्वे यथानुपूर्वं तत्र गताः. सर्वैश्च तस्माद्भैक्ष्यं लब्धम्. अथ पश्चाद्भगवानपि गतः. तया स्त्रिया जातप्रसादया परिशिष्टं भक्तं सर्वं भगवतो दत्तं प्रणिधानं च करोति. अनेन भगवन् कुशलमूलेन मा मे भूयः कदाचिद्दारिद्र्यं स्यादिति. तथास्त्विति भगवता प्रतिश्रुतम्. तदहरेव तस्य महानिधानं प्रादुर्भूतम्. तच्छ्रुत्वा राजाप्रसेनजित्तस्मिन् गृहे गतः. तेनोक्तम्. अस्माकं पूर्वराजभिस्ते दीनाराः स्थापिता इति. गृहपतिना तस्य ततो गृह्याञ्जलिपूरो दत्तः. अङ्गारः संवृत्तः. राज्ञा भूयो गृहपतेर्दत्ताः. सुवर्णं संवृत्तम्. अथा राजा प्रसेनजिद्विस्मयजातः. गत्वा भगवतो निवेदयति. भगवानाह. पुण्यनिर्जाता गृहपतेर्न ग्राह्या. सर्वं च तदानुपूर्वेण कथितम्. एवमेष यदा दाता भवति दुःखेन याचितः समानः प्रतिजानीते. दुःखेन (म्क्व्६८) ददाति दत्त्वा च चित्तं प्रसादयति. तेन हेतुना पूर्वं दरिद्रो भूत्वा पश्चान्महाधनो भवति. इदं कर्म येन समन्वागतः पुद्गलः पूर्वं दुःखितो भूत्वा पश्चात्सुखितो भवति.

xxxव्. कतमत्कर्म येन समन्वागतः पुद्गलः पूर्वं च पश्चाच्च सुखितो भवति. उच्यते. इहैकत्यो दानं याचितः स प्रहृष्टः प्रतिजानीते प्रहृष्टो ददाति. दत्त्वापि च प्रीतिमान् भवति. स यदा मनुष्येषूपपद्यते. आढ्येषु कुलेषूपपद्यते महाधनेषु महाभोगेषु. अत्र भद्रिके नगरे मिण्ढकप्रभृतीनां चतुर्णां दानपतीनां विपाको वक्तव्यः. तैः किल तगरशिखी प्रत्येकबुद्धः पिण्डपातेन प्रतिपादिलः. अत्र विनयावदानं वक्तव्यम्. इदं कर्म येन समन्वागतः पुद्गलः पूर्वं च पश्चाच्च सुखितो भवति.

xxxवि. कतमत्कर्म येन समन्वागतः पुद्गलः पूर्वं च पश्चाच्च दुःखितो भवति. उच्यते. इहैकत्यः कल्याणमित्र विरहितो भवति. स दानं न ददाति. न च तेन किंचित्पापकं कर्म कृतं भवति. स यदा मनुष्येषूपपद्यते दरिद्रेषु कुलेषूपपद्यते. अल्पान्नपानभोजनेषु. यथा श्रावस्त्यां दरिद्रदारकस्यावदानं वर्णयन्ति. श्रावस्त्यां किल भगवान् पिण्डपातं पर्यटति. तदा च श्रावस्त्यामिक्षुद्वादशी नाम भवति. भगवता चेक्षूणि लब्धानि. अन्यतरस्मिन् गृहद्वारे दरिद्रदारकस्तिष्ठति. स भगवन्तमिक्षूणि याचति. भगवतैकं दत्तम्. स (म्क्व्६९) भूयो याचतिः भगवानाह. वत्स. उच्यताम्. नेच्छामीति ते भूयो दास्यामीति. स प्राह. मया भगवन्न कदाचिन्नेच्छामीत्युक्तं पूर्वम्. भगवानाह. वत्स. उच्यतां नेच्छामि भगवन् सर्वाणि दास्यामीति. तेनेक्षुलोभान्नेच्छामीत्युक्तम्. भगवता सर्वाणि दत्तानि. अथार्यानन्दः पृच्छति. भगवन् किमिदम्. भगवानाह. न कदाचिदेष आनन्द रूपरसगन्धस्पर्शादीनां तृप्तपूर्वोऽभवत्नेच्छामीति वा न कदाचिदुक्तपूर्वम्. तदेतस्य वचनं तस्य नेच्छामीति हेतुभूतं भविष्यति. आह च.

नेच्छामीत्येष व्याहारो न कदाचिदुदीरितः
कुतो रूपाणि शब्दाश्च गन्धाः स्पर्शाश्च वै कुतह्.
इत्येवं प्रार्थयन्नेष नित्यं भ्रमति बालिशः
नेच्छामीति प्रहर्षेण यैषा वाक्समुदीरिता
हेतुरल्पेच्छता यैषा स एवास्य भविष्यति.

इदं कर्म येन समन्वागतः पूर्वं च पश्चाच्च दुःखितो भवति.

xxxविइ. कतमत्कर्म येन समन्वागतः पुद्गल आढ्यो भवति मत्सरी. उच्यते. इहैकत्येनाल्पमात्रं दानं दत्तं भवति शीलवति पात्रभूते न तु पुनस्त्यागचित्तमभ्यस्तं भवति. यदा मनुष्येषूपपद्यते. आढ्येषु कुलेषूपपद्यते महाधनेषु महाभोगेषु. तेन दानविशेषेण यत्तेन पुनस्त्यागचित्तमभ्यस्तं न भवति स तेन कर्मणा मत्सरी भवति. यथा श्रावस्त्यां (म्क्व्७०) हिल्लिशालगृहपतेरवदानम्. स किल पूर्वजन्मनि मत्सरी भवति. अथ तस्य गृहद्वारे तगरशिखी नाम प्रत्येकबुद्ध आगतः. तस्य भिक्षा दत्ता. तेन दृष्ट्वादीयमाना तेन क्षवणये न च भिक्षा दत्ता. स च प्रव्राजितः परिभ्रष्टः. स तेन कर्मणा दिव्यमानुष्यकाः संपत्तयोऽनुभूय श्रावस्त्यामग्रकुलिकपुत्रः प्रत्याजातो मत्सरी कालगतः. तस्य द्रव्यं राज्ञा प्रसेनजितापुत्रकं गृहीत्वा शतवर्गे आगमे प्रसेनजित्संयुक्तेषु राजोपकीर्णकं नाम सूत्रम्. प्रसेनजिद्भगवतः कथयति. इह भगवन्नग्रकुलिकः कालगतः. तस्य मयापुत्रकं स्वापतेयं गृहीतम्. भगवानाह. कतीयं महाराज गृहपतेर्द्रव्यं गृहीतम्. स आह. शतं भगवन् शतसहस्राणां यदाहतं परिशिष्टं द्रव्यमपरिमितमनाहतम्. भगवानाह. इदं तस्य महाराज सप्तममपुत्रकं द्रव्यग्रहणम्. यत्तेन तगरशिखी नाम प्रत्येकबुद्धः पिण्डपातेन प्रतिपादितः. तदस्य कर्म परिक्षीणम्. अन्यच्च कुशलमूलं न कृतम्. तेनाद्य प्रथमायां रात्र्यां महारौरवे नरके पच्यते. तत्र भगवान् गाथा भाषते.

धनं धान्यं जातरूपं गवाश्वमणिकुण्डलम्
दासकर्मकरा भृत्या ये चान्ये अनुजीविनः
म्रियमाणस्य नान्वेति नापि आदाय गच्छति.
यत्तेन कृतं भवति कल्याणमथ पापकम्
तद्धि तस्य स्वकं भवति तच्च आदाय गच्छति.
तस्मात्कुरुत पुण्यानां निचयं साम्परायिकम्
(म्क्व्७१)
पुण्यानि परलोकेऽस्मिन् प्रतिष्ठा प्राणिनां स्मृता
गृहे तिष्ठति कायोऽयं श्मशाने प्रियबान्धवाः
सुकृतं दुष्कृतं चैव गच्छन्तमनुगच्छति.

अयं पुद्गल आढ्यो भवति मत्सरी.

xxxविइइ. कतमत्कर्म येन समन्वागतः पुद्गलो दरिद्रो भवति त्यागवान्. उच्यते. इहैकत्येन पुद्गलेन बहु दानं दत्तं भवति. तिर्यग्गतेषु मनुष्येषु च दुःशीलेष्वब्रह्मचारिषु. पुनः पुनस्त्यागचित्तमभ्यस्तम्. स यदा मनुष्येषूपपद्यते दरिद्रो भवति त्यागवान् तेन दानाभ्यासेन. यत्तु तेनापात्रभूतेषु दानं दत्तं तेन दरिद्रः. यथा श्रावस्त्यां तत्र विनये तन्त्रवायस्य निदानं वर्णयन्ति. स त्यागवान् दरिद्रश्च. पुनः पुनस्त्यागचित्तमभ्यस्तम्. इदं कर्म येन समन्वागतः पुद्गलो दरिद्रो भवति त्यागवान्.

xxxइx. कतमत्कर्म येन समन्वागतः पुद्गल आढ्यो भवति त्यागवान्. उच्यते. इहैकत्येन पुद्गलेन बहु दानं दत्तं भवति शीलवत्सु पात्रभूतेषु. पुनः पुनस्त्यागचित्तमभ्यस्तं भवति. स तेन कर्मणा यदा मनुष्येषूपपद्यते. आढ्येषु कुलेषूपपद्यते महाधनेषु महाभोगेषु. यत्तु तेन पुनः पुनस्त्यागचित्तमभ्यस्तं तेन त्यागवान् भवति. यथानाथपिण्डदेन किल क्रकुच्छन्दे सम्यक्संबुद्धे जेतवनं निर्यातितम्. विहारश्च कारितः. एवं कनकमुनौ सम्यक्संबुद्धे काश्यपे सर्वार्थसिद्धे च. भूयश्च मैत्रेयस्य सुवर्णास्तीर्णं निर्यातयिष्यति. इदं कर्म येन समन्वागतः पुद्गल आढ्यो भवति त्यागवान्.

xल्. कतमस्य पुद्गलस्यायुः क्षीणं न कर्म. उच्यते. यः पुद्गलो नरकाच्च्युतो नरकेषूपपद्यते. तिर्यग्भ्यश्च्युतस्(म्क्व्७२) तिर्यक्षूपपद्यते. यमलोकाच्च्युतो यमलोके उपपद्यते. देवेभ्यश्च्युतो देवेषूपपद्यते. यथा वर्षाकारस्य ब्राह्मणस्य पुनः पुनः कालगतस्य मर्कटोपपत्तिः. यथा काश्मीरायां पूर्वोक्तस्य गृहपतेः पुनः पुनः पशूपपत्तिः. यथा च श्रावस्त्यां कश्चिद्दरिद्रः कुटुम्बी कालगतः. तस्य गृहद्वारे बलीवर्दो व्रणीभूतेन स्कन्धेन तिष्ठति. स गृह आसक्तचित्तः कुटुम्बी तस्य बलीवर्दस्य स्कन्धे कृमिः प्रत्याजातः. उपपन्नमात्रश्च काकेन भक्षितः. पुनस्तत्रैव कृमिः प्रत्याजातः. स एवं सप्तकृत्व एकदिवसेन कालगतः. उपपन्नमात्रश्च काकेन भक्षितः. यथा चार्यमहामौद्गल्यायनो मगधेषु भैक्ष्यं पर्यटमानोऽन्यतमगृहद्वारमनुप्राप्तः. तस्मिंश्च गृहे गृहपतिः पत्नीसहितो मत्स्यमांसप्रकारेण भोजनं भुङ्क्ते. पुत्रेण पर्यङ्कगतेन कृष्णा चास्य कुक्कुरी पुरः स्थिता. स तस्य मत्स्या स्थीनि क्षिपति. अत्ः स गृहपतिर्महामौद्गल्यायनं दृष्ट्वाह. गम्यतामार्य नास्ति काश्चिदत्र यो भिक्षां दास्यति. स खलु संप्रस्थितः. तश्मिंश्च गृहद्वारे देशान्तराभ्यागताः पुरुषा विद्वांसः पूर्वस्थिताः ते तं दृष्ट्वा विस्मयं प्राप्ताः. अहो आश्चर्यमयं नाम ऋद्धिमतामग्र्यः येन नन्दोपनन्दौ नागराजानौ विनीतौ वैजयन्तश्च प्रासादो वामपादाङ्गुष्ठेन कम्पितः शक्रो विस्मापितः त्रिसाहस्रं लोकधातुं निमेषान्तरचारी स नाम भिक्षामदत्त्वा विसर्जितः. अथ स्थविरस्तेषां संवेजनार्थमाह. वत्स. नैतदाश्चर्यम्. पुरुषा ऊचुः. अथ किमन्यदाश्चर्यं विस्मयकारणम्. स उवाच. य एष गृहपतिर्मत्स्यमांसप्रकारैर्भोजनं (म्क्व्७३) भुङ्क्ते एष मत्स्यः अस्य गृहपतेः पिता. तेन या एषास्य गृहस्य पृष्ठतः पुष्करिणी अतः प्रभूतमत्स्यानुद्धृत्योद्धृत्य भक्षिताः. स कालगतोऽत्रैव मत्स्यः प्रत्याजातः. स एषोऽनेकश उद्धृत्योद्धृत्य भक्ष्यते. अत्रैव च भूयो भूय उपपद्यते. याप्येषा कुक्कुरी अस्यैव गृहपतेर्माता. एतया लोभदोषेण न किंचिद्दानं दत्तम्. न च शीलं सेवितम्. केवलं कुलवंशार्थं द्रव्यं परिपालितम्. सात्रैव गृहे आसक्तचित्ता कालगता कुक्कुरीषु प्रत्याजाता. कालगता भूयो भूयोऽत्रैवोपपद्यते. सर्वां च रात्रीं गृहं समन्तात्पर्यटति. मात्र कश्चित्प्रविशेदिति. अथ यस्त्वेष पुत्रः पर्यङ्के कृतः एषोऽस्या एव स्त्रियाः प्रच्छन्नभर्ता अनेन च गृहपतिना श्रुतम्. एषा ते पत्नी परपुरुषव्यासक्ता जातेति. स एष गृहपतिर्ग्रामान्तर गमनव्यपदेशेन गृहान्निष्क्रान्तः. एषापि स्त्री परपुरुषेण सह शयिता. अनेन गृहपतिना रात्रावागम्य पुरुषो घातितः. सोऽस्यामेव स्त्रियामारक्तचित्तस्तेनैव स्नेहानुबन्धेन कुक्षवुपपन्नः. पश्य वत्स यः पिता चैव तस्य स मंसानि भक्षयति. या माता जनित्री तस्या मत्स्यकण्तकास्थिकानि ददाति. यश्च शत्रुः क्रुद्धेन मारितः पारदारिकः तं पर्यङ्केन धारयति. एष संसारदोषो निर्वेदः कार्यः. इदमत्राश्चर्यकारणम्. अथ स भिक्षुर्महामौद्गल्यायन एतदेवार्थं सर्वं पश्चिमजनतासंवेजनार्थं श्लोकेन संगृहीतवान्. यथाह.

पितुर्मंसानि खादते मातुः क्षिपति कण्टकान्
भार्या जारं च पोषेति लोको मोहतमोवृतः.

अयं पुद्गलो यस्यायुः क्षीणं न कर्म.

(म्क्व्७४)
xलि. कतमस्य पुद्गलस्य कर्म क्षीणं नायुः. उच्यते. यः पूर्वं सुखितो भूत्वा पश्चाद्दुःखितो भवति. पूर्वं यो दुःखितो भूत्वा पश्चात्सुखितो भवति. अस्य पुद्गलस्य कर्म क्षीणं नायुः.

xलिइ. कतमस्य पुद्गलस्य कर्म क्षीणमायुश्च. उच्यते. यः पुद्गलो नरकाच्च्युतस्तिर्यक्षूपपद्यते. तिर्यग्भ्यश्च्युतो यमलोके उपपद्यते. यमलोकाच्च्युतो मनुष्येषूपपद्यते. ततश्च्युतो देवेषूपपद्यते. यथा श्रावस्त्यां वणिक्पुत्र उद्यानं गतः पुष्पहेतोः पत्नीवचनेनाशोकवृक्षमारूढः. सा च वृक्षशाखा विशीर्णा. स पाषाणशिलायां पतितः कालगतः. तत्र महाजनकायो रुदति. अथ भिक्षवो दिवाविहारं गताः. तं दृष्ट्वा संविग्ना भगवतो निवेदयन्ति. भगवन्नहो अनित्यता. अत्रोद्याने गृहपतिपुत्रो बालोऽभुक्तभोगोऽशोकवृक्षात्पतितः कालगतह्. तत्र महाजनकायः संनिपतितः रौरवसदृशश्च शब्दः श्रूयते. भगवानाह. एष एव भिक्षवः गृहपतिपुत्रः पूर्वं महासमुद्रेऽन्यतरस्मिं नागकुले उपपन्नः. स तत्र जातमात्र एव स्त्रीसहितः क्रीडमानो गरुडेनोद्धृत्य भक्षितः. तत्र नागकन्या रुदन्ति इह स्त्रियो रुदन्ति. स च यस्याः स्त्रिया वचनेनाशोकवृक्षमारूढस्तस्योपर्याघातं कृतवान्. अस्या दोषेणाहं वृक्षमारूढः. क्रुद्धः कालगतो नरकेषूपपन्नः. अस्य पुद्गलस्य कर्म क्षीणमायुश्च.

xलिइइ. कतमस्य पुद्गलस्य पुण्यानि च क्षीणानि आयुश्च. (म्क्व्७५) उच्यते. यथा स एव हिल्लिशाली गृहपतिः. यथा भगवनाह. तस्य पुनर्महाराज गृहपतेस्तच्च कुशलं कर्म परिक्षीणमन्यच्च न कृतम्. सोऽद्य प्रथमरात्रीं रौरवे पच्यते. यथा राजा प्रसेनजिद्राज्याद्भ्रष्टो राजगृहमनुप्राप्तः. स तत्र पुराणमूलकपत्त्राणि मुखे प्रक्षिप्य खादन् पुरुषेणाक्षिप्तः. श्यासुपूर्णेन म्न्खेनाथ मरणं मृतः. प्रत्येकबुद्धपूर्वस्तस्य [पूर्वस्य?] पिण्डपातस्य विपाकेन. अयं पुद्गलो यस्यायुश्च क्षीणं पुण्यानि च.

xलिइइबिस्. कतमस्य पुद्गलस्य नायुः क्षीणं [न] कर्म. अपि तु क्लेशाः क्षीणाः. उच्यते. श्रोतआपन्नस्य. सकृदागामिनः. अनागामिनः. प्रत्येकबुद्धस्य. अयं पुद्गलो यस्य नायुः क्षीणं [न] कर्म. अपि तु क्लेशाः क्षीणाः.

xलिव्. कतमः पुद्गलः कायेन सुखी न चित्तेन. उच्यते. कृतपुण्यः पृथग्जनः कायेन सुखी न चित्तेन. यथा महाधनब्राह्मणगृहपतयो राजा च मान्धाता. अयं पुद्गलः कायेन सुखी न चित्तेन.

xल्व्. कतमः पुद्गलश्चित्तेन सुखी न कायेन. उच्यते. यथार्हन्नपुण्यः चित्तेन सुखी न कायेन. यथार्य शोणोत्तरस्तेन किल पूर्वजन्मनि प्रत्येकबुद्धस्य स्नायतो गोमयपिण्डकः कपिकच्छुमिश्रः स्नानार्थं दत्तः. तेन कर्म विपाकेन कुष्ठेन शरीरं विशीर्यति. तथा हि गाथा भाषिता.

(म्क्व्७६)
कर्माणि नूनं बलवत्तराणि कर्मभ्यो वज्रकल्पेभ्यः
यत्र वशीभूतोऽहमनुभवामि दुःखानि कर्माणि.

यथा च जङ्घाकाश्यपः. तेन किल वाराणस्यां प्रत्येकबुद्धस्य प्रतिश्रुतम्. भक्तं दाश्यामीति. स तस्य महता परिश्रमेण कालातिक्रमणे आसन्ने भक्तं दत्तवान्. स तेन कर्मणा पश्चिमे जन्मनि वीतरागोऽपि भूत्वा पूर्वाह्णे पिण्डपातं पर्यटति. कालातिक्रमणे आसन्ने कथंचिद्भक्तं लभते. तथास्य जङ्घाकाश्यप एव नाम. अयं पुद्गलश्चित्तेन सुखी न कायेन.

xल्वि. कतमः पुद्गलः कायेन सुखी चित्तेन च. उच्यते. अर्हन् क्षीणास्रवः कृतपुण्यः. यथा कश्मीरराजा धर्मयशःपुत्रो बकुलः. तथा ह्यस्य सिंहनादः. अशीतिर्मे आयुष्मन्तो वर्षाणि प्रव्रजितस्य न कदाचिद्व्याधिर्भूतपूर्वः. अन्ततः शिरोऽर्तिमात्रमपि. तेन किल वाराणस्यां गान्धिकबणिजा भूत्वा ककुच्छन्दः सम्यक्संबुद्धः सश्रावकसंघो ग्लानभैषज्येनोपनिमन्त्रितो भिक्षुणा चार्हता एका हरीतकी गृहीता. स तस्य कर्मणो विपाकेन निराबाधः. आरोग्यपरमा लाभा उक्ता भगवता. यथा चार्यानिरुद्धः कथयति. तस्य खल्वायुष्मन्तः पिण्डपातस्य विपाकेन सप्तकृत्वः प्रणीते त्रयस्त्रिंशदेवनिकाये उपपन्नः सप्तकृत्वो मनुष्येषु राज्यं कारितम्. तस्यैव च पिण्डपातस्य (म्क्व्७७) विपाकेनार्हत्वफललाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां लाभी. तथा हि तस्य भगवता दुर्भिक्षे पञ्च भिक्षुशतानि दत्तानि. तस्य पुण्यानुभावेन सर्वेषां दिव्यमनन्तभक्तं प्रादुर्भवति. अयं पुद्गलः कायेन सुखी चित्तेन च.

xल्विइ. कतमः पुद्गलो न कायेन सुखी न चित्तेन च. अकृतपुण्याः पृथग्जना उत्सन्नकुलवंशा वस्त्रान्नपानविरहिताः परगृहेषु हिण्डन्ति. तथा व्याधिभिः कुष्ठक्षयकासज्वरपाण्डुरोगदद्रुपामादिभिः परिगता हस्तपादविकलाश्चक्षुर्विहीनाश्च. अयं पुद्गलो न कायेन सुखी न चित्तेन.

xल्विइइ. कतमत्कर्म येन समन्वागतः पुद्गलोऽपायेषूपपन्नोऽभिरूपो भवति प्रासादिकः स्निग्धकायः स्निग्धच्छविर्नयनाभिरामो दर्शनीयः. उच्यते. यः पुद्गलो रागसमुत्थितेन दौःशील्येन समन्वागतः अपायेषूपपद्यते. यथा मयूरशुकसारिकाकारण्डवचक्रवाकप्रभृतयः. इदं कर्म येन समन्वागतः पुद्गलोऽपायेषूपपन्नोऽभिरूपो भवति प्रासादिकः स्निग्धकायः स्निग्धच्छविर्नयनाभिरामो दर्शनीयः.

xलिx. तत्र कतमत्कर्म येन समन्वागतः पुद्गलोऽपायेषूपपन्नो दुर्वर्णो भवति रूक्षकायो घोरदर्शनः. उच्यते. यः पुद्गलो द्वेषसमुत्थितेन दौःशील्येन समन्वागतोऽपायेषूपपद्यते. यथा सिंहव्याघ्रकाकशृगालकृष्णसर्पप्रेतपिशाचादयः. इदं कर्म येन अपायेषूपपन्नो दुर्वर्णो भवति रूक्षकायो घोरदर्शनः.

ल्. तत्र कतमत्कर्म येन समन्वागतः पुद्गलोऽपायेषूपपन्नो दुर्गन्धो भवति जिह्मेन्द्रियोऽव्यक्तेन्द्रियः. उच्यते. यः पुद्गलो मोहसमुत्थितेन दौःशील्येन समन्वागतः अपायेषूपपद्यते. (म्क्व्७८) यथा छुछुन्दरीकृम्यजगरयूकामक्षिकादयो यथा शरीरे विंशतिकृमिजातयः. इदं कर्म येन समन्वागतः पुद्गलोऽपायेषूपपन्नो दुर्गन्धो भवति जिह्मेन्द्रियोऽव्यक्तेन्द्रियः.

लि. दशाकुशलाः कर्मपथाः. कतमे दश. त्रिविधं कायकर्म. चतुर्विधं वाक्कर्म. त्रिविधं मनस्कर्म. एषां दशानामकुशलानां कर्मपथानां विपाकेन दशानां बाह्यानां भावानामभिवृद्धिर्भवति.

लिइ. प्राणातिपातस्याकुशलकर्मपथस्य विपाकेन पृथिव्या ओजश्च तेजश्चान्तर्धीयते. तस्यैव च कर्मणो विपाकेनाल्पायुर्भवति.

लिइइ. अदत्तादानस्याकुशलस्य कर्मपथस्य विपाकेन पृथिव्यामशनिशुकशलभमूषिककीटप्रभृतयः सस्यघासका उत्पद्यन्ते. तस्यैव कर्मणो विपाकेन भोगव्यसनमधिगच्छति.

लिव्. काममिथ्याचारस्याकुशलस्य कर्मपथस्य विपाकेन पृथिव्यां तृणदर्भादीनि दुर्गन्धीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेन संपन्नगृहावासं प्रविशन्ति. अत्रावदानं श्वभ्रपदस्य सुसुधी दारिका कासिराज्ञः पत्नी देवावतरणे कालोदयिनः पूर्वजन्मन्यवदानं वक्तव्यम्.

ल्व्. मृषावादस्याकुशलस्य कर्मपथस्य विपाकेन मुखरोगदन्तरोगगलरोगमुखदौर्गन्ध्यादीनि (म्क्व्७९) प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेनाभूताख्यानं प्रतिलभते.

ल्वि. पिशुनवचनस्याकुशलस्य कर्मपथस्य विपाकेन पृथिव्यां शर्करकठल्ल्यादीनि दुःखसंस्पर्शादीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेन जातिव्यसना मित्रव्यसना भवन्ति भेद्यः परिवारश्च भवति.

ल्विल्. परुषवचसोऽकुशलकर्मपथस्य विपाकेन पांशुरजोधूलिवातवृष्ट्यादीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेनामनोज्ञशब्दश्रवणदर्शनान्यनुभवन्ति.

ल्विइइ. संभिन्नप्रलापस्याकुशलस्य कर्मपथस्य विपाकेन ... कन्दरश्वभ्रादीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेनानादेयवचना भवन्ति.

लिx. अभिध्याया अकुशलस्य कर्मपथस्य विपाकेन व्रीहियवगोधूमादीनां सस्यानां तुषपलालादीनि प्रादुर्भवन्ति. तस्यैव कर्मणो विपाकेन परप्रार्थनीयभोगा भवन्ति.

ल्x. व्यापादस्याकुशलकर्मपथस्य विपाकेन प्रभूते उप्ते निष्फलं सस्यं भवति. तस्यैव कर्मणो विपाकेन प्रतिकूलदर्शनो भवति.

ल्xइ. मिथ्यादृष्टेरकुशलस्य कर्मपथस्य विपाकेन तिक्तकटुकभावान्य्(म्क्व्८०) अपि पिचुमन्दकोषातकीविषतिक्तालाबुप्रभृतीनि फलानि प्रादुर्भवन्ति. मिथ्यादृष्टेरकुशलस्य कर्मपथस्य विपाकेन नास्तिक्यवादी भवति. उच्छेददृष्टिः लोकायतादिषु च शास्त्रेषु प्रसादो भवति. यथा पदाश्वस्य राजपुत्रस्य यः कुमारकाश्यपेन श्वेतिकायां विनीतो लोकायतिकः. यथा यथा सत्त्वा इमान् दशाकुशलान् कर्मपथान् भावयन्ति तथैषां दशानां बाह्यानां भावानामतीव प्रादुर्भावो भवति. अनेनैव च कारणेन महासंवर्तकल्पे भविष्यति समयोऽनागतेऽध्वनि यत्तिला भविष्यन्ति तिलपिष्टं भविष्यति तैलं न भविष्यति इक्षुर्भविष्यति इक्षुरसो न भविष्यति गुडो न भविष्यति. न खण्डं भविष्यति न शर्करा भविष्यन्ति. गावो भविष्यन्ति क्षीरं भविष्यति दधि भविष्यति नवनीतं न भविष्यति न घृतं न ग्ःर्तमण्डो भविष्यति. एवमनुपूर्वेण सर्वेण सर्वे रसा अन्तर्धास्यन्ति.

(म्क्व्८१) [नोतेसोन्ल्य्]

(म्क्व्८२)
ल्xइइ. कतमे दशानुशंसा मध्यदेशे चतुर्महाचैत्यलुम्बिनीमहाबोधिप्रभृतिषु तथागतचैत्याञ्जलिकर्मप्रणिपाते. उच्यते. मध्यदेशे जन्म प्रतिलभते. उदाराणि च वस्त्राणि प्रतिलभते. उदारं कुलं प्रतिलभते. उदारं वयः प्रतिलभते. उदारं स्वरं प्रतिलभते. उदारां प्रतिभानतां प्रतिलभते. उदारां श्रद्धां प्रतिलभते. उदारं शीलं प्रतिलभते. उदारं श्रुतं प्रतिलभते. उदारं त्यागं प्रतिलभते. उदारां स्मृतिं प्रतिलभते. उदारां प्रज्ञां प्रतिलभते. अस्योद्दानम्. देशवस्त्रकुलरूपस्वरप्रतिभानताश्रद्धाशीलश्रुतत्यागान् स्मृतिमान् भवति प्रज्ञावान् तथागतस्य बुद्धप्रसादं कृत्वाञ्जलिं लभते धीरः (म्क्व्८३) सप्रज्ञ उदारमाश्रवक्षयम्. उक्तं च सूत्रे. ये केचिदानन्द चैत्यचर्यां चरमाणाः प्रसन्नचित्ताः कालं करिष्यन्ति. यथा भल्लो निक्षिप्तः पृथिव्यां तिष्ठते एवं कायस्य भेदात्स्वर्गेषूपपत्स्यन्ति.

(म्क्व्८४)
ल्xइइइ. कतमे दशानुशंसास्तथागतचैत्यवन्दनायाम्. उच्यते. अभिरूपो भवति. सुस्वरः. आदेयवाक्यः. परिषदमुपसंक्रान्तः परिषदमावर्जयति प्रियो भवति देवमनुष्याणाम्. महेशाख्यो भवति. महेशाख्यैः समागमो सत्त्वैः भवति. बुद्धैर्बुद्धश्रावकैश्च समागमो भवति. महाभोगो भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. इमे दशानुशांसास्तथागतचैत्यवन्दनायाः.

(म्क्व्८५)
ल्xइव्. कतमे दशानुशंसाश्छत्त्रप्रदानस्य. उच्यते. छत्त्रभूतो भवति लोकस्य. अनवतप्तो भवति कायेन अनवतप्तो भवति चित्तेन. आधिपत्यसंवर्तनीयं चानेन कर्म कृतं भवत्युपचितम्. पुनः पुनश्च राजा भवति चक्रवर्ती. महेशाख्यो भवति. महेशाख्यैः सत्त्वैः समागमो भवति बुद्धैर्बुद्धश्रावकैश्च समागमो भवति. महाभोगो भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.

अ) अत्र गङ्गासंतारे भगवतः प्रत्येकबुद्धस्य स्तूपे दत्तस्य छत्त्रस्य विपाको वर्ण्यते. यथा चार्यसुन्दरनन्दो व्याकरोति.

जेन्ताकस्य च स्नानेन तालस्यालेपनेन च
एकच्छत्त्रप्रदानाच्च प्राप्ता मे सुवर्णवर्णता.

एवमादि छत्त्रप्रदानस्य विपाको वक्तव्यः. आह च.

(म्क्व्८६) [नोतेसोन्ल्य्]

(म्क्व्८७)
यद्धार्यते प्रवरदण्डमुदाररूपं
कोदण्डदामपरिमण्डितवस्तिकोशम्
छत्त्रं विशालममलं शशिमण्डलाभम्
छत्त्रप्रदानजनितेन जगद्धरस्य.
श्रीचिह्नभूतं मणिहेमदण्डम्
पटोज्ज्वलं काञ्चनमातपत्रम्
यद्धार्यते मूर्ध्नि नराधिपस्य
छत्त्रप्रदानेन जगद्धरस्य

इमे दशानुशंसश्छत्त्रप्रदानस्य.

ल्xव्. कतमे दशानुशंसा घण्टाप्रदानस्य. उच्यते. अभिरूपो भवति. सुस्वरो भवति. मनोज्ञभाषी भवति. कलविङ्करुतभाषी भवति. आदेयवाक्यो भवति. नित्यं संप्रहार्यजातो भवति. पुनः पुनरानन्दं शब्दं शृणोति. स्वर्गेषूपपद्यते. महाभोगश्च भवति. क्षिप्रं च परिनिर्वाति.

अ) यथा विशाखया मृगारमात्रा भगवान् पृष्टः. कथं मम प्रासादे नित्यं कालं पञ्चाङ्गिकं तूर्यं सदैव वदेत्. भगवान् (म्क्व्८८) आह. सर्वस्वरोपेतां घण्टामारोपय. एवं ते नित्यं कालं प्रासादे पञ्चाङ्गिकतूर्यशब्दो भविष्यति. अनवद्यश्च. इमे दश गुणा घण्टाप्रदानस्य.

(म्क्व्८९)
ल्xवि. कतमे दश गुणा वस्त्रप्रदानस्य. उच्यते. श्लक्ष्णछविर्भवति. स्निग्धच्छविर्भवति. न चरजश्चैलं काये श्लिष्यति. ह्रीरपत्राप्यसंपन्नो भवति प्रियदर्शनो भवति प्रभूतवस्त्रो भवति लाभी च भवति सूक्ष्माणां वस्त्राणामास्तरणानाम्. महाभोगो भवति. स्वर्गेषूपपद्यते क्षिप्रं च परिनिर्वाति. यथोक्तं भगवता देवतासूत्रे. वस्त्रप्रदो भवति वर्णवान्. इमे दश गुणानुशंसा वस्त्रप्रदानस्य.

(म्क्व्९०)
ल्xविइ. कतमे दशानुशंसा आसनप्रदानस्य. उच्यते. गुरुस्थानीयो भवति लोकस्य. प्रियदर्शनो भवति. प्रासादिको भवति. पण्डितजनाभिगम्यो भवति. यशः कीर्तिश्चास्य लोके प्रथिता भवति. सुखसौमनस्यबहुलो भवति. स्वदेशेऽभिरमति. आसनैरवैकल्यं भवति. उपस्थायकैरवैकल्यं भवति. महाभोगश्च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. इमे दश गुणा आसनप्रदानस्य.

(म्क्व्९१)
ल्xविइइ. कतमे दशानुशंसा भाजनप्रदानस्य. उच्यते. भाजनभूतो भवति गुणानां स्निग्धसंततिर्भवति. न च तृषाबहुलो भवति. तृषार्तस्य पानीयं प्रादुर्भवति. न च प्रेतेषूपपद्यते. भाजनैरवैकल्यं भवति. महाभोगश्च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. इमे दशानुशंसा भाजनप्रदानस्य.

(म्क्व्९२)
ल्xइx. कतमे दशानुशंसा भोजनप्रदानस्य. उच्यते. बलवान् भवति. वर्णवान् भवति. सुखितो भवति. प्रतिभानवान् भवति. दीर्घायुर्भवति. महाजनाभिगम्यो भवति. प्रियदर्शनो भवति. महाभोगश्च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.
अ) यथोक्तं भगवता वैशाल्यां सिंहस्य राजपुत्रस्य. ददन् सिंह प्रियो भवति. सन्तो जना भजन्ति. कल्याणशब्दो भवति. विशारदः पर्षदमवगाहति. कालगतो देवेषूपपद्यते.
गाथा चोक्ता.
(म्क्व्९३)
ते तत्र नन्दन्ति रमन्ति च मोदयन्ति
समर्पिताः कामगुणेषु पञ्चसु
कृत्वा हि वाक्यममितस्य तायिनो
मोदन्ति ते सुगतवरस्य श्रावकाः.

एतद्दानस्य फलं भगवतोक्तम्.

स्वर्गेषूपपद्यते क्षिप्रं च परिनिर्वाति. आह च.

नानारसव्यञ्जनसुप्रणीतं
काले शुभं गन्धरसोपपन्नम्
ददाति यः पात्रमवेक्ष्य दानं
सदार्यसंघस्य गुणान् विचिन्त्य
आयुश्च वर्णं च यशो बलं च
संप्राप्य भोगान् प्रतिभां सुखं च
दिवीह चैव प्रथितोत्तमश्रीः
सुखात्सुखं याति विमोक्षमन्ते.

इमे दश गुणा भोजनप्रदानस्य.

(म्क्व्९४)
ल्xx. कतमे दश गुणा यानप्रदानस्य. उच्यते. सुकुमारचरणो भवति. स्न्प्रतिष्ठितचरणो भवति. मार्गक्लमथो न भवति. न च बह्वमित्रो भवति. पुनः पुनः ऋद्धिपादान् प्रतिलभते. हस्त्यश्वादिभिर्यानैरवैकल्यं भवति. महाभोगश्च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.

अ) यथा चोक्तं देवतासूत्रे. यानदः सुखितो भवति. यो ददात्युपानहौ. यथा चोक्तमभिधर्मे चक्रवर्तिसूत्रे. कतमस्य कर्मणो विपाकेन राजा चक्रवर्ती हस्त्यश्वादीनि वाहनानि प्रतिलभते. दीर्घरात्रं राजा चक्रवर्ती मातरं वा पितरं वोपाध्यायं वा स्कन्धेन वहति वा वाहयति वा. हस्त्यश्वादिभिः शिविकायानैर्वा वहति वा. दुर्गसंक्रमं वा करोति. सेतुबन्धं करोति. उपानहप्रदानानि वा ददाति. कारुण्येन महाटव्यां सार्थमतिक्रामयति. तस्य कर्मणो विपाकेन राजा चक्रवर्ती हस्त्यश्वादीनि प्रतिलभते. तत्रारूढः समुद्रपर्यन्तां पृथिवीं दिवसचतुर्भागेन पर्यटति. इमे दश गुणा यानप्रदानस्य.

(म्क्व्९५) [नोतेसोन्ल्य्]
(म्क्व्९६)
ल्xxइ. कतमे दश गुणाः प्रतिश्रयप्रदानस्य. उच्यते. राजा भवति प्रादेशिकः. राजा भवति माण्डलिकः. राजा भवति जम्बुद्वीपाधिपतिः. राजा भवति द्वीपद्वयाधिपतिः. राजा भवति द्वीपत्रयाधिपतिः. राजा भवति चतुर्द्वीपाधिपतिश्चक्रवर्ती. महाभोगश्च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.

यथा सुमेधाया भिक्षुण्या गाथा.
(म्क्व्९७)
भगवति कोनागमुनौ संघारामे च निवेशे
सख्यस्त्रयो वयं स विहारं ददौ पूर्वम्.

एता गाथा सुमेधायाः. धर्मदिन्ना च भिक्षुणी विशाख्या च मृगारमाता. ताभिः पूर्वं दरिद्रस्त्रीभिश्चत्वारि काष्ठानि निखन्य काशकटकमुपरि दत्त्वा भगवान् कोनागमुनिर्बुद्धो निमन्त्रितः. स तत्र भिक्षुभिः सार्धं मुहूर्तं विश्रान्तः. ताभिश्चित्तानि प्रसादितानि. तेन कर्मणा शतसहस्रं वारान् देवेषूपपन्नाः. अपरिमितानि चक्रवर्तिराष्ट्रान्यनुभूतानि. सुमेधागाथाश्चास्मिन्नर्थे सर्वा विस्तरेण प्रत्येकमवगन्तव्याः. इमे दश गुणाः प्रतिश्रयप्रदानस्य.

ल्xxइइ. कतमे दश गुणाः पानकप्रदानस्य. उच्यते. सर्वेन्द्रियसंपन्नो भवति. प्रसन्नवदनो. विशुद्धललाटः. स्निग्धच्छविः. संगतभाषी भवति. न च तृषाबहुलो भवति. तृषितस्य (म्क्व्९८) पानीयं प्रादुर्भवति. न च प्रेतेषूपपद्यते. महाभोगश्च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति. यथा चाह.

मनोज्ञवर्णं रसगन्धयुक्तं
सर्वेन्द्रियप्रीतिविवर्धनं च
अकालिकं सत्पुरुषप्रशस्तं
ददाति संघाय तु पानकं यः
सकृत्पिपासाविगतो विशोको
रसान् प्रधानाञ्चतुरोऽनुभूय
जगच्च सद्धर्मरसेन तर्प्य
तृषाक्षयं याति सुखं सुखेन.

इमे दश गुणाः पानकप्रदानस्य.

ल्xxइइइ. कतमे दश गुणा मालाप्रदानस्य. उच्यते. मालाभूतो भवति लोकस्य. कायाद्दौर्गन्ध्यमपैति सौगन्ध्यं प्रादुर्भवति. नित्यसुगन्धो नित्यालंकृतो भवति. अभेद्यपरिवारो भवति. सर्वजनप्रियो भवति. महाभोगश्च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.

(म्क्व्९९)
अ) अह च.

माल्यं विचित्रं प्रवरं सुगन्धं
प्रहर्षणं प्रीतिकरं नराणाम्
प्रसन्नचित्तो मुनिधातुगर्भे
तथागतेभ्यश्च ददाति यो वै
स दिव्यमाल्याभरणोज्ज्वलाङ्गः
श्रीमत्सुखं प्राप्य दिवीह चैव
बोध्यङ्गदामप्रतिभूषितात्मा
मोक्षं परं याति गुणाग्रगन्धः.

ब्) तथान्यतरस्य दरिद्रगृहपतेर्दुहिता. सा खलु द्वारे स्थिता जनपदं सर्वालंकारभूषितं पश्यति. उत्सवे रममाणम्. सा पितरमाह. मामप्यलंकुरुष्वेति. पिताह. कुतोऽस्माकं दरिद्राणामलंकारः. एष जनपदः कृतपुण्योऽनेकशो बुद्धे भगवति कृताधिकारः. तेन च कर्मणा कर्णेसुमनस्य स्थविरस्यावदानं विस्तरशस्तस्योक्तम्. एवमल्पोऽपि भगवति कृतः प्रसादो महाफलो भवति. तया पितातीवोपरोधितः प्रयच्छ मम किंचिदेषोऽग्रतो विहारः अत्र भगवतः पूजामुपरिष्यामीति. तेन दुःखार्तेन विभवेऽविद्यमाने पलालमयीं मालां कृत्वा दत्ता. सा तां पलालमयीं मालां गृह्य बुद्धप्रतिमायाः शिरसि दत्त्वा पादयोः प्रणिपत्य आह. भगवन्ननेन कुशलमूलेन संसारे संसरत्या मा भूयः दारिद्र्यं स्यादिति. तस्याः प्रसादजातायास्तदहरेव मानुष्यं स्त्रीभावमतिक्रान्तं दिव्यं रूपं प्रादुर्भूतम्. तद्विषयप्रतिवासिना च राज्ञाग्रदेवी स्थापिता. कालगता देवेषूपपन्ना. पश्चिमेऽपि च भवे चम्पायामग्रकुलिकस्य (म्क्व्१००) दुहिता प्रत्याजाता परमकल्याणी सौवर्णा चास्या माला सर्वरत्नमण्डिता शिरसि सहसैव प्रादुर्भूता. मातापितृभ्यां विस्मयजाताभ्यां मालिनीत्येवास्या नाम कृतम्. यदा च भगवानभिसंबुद्धो राजगृहाच्चम्पामनुप्राप्तः. सा चोपसंक्रान्ता. तस्याश्च भगवता धर्मदेशना कृता प्रव्रजिता चार्हन्ती संवृत्ता. साह चित्तोत्पादादेवास्या मा मे भूयो माला भवत्वित्यन्तर्हिता. तां च दृष्ट्वा विस्मयप्राप्ता देवता गाथामनुगायते यथाह.

दत्त्वा तु पलालमयीं मालां सा मालिनी सुगतस्य चैत्ये
वरकनकरत्नमालां लेभे बोध्यङ्गमालां च.

इमे दश गुणा मालाप्रदानस्य.

ल्xxइव्. कतमे दश गुणा मुक्तपुष्पप्रदानस्य. उच्यते. पुष्पभूतो भवति लोकस्य. घ्राणेन्द्रियं विशुध्यति. कायदौर्गन्ध्यं समपैति. सौगन्ध्यं प्रादुर्भवति. दश दिशः शीलगन्धः ख्यातिं गच्छति. अभिगमनीयश्च भवति. लाभी च भवति (म्क्व्१०१) इष्टानां धर्माणाम्. महाभोगश्च भवति. स्वर्गेषूपपद्यते क्षिप्रं च परिनिर्वाति.

अ) अत्र कर्णेसुमनस्य पूर्वजन्मनि प्रसादे जाते एकैकपुष्पप्रदानस्य विपाको वक्तव्यः. यथा स एव आह.

एकपुष्पप्रदानेन अशीतिकल्पकोटयः
दुर्गतिं नाभिजानामि बुद्धपूजाय तत्फलम्.

इमे दश गुणा मुक्तपुष्पप्रदानस्य.

ल्xxव्. कतमे दश गुणा दीपप्रदानस्य. उच्यते. प्रदीपभूतो भवति लोकस्य. मांसचक्षुर्नश्यति. दिव्यचक्षुः प्रादुर्भवति. अविद्यान्धकारं विधमति. ज्ञानालोक उत्पद्यते. कुशलाकुशलान् धर्मान् क्षिप्रं प्रज्ञया प्रतिविध्यति. संसारे संसरतोऽविद्यान्धकारो न भवति. महाभोगश्च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.

(म्क्व्१०२)
अ) यथा चोक्तमभिधर्मे चक्रवर्तिसूत्रविभङ्गे. कस्य कर्मणो विपाकेन राजा चक्रवर्ती मणिरत्नं प्रतिलभते. दीर्घरात्रं राज्ञा चक्रवर्तिना दीपप्रदानानि प्रदत्तानि. प्रदीपैकदानानि च. अन्धकारे रत्नप्रदीपा धारिता. ये चक्षुष्मन्तस्ते समविषमाणि रूपाणि पश्यन्तु. आह च.

बुद्धप्रशस्तं लभते च चक्षुश्
चक्षुस्तु यस्योत्तमहेतुभूतम्
लोकावभासं भवतीह रूपम्
प्रदीपदानेन जगद्धरस्य.
तेजोऽधिको नार्थमुदीक्षणीयः
अतीव तुष्टः शुभकर्मदर्शी
संप्राप्य सौख्यं दिवि चेह चैव
विशुद्धचक्षुः प्रशमं परैति.

अत्रार्यानिरुद्धस्य दीपे दिव्यचक्षुरृषीणां च चक्षूत्पाटनमोक्षायणे वक्तव्यम्. यथा दीपमालाप्रदानेन दीपङ्करेण बुद्धत्वं प्राप्तम्. या च श्रावस्त्यां चक्षुविकलेन प्रदीपमाला कारिता. सप्रसादो जातः. प्रणिधानं कृतवान्. उत्थितस्य चास्य यथा पौराणं चक्षुः संवृत्तम्. इमे दश गुणा दीपप्रदानस्य.

(म्क्व्१०३)
ल्xxवि. कतमे दश गुणा गन्धप्रदानस्य. उच्यते. गन्धभूतो भवति लोकस्य. घ्राणेन्द्रियं विशुध्यति. कायदौर्गन्ध्यमपैति. सौगन्ध्यं प्रादुर्भवति. दश दिशः शीलगन्धः प्रवाति. अभिगमनीयो भवति. लाभी च भवति इष्टानां धर्माणाम्. महाभोगश्च भवति. स्वर्गेषूपपद्यते. क्षिप्रं च परिनिर्वाति.

अ) यथोक्तमभिधर्मे चक्रवर्तिसूत्रे. कस्य कर्मणो विपाकेन राज्ञश्चक्रवर्तिनः स्त्रीरत्नस्य रोमकूपेभ्यः शरीराद्गन्धो निर्गच्छति. तद्यथा गन्धसमुद्गकस्य. दीर्घरात्रं तया स्त्रिया चैत्यगर्भगृहेषु गन्धोपलेपनानि दत्तानि. सुरभीणि च पुष्पाणि धूपश्च दत्ताः. स्तूपेषु च गन्धस्नापनानि कृतानि. तस्य कर्मणो विपाकेन राज्ञश्चक्रवर्तिनः स्त्रीरत्नस्य शरीरादेवंरूपो गन्धो निर्गच्छति. तद्यथा गन्धकरण्डस्य. इमे दश गुणा गन्धप्रदानस्य.

(म्क्व्१०४)
ल्xxविइ. कतमे दश गुणाः प्रव्रज्यायाः. उच्यते. पुत्रभार्यदुहितृधनतृष्णास्य न भवति. कामस्य परिग्रहो न भवति. अरण्यवासे प्रीतिं प्रतिलभते. बुद्धगोचरं सेवते. बालगोचरं विवर्जयति. दुर्गतिगमनीयान् धर्मान् विवर्जयति. सुगतिगमनीयान् धर्मान् सेवते. देवा अस्य स्पृहयन्ति. नित्यं सुगतवचने प्रव्रज्यां प्रतिलभते. इमे दश गुणाः प्रव्रज्याया भवन्ति.

ल्xxविइइ. कतमे दश गुणा अरण्यवासस्य. उच्यते. संगणिका विवर्जयति. प्रविवेकं सेवते. ध्यानालम्बनं चित्तं भवति. न च बहुकर्मकृत्यतां प्राप्नोति. बुद्धानां स्मृतिं याति. प्रीतिसुखसौमनस्यं कायो न जहाति. अन्तरायाश्च न भवन्ति. ब्रह्मचर्यस्य अल्पायासेन समाधिमधिगच्छति. उद्दिष्टं चास्य पदव्यञ्जनं न नश्यति. यथाश्रुतानां धर्माणां विस्तरेणार्थमाजानति. इमे दश गुणा अरण्यवासस्य.

ल्xxइx. कतमे दश गुणाः पैण्डपातिकत्वे. उच्यते. चङ्क्रमोऽस्य उपार्जितो भवति. गोचरोऽस्य प्रहतो भवति. मानोऽस्य निहतो (म्क्व्१०५) भवति. आत्मानं लाभेन योजयति. परान् पुण्ये प्रतिष्ठापयति. शास्तुः शासनं दीपयति. पश्चिमाया जनताया आलोकः कृतो भवति. सब्रह्मचारिणामुपघातः कृतो न भवति. नीचचित्तमुपस्थापितं भवति. पिण्डपातपरचित्तस्य भिक्षोः सर्वा दिशोऽप्रतिकूला भवन्ति गमनाय. इमे दश गुणाः पिण्डपातिकत्वे.

ल्xxx. दश वैशारद्यानि. कतमानि दश. उच्यते. विशारदो ग्रामं प्रविशति. विशारदो ग्रामान्निष्क्रामति. विशारदः पिण्डपातं परिभुङ्क्ते. विशारदः परिषदि धर्मं देशयति. विशारदः संघमध्यमवतरति. विशारद आचार्योपाध्यायानुपसंक्रामति. विशारदो मैत्रचित्तः शिष्याननुशास्ति. विशारदश्चीवरपिइइडपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परिभुङ्क्ते. ग्राह्यं चास्य वचो भवति. इमानि दश वैशारद्यानि.

कर्मविभङ्गसूत्रं समाप्तम्

"https://sa.wikisource.org/w/index.php?title=कर्मविभङ्गसूत्रम्&oldid=368838" इत्यस्माद् प्रतिप्राप्तम्