कालिकापुराणम् पञ्चचत्वारिंशोऽध्यायः अर्धनारीश्वरचरितवर्णनम्
अथ श्रीकालिका पुराण अध्याय ४५
।। ऋषय ऊचुः ।
विचित्रमिदमाख्यानं ब्रह्मन् कालीहरागमम् ।
पुण्यं पापहरं नित्यं श्रुतिसौख्यप्रदं वरम् ।। १ ।।
भूयः कथय शर्वस्य कालीतन्वार्धमुत्तमम् ।
कथं जहार गौरी वा कथम्भूताथ कालिका ॥२॥
केन वा कारणेनाशु कृष्णा गौरीत्वमागता ।
तन्न: कथय तत्त्वेन मुनिश्रेष्ठ द्विजोत्तम ।। ३ ।।
।। मार्कण्डेय उवाच ।।
इदं तु महदाख्यानं कथयिष्यामि वोऽधुना ।
महर्षयस्तच्छृण्वन्तु तत्त्वेन शुभदं परम् ।।४।।
एतदौर्व पुरा राजा सगरः पृष्टवान्मुनिम् ।
स तं यथा समाचष्ट तद्वोऽथ निगदाम्यहम् ॥५॥
पुराभूत् सोमवंशे च सगरो नाम पार्थिवः ।
स श्रीमान् बलवान् दक्षः सर्वशास्त्रार्थपारगः ॥६॥
सोऽभूदेकरथेनैव जित्वा सर्वान् महीभुजः ।
सार्वभौमो नरपति: सर्वराजगुणैर्युतः ।।७।।
तं प्राप्तराज्यं राजानं सगरं पार्थिवोत्तमम् ।
सभाजयितुमत्यर्थं मुनयः समुपागताः ।।८।।
प्राच्योदीच्या महात्मानो दाक्षिणात्यास्तथोत्तराः ।
मुनयो ब्राह्मणाश्चैव नृपं द्रष्टुं समागमन् ।। ९ ।।
आगतेष्वथ सर्वेषु महात्मा ज्वलनोपमः ।
और्वो नाम मुनिः श्रीमानागतो नन्दितुं नृपम् ।। १० ।।
तमागतं मुनिं दृष्ट्वा ज्वलन्तमिव पावकम् ।
सपर्यया महत्या तु सगरस्तमपूजयत् ।। ११ ।।
पाद्यमाचमनीयं च दत्त्वैवार्धपुरोगमम् ।
निवेशयामास च तं मुनिश्रेष्ठं वरासने ।।१२।।
उवाच च महात्मानमौर्वं स सगरो नृपः ।
प्रणम्य च यथायोग्यं कुशलं तु इति द्विजम् ।।१३।।
स च प्राह मुनिश्रेष्ठो नरराज सदा मम ।
सर्वत्र कुशलं त्वां तु द्रष्टुं कुशलमुत्सहे ।। १४ ।।
त्वत्तः कोन्योऽस्ति कुशली पृथिव्यां सर्वराजसु ।
य एकः सञ्जिगायाशु भवान् सकलपार्थिवान् ।। १५ ।।
कुशलं वर्धतां नित्यं तव राजवरोत्तम ।
यथा नीत्या सदाचारैः पृथिवीं शाधि भूपते ।। १६ ।।
तव वृद्धौ जगद्वृद्धिर्वृद्धौ चेष्टां ततः कुरु ।
शुभ्रांशुवृद्धौ सततं सागरस्येव वर्धनम् ।। १७ ।।
प्रथमं सद्गुणैरात्मा क्रियतां नृप योजनम् ।
ततः स्वभार्या महिषी क्रियतां तद्गुणैर्युता ।। १८ ।।
नित्या संयोजिता चेत् स्याद्वनिता स्वयमेव हि ।
स्वगुणेषु प्रवेक्ष्यन्ती महत्यपि धृतव्रता ।।१९।।
श्रूयते हिमवत्पुत्री शम्भुसंगतमानसा ।
क्रियाभ्युपायैर्बहुभिः शम्भुना सा प्रयोजिता ॥२०॥
ततोऽतिमहता प्रेम्णा शङ्करस्याथ पार्वती ।
शरीरमर्धमहरत्तस्यैवानुमते सती ।। २१ ।।
अर्धनारीश्वरस्तेन तदा प्रभृति शङ्करः ।
अभवन् नृपशार्दूल नान्यां भार्यां गृहीतवान् ।। २२ ।।
तस्मात् त्वमपि राजेन्द्र स्वजायामात्मनोत्तरे ।
गुणैः संयोजय लघु संयोजय ततः सुतम् ।। २३ ।।
।। मार्कण्डेय उवाच ।।
इत्यौर्वभाषितं श्रुत्वा सगरोऽपि मुदान्वितः ।
इदं मुनिमपृच्छत् स नृपतिः स्मितसन्ततः ।। २४ ।।
।। सगर उवाच ।।
कथं सा गिरिजा देवी कायार्धमहरत् सती ।
शङ्करस्य द्विजश्रेष्ठ तदहं श्रोतुमुत्सहे ।। २५ ।।
नीत्या यया वा योक्तव्या स्वात्मा भार्या सुतोऽथवा ।
तां नीतिं च सदाचारसंहितां श्रोतुमुत्सहे ।। २६ ।।
राजनीतिं सतां नीतिमन्येषां च कृतात्मनाम् ।
पृथक् पृथक् श्रोतुमिच्छुरहं त्वां नाथये द्विज ।। २७ ।।
यदि गुह्यमिदं ब्रह्मन्न तदा श्रोतुमुत्सहे ।
तथा नाज्ञापयामि त्वां श्रोतुमिच्छुश्च तत्समम् ।
कृपया कथनीयं चेत्तदा कथय तन्मुने ।। २८ ।।
।। मार्कण्डेय उवाच ।।
इत्येवं सगरेणोक्तमौर्वोऽपि द्विजसत्तम ।
प्रत्युवाच महात्मानं कृपालुस्तत्र भूपतौ ।। २९ ।।
।। और्व उवाच ।।
शृणु राजन् प्रवक्ष्यामि यद् यत् पृष्टमिह त्वया ।
यथा हरस्य तन्वर्ध भूभृत्पुत्री पुराहरत् ।। ३० ।।
यथा नीतिस्त्वया कार्या यत्र यत्र नृपोत्तम ।
सर्वेषां च सदाचारं क्रमाद् वक्ष्यामि तच्छृणु ।। ३१ ।।
यदोढा हिमवत्पुत्री शङ्करेण महात्मना ।
कियन्तं स तदा कालं तत्र निन्ये समोमया ।। ३२ ।।
रममाणस्तया सार्धं सानौ कुञ्जे दरीषु च ।
विजहार चिरं तत्र पार्वतीं मोदयन् हरः ।। ३३ ।।
अथ काले तु सम्प्राप्ते शम्भुः कैलासपर्वतम् ।
सगणो भार्यया सार्धमगच्छत्त्रिदिवोपमम् ॥३४॥
स तया क्रीडमानश्च त्यक्तध्यानात्मचिन्तनः ।
तद्वक्त्रचन्द्रे नेत्राणि चकोरानिव चाकरोत् ।। ३५ ।।
पुष्पाणि क्वचिदाहृत्य गिरिजां प्रति शङ्करः ।
सर्वाङ्गसङ्गिनीं मालां विदधेऽतिमनोहराम् ।। ३६ ।।
कदाचिदादर्शतले युगपच्चात्मनो मुखम् ।
मुखं तथैवापर्णायाः वीक्षाञ्चक्रे वृषध्वजः ।। ३७।।
कदाचिन्मृगनाभीनां विलेपैर्गन्धपत्रकम् ।
तस्या घनस्तनयुगे विलिलेख स्मरान्तकः ॥३८॥
गन्धसारविलेपेन तिलकान्यम्बिकातनौ ।
ललाटे चाकरोच्चारु चन्द्रवद्घनसन्धिषु ।। ३९ ।।
उमानिर्याससंसक्तकेशपाशेषु चित्रकम् ।
चन्दनागुरुकस्तूरीकुंकुमस्य विलेपनैः ।। ४० ।।
चकार येन तस्यास्तु केशपाशो व्यराजत ।
नर्तनायावतीर्णस्य शिखिपुच्छस्य साम्यधृक् ।। ४१ ।।
जाम्बूनदमयाञ् शुद्धान् कुण्डलाद्यान् मनोहरान् ।
अलङ्कारानुमा देहे समाकार्षीद् वृषध्वज: ।। ४२ ।।
तैर्जाम्बूनदसम्भूतैर्योजितैर्गिरिजातनुः।
विभाति जलदापूर्णे कालिकेव तडिद्गणैः ।।४३।।
सर्वैर्दिव्यैरलङ्कारैर्नानारत्नैः सदंशुकैः ।
सम्पूर्णमण्डिता काली सादृश्यं प्रकृतेर्दधौ ।। ४४ ।
एवं सदा सानुरागस्तस्यां शम्भुर्जगत्पतिः ।
जगद्धिताय चिक्रीड काल्या दयितया सह ।। ४५ ।।
काली च जगतां माता महामाया जगन्मयी ।
योगनिद्रा जगद्बुद्धिर्विद्याविद्यात्मिकाखिला ।। ४६ ।।
प्रकृतिः परमामूर्तिः सर्गान्तस्थितिकारिणी ।
सम्मोह्य शङ्करं यत्नाज्जगतां च हितैषिणी ।
रेमे तेन समं देवी चन्द्रिकेव सुधांशुना ॥४७ ।।
अथैकदा स्मरहरः कैलासाग्रे सहोमया ।
रममाणो मुदा युक्तो ददृशेऽप्सरसः शुभाः ।।४८ ।।
रूपयौवनसम्पन्नाः सर्वलक्षणसंयुताः ।
तासां मध्यगता वेश्या उर्वशी च मनोहरा ।। ४९ ।। .
ता: सर्वा रक्तगौरांग्यः सर्वालङ्कारभूषिताः ।
मुनीनां च मनोऽत्यर्थं शक्ता मोहयितुं हठात् ।। ५० ।।
ताः प्रणम्य हरं दृष्ट्वा गिरिजां च मनोरमाम् ।
अग्रे प्राञ्जलयस्तस्थुस्तद्भीतिनतमस्तकाः ।। ५१ ।
अथ प्राह तदा भर्गः पार्वतीमिदमद्भुतम् ।
तासां समक्षं तस्यां तु भाषितुं स्याद् यदप्रियम् ।। ५२ ।।
।। भर्ग उवाच ।
कालि भिन्नाञ्जनश्यामे उर्वश्याद्यप्सरोगणैः ।
त्वयेह स्त्रीस्वभावेन संलापः क्रियतामिति ।। ५३ ।।
।। और्व उवाच ।।
तच्छ्रुत्वा वचनं तस्य यथायोग्यं च सोर्वशी ।
अप्सरसः समाभाष्य विसृष्टा गिरिजा तया । । ५४ ।।
अथ सा क्रोधवशगा पार्वती भर्गभावितात् ।
काली भिन्नाञ्जनश्यामेत्युदिता ह्यभवत् क्षणात् ।। ५५ ।।
सा चाप्सरसां पुरतो वर्णोद्देशविकत्थनम् ।
न सेहे मन्युना युक्ता गिरिजेन्दुकलाभृतः ।। ५६ ।।
अथ सा रोषसंयुक्ता त्यक्त्वा वृषभवाहनम् ।
अपह्नुते शैलसानौ रोषापह्नुतिमागता ।। ५७ ।।
मार्गमाणोऽथ विरहव्याकुलो वृषवाहनः ।
नाससाद कियत्कालं पार्वतीं पर्वतोत्तमे ।।५८॥
विरहव्याकुलं ज्ञात्वा स्वयं सा पार्वती हरम् ।
आत्मानं दर्शयामास गिरसानापह्नुते ।। ५९ ।।
तामासाद्य ततः शम्भुः किमर्थमभजः प्रिये ।
मानं मनोनुदं देवि विशीर्ण इव चाब्रवीत् ।। ६० ।।
।। शिव उवाच ।।
भर्तुरागः पुरन्ध्रीणां मानग्रहणकारणम् ।
तद्विना ग्रहणात्तस्य भीरु प्राप्नोति वाच्यताम् ।।६१।।
तस्मात् किमर्थमकरो रोषं त्वं जलजानने ।
तदाचक्ष्व द्रुतं कान्ते मनो मे न प्रसीदति ।। ६२ ।।
।। और्व उवाच ।।
इत्युक्त्वा शङ्करो देवीं तामालिङ्गितुमुद्यतः ।
काली तं वारयामास वचनं चाब्रवीदिदम् ।।६३।।
।। काल्युवाच ।।
न दृष्टपूर्वा किमहं येन भिन्नाञ्जनोपमा ।
क्रियते मयि भूतेश भवताप्सरसां पुरः ।। ६४ ।।
जातिहीनं वृत्तिहीनं रूपहीनमदक्षिणम् ।
हीनांगमतिरिक्ताङ्गं तेन दोषेण नाक्षिपेत् ।। ६५ ।।
इति ब्रह्मा पुरा प्राह वैदौघार्थावनिश्चयम् ।
तं चावमन्य भवता परिहासोऽभ्यभाष्यत ।। ६६ ।।
यावन्न मे शरीरस्य भवित्री स्वर्णगौरता ।
न समेष्ये त्वया तावदिति सत्यं ब्रवीमि ते ।। ६७ ।।
शरीरगौरतां शम्भो न समेष्ये त्वया विना ।
तत्र मे शृणु सन्धाय आत्मनः शिरसा शपे ।। ६८ ।।
।। और्व उवाच ।।
इत्युक्त्वा सा तदा देवी तस्यैव पुरतो ययौ ।
महाकोषीप्रपाताख्यं हिमवत्सानुमुत्तमम् ।। ६९ ।।
महादेवोऽपि तां भाव्यं ज्ञानेन कृतनिश्चयम् ।
अर्थं ज्ञात्वा तदापर्णां सर्वज्ञो नाप्यवारयत् ।। ७० ।।
।। कालीतपवर्णन ॥
सा गत्वा पूर्ववत्तत्र शम्भुसङ्गतमानसा ।
शतमाराधयामास वर्षाणि वृषभध्वजम् ।। ७१ ।।
एकं पादं समुत्क्षिप्य वामेनाक्रम्य सा क्षितिम् ।
उत्तराभिमुखी भूत्वा निराहारा निरन्तरम् ।।७२।।
वैयाघ्रचर्मवसना सोर्ध्वमूर्द्धानना सती ।
ज्योतिर्मयं परं शान्तं शिवं शिवकरं वरम् ।
आत्मस्वरूपतत्त्वज्ञा तत्त्वेनाराधयद्धरम् ।। ७३ ।।
तां चिन्तयन्तीं परमनिश्चलां तत्त्वमानसाम् ।
मेने मुनिगण: स्थाणुर्यो न जानाति तत्त्वतः ।।७४।।
एवं तस्यास्तपस्यन्त्या जग्मुर्वर्षाणि वै शताम् ।
अन्येषां च यथा शश्वदेकं नृपतिसत्तम ।।७५ ॥
ततस्तां शतवर्षान्त शङ्करो योगतत्परः ।
आत्मानं दर्शयामास क्रमादेकं स सत्रयम् ।। ७६ ।।
प्रथमं दर्शयामास ब्रह्माणं च हरिं ततः ।
ततस्तु शाम्भवं देहं ततस्तेषामथैकताम् ।। ७७ ।।
ज्योतिर्मयत्वं शुद्धत्वं सर्वेषां हेतुतां तथा ।।७८ ।।
ततस्तु शम्भुरूपं स दर्शयामास शङ्करः ।
योगनिद्रां महामायां योगिनीं कालिकाम्बिकाम् ।।७९।।
प्रथमं दर्शयित्वा तु तस्याः प्रकृतिरूपताम् ।
पश्चात् सा पार्वतीत्येव क्रमात्तस्या अदर्शयत् ॥८०॥
तपसा सम्भृतेनाशु ज्ञानमासाद्य पार्वती ।
अन्तर्दृष्ट्या बहिर्दृष्ट्या तत्त्वं ज्ञात्वा यथातथम् ।। ८१ ।।
शम्भुं जगन्मयं मेने तथात्मानं जगन्मयीम् ।
ब्रह्मा विष्णुर्हरश्चापि ततः सर्वमिदं जगत् ॥८२॥
अहं समस्तप्रकृतिर्योगनिद्रा तथा सती ।
इति ध्यानेन सा देवी प्राप्य ध्यानं तदात्यजत् ।
उन्मील्य नयनद्वन्द्वं बहिः शम्भुं ददर्श च ।। ८३ ।।
सा दृष्ट्वा शङ्करं देवं देवदेवमुमापतिम् ।
तुष्टाव वाग्भिरिष्टाभिर्यमिनं योगतत्परम् ।।८४।।
।। पार्वत्युवाच ।।
नमस्ते जगतां नाथ नमस्ते केशवाव्यय ।
प्रधानपुरुषातीत कारणत्रयकारण ।। ८५ ।।
योगमोहमनोराग धर्माधर्ममयस्तथा ।
विद्याविद्यास्वरूपश्च शाम्भवः काय एष ते ।। ८६ ।।
त्वं निःश्रेयः श्रेयसा युज्यमानो
दृश्योऽदृश्यो योगमूर्तिर्मनीषी ।
सम्यक् श्रद्धा पौरुषे तत्त्वरूपं
त्वं वै ज्योतिः शान्तिरूपं पुरस्तात् ॥८७।।
ब्रह्मा विष्णुस्त्वं हरस्त्वं महेन्द्रः
सूर्य: सोमो वायुरग्निर्धनेशः ।
त्वं तोयेश: शमनो राक्षसश्च
शेषस्त्वत्तो विद्यते कोऽपि नास्मिन् ।। ८८ ।।
त्वं भूमिर्द्यौर्द्युसदां चापि पन्था-
स्त्वं स्थावरो जङ्गमो भूर्वलस्थ: ।
ज्ञानं ज्ञेयं ध्यानगम्यं च तत्त्वं
परात्परं व्यक्तरूपं परेषाम् ।।८९।।
त्वं पुरुष: परमात्मा प्रधानं
त्वं हि ज्यायानागमो ज्ञानगम्यः ।
भावः कृत्यं पञ्चरूपी समस्तै-
रासाद्यस्ते गोचरास्तद्भवाय ।। ९० ।।
कीर्तिः कीर्त्यः स्तुत्यरूपी स्तुतिश्च
द्रष्टा दृश्य: स्थैर्यधृक् स्थावरश्च ।
नित्योऽनित्यो मुक्तयोगो वियोगो
दानादाने भेदसामप्रयोगः ।। ९१ ।।
नीतिर्नेयो दीक्षितो दक्षिणाश्च
सारात् सार: संविधाता विधेयः ।
आर्योऽनार्यो रूपधृग्रूपहीनो
दिव्यो देवो मानुषोऽमानुषश्च ।। ९२ ।।
सृज्य: स्रष्टा पालक: पाल्यरूप-
श्चेता चेयो नोर्मियुक्तस्तथोर्मिः ।
विद्याविद्यावेदवादैकरूपो
रूपारूपस्तीक्ष्णसौम्यैकरूपः।। ९३ ।।
भावाभावः शोभनः शुद्धरूपी
शश्वद्दान्तः शान्तिरूग्रा मुनीनाम् ।
द्वन्द्वोऽद्वन्द्व: सर्वगोऽसर्वगश्च
भ्रान्तोऽ भ्रान्तः सिद्धसिद्धिप्रदश्च ।। ९४ ।।
एकस्थस्त्वं सर्वगोप्ता सुदेहो
निर्देहस्त्वं देह एक: सुराणाम् ।
स्थूलः सूक्ष्मो निर्विकारः शरीरी
विश्वात्मा त्वं नास्ति भिन्नो भवत्तः ।। ९५ ।।
कार्याकार्ये यस्य रूपे समस्ते
व्याप्याव्याप्ये भोगहीनोऽतिपूर्णः ।
योगज्ञानस्थात्मकं यस्य नित्यं
रूपं यस्य श्रीद तस्मै नमस्ते ।। ९६ ।।
प्रधानपुंसोरपि यो विधाता
यः कालरूपी पुरुष: परेशः ।
तमीशमुग्रं वरदं वरेण्यं
नमामि चिन्नीतिवितानकं त्वाम् ।। ९७ ।।
अक्षयो योऽव्ययः साक्षी क्षेत्रज्ञः क्षेत्रधृग्वरः ।
तस्मै नमस्ते विश्वात्मन् वृषध्वज महेश्वर ।। ९८ ।।
ज्ञानामृतविनिस्यन्दि यस्य चिच्चन्द्रमाः सदा ।
तद्रूपमेकं यं ज्ञेयं भक्तिमात्रं नमोऽस्तु ते ।। ९९ ।।
।। और्व उवाच ॥
इति स्तुतो महादेवः सर्वभूतानुकम्पकः ।
प्रसन्नवदनः प्राह पार्वतीं प्रतिहर्षयन् ।। १०० ।।
।। ईश्वर उवाच ।।
प्रीतोऽस्मि देवि भद्रं ते वरं वरय वाञ्छितम् ।
तपसाप्यायितश्चाहं त्वया ब्रह्मा तथा हरिः ।। १०१ ।।
तपसा त्वत्समो नास्ति शीलेन च गुणेन च ।
त्वां विना न हि तृप्यामि प्रिये कुरु यथेप्सितम् ।। १०२ ।।
ततः सा मोहिता प्राह मायया हिमवत्सुता ।
जाम्बुनदाभगौरो मे देहो भवतु साम्प्रतम् ।
अनन्यकान्तस्त्वं चापि भूया मत्तो विना हर ।। १०३ ।।
एवमुक्तो महादेवः पार्वत्या पार्वती ततः ।
आकाशगङ्गातोयौघे मज्जयामास भामिनीम् ।। १०४ ।।
सा निमज्ज्य समुत्तीर्णा विद्युद्गौरी व्यजायत ।
सिताम्भोमध्यगा देवी शारदाभ्रे तडिद्यथा ।।१०५।
शम्भुश्चाङ्गीचकराशु नाहं त्वत्तो विना प्रिये ।
मनसापि ग्रहीष्यामि नान्यां सत्यं ब्रवीमि ते ।। १०६ ।।
।। और्व उवाच ।।
अथ तोयात् समुत्तीर्णा पार्वती मोदसंयुता ।
तपः क्लेशपरित्यक्ता चन्द्रिकेव विधोर्यथा ।। १०७ ।।
अथ तां पार्वतीं देवीमादाय वृषभध्वजः ।
जगाम शैलं कैलासं स्वमाश्रमपदं लघु ।। १०८ ।।
तदा गत्वा हरो देवीमधिवास्य विभूष्य च ।
पूर्ववन्मोदयामास नर्महासकथादिभिः ।। १०९ ।।
सापि सौवर्णगौराङ्गी वीक्ष्य रूपं मनोहरम् ।
गृहीतसमयं शम्भुं प्राप्यातीव मुमोद ह ।। ११० ।।
एवं तयोस्तु शिवयोरन्योन्यरममाणयोः ।
जगाम सुचिरं कालं कैलासे पर्वतोत्तमे ।। १११ ।।
अथैकदा महादेवसमीपे हिमवत्सुता ।
आसीना ददृशे तस्य स्वां छायामुरसि स्थिताम् ।। ११२ ।।
स्फटिकाभ्रसमे स्वच्छे हृदि शम्भोर्मनोहरे ।
योगिज्ञानादर्शतले चार्वङ्गीं प्रतिबिम्बिताम् ।। ११३ ।।
आत्मच्छायां गिरिसुता वामभागे मनोहरे ।
ददर्श वनितारूपं स्मितवक्त्रां मनोहराम् ।। ११४।।
भ्रान्त्या दृष्ट्याथ पार्वत्यास्तदा ज्ञानमजायत ।
कृतसत्योऽपि गिरिशः किमन्यां वनितां दधौ ।
मायया स्थापितां गात्रे वीक्षन्तीं कुटिलं च माम् ।। ११५ ।।
इति तस्यास्तदा वक्त्रं मलिनं भ्रुकुटीयुतम् ।
बभूव वृषकेतुश्च श्याम उत्पातको यथा ।। ११६ ।।
सा दृष्ट्वाथ तदा छायां विष्णुमाया-विमोहिता ।
अपह्नुतं गिरे: शृङ्गं मानाद्रोषाद्विवेश ह ।। ११७ ।।
अथ तां मार्गमाणस्तु शङ्करो विरहाकुलः ।
चिरादपह्नुतां देवीमाससाद ततो हरः ।।११८।।
तामासाद्य महादेवो विवर्णवदनां प्रियाम् ।
उवाच रोषणे हेतुं ज्ञातुमिच्छुर्यथातथम् ।। ११९ ।।
।। ईश्वर उवाच ।।
किमर्थस्त्वं वरारोहे मह्यं कुप्यसि कोपने ।
रोषहेतुमहं वक्तुं तवेच्छामीह वल्लभे ।। १२० ।।
न तुभ्यमपराध्यामि वाचा वा मानसाथवा ।
कायेन वा कथं कोपं कर्तुमर्हसि भामिनि ।। १२१ ।।
।। देव्युवाच ।
समयेन मया पूर्वं तथा सम्प्रार्थितो भवान् ।
कथं तं परिहाय त्वमन्यां भार्यां समीहसे ।। १२२ ।।
प्रत्यक्षेण मया दृष्टा तव हृद्यन्तरे हर ।
चार्वङ्गी वनिता काचित्तोयनिर्यातभस्मनि ।। १२३ ।।
भवान् सर्वज्ञानमयः सर्वगः परमेश्वरः ।
तोषितो मे तपोव्रातैर्न तुष्टस्त्वं महेश्वर ।। १२४।।
तस्मादहं तपस्तप्तुं शश्वद्गन्तुं समुत्सहे ।
अनुजानीहि मां शम्भो मा विलम्बं वृथा कृथाः ।। १२५ ।।
इति श्रुत्वा वचस्तस्याः स्मितविस्तारिताननः ।
शङ्करः पार्वतीं प्राह सन्दिग्धामिव भामिनीम् ।। १२६ ।।
।। ईश्वर उवाच ।।
नाहमन्यां स्त्रियं वोढा नाहं समयभेदकः ।
तव मिथ्यामतिर्जाता मुग्धे मूढतयाधुना ।। १२७ ।।
त्वमिच्छसि यदि श्रोतुं तत्र हेतुं च पार्वति ।
तदहं कथये तत्त्वं मानं मानिनि मा कृथाः ।। १२८ ।।
मम वक्षसि विस्तीर्णे दर्पणस्वच्छभासिनि ।
तवैव वपुषश्छायाबिम्बितालोकिता त्वया ।। १२९ ।।
इदानीमेव बुध्यस्व त्वामृते नास्ति सा मयि ।
नात्र मानस्त्वया कार्यों हृदयान्तरसंस्थिते ।। १३०।।
।। देव्युवाच ।।
मयि स्थितायां छायास्ति मामृते नास्ति सा पुनः ।
कथमेतन्मया ज्ञेयं तन्मे वद वृषध्वज ।। १३१ ।।
।। ईश्वर उवाच ।।
गवाक्षाभ्यन्तरे स्थित्वा तज्जालेन मनोहरे ।
पश्य तोयौघनिर्यातभूतिलेपमुरो मम ।। १३२ ।।
तथा त्वं मण्डितं देहं वीक्ष्यादर्शतले पुनः ।
मद्धृदासन्नमासाद्य तादृक्छायां विलोकय ।। १३३॥
यथा द्रक्ष्यसि देहे स्वं तत् कुरु त्वं तथा मम ।
आलोकय निजां छायां त्वां विना नास्ति तत् पुनः ।। १३४ ।।
त्वमेव ज्ञास्यसि च्छायां मद्वक्षसि मनोहरे ।
ज्ञात्वा विसृज्यमानं मां त्वं चाप्युपपत्स्यसि ।। १३५ ।।
।। और्व्व उवाच ।
एवमुक्ता हरेणाथ पार्वतीन्दुकलाभृतः ।
तोयैर्निर्धाव्य हृदयं स्वां छायां पुनरैक्षत ।। १३६ ।।
दृष्ट्वादर्शत वक्त्रं निजं देहं च पार्वती ।
आलोकयामास तदा शश्वच्छंकरवक्षसि ।। १३७।।
यथा सा कुरुते देवी कापट्यं नेत्रविभ्रमम् ।
तथा सा कुरुते च्छाया करकम्पादिकं तथा ।। १३८ ।।
ततः पुनर्गवाक्षस्य जाले स्थित्वा हिमाद्रिजा ।
तथा व्यलोकयच्छम्भोर्हृदयं वीतभूतिकम् ।। १३९।।
तया तत्र तु पार्वत्या वृषभध्वजवक्षसि ।
न कापि दृष्टा वनिता दृष्टं जालस्य मण्डलम् ।। १४० ।।
एवं बहुविधैर्देवी तदोपायैस्तथेतरैः ।
निर्यातसंशया भूत्वा लज्जां प्राप वराङ्गना ।। १४१ ।।
तां लज्जितां गिरिसुतामीषद्धीतामधोमुखीम् ।
शम्भुरालिंग्य पाणिभ्यां मुखं चास्याश्चचुम्ब च ।
स तामाह महादेवो देवीमाश्वासयन् मुहुः ।। १४२ ।।
।। महादेव उवाच ॥
मा व्रीडस्व महाभागे भ्रान्तिः कस्य न जायते ।। १४३॥
मानस्त्वयि वरस्त्रीभिः कार्यः प्रेमकरो यतः ।
त्वयापि विरल: कार्यों मानो देवि न सर्वदा ।। १४४ । ।
।। और्व उवाच ।।
इत्युक्ता देवदेवेन मैनाकसहजाम्बिका ।
शङ्करं प्रणयात् प्राह सूनृतं मधुरं वचः ।। १४५ ।।
।। देव्युवाच ।।
यथा तवाहं सततं छायेवानुगता हर ।
भवेयं साहचर्येण तथा मां कर्तुमर्हसि ।। १४६ ।।
सर्वगात्रेण संस्पर्श नित्यालिङ्गनविभ्रमम् ।
अहमिच्छामि भवतस्तत्त्वं चेत् कर्तुमर्हसि ।।१४७।।
।। भगवानुवाच ।
रोचते तन्मह्यमपि यस्त्वमिच्छसि भामिनि ।
तत्रोपायमहं वक्ष्ये यदि शक्नोषि तं कुरु ।। १४८ ।।
अर्धं मम गृहाण त्वं शरीरस्य मनोहरे ।
अर्धं भवतु मे नारी अथैवार्धं पुमानिति ।। १४९ ।।
यदि त्वमपि शक्नोषि कर्तुं तदर्धमीदृशम् ।
तदाहं हरिष्यामि शरीरार्धं वरानने ।। १५० ।।
तवैवार्धं तथा नारी ह्यर्धं भवतु पूरुषः ।
विद्यते तत्र शक्तिर्मे त्वमनुज्ञातुमर्हसि ।। १५१ ।।
।। देव्युवाच ।।
तवैवाहं हरिष्यामि शरीरार्धं वृषध्वज ।
किं त्वहं त्वेकमिच्छामि तच्चेत्त्वं कर्तुमिच्छसि ।। १५२ ।।
यदाहमर्धं भवतो भूत्वा तिष्ठामि तावता ।
त्यजाम्यहं यदा तेऽर्धं सम्पूर्णं स्यात्तदा द्वयम् ।। १५३।।
इत्यर्धभागहरणं भवेद्यदि यथेप्सितम् ।
तवैवाहं तदा शम्भो शरीरार्धं हराम्यहम् ।। १५४।।
।। ईश्वर उवाच ।।
एवमस्तु भवेन्नित्यं यथार्थं हर्तुमर्हसि ।
शरीरस्यार्धहरणं भूयस्तव यथेप्सितम् ।। १५५ ।।
।। और्व्व उवाच ।।
अथ गौरी तदा पूर्वमनुभूतं तपः स्थितौ ।
योगनिद्रास्वरूपं तदात्मनोऽचिन्तयद्धिया ।। १५६ ।।
हरं प्रणम्य प्रथमं ब्रह्माणं च ततः परम् ।
ततस्त्रिजगतामीशं हरिं नारायणं प्रभुम् ।। १५७ ।।
चिन्तयित्वा यदा तेषामेकतां सा जगन्मयी ।
आत्मानं योगनिद्रां च चिन्तयित्वा तपस्विनी ।। १५८ ।।
दक्षिणे स्वशरीरस्य भागार्धं शशभृद्भृतः ।
शरीरस्य तदा वाममतिप्रेम्णा निजं हरे ।। १५९ ।।
हरोऽपि स्वशरीरार्धं गौरीकाये तदा स्वयम् ।
प्रेम्णा न्यवेशयत्तस्याश्चिकीर्षुः प्रियमद्भुतम् ।। १६० ।।
अथ स्थित्वा तदा भर्गः काल्या सह चिरं तदा ।
परित्यज्य शरीरार्धं पृथगेव बभौ रुचा ।। १६१।
काली भूत्वा स्वर्णगौरी शरीरार्द्ध च शङ्करम् ।
प्राप्तमोदा तदात्मानं सन्तुष्टा च जगन्मयी ।। १६२ ।।
एवं यदा शरीरार्धमादाय परमेश्वरी ।
रहस्ये तिष्ठति तदा राजतेऽतीव शोभना । । १६३ ।।
अर्द्धं धम्मिल्लसंयुक्तं जटाजूटार्द्धयोजितम् ।
एकस्मिन् श्रवणे भोगी भागे जाम्बूनदार्चितम् ।। १६४ ।।
कुण्डलं श्रवणेऽन्यस्मिन् शीर्षे तस्या व्यराजत ।
अर्द्धं मृगाक्षि चान्यार्द्धं वृषभाक्षि व्यजायत ।। १६५ ।।
अर्द्धं स्थूलनसं चारु तिलपुष्पनसं परम् ।
दीर्घश्मश्रु तथैवार्द्धमर्द्धं श्मश्रुविवर्जितम् ।। १६६।।
आरक्तचारुदर्शनं रक्तौष्ठमेकतस्तथा ।
अपरं शुक्लविपुलं दीर्घाकृतिरदं परम् ।। १६७ ।।
अर्द्धनीलगलं चार्द्धमपरं हारसंयुतम् ।
अर्द्धं कंकणकेयूरयुक्तबाहु तथापरम् ।।१६८।।
नागकेयूरसंयुक्तं स्थूलबाहुनिरूर्मिकम् ।
अर्धं विलोलसुभुजं परिहस्तभुजं परम् ।। १६९ ।।
एकत्र सोर्मिकाशाखा करस्यान्यत्र तां विना ।
एकस्तनं तु हृदयं रोमावल्यर्धसंयुतम् ।।१७० ।।
रम्भास्तम्भसमानोरू सुपार्णितम मृदुपादकम् ।
एकं तथापरं स्थूलं संहतोरुपदाम्बुजम् ।। १७१ ।।
एकं चारुमृदुस्थूलजघनं सुमनोहरम् ।
तथापरं दृढकटि संहतोर्द्धपदान्वयम् ।। १७२ ।।
एकं वैयाघ्रचर्मोद्ययुक्तं भूतिविलेपनम् ।
अपरं मृदु कौशेयवसनं चन्दनोक्षितम् ।। १७३ ।।
एवमर्द्धं तथा जातं योषिल्लक्षणसंयुतम् ।
अपरं बलवद् भूरि सुगूढं पुरुषाकृति ।। १७४।।
एवमर्द्धं स्मररिपोर्जहार गिरिजा सती ।
हिताय सर्वजगतां कालिका कालिकोपमा ।। १७५ ।।
तस्याः शरीरं राजेन्द्र हरतन्वर्द्धसंयुतम् ।
येनोपमेयं तत्रास्ति मार्गितं भुवनत्रये ।।१७६।।
सन्तानः पारिजातो वा एकान्तविशदस्तरुः ।
अमोघया यथा वल्ल्या तौ चापि ययतुर्नहि ।। १७७ ।।
बहुधा च पृथक् तेन तौ रेमाते नरेश्वर ।
अर्द्धनारीश्वरो भूत्वा स तु रेमे कदाचन ।। १७८ ।।
इति यद्यपि भूतेशः स्वयं शक्नोति कालिकाम् ।
गौरीं कर्तुं तदा सर्वभूतकारणकारणः ।।१७९।।
तथापि तां गिरिसुतां संयोज्य विविधैः पुरा ।
तपस्ययोजयद् देव; क्रियोपायैरनेकशः ।। १८० ।।
तपोनिर्धूतसर्वाङ्गी पश्चाद् गौरीमथाकरोत् ।
अर्द्धं च प्रददौ तस्यै शरीरस्य महेश्वरः ।। १८१ ।।
नैवास्य तत्त्वं जानन्ति शक्राद्याः सकलाः सुराः ।
शरीरार्द्धप्रदानस्य तपसे योजनस्य च ।। १८२।।
एतस्य तत्त्वं जानन्ति महात्मानो महाबलाः ।
नन्दी भृङ्गी महाकालो वेतालौ भैरवस्तथा ।। १८३ ।।
अङ्गभूता महेशस्य वीतभीतास्तपोधनाः ।
ये मानुषशरीरेण प्रापिरे तपसो बलात् ।
गणानामाधिपत्यं तु ते जानन्ति हरं परम् ।। १८४ ।।
एवं सदा त्वया योज्याः सानुगा नृपसत्तम ।
वनिता सत्क्रियोपायैस्ततो भद्रमवाप्स्यसि ।। १८५ ।।
य इदं शृणुयान्नित्यमद्भुतं पुण्यदायकम् ।
शिवयो: प्रीतिकरणं शरीरार्द्धग्रहं तथा ।। १८६ ।
गौरीत्वसाधनञ्चैव कालिकायाः शुभावहम् ।।१८७।।
न तस्य विघ्ना जायन्ते स च पुण्यतमो मतः ।
दीर्घायुः स सुखी भूयात् पुत्रपौत्रसमन्वितः ।। १८८ ।।
सततं परिशृण्वानः शिवयोश्चरितं महत् ।
शिवलोकमवाप्नोति सुचिरं शिववल्लभः ।। १८९ ।।
॥ इति श्रीकालिकापुराणेऽर्द्धनारीश्वरचरिते पञ्चचत्वारिंशोध्यायः ॥ ४५ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-[Karmakand]