गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायः ११

← अध्यायः १० गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →

।। अथैकादशोऽध्यायः ।।
भृगुरुवाच ।।
जगादभूयश्चतुराननस्तमेवं कृत प्रश्न विवक्षयाथ ।
क्रमेण सर्वं कथयामितेहं गणेश मन्त्रान्बहुधा विचार्य ।।१।।
ब्रह्मोवाच ।।
अनन्ता हि मुने मन्त्रा गणेशस्य महात्मनः ।
उपासनं वदिष्यामि शीघ्रं सिद्धिकरस्य ते ।।२।।
सप्तकोटि महामन्त्रा गणेशस्यागमेस्थिताः ।
तद्रहस्यं शिवोवेदकिञ्चिकिञ्चिदहं मुने ।।३।।
षडक्षरैकाक्षरयोः श्रेष्ठत्वं तेषु विद्यते ।
ययोः स्मरणमात्रेण सर्वसिद्धिःकरे भवेत् ।।४।।
जीवन्मुक्ताभवन्त्येव यदुपासनया मुने ।
त एव धन्यास्ते पूज्यास्तेनमस्याः सुरैरपि ।।५।।
यदुपासनयादास्यं येषां कुर्वन्ति सिद्धयः ।
इच्छाविहाराः सर्वज्ञा नानारूपा भवन्ति ते ।।६।।
ये कुर्वन्ति गणेशस्य भक्तिं भावसमन्विताः ।
न येषां भक्तिलेशोपि तेषां जन्म निरर्थकम् ।।७।।
नालोकयेन् मुखं तेषां विमुखा ये गजानने ।
तेषां दर्शनमात्रेण विघ्नानिस्युः पदे पदे ।।८।।
विघ्नान्युपशमं यान्ति तदुपासक दर्शनात् ।
नमस्यन्ति च भूतानि स्थावराणि चराणि च ।।९।।
अतस्तेहं प्रवक्ष्यामि मन्त्रमेकाक्षरं शुभम् ।
तदनुष्ठान मात्रेण वाञ्छितं समवाप्स्यसि ।।१०।।
अनुष्ठानं प्रवक्ष्यामि यथोक्तं शम्भुना मम ।
स्नानं कृत्वा धौतवस्त्रे परिधाय शुचिर्नरः ।।११।।
चैलाजिनकुशैःकृत्वा स्वासनं साधकः सुधीः ।
तस्मिन् स्थित्वा भूतसुद्धिं प्राणानां स्थापनं तथा ।।१२।।
अन्तर्बहिर्मातृकाणां न्यासं कृत्वात्वतन्द्रितः ।
प्राणायामं ततः कृत्वा मूलमन्त्रं जपन् हृदि ।।१३।।
मन्त्र सन्ध्यामुपासीत आगमोक्तां यथाविधि ।
आपादमस्तकं देवं ध्यात्वानिश्चलचेतसा ।।१४।।
मानसैरुपचारैस्तं पूजयेत्सुसमाहितः ।
ततो जपेद्यथाशक्ति पुरश्चरणमार्गतः ।।१५।।
अनुकूलोभवेद्यावद्वरं दातुं गजाननः ।
स्वरूपं दर्शयेद्यावत्तावज्जपपरो भवेत् ।।१६।।
भृगुरुवाच ।।
एवमुक्त्वा मुनिं ब्रह्मा विलोक्य शुभवासरम् ।
एकाक्षरं मन्त्रराजमेकार्णं गणपस्य च ।।१७।।
अशिक्षयत्तदा सर्वं सम्भ्रान्तं मुनिसत्तमम् ।
ब्रह्मोवाच ।।
सूर्यकोटिप्रतीकाशं वरं दातुं समागमत् ।।१८।।
यदाद्रक्ष्यसितं देवं तदाचित्तं स्थिरी कुरु ।
ममैव हृदये नित्यं स्थिरो भव गजानन ।।१९।।
याचस्वेति वरं तस्मात् स ते दास्यत्य संशयम् ।
हृदिस्थिते तत्र देवे दिव्यं ज्ञानमवाप्स्यसि ।।२०।।
भूतं भावि भवद्घैव ज्ञास्यसि त्वमशेषतः ।
हित्वा भ्रान्तिं दृढां वत्स नानाग्रन्थान् करिष्यति ।।२१।।
व्यास उवाच ।।
गता भ्रान्तिर्ममपितरुपदेशे कृते त्वया ।
अनुष्ठानं करिष्यामि पितामह तवाज्ञया ।।२२।।
ब्रह्मोवाच ।।
एकान्ते निर्जने देशे व्यग्रता हेतु वर्जिते ।
अनुष्ठानं कुरुविभो गजाननमनुस्मरन् ।।२३।।
नास्तिके निन्दके क्रूरे नाचारे च खले शठे ।
न वक्तव्यो मन्त्रराजस्तादृशे शरणागते ।।२४।।
दृढभक्तौ श्रद्दधाने विनीते वेदवादिनि ।
साकांक्षेनिरनुक्रोशे शास्त्रज्ञे च प्रकाशय ।।२५।।
प्रापयत्येव नरकान् दशपूर्वान् दशापरान् ।
मन्त्रराजस्तु वक्तारमप्रकाश्येप्रकाशितः ।।२६।।
योजयेद्भक्तिपूर्वं तु स लभेदीप्सितं फलम् ।
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः ।।२७।।
एकदन्त प्रभावेन लब्ध्वाज्ञानं सुनिर्मलम् ।
इह भुक्त्वाखिलान् भोगानन्ते मोक्षमवाप्नुयात् ।।२८।।
। इति श्रीगणेशपुराणे उपासनाखण्डे मन्त्रकथनं नामैकादशोऽध्यायः ।।११।।