गजेन्द्रमोक्षः

(गजेंद्रमोक्षः इत्यस्मात् पुनर्निर्दिष्टम्)
गजेन्द्रमोक्षः
विष्णुस्तोत्राणि
[[लेखकः :|]]

श्रीमद्भागवते अष्टमस्कंधे परीक्षित महाराजानां श्री शुकमुनिः उपदेशित गजेंद्रमोक्ष स्तोत्रमिदं

श्री शुक उवाच
एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि |
जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितं || १ ||

गजेंद्र उवाच
ॐ नमो भगवते तस्मै यत एतच्चिदात्मकं |
पुरुषायादि बीजाय परेशायाभिधीमहि || २ ||

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयं |
योस्मापरस्माच्च परस्तं प्रपद्ये स्वयंभुवं || ३ ||

यः स्वात्मनीदं निजमाययार्पितं
क्वचिद्विभातं क्वच तत्तिरोहितं |
अविद्धदृक्साक्ष्यु भयं तदीक्षते
स आत्ममूलोवतु मां परात्परः || ४ ||

कालेन पंचत्वमितेषु कृत्स्नशो
लोकेषु पालेषु च सर्वहेतुषु |
तमस्तदासीद्गहनं गभीरं
यस्तस्य पारेभिविराजिते विभु || ५ ||

न यस्य देवा ऋषयः
पदंर्विजंतुः कोर्हति गंतुमीरितुं |
यथा नटस्याभिकृतिर्विचेष्टतो
स आत्ममूलोवतु मां परात्परः || ६ ||

दिदृक्षवो यस्यपदं सुमंगळं
विमुक्तसंगा मुनयः सुसाधवः |
चरंत्य लोक व्रतमव्रणं वने
भूतात्मभूताः सहृदः स मे गतिः || ७ ||

न विद्यते यस्य च जन्मकर्मवा
न नामरूपे गुणदोष एव वा |
तथापि लोकाप्यय संभवाय यः
स्वमायया तान्यनुकालमृच्छति || ८ ||

तस्मै नमः परेशाय ब्रह्मणेनंतशक्तये |
अरूपायोरुरूपाय नम आश्चर्य कर्मणे || ९ ||

नम आत्मप्रदीपाय साक्षिणे परमात्मने |
नमो गिरां विदूराय मनश्चेतसामपि || १० ||

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता |
नमः कैवल्यनाथाय निर्वाणसुखसंविदे || ११ ||

नमः शांताय घोराय मूढाय गुणधर्मिणे |
निर्विशेषाय साम्याय नमो ज्ञानघनाय च || १२ ||

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्य्क्षाय साक्षिणे |
पुरुषायात्म मूलाय मूलप्रकृतये नमः || १३ ||

सर्वेंद्रिय गुणदृष्ट्रे सर्वप्रत्यय हेतवे |
असताच्छाययोक्ताय सदाभासाय ते नमः || १४ ||

नमो नमस्तेखिलकारणाय
निष्कारणायाद्भुत कारणाय |
सर्वागमाम्नाय महार्णवाय
नमोपवर्गाय परायणाय || १५ ||

गुणारणिच्छन्न चिदूष्मपाय
तत्क्षोभविस्फूर्जित मानसाय |
नैष्कर्म्य भावेन विवर्जितगम
स्वयंप्रकाशाय नमस्करोमि || १६ ||

मादृक्प्रपन्न पशुपाश विमोक्षणाय
मुक्ताय भूरिकारणाय नमोलयाय |
स्वांशेन सर्वतनुभृन्मनसि प्रतीत
प्रत्यग्दृशे भगवते बृहते नमस्ते || १७ ||

आत्मात्मजाप्त गृहवित्तजनेषु सक्तै
र्दुष्प्रापणाय गुणसंग विवर्जिताय |
मुक्तात्मभिः स्वहृदये परिभाविताय
ज्ञानात्मने भगवते नम ईश्वराय || १८ ||

यं धर्मार्थ विमुक्तकामा
भजंत इष्टां गतिमाप्नुवंति |
किं त्वाशिषोरात्यपि देहमव्ययं
करोतुमेदभ्रदयो विमोक्षणं || १९ ||

एकांतिनो यस्य न कंचनार्थं
वांछंति ये वै भगवत्प्रपन्नाः |
अत्यद्भुतं तच्चरितं सुमंगळं
गायंत आनंदसमुद्रमग्नाः || २० ||

तमक्षरं ब्रह्म परं परेशमव्यक्त
माध्यात्मिक योगगम्यं |
अतींद्रियं सूक्ष्ममिवातिदूर
मनंतमाद्यं परिपूर्णमीडे || २१ ||

यस्य ब्रह्मादयोदेवा वेदा लोकाश्चराचराः |
नामरूप विभेदेन फ़ल्ग्व्या च कलया कृताः || २२ ||

यथार्चिषोग्नेः सवितुर्गर्भस्तयो
निर्यांति संयात्यसुकृत्स्वरोचिषः |
तथा यतोयं गुणसम्प्रवाहो
बुद्धिर्मनः खानि शरीरसर्गाः || २३ ||

स वै न देवासुरमर्त्यतिर्य
ङ्न स्त्री न षंडो न पुमान्नजंतुः |
नायं गुणः कर्म न सन्नचास
न्निशेधशेषो जयतादशेषः || २४ ||

जिजीविषे नाहमिहमुया
किमंतर्बहिश्चा वृत्तये भयोन्या |
इच्छामि कालेन न यस्य विप्लवः
तस्यात्मलोकावरणस्य मोक्षं || २५ ||

सोहं विश्वसृजं विश्वमविश्वं विश्ववेदसं |
विश्वात्मानजं ब्रह्म प्रणतोस्मि परंपदं || २६ ||

योगरंधितकर्मणो हृदि योगविभाविते |
योगिनो यं प्रपश्यंति योगेशं तं नतोस्म्यहं || २७ ||

नमो नमस्तुभ्यसह्यवेगाय
शक्तित्रया याखिलाधि गुणाय |
प्रपन्न पालाय दुरंतशक्तये
कदिंद्रियाणा मनवाप्यवर्त्मने || २८ ||

नायं वेद स्वमात्मानं यच्छक्त्या हंधिया हतं |
तं दुरत्यय माहात्म्यं भगवंतमितोस्म्यहं || २९ ||

श्री शुक उवाच
एवं गजेंद्रमुपवर्णित निर्विशेषं
ब्रह्मादयो विविध लिंग भिदाभिमानाः |
नैते यदोपसृपुर्निखिलात्मकत्वात्
तत्राखिलामरमयो हरिराविरासीत् || ३० ||

तं तद्वतार्त्तमुप्लभ्य जगन्निवासः
स्तोत्रंनिशम्य दिविजैःसह संस्तुवद्भिः |
छंदोमयेन् गरुडेन समुह्यमानो
श्चक्रायुधोभ्यगमदाशु यतो गजेंद्रः || ३१ ||

सोंतस्सरस्युरुबलेन गृहीत आर्तो
दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रं |
उत्क्षिप्य सांबुजकरं गिरिमाह कच्छ्रा
न्नारयणाखिलगुरो भतवन्नमस्ते || ३२ ||

तं वीक्ष्यपीडितमजः सहसावतीर्य
सग्राहमाशु सरसः कृपयोज्जाहारः |
गृहाद्विपाटित मुखादरिणा गजेंद्रं
संपश्यतां हरिरमूमुचदुस्रियाणां || ३३ ||

|| इति श्रीमद्भागवते अष्टम स्कंधे गजेंद्रमोक्षस्तोत्रन्नाम तृतीयोध्याय संपूर्णः ||
|| श्रीकृष्णार्पणमस्तु ||

"https://sa.wikisource.org/w/index.php?title=गजेन्द्रमोक्षः&oldid=54840" इत्यस्माद् प्रतिप्राप्तम्