कूर्मपुराणम्-पूर्वभागः/पञ्चचत्वारिंशत्तमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच ।
एतद् ब्रह्माण्डमाख्यातं चतुर्दशविधं महत् ।
अतः परं प्रवक्ष्यामि भूर्लोकस्यास्य निर्णयम् ।। ४५.१

जम्बुद्वीपः प्रधानोऽयं प्लक्षः शाल्मलिरेव च ।
कुशः क्रौञ्चश्च शाकश्च पुष्करश्चैव सप्तमः ।। ४५.२

एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः ।
द्वीपाद् द्वीपो महानुक्तः सागरादपि सागरः ।। ४५.३

क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदकः ।
दध्योदः क्षीरसलिलः स्वादूदश्चेति सागराः ।। ४५.४

पञ्चाशत्‌कोटिविस्तीर्णा ससमुद्रा धरा स्मृता ।
द्वीपैश्च सप्तभिर्युक्ता योजनानां समासतः ।। ४५.५

जम्बूद्वीपः समस्तानां द्वीपानां मध्यतः शुभः ।
तस्य मध्ये महामेरुर्विश्रुतः कनकप्रभः ।। ४५.६

चतुरशीतिसाहस्रो योजनैस्तस्य चोच्छ्रयः ।
प्रविष्टः षोडशाधस्ताद्‌द्वात्रिंशन्मूर्ध्नि विस्तृतः ।। ४५.७

मूले षोडशसाहस्रो विस्तारस्तस्य सर्वतः ।
भूपद्मस्यास्य शैलोऽसौ कर्णिकात्वेन संस्थितः ।। ४५.८

हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे ।
नीलः श्वेतश्च श्रृङ्गी च उत्तरे वर्षपर्वताः ।। ४५.९

लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथा परे ।
सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ।। ४५.१०

भारतं दक्षिणं वर्षं ततः किंपुरुषं स्मृतम् ।
हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ।। ४५.११

रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् ।
उत्तरे कुरवश्चैव यथैते भारतास्तथा ।। ४५.१२

नवसाहस्रमेकैकमेतेषां द्विजसत्तमाः ।
इलावृतं च तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ।। ४५.१३

मेरोश्चतुर्द्धशं तत्र नवसाहस्रविस्तृतम् ।
इलावृतं महाभागाश्चत्वारस्तत्र पर्वताः ।४५.१४

विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः ।
पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ।४५.१५

विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरः स्मृतः ।
कदम्बस्तेषु जम्बुश्च पिप्पलो वट एव च ।४५.१६

जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महर्षयः ।
महागजप्रमाणानि जम्ब्वास्तस्याः फलानि च ।४५.१७

पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ।
रसेन तस्याः प्रख्याता तत्र जम्बूनदी गिरौ।४५.१८

सरित् प्रवर्त्तते चापि पीयते तत्र वासिभिः ।
न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ।४५.१९

तत्पानात् सुस्थमनसां नराणां तत्र जायते ।
तत्तीरमृद्रसं प्राप्य वायुना सुविशोषितम् ।४५.२०

जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ।
भद्राश्वः पूर्वतो मेरोः केतुमालश्च पश्चिमे ।४५.२१

वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये इलावृतम् ।
वनं चैत्ररथं पूर्वं दक्षिणे गन्धमादनम् ।४५.२२

वैभ्राजं पश्चिमे विद्यादुत्तरे सवितुर्वनम् ।
अरुणोदं महाभद्रमसितोदं च मानसम् ।४५.२३

सरांस्येतानि चत्वारि देवयोग्यानि सर्वदा ।
सितान्तश्च कुमुद्वांश्च कुरुरी माल्यवांस्तथा ।४५.२४

वैकङ्को मणिशैलश्च वृक्षवांश्चाचलोत्तमाः ।
महानीलोऽथ रुचकः सबिन्दुर्मन्दरस्तथा ।४५.२५

वेणुमांश्चैव मेघश्च निषधो देवपर्वतः ।
इत्येते देवरचिताः सिद्धावासाः प्रकीर्त्तिताः ।। ४५.२६

अरुणोदस्य सरसः पूर्वतः केसराचलः ।
त्रिकूटशिखरश्चैव पतङ्गो रुचकस्तथा ।। ४५.२७

निषधो वसुधारश्च कलिङ्गस्त्रिशिखः शुभः ।
समूलो वसुधारश्च कुरवश्चैव सानुमान् ।। ४५.२८

ताम्रातश्च विशालश्च कुमुदो वेणुपर्वतः ।
एकश्रृङ्गो महाशैलो गजशैलः पिशाचकः ।। ४५.२९

पञ्चशैलोऽथ कैलासो हिमवांशचाचलोत्तमः ।
इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः ।। ४५.३०

महाभद्रस्य सरसो दक्षिणे केसराचलः ।
शिखिवासश्च वैदूर्यः कपिलो गन्धमादनः ।। ४५.३१

जारुधिश्च सुगन्धिश्च श्रीश्रृङ्गश्चाचलोत्तमः ।
सुपार्श्वश्च सुपक्षश्च कङ्कः कपिल एव च ।। ४५.३२

पिञ्जरो भद्रशैलश्च सुसशश्च महाबलः ।
अञ्जनो मधुमांस्तद्वत् चित्रश्रृड्गो महालयः ।। ४५.३३

सहस्रशिखरश्चैव पाण्डुरः कृष्ण एव च ।
पारिजातो महाशैलस्तथैव कपिलोदर ।। ४५.३४

सुषेणः पुण्डरीकश्च महामेघस्तथैव च ।
एते पर्वतराजानः सिद्धगन्धर्वसेविताः ।। ४५.३५

असितोदस्य सरसः पश्चिमे केसराचलः ।
शङ्खकूटोऽथ वृषभो हंसो नागस्तथैव च।। ४५.३६

कालाञ्जनः शुक्रशैलो नीलः कमल एव च ।
पारिजातो महाशैल शैलः कनक एव च।४५.३७

पुष्पकश्च सुमेघश्च वाराहो विरजास्तथा ।
मयूरः कपिलश्चैव महाकपिल एव च ।। ४५.३८

इत्येते देवगन्धर्वसिद्धसङ्घनिषेविताः ।
सरसो मानसस्येह उत्तरे केसराचलाः ।। ४५.३९

एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् ।
सन्ति चैवान्तरद्रोण्यः सरांसि च वनानि च ।। ४५.४०

वसन्ति तत्र मुनयः सिद्धाश्च ब्रह्मभाविताः ।
प्रसन्नाः शान्तरजसः सर्वदुः खविवर्जिताः ।। ४५.४१

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां सहितायां पूर्वविभागे पञ्चचत्वारिंशोऽध्यायः ।। ४५ ।।