।।ईश्वर उवाच।।
वैष्णवीतन्त्रमन्त्रस्य यथापूर्वं मयोदितम्।
मण्डलं प्रतिपत्त्या तु पर्यायो मण्डलस्य यः।। २.६३.१ ।।

स एवं प्रथमं कार्यः शिलायां पुष्पचन्दनैः।
पात्रादीनां प्रतिष्ठानं तथैवात्रापि योजयेत्।। २.६३.२ ।।

वैष्णवीतन्त्रमन्त्रस्य प्रोक्ता याः प्रतिपत्तयः।
अत्र ताः सकला योज्या आसनाद्यैश्च पूजनम्।। २.६३.३ ।।

तेभ्योऽन्यो यो विशषोऽत्र तद् वक्ष्ये शृणु भैरव।
प्रथमं भास्करायार्घ्यं प्रदद्याच्श्वेतसर्षपैः।। २.६३.४ ।।

पुष्पचन्दनसंवीतैः सगणाय महात्मने।
आसनार्चनशेषे तु पठोक्ताः सर्वदेवताः।। २.६३.५ ।।

पीठनाम्ना तु संयोज्य मण्डलस्य तु मघ्यतः।
ध्यानस्वरूपं भिन्नं तद् वैष्णव्या सह भैरव।। २.६३.६ ।।

कामायाः सर्वमन्यत् तु महामायास्तवोदितम् ।
योगिनिस्तु चतुःषष्टिः पूजयेच्च पृथक् पृथक्।। २.६३.७ ।।

गुहां मनोभवां चापि महोत्साहां तथा सखीम्।
अनन्तरं पूजयेत् तु दिक्पालांश्च नवग्रहान्।। २.६३.८ ।।

रूपतस्तान् समुद्‌दिश्य पूजयेदिष्टसिद्धये।

पूर्वद्वारे गणपतिं प्रथमं तु प्रपूजयेत्।। २.६३.९ ।।

नन्दिनं च हनूमन्तं पश्चिमद्वारि पूजयेत्।
भृङ्गी चोत्तरतः पूज्यो महाकालस्तु दक्षिणे।। २.६३.१० ।।

एते मम द्वारपाला देव्या द्वारे प्रपूजयेत्।
पात्रामृतीकृतिविधौ कुर्याद् वै कामुद्रया।। २.६३.११ ।।

भूतापसारणं कुर्यात् पूर्वं तालत्रयेण तु।
वामहस्ते दक्षिणेन पाणिना तालमाहरेत्।। २.६३.१२ ।।

हूँ हूँ फडितिमन्त्रेण वेतालादींश्च सारयेत्।
सर्वमुत्तरतन्त्रोक्तं तन्त्रं कुर्यात् तु साधकः।। २.६३.१३ ।।

अत्रोक्तेन स्वरूपेण प्रणायामं तथा चरेत्।
स्नापयेत् प्रथमं देवीं मूलमन्त्रेम पूजकः।। २.६३.१४ ।।

मधुक्षीराज्यदधिभिर्गोमूर्त्रैर्गोमयैस्तथा।
रत्नोदकैः शर्कराभिर्गुडरत्नकुशोदकैः।। २.६३.१५ ।।

सितसर्षपमुद्गाभ्यां तिलक्षीरैस्तथा यवैः।
रक्तचन्दनपुष्पैश्च दूर्वाभी रोचनायुतैः।। २.६३.१६ ।।

नवभिर्वितरेदर्घ्यं शिलायां योनिसन्निधौ।
आसनं पाद्यमर्घ्यं च तत आचमनीयकम्।। २.६३.१७ ।।

मधुपर्कं स्नानजलं वस्त्रं चन्दनभूषणम्।
पुष्पं धूपं च दीपं च नेत्राञ्जनमतः परम्।। २.६३.१८ ।।

नैवेद्याचमनीये च प्रदक्षिणनमस्कृती।
एते षोडश निर्दिष्टा उपचारास्तु पीठतः।। २.६३.१९ ।।

आवाहयेन्महादेवीं गायत्र्या कामयोगया।
तामेव विद्धि वेताल गुह्यं भैरवदैवतम्।। २.६३.२० ।।

कामाख्ये त्वमिहागच्छ यथावन्मम सन्निधौ।
पूजाकर्मणि सान्निध्यमिह कल्पय कामिनि।। २.६३.२१ ।।

कामाख्यायै च विद्महे कामेश्वर्ये तु धीमहि।
ततः कुर्यान्महादेवी ततश्चानु प्रचोदयात्।। २.६३.२२ ।।

एषा तु कामगायत्री पूजयेदनया शुभाम्।
पूजावसाने च बलीन्देव्याः प्रीत्यै निवेदयेत्।। २.६३.२३ ।।

रुद्राक्षमालया जाप्यमादायैव समाचरेत्।
त्रयक्षरैर्मूलमन्त्रस्य त्रिधा वृत्तः प्रपूजयेत्।। २.६३.२४ ।।

कामाख्यायाः षडङ्गानि आह्वानानन्तरे तथा।
वैष्णवीतन्त्रमन्त्रस्य कराङ्गन्यासयोश्च ये।। २.६३.२५ ।।

स्वराः प्रोक्तास्तैः स्वरैस्तु सार्दचन्द्रैः सबिन्दुकैः।
मूलमन्त्राद्यक्षराभ्यां युगपत्तु नियोजितैः।। २.६३.२६ ।।

कनिष्ठादिक्रमेणैव ह्यङ्गन्यासं समाचरेत्।
अङ्गन्यासकरन्यासौ कृत्वा पश्चात्तु साधकः।। २.६३.२७ ।।

हृच्छिरस्तु शिखावर्मनेत्रास्योदरपृष्ठतः।
बाह्वोः पाण्योर्जङ्घयोस्च पादयोश्चापि विन्यसेत्।। २.६३.२८ ।।

अभयं वरदं हस्तमक्षमालां च सूत्रकम्।
पूजयेच्छशिनं सूर्यं शिरश्चाद्रकलां तथा।। २.६३.२९ ।।

रक्तपद्‌मं शवं चैव लौहित्यं ब्रह्मपुत्रकम्।
मनोभवां शिलां तत्र शक्तिस्थां शवमध्यतः।। २.६३.३० ।।

देव्याः प्रपूजयेद्भक्तः कारवालं च पार्श्वतः।
पीठादिदेवतास्तत्र यजेत् कामेश्वरीं शुभाम्।। २.६३.३१ ।।

त्रिपुरां पूजयेन्मध्ये पीठप्रत्यधिदेवताम्।
शारदां च महोत्साहां मध्य एव प्रपूजयेत्।। २.६३.३२ ।।

चण्डेश्वरी महादेवी देव्या निर्माल्यधारिणी।
योनिमुद्रा समाख्याता कामाख्या विसर्जने।। २.६३.३३ ।।

इदं द्रव्यं तु सिन्दूरच्दनागुरुकुंङ्कुमैः।
इति यो हि मया प्रोक्तो विशेषः परिपूजने।। २.६३.३४ ।।

एभिर्विशेषैः सहितं वैष्मवीतन्त्रगोचरम्।
सर्वं कल्पं समासाद्य कामाख्यां परिपूजयेत्।। २.६३.३५ ।।

अनेनैव विधानेन कामाख्यां यस्तु पूजयेत्।
मनोभवगुहामध्ये स याति परमां गतिम्।। २.६३.३६ ।।

ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च।
कौमारी वैष्णवी दुर्गा नरसिंही च कालिका।। २.६३.३७ ।।

चामुण्डा शिवदूती च वाराही कौशिकी तथा।
माहेश्वरी शाङ्करी च जयन्ती सर्वमङ्गला।। २.६३.३८ ।।

काली कपालिनी मेधा शिवा साकम्भरी तथा।
भीमा शान्ता भ्रामरी च रुद्राणी चाम्बिका तथा।। २.६३.३९ ।।

क्षमा धात्री तथा स्वाहा स्वधापर्णा महोदरी।
घोररूपा महाकाली भद्रकाली भयङ्करी।। २.६३.४० ।।

क्षेमकरी चोग्रचण्डा चण्डोग्रा चण्डनायिका।
चण्डा चण्डवती चण्डी महामोहा प्रियङ्करी।। २.६३.४१ ।।

कलविकरिणी देवो बलप्रमथिनी तथा।
मदनोन्मथिनी देवी सर्वभूतस्य दामनो।। २.६३.४२ ।।

उमा तारा महानिद्रा विजया च जया तथा।
पूर्वोक्ताः सैलपुत्र्याद्या योगिन्यष्टौ च याः क्रमात्।। २.६३.४३ ।।

ताभिरेभिश्च सहिताः चतुःषष्टिं च योगिनोः।
पूजयेन्मण्डलस्यान्तः सर्वकामार्थसिद्धये।। २.६३.४४ ।।

नानाविधं तु नैवेद्यं पानं पायसमेव च।
मोदकापूपपिष्टादि देव्यै सम्यक् प्रदापयेत्।। २.६३.४५ ।।

एवं तु पूजयेद् देवीं कामाक्यां वरदायिनीम्।
भक्तियुक्तो नरो यस्तु सर्वान् लभते प्रियान्।। २.६३.४६ ।।

महोत्साहा तु या देवी महामाया तु सा स्मृता।
वैष्णवीतन्त्रमन्त्रेण सा पूज्य योनिमण्डले।। २.६३.४७ ।।

तदेव मण्डलं चास्य ह्यङ्गन्यासं तथैव च।
सा एव पूजापर्याये तद्‌ध्यानं सैव दैवता।। २.६३.४८ ।।

तन्त्रं तदेवमुक्तं तु तस्मान्नान्यं तु किञ्चन।
मण्डलादिविसृष्ट्यर्थं महामायामहोत्सवे।। २.६३.४९ ।।

यत्प्रोक्तं तेन तां देवीं महोत्साहां तु मण्डले।
स्नानपूर्वं पूजयेत्तु मध्वाज्यादिभिरासवैः।। २.६३.५० ।।

शृणुतं त्रिपुरामूर्तेः कामाख्यायाः प्रपूजनम्।
एतस्या मूलमन्त्रं तु पूर्वमुत्तरतन्त्रके।। २.६३.५१ ।।

युवयोरिष्टयोः स्म्यक् क्रमात् तत् प्रतिपादितम्।
वाग्भवं कामबोजं तु डामरं चेति तत्त्रयम्।। २.६३.५२ ।।

सर्वधर्मार्थकामादिसाधकं कुण्डलीयुतम्।
त्रीण्यस्मात् पुरतो दद्याद् दुर्गा ध्याता महेश्वरी।। २.६३.५३ ।।

त्रिपुरेति ततः ख्याता कामाख्या कामरूपिणी।
तस्यास्तु स्नापनं यादृक्कामाख्यायाः प्रकीर्तितम्।। २.६३.५४ ।।

तेनैव स्नापनं कुर्यान्मूलमन्त्रेण पूजकः ।
त्रिकोणं मण्डलं चास्यास्त्रिपुरं तु त्रिरेखकम्।। २.६३.५५ ।।

मन्त्रं तु अक्षरं ज्ञेयं तथा रूपं त्रयं पुनः।
त्रिविधा कुण्डली शक्तिस्त्रिदेवानां च सृष्टये।। २.६३.५६ ।।

सर्वं त्रयं त्रयं यस्मात् त्रिपुरा तेन सा स्मृता।
उदीच्याद्यथ पूर्वान्ता रेखाः कार्यास्तु मण्डले।। २.६३.५७ ।।

त्रिस्त्रिरेखास्तु कर्तव्यास्ता एव पुष्पचन्दनैः।
ऐशान्यमथ नैर्ऋत्यां मन्त्रं कृत्वा तु संलिखेत्।। २.६३.५८ ।।

नैऋत्यां चैव वायव्यां ततो ह्यैशान्यगां पुनः।
एवं त्रिकोणं विलिखेन्मण्डलस्यान्तरे पुनः।। २.६३.५९ ।।

ऐशान्याद्यास्तु या रेखा सा तु शक्तिर्निगद्यते।
नैर्ऋत्यां वायवीं याता ततो ह्यैशान्यगा तु या।। २.६३.६० ।।

सा तु शम्भुः समाख्याता शक्त्या शम्भुं विभेद्‌येत्।
शक्त्या विभिन्नं भूतेशं वेष्टयेत् कमलेन तु।। २.६३.६१ ।।

अष्टपत्रेण तां ध्यात्वा त्रिवर्णां प्राक् प्रपूजयेत्।
त्रिभिस्त्रिभिस्तु रेखाभिः शक्तिं शम्भुं च वेष्टयेत्।। २.६३.६२ ।।

स्थानस्याब्युक्षणं सम्यद्ध मार्जनं लिखनं तथा।
अस्त्रमन्त्रप्रयोगाणां भूतानामपसारणम्।। २.६३.६३ ।।

वैष्णवीतन्त्रमन्त्रोक्तं तथैवोत्तरतन्त्रके।
यत् प्रोक्तं तत् तु सामान्यं प्राक् कुर्यात् साधको नरः।। २.६३.६४ ।।

त्रिपुराया विशेषेण सहितं पूजनक्रमम्।
एतत् त्रिकोणं देवानां त्रयाणां स्थानमिष्यते।। २.६३.६५ ।।

ऐशान्यां तु तथेशानो नैर्ऋत्यां चतुराननः।
वायव्यां तु तथा ब्रह्मा षट्‌कोणेषु प्रकीर्तिताः।। २.६३.६६ ।।

दलं त्वेकपुरं प्रोक्तं केशरं चापरं पुरम्।
पुरं शेषं त्रिकोणं तु त्रिकोणं मण्डलं स्मृतम्।। २.६३.६७ ।।

दलेषु केशरे चापि त्रिकोणे च त्रिधा त्रिधा।
रेखास्तु विहिताः सम्यक् कुर्यात् तत्र पुनः पुनः ।। २.६३.६८ ।।

उत्तरं तद् भवेद् द्वारं तस्य वै धनुराकृतिः।
पूर्वद्वारं तु षट्‌कोणं चतुष्कोणं तु दक्षिणे।। २.६३.६९ ।।

पश्चिमं तोरणाकारं यथा चान्यत्र मण्डले।
ऐशान्यां पञ्चबाणांस्तु लिखेद वह्नौ च तद्‌धनुः।। २.६३.७० ।।

नैर्ऋत्यां पुस्तकं चापि वायव्यामक्षमालिकाम्।
एवं कृत्वा मण्डलं तु धृत्वा वामेन पाणिना।। २.६३.७१ ।।

वाग्‌वेश्मने नम इति मण्डलं पूजयेत् ततः।
पूजयित्वा ततो भूतान् नालिकात्रितयेन तु।। २.६३.७२ ।।

मूलमन्त्रेण पूर्वोक्तैर्मन्त्रैरपि समाचरेत्।
नवभिश्छोटिकाभिस्तु त्रिदा कृत्वा तु वेष्टनम्।। २.६३.७३ ।।

अभ्युक्षणं ततः कुर्याद् भूतानामपसारणम्।
प्रतिपत्तिस्तु पात्रस्य अर्ध्यार्थं नवधा पुनः।। २.६३.७४ ।।

पूर्ववत् साधकः कुर्याद् दहनं प्लवनं तथा।
अमृतीकरणं कुर्यात् प्रथमं धेनुमुद्रया।। २.६३.७५ ।।

योनिमुद्रां ततः कुर्यात् पात्रतोयं तु त्रिः स्पृशेत्।
मार्तण्डभैरवायार्घ्यं दूर्वाभिः सिद्धसर्षपैः।। २.६३.७६ ।।

रक्तपुष्पैश्चन्दनैश्च सगणाय निवेदयेत्।
पाणिकच्छपिकां कृत्वा चिन्तनं योनिमुद्रया।। २.६३.७७ ।।

आदौ मध्ये च कर्तव्यं क्रमाद् वेतालभैरव।
अस्त्रमन्त्रेण पात्रस्य स्थापनार्थं तु मण्डलम्।। २.६३.७८ ।।

षट्‌कोणं तु लिखेत् पूर्वं तन्मन्त्रस्थापनेऽपि च।
ऐँ आँ क्लीमिति मन्त्रेण त्रिधा पात्रे जलं क्षिपेत्।। २.६३.७९ ।।

त्रिधा गन्धं च पुष्पं च त्रिधा दूर्वाक्षतं पुनः।
 ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौमिति च अङ्गुष्ठादि क्रमान्न्यसेत्।। २.६३.८० ।।

ॐ ह्र इत्यस्त्रमन्त्रेण पाणिपृष्ठतले तथा।
हृदयादिक्रमात् पश्चान्न्यासं कुर्यात् त्रिधा त्रिधा।। २.६३.८१ ।।

संयोज्य पाण्योः क्रमतश्चाङ्गुष्ठादि द्वयं द्वयम्।
त्रिधा त्रिधा पृथक् कुर्याच्छेषाङ्गानि च विन्यसेत्।। २.६३.८२ ।।

कर्णरन्घ्रे तथा ब्रह्मद्वारं केशतलं तथा।
नासिकारन्ध्रयुगलं जानुयुग्मं पदद्वयम्।। २.६३.८३ ।।

त्रिधा त्रिधा न्यसेदेभिः षड्‌भिर्मन्त्रैः पृथक् पृथक्।
प्राणायामं ततः कुर्यात् पूरकैः स्तम्भकैस्तथा।। २.६३.८४ ।।

रेचकेनापि त्रिपुरामूर्ति देवीं विचिन्तयेत्।
दहनप्लवनं कृत्वा आद्यां मूर्तिं विचिन्तयेत्।। २.६३.८५ ।।

त्रिधादृत्याथ हृदये तां मुर्तिं शृणु भैरव।
सिन्दूरपुञ्जसंकाशां त्रिनेत्रां तु चतुर्भुजाम्।। २.६३.८६ ।।

वामोर्ध्वे पुष्पकोदण्डं धृत्वाधः पुस्तकं तथा।
दक्षिणोर्ध्वे पञ्चबाणानक्षमालां दधात्यधः।। २.६३.८७ ।।

चतुर्णां कुणपानां तु पृष्ठेऽन्यं कुणपान्तरम्।
निधाय तस्य पृष्ठे तु समपादेन संस्थिताम्।। २.६३.८८ ।।

जटाजूटार्धचन्द्रेण समाबद्धशिरोधराम।
नग्नां त्रिवलिभेदेन चारुमध्यां मनोहराम्।। २.६३.८९ ।।

सर्वालङ्कारसम्पूर्णां सर्वाङ्गसुन्दरी शुभाम्।
स्रवद्‌द्रविणसन्दोहां सर्वलक्षणसंयुताम्।। २.६३.९० ।।

एनां तु प्रथमं ध्यात्वा त्रिधात्मानं तु चिन्तयेत्।
तद्रूपं च ततः पश्चात् पुष्पं तद्‌वाग्भवेन तु।। २.६३.९१ ।।

स्वमस्तके पुनर्दद्यादङ्गन्यासं पुनस्तथा।
मन्त्रद्वंय त्रिधा जप्त्वा वाग्भवाद्यं तु साधकः।। २.६३.९२ ।।

अघ्यपात्रस्य तोयेषु तैस्तोयैः सेचयेच्चिरः।
पजोपकरणं चापि त्रिरभ्युक्ष्य तथैव तु।। २.६३.९३ ।।

कामपीठं ततो ध्यात्वा पूजयेत् क्रमतस्त्विमान्।
गणेशं च गणाध्यक्षं गणनाथं तथैव च।। २.६३.९४ ।।

गणक्रीडं च पूर्वादिद्वारे मन्त्रेण पूजयेत्।
हैरम्बबीजमेतेषां मन्त्रस्तु परिकीर्तितः।। २.६३.९५ ।।

विद्याशान्तिनिवृत्तिश्च प्रतिष्ठा द्वारपालकाः।
कलान्ताः पूजयेत् सम्यक् पूर्वादिक्रमतस्तथा।। २.६३.९६ ।।

सिद्धपुत्रं ज्ञानपुत्रं तथा सहजपुत्रकम्।
शेषं समयपुत्रं तु पूजयेत् बटुकानिमान्।। २.६३.९७ ।।

प्रत्येकं तु श्रियं देवीं बटुकानां परे वरे।
श्रीमित्यनेन मन्त्रेण पूर्वादौ पूजयेत् क्रमात्।। २.६३.९८ ।।

सिद्धस्य सहजस्याथ ज्ञानस्य समयस्य च।
कुमारीं पूजयेत् कोणे ऐशान्यादो तु मण्डले।। २.६३.९९ ।।

गोरटं डामरं चैव लोहजङ्घं तथैव च।
भूतनाथं क्षेत्रपालमीशानादौ प्रपूजयेत्।। २.६३.१०० ।।

मण्डलस्य च मध्ये तु प़ञ्चबाणान् प्रपूजयेत्।
द्रावणं शोषणं चैव बन्धनं मोहनं तथा।। २.६३.१०१ ।।

आकर्षणं च मध्येन मन्त्रेणैव प्रपूजयेत्।
ततस्त्रिष्वथ कोणेषु पूजयेत् तु त्रियोगिनीः।। २.६३.१०२ ।।

भगं च भगजिह्वां च भगास्यामुत्तरादिकम् ।
क्रमात्तु पूज्यस्तिस्रो अन्या मध्ये त्रिकोणके।। २.६३.१०३ ।।

भागमालिनीं तु प्रथमे द्वितीये तु भगोदरीम्।
तृतीये भगरोहां तु योगिनीं कामरूपिणीम्।। २.६३.१०४।।

अनङ्गकुसुमां देवीं तथैवानङ्गमेखलाम्।
अनङ्गमदनां चैव ह्यनङ्गमदनातुराम् ।। २.६३.१०५ ।।

अनङ्गवेशां चानङ्गमालिनीं मदनानुतुराम् ।
दलकेशरमध्ये तु ह्यष्टमीं मदनाङ्गकुशाम्।। २.६३.१०६ ।।

शैलपुत्र्यादयश्चाष्टौ त्रिपुरापूजनक्रमे।
एतन्नामभिरव्यग्रा बभूवुः कामयोगिनीः।। २.६३.१०७ ।।

वाग्‌भवेन तथा दुर्गां नेत्रबीजान्तकेन तु।
अङ्गन्यासं समन्त्रैस्तु षड्भिरष्टाविमान् पुनः।। २.६३.१०८ ।।

पूजयेत् क्षेत्रपालांस्तु मव्ये किञ्जल्कपत्रयोः।
हेतुकं विपुरघ्नं च अग्निजिह्वं तथैव च।। २.६३.१०९ ।।

अग्निवेतालसंज्ञं च कालं चाथ करालकम्।
एकपादं भीमनाथमुत्तरादिक्रमेण तु।। २.६३.११० ।।

एभिरेवाष्टभिर्मन्त्रैः कामराजेन संयुतैः।
नवैतानसिताङ्गादीन् नायकान् पूजयेत् क्रमात्।। २.६३.१११ ।।

मण्डलस्य चतुर्दिक्षु द्वौ द्वौ पूर्वादिषु क्रमात्।
पद्ममण्डलयोर्मध्ये शेषमेकं तु पूजयेत्।। २.६३.११२ ।।

असिताङ्गो रुरुचण्डः क्रोधोन्मत्तौ भयङ्करः।
कपाली भीषणश्चैव संहारश्चेति वै नव।। २.६३.११३ ।।

ऐशान्यादिक्रमाद् द्वे द्वे नायिकां पूजयेन्नरः।
पद्ममण्डलयोर्मध्ये अग्नौ द्वे च प्रपूजयेत्।। २.६३.११४ ।।

ब्रह्माणीं भैरवीं चैव तथा माहेस्वरीमपि।
कौमारीं वैष्णवीं चैव नारसिंहीं तथैव च।। २.६३.११५ ।।

वाराहीं च तथेन्द्राणीं चामुण्डां चण्डिकां तथा।
आधारशक्तिप्रभृतीन् मण्डलस्य तु मध्यतः।। २.६३.११६ ।।

वैष्णवी तन्त्रकल्पोक्तान् सर्वान् भैरव पूजयेत्।
शिवस्य पञ्च याः प्रोक्ताः सद्योजातादयः पुरा।। २.६३.११७ ।।

मूर्तयस्ताः पद्मध्ये पञ्चप्रेतत्वमागताः।
ताः पञ्च पूजयेन्मध्ये रक्तपद्‌मं शवं तथा।। २.६३.११८ ।।

सिंहं च पूजयेत् तत्र जगदाधारसंज्ञितम्।
जयन्तीं मङ्गलां कालीं भद्रकालीं कपालिनीम्।। २.६३.११९ ।।

दुर्गां क्षमां शिवां धात्रीं स्वधां स्वाहां च पूजयेत्।
उग्रचण्डा प्रचण्डा चण्डोग्रा चण्डनायिका।। २.६३.१२० ।।

चण्डा चण्डवती चैव चण्डरूपातिचण्डिका।
एताः सम्पूजयेन्मध्ये मण्डलस्य विशेषतः।। २.६३.१२१ ।।

आदित्यादीन् ग्रहान् सर्वान् रूपतो ह्यस्त्रसंयुतान्.
क्रमात् प्रत्येकमुद्दिश्य पार्श्वे पार्श्वे प्रपूजयेत्।। २.६३.१२२ ।।

दिक्‌पालानां तु मन्त्रेण तथा सर्वांस्तु दिक्पतीन्।
अस्त्रमन्त्रैस्तु तान् सर्वांस्तेषां मन्त्राणि भारव।। २.६३.१२३ ।।

नाथं कामेश्वरं तत्र एकवक्त्रं चतुर्भुजम्।
भस्मस्वेतं मध्यहृदि रक्तपुष्पैस्तु कुङ्‌कुमैः।। २.६३.१२४ ।।

त्रिशूलं च पिनाकं च वामहस्तद्वये स्थितम् ।
उत्पलं बीजपूरं च दक्षिणद्वितये तथा।। २.६३.१२५ ।।

श्वेतपद्मोपरिस्थं च ध्यात्वा मध्ये प्रपूजयेत्।
कामाख्यां मूर्तितो ध्यात्वा कामाख्यामपि पूजयेत्।। २.६३.१२६ ।।

कामेश्वरीं तत्र देवीं पूजयेत् परमेश्वरीम्।
वक्ष्यमाणेन रूपेण तत्र वेतालभैरवौ।। २.६३.१२७ ।।

करालं क्षेत्रपालं ल कर्त्रिखर्परधारिणम्।
पूजयेदीशमत्यर्थं दंष्ट्राभिन्नाधरं भयम् ।। २.६३.१२८ ।।

तिन्तिडीं कल्पवऋक्षं सुच्छायं रत्नभूषितम्।
त्रिकूटं कृष्णवर्णं च नीलशैलं महाद्युतिम्।। २.६३.१२९ ।।

मनोभवां गुहां तत्र पञ्चव्यामायतां सुभावम्।
रत्नमण्डलसंयुक्तां रक्तवर्णां सुवर्त्तुलाम्।। २.६३.१३० ।।

अपराजितां च वल्लीं च व्यामत्रयसुविस्तृताम्।
आरक्तवर्णां सततं कुसुमैरूपशोभिताम्।। २.६३.१३१ ।।

बटुकं कम्बलाख्यं तु स्वर्णगौरं गजासनम्।
द्विभुजं दक्षिणे दण्डपाणिं वामे कपालकम् ।। २.६३.१३२ ।।

बिभ्रतं पुरतो देव्याः पूज्यो विघ्नविपत्तये।
भैरवः पाण्डुनाथश्च रक्तगौश्चर्भुजः।। २.६३.१३३ ।।

गदां पद्मं च शक्तिं च चक्रं चापि करेषु च।
बिभ्रद् देव्याः पुरोभागे पूज्योऽयं विष्णुरूपधृक्।। २.६३.१३४ ।।

श्मशानं हेरुकाख्यं च रक्तवर्णं भयङ्करम्।
असिचर्मधरं रौद्रं भुञ्जनां मनुजामिषम्।। २.६३.१३५ ।।

तिसृभिर्मुण्डमालाभिर्गलद्रक्ताबिराजितम्।
अग्निनिर्दग्धविगलद्‌दन्तप्रेतोपरिस्थितम्।। २.६३.१३६ ।।

पूज्येच्चिन्तनेनैव शत्रस्वाहनभूषणम्।
महोत्साहां योगिनीं तु महामायास्वरूपिणीम्।। २.६३.१३७ ।।

ध्यानतो रूपतस्तां तु देव्या अग्रे प्रपूजयेत्।
पुरीं चन्द्रवतीं देव्या नीलपर्वतपूर्वत।। २.६३.१३८ ।।

योजनद्वयविस्तीर्णामर्धयोजनमायताम् ।
उच्चैरनेकप्रसाद सौधसद्मविभूषिताम्।। २.६३.१३९ ।।

मणिरत्नसुवर्णौ घजातप्रासादविस्तृताम्।
क्रीडासरोवरैः सद्भिः सञ्छन्नां विकचैः कचैः ।। २.६३.१४० ।।

संयुतां पूजयेत् तत्र देव्या अग्रे समन्त्रकम्।
लौहित्यं रक्तगौराङ्गं नीलवस्त्रविभूषितम्।। २.६३.१४१ ।।

रत्नमालासमायुक्तं चतुर्बाहुसमन्वितम्।
पुस्तकं श्वेतपद्मं च बिभ्रतं दक्षिणे करे।। २.६३.१४२ ।।

वामे शक्तिध्वजं चैव शिशुमारस्थितं शुभम्।
पीठेश्वरानिमान् मध्ये मन्त्रेरेतैः प्रपूजयेत्।। २.६३.१४३ ।।

नाथ कामेश्वरं देवं प्रासादेन प्रपूजयेत्।
कामेश्वर्यास्तु मन्त्रेण यजेत् कामेश्वरी शुभाम्।। २.६३.१४४ ।।

द्वावुपान्तौ बलेनैव मदनान्ते च तत्क्रमात्।
योजयेन्नादबिन्दुभ्यां मायाकरणमन्त्रकम् ।। २.६३.१४५ ।।

चण्डिकानेत्रबीजस्य यच्छेषमक्षरं तु तत्।
कल्पं तिन्तिडिकावृक्षमन्त्रमेतत् प्रकीर्तितम्।। २.६३.१४६ ।।

उग्राया मध्यबीजं तु नीलशैलस्य मन्त्रकम्।
मनोभवस्य बीजं तु महादेवेन संहितम्।। २.६३.१४७ ।।

आदिस्थेनेन्दुना बिन्दुयुक्तं वान्तेन योजितम्।
मनोभवगुहायां तु मन्त्रमेतत् प्रकीर्तितम्।। २.६३.१४८ ।।

वैष्णवोतन्त्रमन्त्रस्य यच्छेषं बीजमस्वरम्।
तदधो वान्तसंश्लिष्टं चतुर्थस्वरसंयुतम्।। २.६३.१४९ ।।

चन्द्रबिन्दुसमायुक्तं तन्मन्त्रञ्चापराजितम्।
हयग्रीवस्वरूपस्य विष्णोर्यद्‌बीजमुत्तमम् ।। २.६३.१५० ।।

कम्बलस्य तु तन्मन्त्रं पूजनं परिकीर्तितम्।
केवलः सप्ररोहादिषष्ठस्वरसमन्वितः।। २.६३.१५१ ।।

चन्द्रबिन्दुसमायुक्तं हयग्रीवस्य बीजकम्।
भैरवं पाण्डुनाथं च वनमालिस्वरूपिणम्।। २.६३.१५२ ।।

वाराहेम तु बीजेन पूजयेत् तु विधानतः।
सपरौ द्वावनुस्वारविसर्गाभ्यां तु संयुतौ।। २.६३.१५३ ।।

महाभैरवमन्त्रेण भैरवान्तेन पूजयेत्।
महोत्साहां महामायां द्वितीयाष्टाक्षरेण तु।। २.६३.१५४ ।।

देवीतन्त्रोदितेनैव पूजयेद् भूतिवृद्धये।
आद्याक्षरं तु सामीन्दुबिन्दुभ्यां समलङ्कृतम्।। २.६३.१५५ ।।

स्वनाम्नश्चन्द्रवत्यास्तु पूजामन्त्रं प्रकीर्तितम्।
सर्वलक्षणसम्पूर्णं सर्वालङ्कारभूषितम्।। २.६३.१५६ ।।

लौहित्यनदराजस्य ब्रह्मपुत्रस्य भूतिदम्।
ब्रह्मबीजं तु मन्मत्रं वह्निभार्यान्तमिष्यते।। २.६३.१५७ ।।

द्वितीयं त्रिपुरारूपं तथैव तु तृतीयकम्।
आवाहनार्थं देव्यास्तु चिन्तयेद् योनिमुद्रया।। २.६३.१५८ ।।

बन्धूकपुष्पसङ्काशां जटाजूटेन्दुमण्डिताम्।
सर्वलक्षणसम्पूर्णां सर्वालङ्कारभूषिताम्।। २.६३.१५९ ।।

उद्यद्रविप्रभां पद्मपर्यङ्केषु सुसंस्थिताम्।
मुक्तारत्नावलीयुक्तां पीनोन्नतपयोधराम्।। २.६३.१६० ।।

वलीविभङ्गचतुरामासवामोदमोदिताम्।
नेत्राह्णादकरीं शुभ्रां क्षोमणीं जगतां तथा।। २.६३.१६१ ।।

त्रिनेत्रां योनिमुद्रायामीषद्धाससमायुताम्।
नवयौवनसम्पन्नां मृणालाभचतुर्भुजाम्।। २.६३.१६२ ।।

वामार्धे पुस्तकं धत्ते अक्षमालां तु दक्षिणे।
वामेनाभयदां देवीं दक्षिणार्धे वरप्रदाम्।। २.६३.१६३ ।।

स्रवद्रक्तौघसूर्याभां शिरोमालां तु बिभ्रतीम्।
आपादलम्बिनीं कल्पद्रु ममासाद्य संस्थिताम्।। २.६३.१६४ ।।

कदम्बोपवनान्तस्थां कामाह्लादकरीं शुभाम्।
द्वितीयां त्रिपुरां ध्यायेदेवंरूपां मनोहराम्।। २.६३.१६५ ।।

तृतीयं त्रिपुरारूपं शृणु वेतालभैरव।
जवाकुसुमसङ्काशां मुक्तकेशीं शुभाननाम्।। २.६३.१६६ ।।

सदाशिवं हसन्तं तु प्रेतवद् विनिधाय वै।
हृदये तस्य देवस्य ह्यर्द्धपद्मासनस्थिताम्।। २.६३.१६७ ।।

रक्तोत्पलैर्मिश्रितां तु मुण्डमालां पदानुगाम्।
ग्रीवायां धारयन्ती तु पीनोन्नतपयोधराम्।। २.६३.१६८ ।।

चतुर्भुजां तथा नग्नां दक्षिणार्धेऽक्षमालिनीम्।
वरदां तदधो वामे जगन्मायां तथाभयाम्।। २.६३.१६९ ।।

अधस्तु पुस्तकं धत्ते त्रिन्त्रां हसिताननाम्।
स्रवद्रुधिरभोगार्तां तथा सर्वाङ्गसुन्दरीम्।। २.६३.१७० ।।

एवंविधं तृतीयं तु रूपं ध्यायेत् तु पूजकः।
आद्यं तु वाग्भवं रूपं द्वितीयं कामराजकम्।। २.६३.१७१ ।।

डामरं मोहनं चापि तृतीयं परिकीर्तितम्।
एकैकं तु त्रिरूपाणि प्राग्विचिन्त्यार्थसाधकः।। २.६३.१७२ ।।

मन्त्रत्रयेण प्रत्येकं हृदि षोडशकैस्तथा।
पूजयेदुपचारैस्तु बहिर्यद्‌वत्तथैव च।। २.६३.१७३ ।।

मन्त्रत्रयं तथैकत्र कृत्वा च मनमूर्तयः।
कर्तव्या एकतस्तत्र मध्यरूपे निवेशयेत्।। २.६३.१७४ ।।

नसापुटेन निःसार्य दक्षिणेनाथ तां पुनः।
अवतार्य कराभ्यां तु देवीमावाहयेत् त्रिधा।। २.६३.१७५ ।।

गायत्रीत्रयमुचार्य स्नापयेत् प्रथमं तु ताम्।
आवाहने तु मन्त्रोऽयं पठितव्यश्च साधकैः।। २.६३.१७६ ।।

एहि देवि शुभावर्ते यज्ञेऽस्मिन् मम सन्निधौ।
अव्युच्छिन्नां ततः शुभ्रां वाचं कण्ठस्य देहि मे।। २.६३.१७७ ।।

एह्ये हि भगवत्यम्ब त्रिपुरे कामदायिनि।
इमं भागबलिं गृह्य सान्निध्यमिह कल्पय।। २.६३.१७८ ।।

नारायण्यै च विद्महे वाग्मयायै च धीमहि।
एवमुक्त्वा ततः पश्चात् तन्नो देवी प्रचोदयात्।। २.६३.१७९ ।।

नाराण्यै विद्महे त्वां चण्डिकाय च धीमहि।
शेषभागे प्रयुञ्जीत तन्नः कुब्जि प्रचोदयात्।। २.६३.१८० ।।

महामायायै विद्महे त्वां सम्मोहिन्यै च धीमहि।
पश्चादेवं प्रयुञ्जीत तन्नाश्चण्डि प्रचोदयात्।। २.६३.१८१ ।।

एतास्तु त्रिपुरादेव्या गायत्र्यः परिकीर्तिताः।
प्रत्येकं स्नापनं कुर्यात् त्रिपुराणां च तिसृभिः।। २.६३.१८२ ।।

वाग्भवेन तु मन्त्रेण प्रथमं पूजयेच्छिवाम्।
कामराजेन वै पश्चाड्‌डामरेणापि पूजयेत्।। २.६३.१८३ ।।

पश्चादेनां त्रिभिर्मन्त्रैकत्रैव तु पूजयेत्।
ततो मन्त्रेण वै दद्यादुपचारांस्तु षोडश।। २.६३.१८४ ।।

कामाख्यातन्त्रगदितान् सम्पूज्याङ्गाक्षरान् पुनः।
अङ्गत्यासस्य यन्मत्रैर्देव्या अङ्गानि पूजयेत्।। २.६३.१८५ ।।

शेषं तु मूलमन्त्रेण चाष्टाङ्गानां प्रपूजनम्।
एकैकं प्रक्रमं पूज्य त्रिपुरायै नमस्ततः।। २.६३.१८६ ।।

नवधा पूजयेद् देवीं त्रिपुरां कामरूपिणीम्।
उत्तरादिचतुष्पत्रे पद्मस्यैतान् प्रपूजयेत्।। २.६३.१८७ ।।

ब्रह्माणं माधवं शम्भुं भास्करं च तथैव च।
ऐशान्यादिषु तेष्वेवं क्रमाद् देव्याः प्रपूजयेत्।। २.६३.१८८ ।।

जयन्तीं प्रथमं पश्चाद् वायव्यामपराजिताम्।
नैर्ऋत्यां विजयां चैव तथाग्नेय्यां जयाह्वयाम्।। २.६३.१८९ ।।

त्रिकोणे केशरस्यान्ते कामं प्रीतिं रतिं तथा।
पूजयेत् पञ्चबाणांश्च पुष्पं चापं च पुस्तिकाम्।। २.६३.१९० ।।

अक्षमालां पञ्चशरान् रत्नपर्यङ्कमेव च।
प्रेतपद्मशिवं चैव सम्यक् तत्रैव पूजयेत्।। २.६३.१९१ ।।

सम्पूज्य पूर्ववन्मालां स्फाटिकामेव भैरव।
आदायातोत्तरीयेण तामाच्छाद्य प्रयत्नतः।। २.६३.१९२ ।।

पूर्वोद्‌धृतं जपेत् सम्यक् साधकस्त्रिपुरामनुम्।
जप्त्वा स्तुतिं पठित्वा च प्रणम्य च मुहूर्मुहुः।। २.६३.१९३ ।।

त्रिपुरायै बलिं दद्यात् सम्भवात् तत् त्रिजातिकम्।
सफेनैस्तोयसंयुक्तैः शर्करामधुसैन्धवैः।। २.६३.१९४ ।।

अभ्युक्ष्य रुधिरं दद्यात् कामराजेन भैरव।
छेदयेद् वाग्भवेनैव डामरैर्विहरेच्छिरः।। २.६३.१९५ ।।

यत्र यत्र बलिं दद्यात् साधको देवातर्च्चने।
वैष्णवीतन्त्रकल्पोक्तमादद्यात् पूजने बलिम्।। २.६३.१९६ ।।

ततो देव्यै वलीन् दद्यादेतद्‌वर्णक्रमात् पुनः।
गोक्षीरं ब्राह्मणों दद्याद् गव्यमाज्यं तु राजजः।। २.६३.१९७ ।।

वैश्यस्तु माक्षिकं दद्याच्छूद्रः पुष्पासवादिक्रम्।
घ्रात्वा पुष्पमथैशान्यां निर्माल्यं निक्षिपेद् बुधः।। २.६३.१९८ ।।

निर्माल्यधारिणी चास्या देवी त्रिपुरचण्डिका।
विसृज्यादौ योनिमुद्रां पद्ममुद्रां तथैव च।। २.६३.१९९ ।।

अर्धमुद्रां त्रिमुद्रां च प्रत्येकमपि दर्शयेत्।
निर्माल्यमथ गृह्णीयात् कामराजह्वयेन तु।। २.६३.२०० ।।

एवं यः पूजयेद् देवी त्रिपुरां कामरूपिणीम्।
स कामनाखिलान् प्राप्य देवीलोकमवाप्नुयात्।। २.६३.२०१ ।।

इति श्रीकालिकापुराणे त्रिपुरापूजने त्रिषष्टितमोऽध्यायः।।