← अध्यायः ६ कामसूत्रम्
अध्यायः ७
वात्स्यायन:
अध्यायः ८ →

कलहरूपं सुःरतं आचक्षते. विवादात्मकत्वाद्वामशीलत्वाच्च कामस्य. ॥ २.७.१ ॥

तस्मात्प्रहणनन्स्थानं अङ्गम्. स्कन्धौ शिरः स्तनान्तरं पृष्ठं जघनं पार्श्व इति स्थानानि. ॥ २.७.२ ॥

तच्चतुर्विधं ण् [१] अपहस्तकं [२] प्रसृतकं [३] मुष्टिः [४] समतलकं इति. ॥ २.७.३ ॥

तदुद्भावं च सीत्कृतम्. तस्यातिःरूपत्वात्. तदनःएकविधम्. ॥ २.७.४ ॥

विरुतानि चाष्टौ. ॥ २.७.५ ॥

[आ]हिंकार[अ२]स्तनित[अ३]कूजित[अ४]रुदित[अ५]सूत्कृत[अ६]दूत्कृत[अ७]फूत्कृतानि. ॥ २.७.६ ॥

अम्बार्थाः शब्दा वारणार्था मोक्षणार्थाश्चालमर्थास्ते ते [अ८] चाथयोगात्. ॥ २.७.७ ॥

[ब्१]पारावत[ब्२]परभृत[ब्३]हारीत[ब्४]शुक[ब्५]मधुकर[ब्६]दात्यूह[ब्७]हंस[ ब्८]कारण्डव[ब्९]लावकविरुतानि सीत्कृतभूयिष्ठानि विकल्पशः प्रयुञ्जीत. ॥ २.७.८ ॥

उत्सङ्गोपविष्टायाः पृष्ठे मुष्टिना प्रहारः. ॥ २.७.९ ॥

तत्र सासूयाया इव [अ२]स्तनित[अ४]रुदित[अ३]कूजितानि प्रतिघातश्च स्यात्. ॥ २.७.१० ॥

युक्तयन्त्रायाः स्तनान्तरे [१] अपहस्तकेन प्रहरेत्. ॥ २.७.११ ॥

मन्दोपक्रमं वर्धमानरागं आ परिसमाप्तेः. ॥ २.७.१२ ॥

तत्र [अ८]हिंकारादीनां अःनियमेनाभ्यासेन विकल्पेन च तत्कालं एव प्रयोगः. ॥ २.७.१३ ॥

शिरसि किं चिदाकुञ्चितागुलिना करेण विवदन्त्याः [अ७]फूत्कृत्य प्रहणनं तत्[२] प्रसृतकम्. ॥ २.७.१४ ॥

तत्रान्तर्मुखेन [अ३]कूजितं [अ७]फूत्कृतं च. ॥ २.७.१५ ॥

रतान्ते च श्वासितरुदिते. ॥ २.७.१६ ॥

फेणोरिव स्फुटतः शब्दानुकरणं [अ६]दूत्कृतम्. ॥ २.७.१७ ॥

अप्सु बदरस्येव((२२)) निपततः [अ७]फूत्कृतम्. ॥ २.७.१८ ॥

सर्वत्र चुम्बनादिष्वपक्रान्तायाः सःसीत्कृतं तेनैव प्रत्युत्तरम्. ॥ २.७.१९ ॥

रागवशात्प्रहणनाभ्यासे [अ८]वारणमोक्षणालं अर्थानां शब्दानां अम्बार्थानां च सःतान्तश्वासितरुदितस्तनितमिश्रीकृतप्रयोगा विरुतानां च. रागावसानकाले जघनपर्श्वयोस्((२३)) ताडनं इत्यःत्वरया चा परिसमाप्तेः. ॥ २.७.२० ॥

तत्र [ब्९]लावक[ब्७]हंसविकूजितं त्वरयैव. इति स्तननप्रहणनयोगाः..२.७.२२ भवतश्चात्र श्लोकौ. ॥ २.७.२१ ॥

व्पारुष्यं रभसत्वं च पौरुषं तेज उच्यते. अःशक्तिरार्तिर्व्यावृत्तिरःबलत्वं च योषितः.. ॥ २.७.२२ ॥

व्रागात्प्रयोगसात्म्याच्च व्यत्ययोऽपि क्व चिद्भवेत्. न चिरं तस्य चैवान्ते प्रकृतेरेव योजनम्.. ॥ २.७.२३ ॥

कीलां उसरि कर्तरीं शिरसि विद्धां कपोलयोः संदंशिकां स्तनयोः पार्श्वयोश्चेति पूर्वैः सह प्रहणनं अष्टविधं इति दाक्षिणात्यानाम्. तद्युवतीनां उसरि कीलानि दृश्यन्ते. देशसात्म्यं एतत्. ॥ २.७.२४ ॥

कष्टं अनःआर्यवृत्तं अनःआदृतं इति वात्स्यायनः. ॥ २.७.२५ ॥

तथान्यदपि देशसात्म्यात्प्रयुक्तं अन्यत्र न प्रयुञ्जीत. ॥ २.७.२६ ॥

आत्ययिकं तु तत्रापि परिहरेत्. ॥ २.७.२७ ॥

रतियोगे हि कीलया गणिकां चित्रसेनां चोलराजो जघान. ॥ २.७.२८ ॥

कर्तर्या कुण्टलः शातकर्णिः शातवाहनो महादेवीं मलयवतीम्. ॥ २.७.२९ ॥

नरदेवः कुपाणिर्((२४)) विद्धया नाटीं काणां चकार((२५)). ॥ २.७.३० ॥

भवन्ति चात्र श्लोकाः ॥ २.७.३१ ॥

व्नास्त्यत्र का चिन्न च शास्त्रपरिग्रहः. प्रवृत्ते रतिसंयोगे राग एवात्र कारणम्.. ॥ २.७.३१ ॥

व्स्वप्नेषु न दृश्यन्ते ते भावास्ते च विभ्रमाः. सुरतव्यवहारेषु ये स्युस्तत्क्षणकल्पिताः.. ॥ २.७.३२ ॥

व्यथा हि पञ्चमीं धारां आस्थाय तुरगः पथि. स्थानुं श्वभ्रं दरीं वापि वेगान्धो न समीक्षते.. ॥ २.७.३३ ॥

व्२ एवं सुःरतसंमर्दे रागान्धौ कामिनावपि. चण्डवेगौ प्रवर्तेते समीक्षेत न चात्ययम्.. ॥ २.७.३३ ॥

तस्मान्मृदुत्वं चण्डत्वं युवत्या बलं एव च. आत्मनश्च बलं ज्ञात्वा तथा युञ्जीत शास्त्रवित्.. ॥ २.७.३४ ॥

न सरवदा न सर्वासु प्रयोगाः सांप्रयोगिकाः. स्थाने देशे च काले च योग एषां विधीयते.. ॥ २.७.३५ ॥

चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रहणनप्रयोगास्तद्युक्ताश्च सीत्कृतक्रमाः सप्तमोऽध्यायः. आदितो द्वादशः. ॥ २.७ ॥