गरुडपुराणम्/आचारकाण्डः/अध्यायः १७२

← आचारकाण्डः, अध्यायः १७१ गरुडपुराणम्
अध्यायः १७२
वेदव्यासः
आचारकाण्डः, अध्यायः १७३ →

श्रीगरुडमहापुराणम् १७२
धन्वन्तरिरुवाच ।
स्त्रीरोगादिचिकित्सां च वक्ष्ये सुश्रुत तच्छृणु ।
योनिव्यापत्सु भूयिष्टं शस्यते कर्म वातजित् ॥ १,१७२.१ ॥

वचोपकुञ्चिकाजातीकृष्णावासकसैन्धवम् ।
अजमोदायवक्षारं चित्रकं शर्करान्वितम् ॥ १,१७२.२ ॥

पिष्ट्वालोड्य जलाद्यैश्च खादयेद्धृतभर्जितम् ।
योनिपार्श्वार्तिहृद्रोगगुल्मार्शो विनिवर्तयेत् ॥ १,१७२.३ ॥

बदरीपत्रसंलेपाद्योनिर्भिन्ना प्रशाम्यति ।
लोध्रतुम्बीफलालेपाद्योनेर्दार्ढ्यं करोति च ॥ १,१७२.४ ॥

पञ्चपल्लवपिष्टाह्वमालतीकुसुमैर्घृतम् ।
रविपक्वमसृग्धारं योनिगन्धविनाशनम् ॥ १,१७२.५ ॥

सकाञ्जिकं जपापुष्पपुष्पं ज्योतिष्मतीदलम् ।
दूर्वापिष्टं च संप्राश्य चित्रकं शर्करान्वितम् ॥ १,१७२.६ ॥

धात्र्यञ्जनाभयाचूर्णं तोयपीतं रजो हरेत् ।
सदुग्धा लक्ष्मणा पीता नस्याद्वा पुत्रदा ऋतौ ॥ १,१७२.७ ॥

दुग्धस्यार्धाढकं चाज्यमश्वगन्धा च पुत्रदा ।
वन्ध्या पुत्रं लभेत्पीत्वा घृतेन व्योपकेसरम् ॥ १,१७२.८ ॥

कुशकाशोरुचृकानां मृलैर्गोक्षुरकस्य च ।
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलनुत्परम् ॥ १,१७२.९ ॥

पाठालाङ्गलिसिंहाम्यमयूरकूटजैः पृथक् ।
नाभिबस्ति भगालेपात्सुखं नारी प्रसूयते ॥ १,१७२.१० ॥

सूताया हृच्छिरोबस्तिशूलमर्कन्द (क्वल्ल) संज्ञितम् ।
यवक्षारं पिबेत्तत्र मस्तु कोष्णोदकेन वा ॥ १,१७२.११ ॥

दशमूलीकृतः क्ताथः साज्यः मूतिरुजापहः ।
शातिलण्डुलचूर्णं तु सदुग्धं दुग्धकृद्भवेत् ॥ १,१७२.१२ ॥

विदारी कन्दस्वरसं मूलं कार्पासजं तथा ।
धात्री स्तन्यविशुद्ध्यर्थं मुद्गयूपरसाशिनी ॥ १,१७२.१३ ॥

कुष्ठा वचाभया ब्राह्मी मधुरा क्षौद्रसर्पिषा ।
वर्णायुः कान्तिजननं लेह्यं वालम्य दापयेत् ॥ १,१७२.१४ ॥

स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिवेत् ।
स्वेदनं नाग्निशोफार्ते मृदा स्यादग्नितप्तया ॥ १,१७२.१५ ॥

लेहो मुस्तविपायाश्च वमिकासज्वरे पिबेत् ।
सुस्तशुण्ठीविषाविल्वकूटजैरतिसारनुत ॥ १,१७२.१६ ॥

मधु व्योषं मातुलुङ्गं हिक्काच्छर्दिनिवारणम् ।
कुष्ठेन्द्रयवसिद्धार्था निशा दूर्वा च कुष्ठजित् ॥ १,१७२.१७ ॥

महामुण्जितिकोजीच्यकाथैः स्नानं ग्रहापहम् ।
सप्तच्छदामयनिशाचन्दनैश्चानुलेपनम् ॥ १,१७२.१८ ॥

शङ्खाब्जबीजरुद्राक्षवचालौहादिधारणम् ।
ओं कं टं यं गं वैनतेयाय नमः ।
ओं हों हां हः मन्त्रेण शान्तिर्वालानां मार्जनाद्वलिदानतः ।
ओं ह्रीं बालम्रहाद्वलिं गृह्णीत वालं मुञ्चत स्वाहा ॥ १,१७२.१९ ॥

तण्डुलाद्भिः शिरीपस्य पलं पीतं विषापहम् ।
तण्डुलाद्भिश्च वर्षाभ्वाः शुक्लायाः सर्पदंशनुत् ॥ १,१७२.२० ॥

दध्याज्यं तण्डुलीयं च गृहधृमो निशा तथा ।
पिष्टं पानं तथा क्षौद्रं सिन्धृत्थस्य विपान्तकम् ॥ १,१७२.२१ ॥

अङ्कोटमूलनिष्क्वाथः साज्यः पीतो विषान्तकः ।
यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम् ॥ १,१७२.२२ ॥

सिन्दूत्यरार्कराशुण्ठीकणामधुगुडैः क्रमात् ।
वर्षादिष्वभया सेव्या रसायनगुणौषिणा ॥ १,१७२.२३ ॥

ज्वरस्यान्तेऽभयां चैकां प्रभुङ्क्ते द्वे विभीतके ।
भुक्त्वा मध्वाज्यधात्रीणां चतुष्कं शतवर्षकृत् ॥ १,१७२.२४ ॥

पीताश्वगन्धा पयसा घृतेनाशेपरोगनुत् ।
मण्डूकपर्ण्याः स्वरसो विदार्याश्चामृतोपमः ॥ १,१७२.२५ ॥

तिलधात्रीभृङ्गराजौ जग्ध्वा वर्षशती भवेत् ।
त्रिकटु त्रिफला वह्निर्गुडूची च शतावरी ॥ १,१७२.२६ ॥

विडङ्गलोहचूर्णं तु मधुना सह रोगनुत् ।
त्रिफला च कणा शुण्ठी गुडूची च शतावरी ॥ १,१७२.२७ ॥

विडङ्गभृङ्गराजादि भावितं सर्वरोगनुत् ।
चूर्णं विदार्या मध्वाज्यं लीढ्वा दश स्त्रियो व्रजेत् ॥ १,१७२.२८ ॥

घृतं शतावरीकल्कैः क्षीरैर्दशगुणैः पचेत् ।
शर्करापिप्पलीक्षौद्रयुक्तं वा जारकं विदुः ॥ १,१७२.२९ ॥

प्रतिमर्षोऽवपीडश्च नस्यं प्रवपनं तथा ।
शिरोविरेचनं चेति पञ्चकर्म च कथ्यते ॥ १,१७२.३० ॥

मासैर्द्विसंख्यैर्माघाद्यैः क्रमात्षडृतवः स्मृताः ।
अग्निसेवामधुक्षीरविकृतीः परिपेवयेत् ॥ १,१७२.३१ ॥

स्त्रीयुक्तः शिशिरे तद्वद्वसन्ते न दिवा स्वपेत् ।
त्यजेद्वर्षासु स्वप्नादीञ्छरदिन्दोश्च रश्मयः ॥ १,१७२.३२ ॥

पथ्यानि शालयो मुद्रा वर्षाम्भः क्वथितं पयः ।
निम्वातसीकुसुम्भानां शिग्रुसर्षपयोस्तथा ॥ १,१७२.३३ ॥

ज्योतिष्मतीमूलकानां तैलानि च हरन्ति हि ।
कृमिकुष्ठप्रमेहांश्च वातश्लेष्मशिरोरुजः ॥ १,१७२.३४ ॥

दाडिमामलकीकोलकरमर्द्पियालकम् ।
जम्बीरं नागग्गं च आम्रातककपिन्थकम् ॥ १,१७२.३५ ॥

पित्तलान्यनिलघ्नानि कफोत्क्लेशकराणिच ।
जलं जीमूतकेक्ष्वाकुकुटजाकृतबन्धनम् ॥ १,१७२.३६ ॥

धामार्गवश्च संयोज्याः सर्वथा वमनेष्वमी ।
पूर्वाह्ने वमनायेते मदनेन्द्रयवी वचा ॥ १,१७२.३७ ॥

मृदुकोष्टश्च पित्तेन खरो वातकफाश्रयात् ।
मध्यमः समदोषे स्यात्त्रिवृत्तिते विरेचनम् ॥ १,१७२.३८ ॥

शर्करामधुसंयुक्तं सैन्धवं नगरं त्रिवृत् ।
हरीतकीविहङ्गानि गोमूत्रेण विरेचनम् ॥ १,१७२.३९ ॥

एरण्डतैलं त्रिफलाक्वाथश्च द्विगुणस्तथा ।
वातोल्बणेषु दोषेषु भोजयित्वाथ वामयेत् ॥ १,१७२.४० ॥

वंशादिनेत्रं कुर्वीत पडष्टद्वादशाङ्गुलम् ।
कर्कन्धृफलवच्छिद्रं वस्तिरुत्तानशायिने ॥ १,१७२.४१ ॥

निरूहदानेऽपि विधिरयमेवमुदीरितः ।
अर्धत्रिपट्पले मात्रा लघुमध्योत्तमः क्रमात् ॥ १,१७२.४२ ॥

पथ्याक्षवात्र्योकद्विचतुर्भाग रुगर्दनाः ।
शतवर्यसृताभृङ्गसिन्धुवारादिभाविताः ॥ १,१७२.४३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे स्त्रीरोगचिकित्सादिकयनं नाम द्विसप्तत्युत्तरशततमोऽध्यायः