किरातार्जुनीयम्/अष्टादशः सर्गः

← सप्तदशः सर्गः किरातार्जुनीयम्
अष्टादशः सर्गः
भारविः

तत उदग्र इव द्विरदे मुनौ रणं उपेयुषि भीमभुजायुधे ।
धनुरपास्य सबाणधि शंकरः प्रतिजघान घनैरिव मुष्टिभिः ।। १८.१ ।।

हरपृथासुतयोर्ध्वनिरुत्पतन्नमृदुसंवलिताङ्गुलिपाणिजः ।
स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु दरीभृतः ।। १८.२ ।।

शिवभुजाहतिभिन्नपृथुक्षतीः सुखं इवानुबभूव कपिध्वजः ।
क इव नाम बृहन्मनसां भवेदनुकृतेरपि सत्त्ववतां क्षमः ।। १८.३ ।।

व्रणमुखच्युतशोणितशीकर- स्थगितशैलतटाभभुजान्तरः ।
अभिनवौषसरागभृता बभौ जलधरेण समानं उमापतिः ।। १८.४ ।।

उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुरर्जुनमुष्टयः ।
भृशरया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ।। १८.५ ।।

निपतितेऽधिशिरोधरं आयते समं अरत्नियुगेऽयुगचक्षुषः ।
त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदादिव चस्खले ।। १८.६ ।।

अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवं ओजसा ।
भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयं ।। १८.७ ।।

प्रववृतेऽथ महाहवमल्लयोरचलसंचलनाहरणो रणः ।
करणशृङ्खलसंकलनागुरुर्गुरुभुजायुधगर्वितयोस्तयोः ।। १८.८ ।।

अयं असौ भगवानुत पाण्डवः स्थितं अवाङ्मुनिना शशिमौलिना ।
समधिरूढं अजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः ।। १८.९ ।।

प्रचलिते चलितं स्थितं आस्थिते विनमिते नतं उन्नतं उन्नतौ ।
वृषकपिध्वजयोरसहिष्णुना मुहुरभावभयादिव भूभृता ।। १८.१० ।।

करणशृङ्खलनिःसृतयोस्तयोः कृतभुजध्वनि वल्गु विवल्गतोः ।
चरणपातनिपातितरोधरसः प्रससृपुः सरितः परितः स्थलीः ।। १८.११ ।।

वियति वेगपरिप्लुतं अन्तरा समभिसृत्य रयेण कपिध्वजः ।
चरणयोश्चरणानमितक्षितिर्निजगृहे तिसृणां जयिनं पुरां ।। १८.१२ ।।

विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् ।
क्षेप्तुकामं अवनौ तं अक्लमं निष्पिपेष परिरभ्य वक्षसा ।। १८.१३ ।।

तपसा तथा न मुदं अस्य ययौ भगवान्यथा विपुलसत्त्वतया ।
गुणसंहतेः समतिरिक्तं अहो निजं एव सत्त्वं उपकारि सतां ।। १८.१४ ।।

अथ हिमशुचिभस्मभूषितं शिरसि विराजितं इन्दुलेखया ।
स्ववपुरतिमनोहरं हरं दधतं उदीक्ष्य ननाम पाण्डवः ।। १८.१५ ।।

सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितं ।
निहितं अपि तथैव पश्यन्नसिं वृषभगतिरुपाययौ विस्मयं ।। १८.१६ ।।

सिषिचुरवनिं अम्बुवाहाः शनैः सुरकुसुमं इयाय चित्रं दिवः ।
विमलरुचि भृशं नभो दुन्दुभेर्ध्वनिरखिलं अनाहतस्यानशे ।। १८.१७ ।।

आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य ।
रोचिष्णुरत्नावलिभिर्विमानैर्द्यौराचिता तारकितेव रेजे ।। १८.१८ ।।

हंसा बृहन्तः सुरसद्मवाहाः संह्रादिकण्ठाभरणाः पतन्तः ।
चक्रुः प्रयत्नेन विकीर्यमाणैर्व्य्ॐनः परिष्वङ्गं इवाग्रपक्षैः ।। १८.१९ ।।

मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य सातानिकीः ।
जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरं ।। १८.२० ।।

कृतधृति परिवन्दितेनोच्चकैर्गणपतिभिरभिन्नर्ॐओद्गमैः ।
तपसि कृतफले फलज्यायसी स्तुतिरिति जगदे हरेः सूनुना ।। १८.२१ ।।

शरणं भवन्तं अतिकारुणिकं भव भक्तिगम्यं अधिगम्य जनाः ।
जितमृत्यवोऽजित भवन्ति भये ससुरासुरस्य जगतः शरणं ।। १८.२२ ।।

विपदेति तावदवसादकरी न च कामसम्पदभिकामयते ।
न नमन्ति चैकपुरुषं पुरुषास्तव यावदीश न नतिः क्रियते ।। १८.२३ ।।

संसेवन्ते दानशीला विमुक्त्य सम्पश्यन्तो जन्मदुःखं पुमांसः ।
यन्निःसङ्गस्त्वं फलस्यानतेभ्यस्तत्कारुण्यं केवलं न स्वकार्यं ।। १८.२४ ।।

प्राप्यते यदिह दूरं अगत्वा यत्फलत्यपरलोकगताय ।
तीर्थं अस्ति न भवार्णवबाह्यं सार्वकामिकं ऋते भवतस्तथ् ।। १८.२५ ।।

व्रजति शुचि पदं त्वति प्रीतिमान्प्रतिहतं अतिरेति घोरां गतिं ।
इयं अनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचिथ् ।। १८.२६ ।।

दक्षिणां प्रणतदक्षिण मूर्तिं तत्त्वतः शिवकरीं अविदित्वा ।
रागिणापि विहिता तव भक्त्या संस्मृतिर्भव भवत्यभवाय ।। १८.२७ ।।

दृष्ट्वा दृश्यान्याचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तं अपायैः ।
सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां यश्चोपास्ति साधु विधेयं स विधत्ते ।। १८.२८ ।।

युक्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैरुपकारवन्तः ।
समुच्छिनत्सि त्वं अचिन्त्यधामा कर्माण्युपेतस्य दुरुत्तराणि ।। १८.२९ ।।

संनिबद्धं अपहर्तुं अहार्यं भूरि दुर्गतिभयं भुवनानां ।
अद्भुताकृतिं इमां अतिमायस्त्वं बिभर्षि करुणामय मायां ।। १८.३० ।।

न रागि चेतः परमा विलासिता वधूः शरीरेऽस्ति न चास्ति मन्मथः ।
नमस्क्रिया चोषसि दातुरित्यहो निसर्गदुर्बोधं इदं तवेहितं ।। १८.३१ ।।

तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारशनं महानहिः ।
स्रगास्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश्च समं चकासति ।। १८.३२ ।।

अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः ।
तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ।। १८.३३ ।।

आत्मलाभपरिणामनिरोधैर्भूतसंघ इव न त्वं उपेतः ।
तेन सर्वभुवनातिग लोके नोपमानं असि नाप्युपेमयः ।। १८.३४ ।।

त्वं अन्तकः स्थावरजङ्गमानां त्वया जगत्प्राणिति देव विश्वं ।
त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानां ।। १८.३५ ।।

रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा यल्लोकेष्वविकलं आप्तं आधिपत्यं ।
पाविन्याः शरणगतार्तिहारिणे तन्माहात्म्यं भव भवते नमस्क्रियायाः ।। १८.३६ ।।

तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रं ।
परितो दुरितानि यः पुनीते शिव तस्मै पवनातने नमस्ते ।। १८.३७ ।।

भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषां ।
दहते भवबीजसंततिं शिखिनेऽनेकशिखाय ते नमः ।। १८.३८ ।।

आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन ।
निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमोऽस्तु जीवनाय ।। १८.३९ ।।

यः सर्वेषां आवरीता वरीयान्सर्वैर्भावैर्नावृतोऽनादिनिष्ठः ।
मार्गातीतायेन्द्रियाणां नमस्तेऽविज्ञेयाय व्य्ॐअरूपाय तस्मै ।। १८.४० ।।

अणीयसे विश्वविधारिणे नमो नमोऽन्तिकस्थाय नमो दवीयसे ।
अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ।। १८.४१ ।।

असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वं अर्हसि ।
विरोध्य मोहात्पुनरभ्युपेयुषां गतिर्भवानेव दुरात्मनापि ।। १८.४२ ।।

आस्तिक्यशुद्धं अवतः प्रियधर्म धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे ।
सम्प्राप्नुयां विजयं ईश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ।। १८.४३ ।।

इति निगदितवन्तं सूनुं उच्चैर्मघोनः प्रणतशिरसं ईशः सादरं सान्त्वयित्वा ।
ज्वलदनलपरीतं रौद्रं अस्त्रं दधानं धनुरुपपदं अस्मै वेदं अभ्यादिदेश ।। १८.४४ ।।

स पिङ्गाक्षः श्रीमान्भुवनमहनीयेन महसा तनुं भीमां बिभ्रत्त्रिगुणपरिवारप्रहरणः ।
परीत्येशानं त्रिः स्तुतिभिरुपगीतः सुरगणैः सुतं पाण्डोर्वीरं जलदं इव भास्वानभिययौ ।। १८.४५ ।।

अथ शशधरमौलेरभ्यनुज्ञां अवाप्य त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै ।
अवितथफलं आशिर्वादं आरोपयन्तो विजयि विविधं अस्त्रं लोकपाला वितेरुः ।। १८.४६ ।।

असंहार्योत्साहं जयिनं उदयं प्राप्य तरसा धुरं गुर्वीं वोढुं स्थितं अनवसादाय जगतः ।
स्वधाम्ना लोकानां तं उपरि कृतस्थानं अमरास्तपोलक्ष्म्या दीप्तं दिनकृतं इवोच्चैरुपजगुः ।। १८.४७ ।।

व्रज जय रिपुलोकं पादपद्मानतः सन्गदित इति शिवेन श्लाघितो देवसंघैः ।
निजगृहं अथ गत्वा सादरं पाण्डुपुत्रो धृतगुरुजयलक्ष्मीर्धर्मसूनुं ननाम ।। १८.४८ ।।
 
इति भारविकृतौ महाकाव्ये किरातार्जुनीये अष्टादशः सर्गः ।