← अध्यायः १ कामसूत्रम्
अध्यायः २
वात्स्यायन:

चण्डवेगां रञ्जयितुं अःशक्नुवन्योगानाचरेत्. ॥ ७.२.१ ॥

रागस्योपक्रमे संबाधस्य करेणोपमर्दनं तस्या रसप्राप्तिकाले च रतयोजनं इति रागप्रत्यानयनम्. ॥ ७.२.२ ॥

औपरिष्टकं मन्दवेगस्य गतवयसो व्यायतस्य रतश्रान्तस्य च रागप्रत्यानयनम्. ॥ ७.२.३ ॥

अपद्रव्याणि वा योजयेत्. ॥ ७.२.४ ॥

तानि सुवर्णरजतताम्रकालायसगजदन्तगवलद्रव्यमयाणि. ॥ ७.२.५ ॥

त्रापुषाणि सैसकानि च मृदूनि शीतवीर्याणि कर्मणि च धृष्णूनि भवन्तीति बाभ्रवीया योगाः. ॥ ७.२.६ ॥

दारुमयानि साम्यतश्चेति वात्स्यायनः. ॥ ७.२.७ ॥

लिङ्गप्रमाणान्तरं बिन्दुभिः कर्कशपर्यन्तं बहुलं स्यात्. ॥ ७.२.८ ॥

एते एव द्वे संघाटी. ॥ ७.२.९ ॥

त्रिप्रभृति यावत्प्रमाणं वा चूडकः. ॥ ७.२.१० ॥

एकां एव लतिकां प्रमाणवशेन वेष्टयेदित्येकचूडकः. ॥ ७.२.११ ॥

उभयतोःमुखच्छिद्रः स्थूलकर्कशवृषणगुटिकायुक्तः प्रमाणवशयोगी कट्यां बद्धः कञ्चुको जालकं वा. ॥ ७.२.१२ ॥

तदःभावेऽलाबूनालकं वेणुश्च तैलकषायैः सुःभावितः सूत्रेण कट्यां बद्धः श्लक्ष्णा काष्ठमाला वा ग्रथिता बहुभिरामलकास्थिभिः संयुक्तेत्यपविद्धयोगाः.. ॥ ७.२.१३ ॥

न त्वःविद्धस्य कस्य चिद्व्यवहृतिरस्तीति. ॥ ७.२.१४ ॥

दाक्षिणात्यानां लिङ्गस्य कर्णयोरिव व्यधनं बालस्य. ॥ ७.२.१५ ॥

युवा तु शस्त्रेण छेदयित्वा यावद्रुधिरस्यागमनं तावदुदके तिष्ठेत्. ॥ ७.२.१६ ॥

वैशद्यार्थं च तस्यां रात्रौ निर्बन्धाद्व्यवायः. ॥ ७.२.१७ ॥

ततः कषायैरेकदिनान्तरितं शोधनम्. ॥ ७.२.१८ ॥

वेतसकुटजशङ्कुभिः क्रमेण वर्धमानस्य वर्धनैर्बन्धनम्. ॥ ७.२.१९ ॥

यष्टीमधुकेन मधुयुक्तेन शोधनम्. ॥ ७.२.२० ॥

ततः सीसकपत्त्रकर्णिकया वर्धयेत्. ॥ ७.२.२१ ॥

म्रक्षयेद्भल्लातकतैलेनेति व्यधनयोगाः. ॥ ७.२.२२ ॥

तस्मिन्ननःएकाकृतिविकल्पान्यपद्रव्याणि योजयेत्. ॥ ७.२.२३ ॥

वृत्तं एकतो वृतां उदूखलकं कुसुमकं कण्टकितं कङ्कास्थि गजकरकं अष्टमण्डलकं भ्रमरकं शृङ्गाटकं अन्यानि वोपायतः कर्मतश्च बहुकर्मसहता चैषां मृदुकर्कशता यथासात्म्यं ॥ ७.२.२४ ॥

॥ ॥

ि नष्टरागप्रत्यानयनं द्विषष्टितमं प्रकरणम्((१८९)). ॥ # ६२चि ॥

॥ ॥

॥ ॥

न्(प्रकरण)६३ ॥ सेच्ति ॥

॥ ॥

एवं वृक्षजानां जन्तूनां शूकैरुपहितं लिङ्गं दशरात्रं तैलेन मृदितं पुनरुपतृंहितं पुनः प्रमृदितं इति जातशोफं खट्वायां अधोमुखस्तदन्तरे लम्बयेत्. ॥ ७.२.२५ ॥

तत्र शीतैः कषायैः कृतवेदनाःनिग्रहं सोपक्रमेण निष्पादयेत्. ॥ ७.२.२६ ॥

स यावज्जीवं शूकजो नाम शोफो विटानाम्. ॥ ७.२.२७ ॥

अश्वगन्धाशबरकन्दजलशूकबृहतीफलमहीषनवनीतहस्तिकर्णवज्रवल्लीरसैरेकैकेन परिमर्दनं मासिकं वर्धनम्. ॥ ७.२.२८ ॥

एतैरेव कषायैः पक्वेन तैलेन परिमर्दनं षाण्मास्यम्. ॥ ७.२.२९ ॥

दाडिमत्रापुषबीजानि बालुका बृहतीफलरसश्चेति मिद्वग्निना पक्वेन तैलेन परिमर्दनं परिषेको वा. ॥ ७.२.३० ॥

तांस्तांश्च योगानाप्तेभ्यो बुध्येत. ॥ ७.२.३१ ॥

ि वर्धनयोगाः((१९०)). ॥ # ६३चि ॥

॥ ॥

न्(प्रकरण)६४ ॥ सेच्ति ॥

॥ ॥

अथ((१९१)) स्नुहीकण्टकचूर्णैः पुनर्नवावानरपुरिषलाङ्गलिकामूलमिश्रैर्यां अवकिरेत्सा नान्यं कामयेत्. ॥ ७.२.३२ ॥

तथा सोमलतावल्गुजाभृङ्गलोहोपजिह्विकाचूर्णैर्व्याधिघातकजम्बूफलरसनिर्यासेन घनीकृतेन च लिप्तसंबाधां गच्छतो रागो नश्यति. ॥ ७.२.३३ ॥

गोपालिकाबहुपादिकाजिह्विकाचूर्णैर्माहिषतक्रयुक्तैः स्नातां गच्छतो रागो नश्यति. ॥ ७.२.३४ ॥

नीपाम्रातकजम्बूकुसुमयुक्तं अनुलेपनं दौर्भाग्यकरं स्रजश्च. ॥ ७.२.३५ ॥

कोकिलाक्षप्रलेपो हस्तिन्याः संहतं एकरात्रे करोति. ॥ ७.२.३६ ॥

पद्मोत्पलकदम्बसर्जकसुगन्धचूर्णानि मधुना पिष्टानि लेपो मृग्या विशालीकरणम्. ॥ ७.२.३७ ॥

स्नुहीसोमार्कक्षारैरवल्गुजाफलैर्भावितान्यामलकानि केशानां श्वेतीकरणम्. ॥ ७.२.३८ ॥

मदयन्तिकाकुटजकाञ्जनिकागिरिकर्णिकाश्लक्ष्णपर्णीमूलैः स्नानं केषानां प्रत्यानयनम्. ॥ ७.२.३९ ॥

एतैरेव सुःपक्वेन तैलेनाभ्यङ्गात्कृष्णीकरणात्क्रमेणास्य प्रत्यानयनम्. ॥ ७.२.४० ॥

श्वेताश्वस्य मुष्कस्वेदैः सप्तकृत्वो भावितेनालक्तकेन रक्तोऽधरः श्वेतो भवति. ॥ ७.२.४१ ॥

मदयन्तिकादीन्येव प्रत्यानयनम्. ॥ ७.२.४२ ॥

बहुपादिकाकुष्ठतगरतालीसदेवदारुवज्रकन्दकैरुपलिप्तं वंशं वादयतो या शब्दं शृणोति सा वश्या भवति. ॥ ७.२.४३ ॥

धत्तूरफलयुक्तोऽभ्यवहार उन्मादकः. ॥ ७.२.४४ ॥

गुडो जीर्णितश्च प्रत्यानयनम्. ॥ ७.२.४५ ॥

हरितालमनःशिलाभक्षिणो मयूरस्य पुरीषेण लिप्तहस्तो यद्द्रव्यं स्पृशति तन्न दृश्यते. ॥ ७.२.४६ ॥

अङ्गारतृणभस्मना तैलेन विमिश्रं उदकं क्षीरवर्णं भवति. ॥ ७.२.४७ ॥

हरीतकाम्रातकयोः श्रवणप्रियङ्गुकाभिश्च पिष्टाभिर्लिप्तानि लोहभाण्डानि ताम्रीःभवन्ति. ॥ ७.२.४८ ॥

श्रवणप्रियङ्गुकातैलेन दुकूलसर्पनिर्मोकेण वर्त्त्या दीपं प्रज्वाल्य पार्श्वे दीर्घीकृतानि काष्ठानि सर्पवद्दृश्यन्ते. ॥ ७.२.४९ ॥

श्वेतायाः श्वेतवत्साया गोः क्षीरस्य पानं यशस्यं आयुष्यम्. ॥ ७.२.५० ॥

ब्राह्मणानां प्रशास्तानां आशिषः((१९२)). ॥ ७.२.५१ ॥

व्पूर्वशास्त्राणि संदृश्य प्रयोगाननुसृत्य च. कामसूत्रं इदं यत्नात्संक्षेपेण निवेदितम्.. ॥ ७.२.५२ ॥

व्धर्मं अर्थं च कामं च प्रत्ययं लोकं एव च. पश्यत्येतस्य तत्त्वज्ञो न च रागात्प्रवर्तते.. ॥ ७.२.५३ ॥

वधिकारवशादुक्ता ये चित्रा रागवर्धनाः. तदनःअन्तरं अत्रैव ते यत्नाद्विनिवारिताः... ॥ ७.२.५४ ॥

व्न शास्त्रं अस्तीत्येतेन प्रयोगो हि समीक्ष्यते. शास्त्रार्थान्व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान्. ॥ ७.२.५५ ॥

व्बाभ्रवीयांश्च सूत्रार्थानागमय्य विमृश्य च. वात्स्यायनश्चकारेदं कामसूत्रं यथाविधि.. ॥ ७.२.५६ ॥

व्तदेतद्ब्रह्मचर्येण परेण च समाधिना. विहितं लोकयात्रार्थं न रागार्थोऽस्य संविधिः.. ॥ ७.२.५७ ॥

व्रक्षन्धर्मार्थकामानां स्थितिं स्वां लोकवर्तिनीम्. अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः.. ॥ ७.२.५८ ॥

व्तदेतत्कुशलो विद्वान्धर्मार्थाववलोकयन्. नातिःरागात्मकः कामी प्रयुञ्जानः प्रसिध्यति((१९३))... ॥ ७.२.५९ ॥