कूर्मपुराणम्-उत्तरभागः/द्वाविंशतितमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

व्यास उवाच ।
गोमयेनोदकैर्भूमिं शोधयित्वा समाहितः ।
सन्निमन्त्र्य द्विजान् सर्वान् साधुभिः सन्निमन्त्रयेत् ।। २२.१

श्वो भविष्यति मे श्राद्धं पूर्वेद्युरभिपूज्य च ।
असंभवे परेद्युर्वा यथोक्तैर्लक्षणैर्युतान् ।। २२.२

तस्य ते पितरः श्रुत्वा श्राद्धकालमुपस्थितम् ।
अन्योन्यं मनसा ध्यात्वा संपतन्ति मनोजवाः ।। २२.३

ब्राह्मणैस्तै सहाश्नन्ति पितरो ह्यन्तरिक्षगाः ।
वायुभूतास्तु तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ।। २२.४

आमन्त्रिताश्च ते विप्राः श्राद्धकाल उपस्थिते ।
वसेयुर्नियताः सर्वे ब्रह्मचर्यपरायणाः ।। २२.५

अक्रोधनोऽत्वरोऽमत्तः सत्यवादी समाहितः ।
भारं मैथुनमध्वानं श्राद्धकृद् वर्जयेज्जपम् ।। २२.६

आमन्त्रितो ब्राह्मणो वा योऽन्यस्मै कुरुते क्षणम् ।
स याति नरकं घोरं सूकरत्वां प्रायाति च ।। २२.७

आमन्त्रयित्वा यो मोहादन्यं चामन्त्रयेद् द्विजः ।
स तस्मादधिकः पापी विष्ठाकीटोऽभिजायते ।। २२.८

श्राद्धे निमन्त्रितो विप्रो मैथुनं योऽधिगच्छति ।
ब्रह्महत्यामवाप्नोति तिर्यग्योनौ च जायते ।। २२.९

निमन्त्रितस्तु यो विप्रो ह्यध्वानं याति दुर्मतिः ।
भवन्ति पितरस्तस्य तन्मासं पापभोजनाः ।। २२.१०

निमन्त्रितस्तु यः श्राद्धे प्रकुर्यात् कलहं द्विजः ।
भवन्ति तस्य तन्मासं पितरो मलभोजनाः ।। २२.११

तस्मान्निमन्त्रितः श्राद्धे नियतात्मा भवेद्‌ द्विजः ।
अक्रोधनः शौचपरः कर्ता चैव जितेन्द्रियः ।। २२.१२

श्वोभूते दक्षिणां गत्वा दिशं दर्भान् समाहितः ।
समूलानाहरेद् वारि दक्षिणाग्रान् सुनिर्मलान् ।। २२.१३

दक्षिणाप्रवणं स्निग्धं विभक्तं शुभलक्षणम् ।
शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।। २२.१४

नदीतीरेषु तीर्थेषु स्वभूमौ चैव नाम्बुषु ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ।। २२.१५

पारक्ये भूमिभागे तु पितॄणां नैव निर्वपेत् ।
स्वामिभिस्तद् विहन्येत मोहाद् यत् क्रियते नरैः ।। २२.१६

अटव्यः पर्वताः पुण्यास्तीर्थान्यायतनानि च ।
सर्वाण्यस्वामिकान्याहुर्न ह्येतेषु परिग्रहः ।। २२.१७

तिलान् प्रविकिरेत्तत्र सर्वतो बन्धयेदजां ।
असुरोपहतं श्राद्धं तिलैः शुद्ध्यत्यजेन वा ।। २२.१८

ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनमच्युतम् ।
चोष्यं पेयं समृद्धं च यथाशक्त्या प्रकल्पयेत् ।। २२.१९

ततो निवृत्ते मध्याह्ने लुप्तरोमनखान् द्विजान् ।
अभिगम्य यथामार्गं प्रयच्छेद् दन्तधावनम् ।। २२.२०

तैलमभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम् ।
पात्रैरौदुम्बरैर्दद्याद् वैश्वदैवत्यपूर्वकम् ।। २२.२१

ततःस्नानान्निवृत्तेभ्यः प्रत्युत्थायकृताञ्जलिः ।
पाद्यमाचमनीयं च संप्रयच्छेद् यथाक्रमम् ।। २२.२२

ये चात्र विश्वेदेवानां विप्राः पूर्वं निमन्त्रिताः ।
प्राङ्‌मुखान्यासनान्येषां त्रिदर्भोपहितानि च ।। २२.२३

दक्षिणामुखमुक्तानि पितॄणामासनानि च ।
दक्षिणाग्रेषु दर्भेषु प्रोक्षितानि तिलोदकैः ।। २२.२४

तेषूपवेशयेदेतानासनं संस्पृशन्नपि।
आसध्वमिति संजल्पन्नासीरंस्ते पृथक् पृथक् ।। २२.२५

द्वौ दैवे प्राङ्‌मुखौ पित्र्ये त्रयश्चोदङ्‌मुखास्तथा ।
एकैकं वा भवेत् तत्र देवमातामहेष्वपि ।। २२.२६

सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् ।
पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ।। २२.२७

अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् ।
श्रुतशीलादिसंपन्नमलक्षणविवर्जितम् ।। २२.२८

उद्धृत्य पात्रे चान्नं तत् सर्वस्मात् प्रकृतात् पुनः ।
देवतायतने वासौ निवेद्यान्यत्प्रवर्त्तयेत् ।। २२.२९

प्रास्येदग्नौ तदन्नं तु दद्याद् वा ब्रह्मचारिणे ।
तस्मादेकमपि श्रेष्ठं विद्वांसं भोजयेद् द्विजम् ।। २२.३०

भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः ।
उपविष्टेषु यः श्राद्धे कामं तमपि भोजयेत् ।। २२.३१

अतिथिर्यस्य नाश्नाति न तच्छ्राद्धं प्रशस्यते ।
तस्मात् प्रयत्नाच्छ्राद्धेषु पूज्या ह्यतिथयो द्विजैः ।। २२.३२

आतिथ्यरहिते श्राद्धे भुञ्जते ये द्विजातयः ।
काकयोनिं व्रजन्त्येते दाता चैव न संशयः ।। २२.३३

हीनाङ्गः पतितः कुष्ठी व्रणी पुक्कसनास्तिकौ ।
कुक्कुटाः शूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः ।। २२.३४

बीभत्सुमशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् ।
नीलकाषायवसनपाषण्डांश्च विवर्जयेत् ।। २२.३५

यत् तत्र क्रियते कर्म पैतृकं ब्राह्मणान् प्रति ।
तत्सर्वमेव कर्त्तव्यं वैश्वदैवत्यपूर्वकम् ।। २२.३६

यथोपविष्टान् सर्वांस्तानलंकुर्याद् विभूषणैः ।
स्रग्दामभिः शिरोवेष्टैर्धूपवासोऽनुलेपनैः ।। २२.३७

ततस्त्वावाहयेद् देवान् ब्राह्मणानामनुज्ञया ।
उदङ्‌मुखो यथान्यायं विश्वे देवास इत्यृचा ।। २२.३८

द्वे पवित्रे गृहीत्वाऽथ भाजने क्षालिते पुनः ।
शंनो देवी जलं क्षिप्त्वा यवोऽसीति यवांस्तथा ।। २२.३९

या दिव्या इति मन्त्रेण हस्ते त्वर्घं विनिक्षिपेत् ।
प्रदद्याद् गन्धमाल्यानि धूपादीनि च शक्तितः ।। २२.४०

अपसव्यं ततः कृत्वा पितॄणां दक्षिणामुखः ।
आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः ।। २२.४१

आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ।
शंनो देव्योदकं पात्रे तिलोऽसीति तिलांस्तथा ।। २२.४२

क्षिप्त्वा चार्घं यथापूर्वं दत्त्वा हस्तेषु वै पुनः ।
संस्रवांश्च ततः सर्वान् पात्रे कुर्यात् समाहितः ।२२.४३

पितृभ्यः स्थानमेतच्च न्युब्जपात्रं निधापयेत् ।
अग्नौ करिष्यन्नादाय पृच्छेदन्नं घृतप्लुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो जुहुयादुपवीतवान् ।। २२.४४

यज्ञोपवीतिना होमः कर्त्तव्यः कुशपाणिना ।
प्राचीनावीतिना पित्र्यं वैश्वदेवं तु होमवित् ।। २२.४५

दक्षिणं पातयेज्जानुं देवान् परिचरन् सदा ।
पितृणां परिचर्यासु पातयेदितरं तथा ।। २२.४६

सोमाय वै पितृमते स्वधा नम इति ब्रुवन् ।
अग्नये कव्यवाहनाय स्वधेति जुहुयात् ततः ।। २२.४७

अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
महादेवान्तिके वाऽथ गोष्ठे वा सुसमाहितः ।। २२.४८

ततस्तैरभ्यनुज्ञातो गत्वा वै दक्षिणां दिशम् ।
गोमयेनोपलिप्योर्वीं स्थानं कुर्यात्ससैकतम् ।। २२.४९

मण्डलं चतुरस्रं वा दक्षिणाप्रवणं शुभम् ।
त्रिरुल्लिखेत्तस्य मध्यं दर्भेणैकेन चैव हि ।। २२.५०

ततः संस्तीर्य तत्स्थाने दर्भान्वै दक्षिणाग्रकान् ।
त्रीन् पिण्डान् निर्वपेत् तत्र हविः शेषात्समाहितः ।। २२.५१

लुप्त पिण्डांस्तु तं हस्तं निमृज्याल्लेपभागिनाम् ।
तेषु दर्भेष्वथाचम्य त्रिराचम्य शनैरसून् ।
तदन्नं तु नमस्कुर्यात् पितॄनेव च मन्त्रवित् ।। २२.५२

उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ।
अवजिघ्रेच्च तान् पिण्डान् यथान्युप्त्वा समाहितः ।। २२.५३

अथ पिण्डाच्च शिष्टान्नं विधिना भोजयेद् द्विजान् ।
मांसान्यपूपान् विविधान् दद्यात् कृशरपायसम् ।। २२.५४

ततोऽन्नमुत्सृजेद्भुक्तेष्वग्रतो विकिरन्भुवि।
पृष्ट्वा तदन्नमित्येव तृप्तानाचामयेत्ततः।२२.५५

आचान्ताननुजानीयादभितो रम्यतामिति।
स्वधास्त्विति च ते ब्रूयुर्ब्राह्मणास्तदनन्तरम्।।२२.५६

ततो भुक्तवतां तेषां अन्नशेषं निवेदयेत्।
यथा ब्रूयुः स्तथा कुर्यात् अनुज्ञातस्तु तैर्द्विजैः।।२२.५७

पित्रे स्वदितमित्येव वाच्यं गोष्टेषु सुश्रितम्।
सम्पन्नमित्यभ्युदये देवे सेवितमित्यपि।।२२.५८

विसृज्य ब्राह्मणान् तान्वै पितृपूर्वन्तु वाग्यतः।
दक्षिणान्दिशमाकांक्षन्याचेतेमान्वरान् पितॄन्।।२२.५९

दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धा च नो मा विगमद्बहुदेयञ्च नोस्त्विति।।२२.६०

पिण्डांस्तु गोऽजविप्रेभ्यः दद्यादग्नौ जलेऽपि वा।
मध्यमन्तु ततः पिण्डमद्यात्पत्नी सुतार्थिनी।।२२.६१

प्रक्षाल्य हस्त वाचम्य ज्ञातिं शेषेण तोषयेत्।
सूपशाकफलानीक्षून् पयो दधि घृतं मधु ।२२.६२

अन्नं चैव यथाकामं विविधं भोज्यपेयकम् ।
यद् यदिष्टं द्विजेन्द्राणां तत्सर्वं विनिवेदयेत् ।२२.६३

धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथा ।
उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता ।
अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च ।। २२.६४

नभूमौ पातयेज्जानुं न कुप्येन्नानृतं वदेत् ।
न पादेन स्पृशेदन्नं न चैवमवधूनयेत् ।। २२.६५

क्रोधेनैवच यत्भुक्तं यद्भुक्तं त्वयथाविधि ।
यातुधाना विलुम्पन्ति जल्पता चोपपादितम् ।। २२.६६

स्विन्नगात्रो न तिष्ठेत सन्निधौ तु द्विजोत्तमाः ।
नच पश्येत काकादीन् पक्षिणः प्रतिषेधयेत् ।
तद्‌रूपाः पितरस्तत्र समायान्ति बुभुक्षवः ।। २२.६७

न दद्यात् तत्र हस्तेन प्रत्यक्षं लवणं तथा ।
न चायसेन पात्रेण न चैवाश्रद्धया पुनः ।। २२.६८

काञ्चनेन तु पात्रेण राजतोदुम्बरेण वा
दत्तमक्षयतां याति खड्गेन च विशेषतः ।। २२.६९

पात्रे तु मृण्मये यो वै श्राद्धे भोजयते द्विजान्।
स याति नरकं घोरं भोक्ता चैव पुरोधसः ।। २२.७०

न पङ्‌क्त्यां विषमं दद्यान्न याचेन्न च दापयेत् ।
याचिता दापिता दाता नरकान् यान्ति दारुणान् ।। २२.७१

भुञ्जीरन् वाग्यताः शिष्टा न ब्रूयुः प्राकृतान् गुणान् ।
तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ।। २२.७२

नाग्रासनोपविष्टस्तु भुञ्जीत प्रथमं द्विजः ।
बहूनां पश्यतां सोऽन्यः पङ्‌क्त्या हरति किल्बिषम् ।। २२.७३

न किञ्चिद् वर्जयेच्छ्राद्धे नियुक्तस्तु द्विजोत्तमः ।
न मांसं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत् ।। २२.७४

यो नाश्नाति द्विजो मांसं नियुक्तः पितृकर्मणि ।
स प्रेत्य पशुतां याति संभवानेकविंशतिम् ।। २२.७५

स्वाध्यायाञ्च्छ्रवयेदेषां धर्मशास्त्राणि चैव हि।
इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान् ।। २२.७६

ततोऽन्नमुत्सृजेद् भुक्ता साग्रतो विकिरन् भुवि ।
पृष्ट्वा तृप्ताः स्थ इत्येवं तृप्तानाचामयेत् ततः ।। २२.७७

आचान्ताननुजानीयादभितो रम्यतामिति ।
स्वधाऽस्त्विति च तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ।। २२.७८

ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ।
यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्तु तैर्द्विजैः ।। २२.७९

पित्र्ये स्वदित इत्येव वाक्यं गोष्ठेषु सूत्रितम् ।
संपन्नमित्यभ्युदये दैवे रोचत इत्यपि ।। २२.८०

विसृज्य ब्राह्मणान् ल्तुत्वा वै दैवपूर्वं तु वाग्यतः ।
दक्षिणां दिशमाकाङ्‌क्षन्‌याचेतेमान् वरान् पितॄन् ।। २२.८१

दातारो नोऽभिवर्द्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मा व्यगमद्‌ बहुदेयं च नोस्त्त्विति ।। २२.८२

पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ।
मध्यमं तु ततः पिण्डमद्यात् पत्नी सुतार्थिनी ।। २२.८३

प्रक्षाल्य हस्तावाचम्य ज्ञातीन् शेषेण तोषयेत् ।
ज्ञातिष्वपि चतुष्टेषु स्वान् भृत्यान् भोजयोत् ततः ।२२.८४

पश्चात् स्वयं च पत्नीभिः शेषमन्नं समाचरेत् ।
नोद्वासयेत् तदुच्छिष्टं यावन्नास्तंगतो रविः ।२२.८५

ब्रह्मचारी भवेतां तु दम्पती रजनीं तु ताम् ।
दत्त्वा श्राद्धं तथा भुक्त्वा सेवते यस्तु मैथुनम् ।२२.८६

महारौरवमासाद्य कीटयोनिं व्रजेत् पुनः ।२२.८७

शुचिरक्रोधनः शान्तः सत्यवादी समाहितः ।
स्वाध्यायं च तथाऽध्वानं कर्त्ता भोक्ता च वर्जयेत् ।। २२.८८

श्राद्धं भुक्त्वा परश्राद्धं भुञ्जते ये द्विजातयः ।
महापातिकिभिस्तुल्या यान्ति ते नरकान् बहून् ।। २२.८९

एष वो विहितः सम्यक् श्राद्धकल्पः सनातनः ।
आनेन वर्द्धयेन्नित्यम् ब्राह्मणो व्यसनान्वितः ।। २२.९०

आमश्राद्धं द्विजः कुर्याद् विधिज्ञः श्रद्धयान्वितः ।
तेनाग्नौ करणं कुर्यात् पिण्डांस्तेनैव निर्वपेत् ।। २२.९१

योऽनेन विधिना श्राद्धं कुर्यात् शान्तमानसः ।
व्यपेतकल्पषो नित्यं योगिनां वर्त्तते पदम् ।। २२.९२

तस्मात् सर्वप्रयत्नेन श्राद्धं कुर्याद् द्विजोत्तमः ।
आराधितो भवेदीशस्तेन सम्यक् सनातनः ।। २२.९३

अपि मूलैर्फलैर्वाऽपि प्रकुर्यान्निर्धनो द्विजः ।
तिलोदकैस्तर्पयित्वा पितॄन् स्नात्वा समाहितः ।। २२.९४

न जीवत्पितृको दद्याद्धोमान्तं वा विधीयते ।
येषां वापि पिता दद्यात् तेषां चैके प्रचक्षते ।। २२.९५

पिता पितामहश्चैव तथैव प्रपितामहः ।
यो यस्य प्रीयते तस्मै देयं नान्यस्य तेन तु ।। २२.९६

भोजयेद् वापि जीवन्तं यथाकामं तु भक्तितः ।
न जीवन्तमतिक्रम्य ददाति प्रयतः शुचिः।। २२.९७

द्व्‌यामुष्यायणिको दद्याद् बीजिक्षेत्रिकयोः समम् ।
अधिकारी भवेत्सोऽथ नियोगोत्पादितो यदि।।२२.९८

अनियुक्तः सुतो यश्च शुक्रतो जायते त्विह ।
प्रदद्याद् वीजिने पिण्डं क्षेत्रिणे तु ततोऽन्यथा ।। २२.९९

द्वौ पिण्डौ निर्वपेत् ताभ्यां क्षेत्रिणे बीजिने तथा ।
कीर्त्तयेदथ चैकस्मिन् बीजिनं क्षेत्रिणं ततः ।
मृताहनि तु कर्त्तव्यमेकोदिष्टं विधानतः ।२२.१००

अशौचे स्वे परिक्षीणे काम्यं वै कामतः पुनः ।
पूर्वाह्नि चैव कर्त्तव्यं श्राद्धमभ्युदयार्थिना ।२२.१०१

देववत्सर्वमेव स्याद् नैव कार्याः तिलैः क्रिया ।
दर्भाश्च ऋजवः कार्या युग्मान् वै भोजयेद् द्विजान् ।२२.१०१

नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत् ।
मातृश्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ।२२.१०३

ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम्।
दैवपूर्वं प्रदद्याद् वै न कुर्यादप्रदक्षिणम् ।२२.१०४

प्राङ्‌मुखो निर्वपेत् पिण्डानुपवीती समाहितः ।
पूर्वं तु मातरः पूज्या भक्त्या वै सगणेश्वराः ।२२.१०५

स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु ।
पुष्पैर्धूपैश्च नैवेद्यैर्गन्धाद्यैर्भूषणैरपि ।२२.१०६

पूजयित्वा मातृगणं कूर्याच्छ्राद्धत्रयं द्विजः।
अकृत्वा मातृयोगं तु यः श्राद्धं परिवेषयेत् ।
तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ।। २२.१०७

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे द्वाविशोऽध्यायः ।। २२ ।।