कालिकापुराणम् त्रयोविंशोऽध्यायः
अरुन्धतीविवाहवर्णनम्
अथ कालिका पुराण अध्याय २३
।। मार्कण्डेय उवाच ।।
अथ सा ववृधे देवी तस्मिन् मुनिवराश्रमे ।
चन्द्रभागानदीतीरे तापसारण्यसंज्ञके ।।१।।
यथा चन्द्रकला शुक्लपक्षे नित्यं विवर्धते ।
यथा ज्योत्स्ना तथा सापि प्राप वृद्धिमरुन्धती ।।२।।
सम्प्राप्ते पञ्चमे वर्षे चन्द्रभागां तदा गुणैः ।
तापसारण्यमपि सा पवित्रमकरोत् सती ।।३।।
तत्र तीर्थं महापुण्यं मेधातिथिनिषेवितम् ।
क्रीडास्थानमरुन्धत्याः पूतं बाल्योचितं कृतम् ।।४।।
अद्यापि तापसारण्ये चन्द्रभागानदीजले ।
अरुन्धतीतीर्थतोये स्नात्वा याति हरिं नरः ।।५।।
कार्तिकं सकलं मासं चन्द्रभागानदीजले ।
स्रात्वा विष्णुगृहं गत्वा ह्यन्ते मोक्षमवाप्नुयात् ॥६॥
माघे मासि पौर्णमास्याममायां वा तथैव च ।
चन्द्रभागाजले स्नानं यस्तु कुर्यात् सकृत् सकृत् ।।७।।
तस्य वंशे राजयक्ष्मा न कदाचिद् भविष्यति ।
देहान्ते चन्द्रभवनं गत्वा हरेर्गृहम् ।।८।।
पुण्यक्षयादिहागत्य वेदज्ञो ब्राह्मणो भवेत् ।
चन्द्रभागाजलं पीत्वा चन्द्रलोकमवाप्नुयात् ।।९।।
सकृत् स्नात्वा तु विधिवद्वाजिमेधायुतं लभेत् ।। १० ।।
चन्द्रभागाजले स्नात्वा क्रीडन्ती बाल्यलीलया ।
पितुः समीपे तत्तीरे कदाचित्तामरुन्धतीम् ।
गच्छन्नाकाशमार्गेण ददर्श कमलासनः ।। ११ ।।
अथावतीर्य भगवान् ब्रह्मा लोकपितामहः ।
अरुन्धत्यास्तदा कालमुपदेशे ददर्श ह ।।१२।।
अथोवाच तदा ब्रह्मा मुनिभिः परिपूजितः ।
मेधातिथिप्रभृतिभिरुचितं तं महामुनिम् ।।१३।।
।। ब्रह्मोवाच ।।
उपदेशस्य कालोऽयमरुन्धत्या महामुने ।
तस्मादेनां सतीनान्तु स्त्रीणां त्वं कुरु सन्निधिम् ।।१४।।
स्त्रिभिस्त्रियश्चोपदेश्याः काचिदन्यत्र विद्यते ।
बहुलायाश्च सावित्र्याः पुत्रीं त्वं स्थापयान्तिके ।। १५ ।।
तयोः संसर्गमासाद्य पुत्री तव महामुने ।
महागुणैश्वर्ययुता माचिरात् तु भविष्यति ।। १६ ।।
मेधातिथिर्वचः श्रुत्वा ब्रह्मण: परमात्मनः ।
एवमेषेति प्रोवाच तं तदा मुनिसत्तमः ।।१७।।
ततो गते सुरश्रेष्ठे पुत्रीं मेधातिथिर्मुनिः ।
समादाय ययौ सूर्यभवनं प्रति तत्क्षणात् ।। १८ ।।
ददर्श तत्र सावित्रीं सूर्यमण्डलमध्यगाम् ।
पद्मासनगतां देवीमक्षमालाधरां सिताम् ।।१९।।
दृष्टा सा तेन मुनिना निःसृत्य रविमण्डलात् ।
बहुलां सा गता तूर्णं प्रस्थं मानसभूभृत: ।।२०।।
प्रत्यहं तत्र सावित्री गायत्री बहुला तथा ।
सरस्वती च द्रुपदा पञ्चैता मानसाचले ।। २१ ।।
धर्माख्यानैस्तथा साध्वीः कथाः कृत्वा परस्परम् ।
स्वं स्वं स्थानं पुनर्यान्ति लोकानां हितकाम्यया ।। २२ ।।
मेधातिथिस्तु ताः सर्वा दृष्ट्वैकत्र तपोधनः ।
मातृः सर्वस्य लोकस्य प्रणनाम पृथक् पृथक् ।। २३ ।।
उवाच च स ताः सर्वा ऋषिः श्लक्ष्णं तपोधनः ।
ससाध्वसो विस्मितश्च तासामेकत्र दर्शनात् ।। २४ ।।
।। मेधातिथिरुवाच ।।
मातः सावित्रि बहुले मत्पुत्रीयं महायशाः ।
कालोऽयमुपदेशेऽस्यास्तदर्थमहमागतः।। २५ ।।
जगत्स्रष्ट्रा समादिष्टा प्रयातु तव शिष्यताम् ।
एषा तेन भवत्पार्श्वमानीता पुत्रिका मम ।। २६ ।।
सौचारित्र्यं यथास्याः स्यात्तथैनां बालिकां मम ।
युवां विनयतं देव्यौ मातर्मातर्नमोऽस्तु वाम् ।।२७।।
अथोवाच तदा देवी सावित्री मुनिसत्तमम् ।
स्मितपूर्वं बहुलया सहिता ताञ्च बालिकाम् ।।२८।।
।। ते ऊचतुः ।।
ब्रह्मन् विष्णोः प्रसादेन सुचरित्रा भवत्सुता ।
पूर्वमेव मुने भूता तदुद्देशेन किं पुनः ।। २९ ।।
किं त्वहं ब्रह्मवाक्येण बहुला च महासती ।
विनेष्यावस्तव सुतां धीरा स्यान्नचिराद् यथा ।। ३० ।।
ब्रह्मण: पूर्वदुहिता भवतस्तु तपोवलात् ।
तथा विष्णोः प्रसादेन सुता तेऽभूदरुन्धती ।। ३१ ।।
कुलं पुनाति भवतः सत्यसौ वर्धयिष्यति ।
लोकानामथ देवानां शिवमेषा करिष्यति ।।३२।।
।। मार्कण्डेय उवाच ।।
अथ ताभिर्विसृष्टः स मुनिर्मेधातिथिः सुताम् ।
आश्वास्यारुन्धतीं नत्वा ताः स्वस्थानं जगाम ह ।।३३।।
गते तस्मिन् मुनिवरे सह ताभ्यामरुन्धती ।
मातृभ्यामिव निर्भीता पालिता मोदमाप सा ।। ३४ ।।
कदाचित् सह सावित्र्या रात्रौ याति रवेर्गृहम् ।
तथा बहुलया याति शक्रगेहं कदाचन ।।३५।।
एवं ताभ्यां समं देवी विहरन्ती सुरालये ।
निनाय दिव्यमानेन सा सप्त परिवत्सरान् ।। ३६ ।।
ताभ्यां तथोपविष्टा सा स्त्रीधर्ममचिरात् सती ।
सर्वं ज्ञातवती भूता सावित्री- बहुलाधिका ।। ३७।।
अथ तस्यास्तदा काले सम्प्राप्ते उचितेऽभवत् ।
शोभनो यौवनोद्भेदः पद्मिनीनां रुचिर्यथा ।। ३८ ।।
उद्भूत-यौवना सा तु वसिष्ठं मानसाचले ।
विहरन्ती ददशैँकं चारुतेजस्विनं मुनिम् ।।३९।।
दृष्ट्वा तमिच्छयाञ्चक्रे कामभावेन सा सती ।
बालसूर्यप्रभं चारुरूपं ब्रह्मश्रिया युतम् ।। ४०।।
अथ सोऽपि महातेजा वसिष्ठो वरवर्णिनीम् ।
दृष्टैवोद्भूतमदनो वीक्षाञ्चके त्वरुन्धतीम् ।।४१।।
तयोः परस्परं दृष्ट्वा ववृधे हृच्छयो महान् ।
अमर्यादं द्विजश्रेष्ठाः प्राकृते मदनो यथा ।।४२।
अथ धैर्यं समालम्व्य तथा मेधातिथेः सुता ।
आत्मानं धारयामास मनश्च मदनेरितम् ।।४३।।
वसिष्ठोऽपि महातेजा धैर्यमालम्ब्य चात्मनः ।
मनः संस्तम्भयामास मदनोन्मथितं ततः ।। ४४ ।।
अरुन्धती ततो देवी विहाय मुनिसन्निधिम् ।
जगाम यत्र सावित्री निन्दन्ती स्वं मनोरथम् ।। ४५ ।।
बाध्यमानातिदुःखेन मानसेन महासती ।
सतीभावः परित्यक्तश्चिन्तयन्ती मयेति वै ।। ४६ ।।
तस्या मनोजदुःखेन विवर्णमभवन्मुखम् ।
शरीरं सकलं म्लानं गतिश्च वलिताभवत् ।। ४७ ।।
इदं विममृषे सा च गर्हयन्ती स्वकं मनः ।
मृणालतन्तुवत् सूक्ष्मा छिन्ना च तत्क्षणादपि ।।४८ ।।
स्थिति: सतीनामल्पेन चापल्येनैव नश्यति ।
इति स्त्रीधर्ममध्याप्य मामाह चरितव्रता ।
सावित्री सारमेतद् हि सतीधर्मस्य चोद्धृतम् ।।४९।।
तदद्य नाशितं पुंसि परकीये मनोरथम् ।
वर्द्धयन्त्या तदा किं मे परत्रेह भविष्यति ।।५०।।
इति सञ्चिन्तयन्ती सा पुत्री मेधातिथेस्तदा ।
दुःखार्ता बहुलां देवी सावित्रीं चाससाद ह ।। ५१ ।।
तथाविधान्तु तां दृष्ट्वा विवर्णवदनां सतीम् ।
ध्यानचिन्तापरा भूत्वा सावित्री विममर्ष ह ।। ५२ ।।
विमृष्य दिव्यज्ञानेन सर्वं ज्ञातवती सती ।
वसिष्ठेन त्वरुन्धत्या यथाभुद्दर्शनं तथा ।। ५३ ।।
यथा तयोः सम्प्रवृद्धो मनोजश्चातिदुःसहः ।
मुखवैवर्ण्यहेतुश्च सावित्री दिव्यदर्शिनी ।। ५४ ।।
अथ मेधातिथेः पुत्र्या मूर्ध्नि हस्तं निवेश्य सा ।
इदमाह महादेवी सावित्री चरितव्रता ।। ५५ ।।
वत्से तव मुखं कस्माद्भिन्नवर्णमभूदिदम् ।
छिन्ननालं यथापद्मं सूर्यांशुपरितापितम् ।।५६।।
कथं शरीरमभवत् म्लानं ते गुणवत्तमे ।
यथा निशापतेर्विम्बं तनुकृष्णाभ्रसंवृतम् ।।५७।।
अन्तर्मनश्च ते भद्रे सचिन्तमिव लक्ष्यते ।
तन्मे कथय ते गुह्यं नैतच्चेद्दुः खकारणम् ।।५८।।
।। मार्कण्डेय उवाच ।।
अथ साधोमुखी भूत्वा किञ्चिन्नोवाच लज्जया ।
सावित्रीं मातरं गुर्वीं तथा पृष्टाप्यरुन्धती ।। ५९ ।।
यदा नोक्तवती किञ्चित्तदा मेधातिथेः सुता ।
स्वयं प्रकाशन सावित्री तामुवाच तपस्विनी ।।६०॥
वत्से योऽसौ त्वया दृष्टो मुनिर्भास्करसन्निभः ।
स वसिष्ठो ब्रह्मसुतस्तव स्वामी भविष्यति ।
तव तस्य च दाम्पत्यं पुरा धात्रैव निर्मितम् ।।६१ ।।
अतस्तव सतीभावो न हीनस्तस्य दर्शनात् ।
यद्वा तवाभूद्धृदयं सकामं तस्य दर्शनात् ।
न तद्दोषकरं पुत्रि मनोदुःखं ततस्त्यज ।।६२।।
त्वया परं तपः कृत्वा पूर्वजन्मनि शोभने ।
वृतः स एव दयितः सकामस्तेन स त्वयि ।। ६३ ।।
शृणु पूर्वं त्वया वत्से वसिष्ठोऽयं वृतः पतिः ।
यथा तपः कृतं तत्र येन भावेन सन्ततम् ।।६४।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा सा च सावित्री यथा सन्ध्याभवत् पुरा ।
कृतं तपो यदर्थन्तु चन्द्रभागाह्वये गिरौ ।।६५ ।।
वसिष्ठेन तथा पूर्वं वर्णिरूपेण वेधसः ।
वचनादुपदिष्टा सा तपश्चर्यां दुरत्ययाम् ।।६६ ।।
यथा प्रसन्नो भगवान् विष्णुः प्रत्यक्षतां गतः ।
वरं यथा ददौ तस्यै मर्यादा स्थापिता यथा ।। ६७ ।।
यथा वा वाञ्छितः स्वामी वसिष्ठः स तया मुनिः ।
मेधातिथेर्यथा यज्ञे वह्नौ त्यक्तं तया वपुः ।। ६८ ।।
यथा तत्तनया जाता तस्यैतद्विस्तरात् तदा ।
सावित्री कथयामास क्रमाद् बहुलया सह ।। ६९ ।।
अथ तस्याः वचः श्रुत्वा यदभूत् पूर्वजन्मनि ।।७० ।।
तच्छ्रुत्वा वै तदा ज्ञातं मम सर्वं मनोगतम् ।।७१ ।।
इत्यतीवत्रपां प्राप्य सातीवाभूदधोमुखी ।
सावित्रीवचनाद्भूता पूर्वजन्मस्मरा च सा ।।७२।।
तथैवाधोमुखी भूत्वा यद्वृत्तं पूर्वजन्मनि ।
तस्य सर्वस्य सस्मार दिव्यज्ञारुन्धती तदा ।।७३।
पूर्वं विष्णुप्रसादेन सा भूत्वा दिव्यदर्शिनी ।
अधुना बाल्यभावेन प्रच्छन्ना दिव्यदर्शना ।।७४ ।।
सावित्रीवचनान्श्रुत्वा वृत्तान्तं पूर्वजन्मनः ।
प्रत्यक्षमिव तत् सर्वं पूर्वज्ञानमवाप सा ।।७५।।
अवाप्य पूर्वं ज्ञानं तद्यद्दत्तं विष्णुना पुरा ।
वसिष्ठोऽयं वृतः स्वामी मया वै पूर्वजन्मनि ।। ७६ ।।
इति ज्ञातवती देवी सामोदारुन्धती स्वयम् ।
वसिष्ठदर्शनोद्भूते पूर्वं तस्यास्तु हृच्छये ।।७७।।
यथातंकः समुत्पन्नः सतीत्वस्य निवारणे ।
तञ्च स्वयं सा तत्याज तदा मेधातिथेः सुता ।।७८।।
त्यक्तचिन्तां ततस्तान्तु विज्ञायारुंधती सतीम् ।
सावित्री सूर्यभवनं तया सार्धं जगाम ह ।। ७९ ।।
अरुन्धतीं निवेश्याथ सावित्रीं सूर्यमन्दिरे ।
जगाम ब्रह्मभवनं सर्वज्ञा सासतीवरा ।।८० ॥
अथ प्रणम्य ब्रह्माणं पृष्टा तेनैव तत्क्षणात् ।
इदं जगाद सावित्री ब्रह्माणममितौजसम् ।।८१।।
।। सावित्र्युवाच ।।
भगवन् जगतां नाथ वसिष्ठं भवतः सुतम् ।
मानसस्य गिरेः सानौ ददर्शारुन्धती सती ।।८२।।
तयोर्दर्शनमात्रेण ववृधे हृच्छयो महान् ।
परस्परं तौ स्पृहयाञ्चक्रतुश्च प्रजापते ॥८३॥
ततो धैर्यात्तु संस्तभ्य मनोजं तौ सुदुःखितौ ।
विमनस्कौ गतौ स्थानं लज्जितौ तौ स्वकं स्वकम् ॥८४ ।।
एवम्प्रवृत्ते ययोग्यं तदा त्वेतद्विधीयताम् ।
आयत्याञ्च सुरश्रेष्ठ लोकानां हितकाम्यया ।। ८५ ।।
।। मार्कण्डेय उवाच ।।
इति श्रुत्वा वचस्तस्याः ब्रह्मा सर्वजगद्गुरुः ।
ददर्श दिव्यज्ञानेन प्रवृत्तिं भाविकर्मणः ॥८६ ।।
इदञ्च स्वागतं प्रोचे तदा लोकपितामहः ।
तयोर्दाम्पत्यभावस्य कालोऽयं समुपस्थितः ।
अतो लोकहितार्थाय यास्येऽहं तत्प्रवृत्तये ।।८७।।
इति निश्चत्य मनसा सावित्रीसहितो विधिः ।
जगाम मानसप्रस्थं यत्राभूद्दर्शनं तयोः ।।८८।।
पितामहे तत्र याते शर्वः सुरगणैर्युतः ।
नन्दिभृंगिप्रभृतिभिः समायातो वृषध्वजः ।। ८९ ॥
भगवान् वासुदेवोऽपि ब्रह्मणा परिचिन्तितः ।
भक्त्या सोऽपि जगन्नाथः शङ्खचक्रगदाधरः ।
स्थितौ ब्रह्माहरौ यत्र तत्रैव स्वयमागतः ।। ९० ।।
अथ ते जगतां नाथाः ब्रह्मविष्णुमहेश्वराः ।
नारदं प्रेषयामासुर्दूतं मेधातिथिं प्रति ।।९१।।
याहि द्रुतं नारद त्वं चन्द्रभागाह्वयं गिरिम् ।
मुनिस्तस्योपत्यकायामास्ते मेधातिथि: परः ।।९२।।
तमानय यथाकाममस्माकं वचनात् स्वयम् ।
मेधातिथिं समादाय भवानागच्छतु द्रुतम् ।।९३।।
ब्रह्मादीनां वचः श्रुत्वा नारदोऽपि द्रुतं ययौ ।
मेधातिथिं समानेतुं महाकार्यस्य सिद्धये ।।९४।।
मेधातिथिं समादाय ययौ मानसपर्वतम् ।। ९५ ।।
सेन्द्रा देवगणाः सर्वे मुनयश्च तपोधनाः ।
साध्या विद्याधरा यक्षा गन्धर्वाश्च समागताः ।। ९६ ।।
देवाश्च सर्वे देव्यश्च ये देवानुचरास्तथा ।
ते सर्वे मानसप्रस्थं याताश्चान्ये च जन्तवः ।। ९७ ।।
अथ भूते समाजे तु देवानां कमलासनः ।
मेधातिथिं मुनिं वाक्यमिदमाहातिदेशयन् ।। ९८ ।।
।। ब्रह्मोवाच ।।
मेधातिथे वसिष्ठाय पुत्रीं ते चरितव्रताम् ।
देहि ब्राह्मेण विधिना समाजे त्रिदिवौकसाम् ।।९९ ।।
बधूवरत्वमनयोः पूर्वं सृष्टं मयैव हि ।
हरिणा चाप्यनुज्ञातं कर्म चैतत् समञ्जसम् ।। १०० ।।
एवं कृते तव कुले भविष्यति महद्यशः ।
हितं च सर्वभूतानां देहि त्वं मा चिरं कृथाः ।। १०१ ।।
।। मार्कण्डेय उवाच ।।
ततो ब्रह्मवचः श्रुत्वा ह्यतिप्रमोदितो मुनिः ।
एवमस्त्विति चोवाच नत्वा तान् सुरपुङ्गवान् ।। १०२ ।।
एषां तु वचनात् पुत्रीमादायारुन्धतीं मुनिः ।
ध्यानस्थस्य वसिष्ठस्य देवैः सह जगाम ह ।। १०३ ।।
गत्वा वसिष्ठनिकटं देवैः परिवृतो मुनिः ।
ब्राह्मश्रिया दीप्यमानं ज्वलन्तमिव पावकम् ।। १०४ ।।
धर्मार्थकाममोक्षेषु धृतबुद्धिं पृथक् पृथक् ।
ददर्श मुनिमासीनं मानसाचलकन्दरे ।
वसिष्ठमोजस्विवरं बालसूर्यमिवोदितम् ।। १०५ ।।
अथ पुत्रीमग्रगतां कृत्वा मेधातिथिर्मुनिः ।
वसिष्ठं नियतात्मानमुवाचारुन्धतीपिता ।। १०६ ।।
।। ऋषिरुवाच ।।
भगवन् ब्रह्मणः पुत्र पुत्रीं मे चरितव्रताम् ।
दत्तां प्रतिगृहाणैनां मया ब्राह्मेण धर्मतः ।। १०७ ।।
यत्र यत्राश्रमे ब्रह्मन् स्वेच्छया निवसिष्यसि ।
त्वद्भक्त्येषा भवित्री च च्छायेवानुगता तव ।। १०८ ।।
तत्र तत्रैव मे पुत्री समानव्रतधारिणी ।
पतिव्रता वरारोहा शुश्रूषां ते करिष्यति ।। १०९ ।।
।। मार्कण्डेय उवाच ।।
इति श्रुत्वा वसिष्ठस्तु मुनेर्मेधातिथेर्वचः ।
दृष्ट्वा समागतान् देवान् ब्रह्मविष्णुशिवादिकान् ।
अवश्यमेतद्भावीति निश्चित्य दिव्यचक्षुषा ।। ११० ।।
ब्रह्मणः सम्मते पुत्रीं तदा मेधातिथेर्मुनेः ।
वसिष्ठः प्रतिजग्राह वाढमित्युक्तवांश्च ह ।।१११।।
गृहीतपाणिः सा देवी वसिष्ठेन महात्मना ।
पत्युः पादयुगे चक्षुर्युगं न्यस्तवती सती ।। ११२ ।।
ततो ब्रह्मा च विष्णुश्च रुद्रश्चान्ये तथामराः।
विवाहविधिना तौ तु मोदयाञ्चक्रुरुत्सवैः ।। ११३ ।।
सावित्री प्रमुखा देव्यो देवाश्चेन्द्रादयस्तथा ।
दक्षाद्याः कश्यपाद्यास्तु मुनयोऽतितपोधनाः ।। ११४।।
उन्मुच्य ब्रह्मवचनाद्वल्कलञ्चाजिनं जटाः ।
मन्दाकिनीजलेनाशु स्नापयित्वा सुतं विधेः ।। ११५ ।।
जाम्बुनदैस्तथा दिव्यैर्भूषणैश्च मनोहरैः ।
वसिष्ठं भूषयांचक्रुस्तथैवारुन्धतीं सतीम् ।।११६।।
भूषयित्वाथ तौ तत्र समाप्य मुनिभिर्विधिम् ।
विवाहावभृथंचक्रुस्तयोर्विधि हरीश्वराः ।। ११७ ।।
निधाय सर्वतीर्थानां तोयं जाम्बुनदे घटे ।
आशीर्वादकरैर्मन्त्रैर्गायत्र्या द्रुपदादिभिः ।।११८।।
स्वयं तौ स्नापयाञ्चक्रुर्ब्रह्मविष्णुमहेश्वराः ।
ततो महर्षयश्चान्ये तथा देवर्षयश्च ये ।। ११९ ।।
ते सर्वे ऋग्यजुः सामवेदभागैर्महास्वरैः ।
गङ्गादि सरितां तोयैश्चक्रुः शान्तिं तयोर्मुहुः ।।१२० ।।
भुवनत्रयसञ्चारि विमानं सूर्यवर्चसम् ।
अव्याहतगतिं ब्रह्मा सतोयञ्च कमण्डलुम् ।।१२१ ।।
ताभ्यां दायं ददौ विष्णुर्दुप्रापं स्थानमुत्तमम् ।
यदूर्ध्व सर्वदेवानां मरीच्यादेः समीपतः ।
सप्तकल्पान्तजीवित्वं रुद्रः प्रादात्तयोर्वरम् ।। १२२ ।।
अदितिः कुण्डलयुगं ब्रह्मणा निर्मितं स्वकम् ।
ददौ स्वकर्णादाकृष्य पुत्र्यै मेधातिथेस्तदा ।। १२३।।
पतिव्रतात्वं सावित्री बहुला बहुपुत्रताम् ।
देवेन्द्रो बहुरनानि धनेशेन समं ददौ ।। १२४ ।।
एवं देवाश्च मुनयो देव्यश्चान्ये च ये स्थिताः ।
ददुस्तत्र यथायोग्यं दायं ताभ्यां पृथक् पृथक् ।। १२५ ।।
एवं विवाह्य विधिवत् सौवर्णे मानसाचले ।
अरुन्धतीं वसिष्ठस्तु मोदमाप तया सह ।। १२६ ।।
तत्र यत् पतितं तोयं मानसाचलकन्दरे ।
विवाहावभृथार्थाय शान्तये च सुराहृतम् ।। १२७ ।।
ब्रह्मविष्णुमहादेवपाणिभिः समुदीरितम् ।
तत्तोयं सप्तधा भूत्वा पतितं मानसाचलात् ।
हिमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक् ।।१२८।।
तत्तोयं पतितं शिप्रे देवभोग्ये सरोवरे ।
तेन शिप्रानदीजाता विष्णुना प्रेरिता क्षितौ ।। १२९ ।।
महाकौषी प्रपाते तु यद्वारि पतितं तु वै ।
कौषिकी नाम सा जाता विश्वामित्रावतारिता ।। १३० ।।
उमा क्षेत्रे यत् पतितं तोयं तेन महानदी ।।१३१।
कावेरी नाम सा जाता महाकालसरः सृता ।
महाकाले सरः श्रेष्ठे पतितं तज्जलं गिरेः ।। १३२ ।।
हिमाद्रेः पार्श्वभागे तु दक्षिणे शंभुसन्निधौ ।
गोमती नाम तैर्जाता नदी गोमदुदीरिता ।। १३३ ।।
मैनाको नाम यः पुत्रः शैलराजस्य तत्समः ।
तस्मिन् सानौ समुत्पन्नो मेनकोदरतः पुरा ।। १३४ ।।
यत्तत्र पतितं तोयं तेन जाता महानदी ।
देविकाख्या महादेवप्रेरितो सागरं प्रति ।। १३५ ।।
यत्तोयं सङ्गतं दर्यां हंसावतारसन्निधौ ।
तेनाभूत् सरयूर्नाम्ना नदी पुण्यतमा स्मृता ।।१३६ ॥
यान्यम्भांसि महापार्श्वे खाण्डवारण्यसन्निधौ ।
हिमवत्कन्दरे याम्ये इराया हृदमध्यतः ।
इरावती नाम नदी तैर्जाता च सरिद्वरा ।।१३७ ।।
एता: सर्वाः स्नानपान सेवनैर्जाह्नवी यथा ।
फलं ददति मर्त्यानां दक्षिणोदधिगाः सदा ।।१३८ ।।
धर्मार्थकाममोक्षाणां बीजभूताः सनातनाः ।
महानद्यस्तु सप्तैताः सर्वदा देवभोगदाः ।। १३९ ।।
एवं नद्यः सप्तजाताः सदापुण्यतमोदकाः ।
अरुन्धत्या वसिष्ठस्य विवाहे देवसन्निधौ ।। १४० ।।
एवं विवाह्य स तदा वसिष्ठस्तामरुन्धतीम् ।
देवैर्दत्तं तदा स्थानं विमानेन जगाम ह ।। १४१ ।।
ब्रह्म विष्णु महेशानां वचनान्मुनिसत्तमः ।
हिताय सर्वजगतां त्रिषु लोकेषु सर्वदा ।।१४२ ।।
यस्मिन् यस्मिन् युगे यादृक् स्त्रीणां भवति तादृशम् ।। १४३ ।।
वेशं भावं शरीरं च कृत्वा धर्मे नियोजनम् ।
विचरत्येष लोकांस्त्रीनप्रमत्तः प्रसन्नधीः ।। १४४ ।।
एवं पुरा वसिष्ठेन परिणीतात्वरुन्धती ।। १४५ ।।
सा हितार्थाय जगतां देवानां वचनात् पुरा ।। १४६ ।।
य इदं शृणुयान्नित्यमाख्यानं धर्मसाधनम् ।
सर्वकल्याणसंयुक्तं चिरायुर्वित्तवान् भवेत् ।।१४७।।
या स्त्री शृणोति सततमरुन्धत्याः कथामिमाम् ।
पतिव्रता सा भूत्वेह परत्र स्वर्गमाप्नुयात् ।। १४८ ।।
इदं परं स्वस्त्ययनमिदं धर्मप्रदं परम् ।
आख्यानं सर्वदा कीर्तिर्यशः पुण्यविवर्धनम् ।। १४९ ।।
विवाहे पुंसि यात्रायां यः श्राद्धे श्रावयेत्तथा ।
स्थैर्यं पुंसवनं सिद्धिः पितृप्रीतिश्च जायते ।। १५० ।।
इति वः कथितं सर्वं वसिष्ठस्य महात्मनः ।
अरुन्धती यथाभूता भार्या वापि पतिव्रता ।। १५१ ।।
यस्य वा तनया जाता यथोत्पन्ना च यत्र च ।
यथा ब्रह्महरीशानां वचनात् स वृतः पतिः ।।१५२।।
एतत् वः सर्वमाख्यातं गुह्यतरं परम् ।
पुण्यदं पापहरणमायुरारोग्यवर्धनम् ।। १५३ ।।
इति विपुलवृषौघ क्षेमकारीतिहासं सदसि सकृदपीह श्रावयेद्यो द्विजानाम् ।
स भवति कलुषौद्यैर्हीन देहः समेतो मुनिवरसहचर्यां प्रेत्य गीर्वाण एव ।। १५४ ।।
।। इति श्रीकालिकापुराणे वसिष्ठारुन्धतीविवाहो नाम त्रयोविंशोऽध्यायः ॥ २३॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand