गरुडपुराणम्/आचारकाण्डः/अध्यायः २०९

← आचारकाण्डः, अध्यायः २०८ गरुडपुराणम्
अध्यायः २०९
वेदव्यासः
आचारकाण्डः, अध्यायः २१० →

श्रीगरुडमहापुराणम् २०९
सूत उवाच ।
श्रीरुक्था गेन सा ज्ञेया उत्युक्था स्त्री गुरुद्वयम् ।
मो नारी रो मृगी मध्या मगौ कन्या प्रतिष्ठया ॥ १,२०९.१ ॥

भो गौ पङ्क्तिः सुप्रातिष्ठा तनुमध्या तयौ स्मृता ।
नयाभ्यां बालललिता गायत्रीच्छन्द एव हि ॥ १,२०९.२ ॥

मसगैर्मदलेखा स्यादुष्णिक्छन्दः स्मृतं बुधैः ।
भौ गौ चित्रपदा ख्याता विद्युन्माला ममौ गगौ ॥ १,२०९.३ ॥

माणवकं भात्तलगा म्नौ गौ हंसरुतं स्मृतम् ।
समानिका रजगला जरला गः प्रमाणिका ।
आभ्यामन्यद्वितानं स्यादनुष्टुप्छन्द ईरितम् ॥ १,२०९.४ ॥

रनसैः स्याद्धलमुखी नौ मः शिशुभृता भवेत् ।
बृहतीछन्द इत्युक्तं स्मौ जगौ स विराजितम् ॥ १,२०९.५ ॥

पणवं स्यान्मनयगैर्मयूरसारिणी भवेत् ।
रजाभ्याञ्च रगाभ्याञ्च रुक्मवती भमौ सगौ ॥ १,२०९.६ ॥

मत्ता मभसगैर्युक्ता नरजा गो मनोरमा ।
पङ्क्तिच्छन्दः समाख्यातं जसता गावुपस्थितम् ॥ १,२०९.७ ॥

तौ जो गाविन्द्रवज्रा स्याज्जतज्गा गुपपूर्विका ॥ १,२०९.८ ॥

उपजातयोऽन्याद्यन्ताः सुमुखी नजजा लगौ ।
भभभा गौ दोधकं स्याच्छालिनी मतता गगौ ॥ १,२०९.९ ॥

अब्धिलोकैश्च विच्छेदो वातोर्ंमो ममता गगौ ।
श्रीर्भतौ ननगाः प्रोक्ता पञ्चभिः षडूभिरेव च ॥ १,२०९.१० ॥

मगना नो गो भ्रमरविलासितमुदाहृतम् ।
रथोद्धतार्नौ रलगाः स्वागता रनभा गगौ ॥ १,२०९.११ ॥

वृत्ता ननौ सगौ गः स्यान्नौ रलौ गः समद्रिका ।
रजरा ल्गौ श्येनिका स्याज्जसता गौ शिखण्डितम् ।
त्रिष्टुप्छन्दः समाख्यातं पिङ्गलेन महात्मना ॥ १,२०९.१२ ॥

रनौ भसौ चन्द्रवर्त्म वंशस्थं स्याज्जतौ जरौ ।
ततो जराविन्द्रवंशा वेदसैस्तोटकं स्मृतम् ।
न्भौ भ्रौ द्रुतविलम्बितं पुटश्च स्यान्ननौ मयौ ॥ १,२०९.१३ ॥

वसुवेदैश्च विरतिर्मुदितवदना त्वियम् ।
ननररैः समाख्याता नयना यस्तथा भवेत् ॥ १,२०९.१४ ॥

सा तु कुसुमविचित्रा जलोद्धतगती रसैः ।
जसौ जसौ च पादेषु चतूरैः स्त्रग्विणी मता ॥ १,२०९.१५ ॥

भुजङ्गप्रयातं वृत्तं चतुभिर्यैः प्रकीर्तितम् ।
प्रयंवदा नभज्रैश्च मणिमाला तयौ तयौ ॥ १,२०९.१६ ॥

गुहवक्त्रैश्च सन्निद्रा ललिता स्यात्तभौ जरौ ।
प्रमिताक्षरा सजससैरुज्ज्वला तु ननौ भरौ ॥ १,२०९.१७ ॥

ममौ ययौ वैश्वदेवी पञ्चाश्वैश्च यतिर्भवेत् ।
मभौ समौ जलधरमालाब्ध्यन्त्यैर्यतिभवेत् ॥ १,२०९.१८ ॥

नौ ततौ गः क्षमावृत्तं तुरगैश्च रसैर्यतिः ।
प्रहर्षिणी मनौ ज्रौ गा वह्निभिर्दशभिर्यतिः ॥ १,२०९.१९ ॥

जभौ सजौ गो रुचिरा चतुर्भिश्च ग्रहैर्यतिः ।
मत्तमयूरं मतयाः सगौ देवग्रहैर्यतिः ॥ १,२०९.२० ॥

मञ्जुभाषिणी सज्सा ज्गौ सुनन्दिनी सजसा मगौ ।
ननौ ततौ चन्द्रिका गः सप्तभिश्च रसैर्यतिः ॥ १,२०९.२१ ॥

असम्बाधा मतनसा गगौ बाणग्रहैर्यतिः ।
ननराः सो लधुगुरुः स्वरैः प्रोक्तापराजिता ॥ १,२०९.२२ ॥

ननौ भनौ प्रहरणकलिकेयं लगौ तथा ।
वसन्ततिलका सिंहोन्नता तभ्जा जगौ गुरुः ॥ १,२०९.२३ ॥

भजौ सनौ गगाविन्दुवदनाथ सुकेशरम् ।
नरना रलगाः पादे शर्करी प्रतिपादिता ॥ १,२०९.२४ ॥

चतुर्दशलघुः स्याच्च श्रेष्ठा शशिकला सगा ।
रसग्रहयतिः स्रक्स्रा वसुशैलयतिस्तथा ॥ १,२०९.२५ ॥

स्यान्मणिगुणनिकरो मालिनी ननमा ययौ ।
वसुस्वरयतिः स्याच्च नजौ भज्राः प्रभद्रकम् ॥ १,२०९.२६ ॥

एला सयौ ननौ यःस्याच्चित्रलेखास्वराष्टकैः ।
मरौ मयौ यश्च भवेदुक्तेयमति शर्करी ॥ १,२०९.२७ ॥

स्वरात्खं वृषभगजजृम्भितं भ्रनना नगौ ।
नजभजरा वाणिनी गः पिङ्गलेनाष्टिरीरिता ॥ १,२०९.२८ ॥

रसरुद्रैः शिखरिणी यमौ नसभला गुरुः ।
वसुग्रयतिः पृथ्वी जसौ जसयला गुरुः ॥ १,२०९.२९ ॥

दशस्वरैर्वंशपत्रपतितं भ्रौन्नभा लगौ ।
षड्वेदाश्वैश्च हरिणी नसमा रसला गुरुः ॥ १,२०९.३० ॥

मन्दाक्रान्तब्धिषड्नगैर्मभनास्ततगा गुरुः ।
नर्दटकं नजभजा जलौ गो यतिरेव च ॥ १,२०९.३१ ॥

सप्तर्त्वब्धिः कोकिलकमत्यष्टिः स्याच्च पूर्ववत् ।
भूतर्त्वश्वैः कुसुमितलता म्तौ न्यौ ययौ धृतिः ॥ १,२०९.३२ ॥

रसर्त्वश्वैर्यमौ न्सौ रौ मेघविस्फूर्जिता रगौ ।
शार्दूलविक्रीडितं मः सूर्यश्वैः सज्सतास्तगौ ॥ १,२०९.३३ ॥

छन्दो ह्यतिधृतिः प्रोक्तमत ऊर्ध्वं कृतिर्भवेत् ।
सप्ताश्वर्तुः सुवदना भ्रौ मनौ यभला गुरुः ॥ १,२०९.३४ ॥

वृत्तं रजौ रजौ पादे रजौ गो लः कृतिर्भवेत् ।
त्रिसप्तकैः स्नग्धरा स्यात्प्रकृतिर्म्नभनैस्त्रियैः ॥ १,२०९.३५ ॥

दिगर्कैर्भद्रकं भ्रौ न्रौ नरना गो यथाकृतिः ।
नजौ भश्वाश्वललितं जभौ जभलगा भवेत् ॥ १,२०९.३६ ॥

मत्ताक्रीडञ्चाष्टबाणदशकैर्मौ तनौ ननौ ।
नलौ गुरुश्च विकृतिश्छिन्ना संकृतिरुच्यते ॥ १,२०९.३७ ॥

पञ्चाश्वार्कैर्भतौ तन्वी नसभा भनया गणाः ।
क्रौञ्चपदा बाणशरवसुशैलैर्भमौ सभौ ॥ १,२०९.३८ ॥

नौ नौ गोऽतिकृतिः प्रोक्ता च्छन्दो ह्युत्कृतिरुच्यते ।
वस्वीशाश्वैर्ममतनैः स्याद्भुजङ्गविजृम्भितम् ॥ १,२०९.३९ ॥

ननरसैर्लगयुक्तैश्च अपवाहाख्यकं यतिः ।
गुहैः षड्भी रसैर्बाणैर्मोनाः षट्सगगा गणाः ॥ १,२०९.४० ॥

चण्डवृत्तिप्रपातोऽसौ दण्डको नौ ततोऽगरः ।
रफेवृद्धान्तकादस्य व्यालजीमूतकादयः ॥ १,२०९.४१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे समवृत्तलक्षणादिनिरूपणं नाम नवोत्तरद्विशततमोऽध्यायः

श्रीगरुडमहापुराणम् २१०
सूत उवाच ।
सससलगाश्च विषमे पादे यद्युपचित्रकम् ।
समे भौ भगगाः स्युश्च द्रुतमध्या भभौ भगौ ॥ १,२१०.१ ॥

गः पादे विषमेऽन्यत्र नजौ ज्यौ च गणौ स्मृतौ ॥ १,२१०.२ ॥

विषमे वेगवती सा गः समे भौ भो गगौ गणाः ।
पादेऽसमे तजौ रो गः समे मसौ जगौ गरुः ।
भवेद्भद्रविराट्केतुमती तु विषमे सजौ ॥ १,२१०.३ ॥

सगौ समे भ्रौ नगगा आख्यानकी त्वथासमे ।
तौ जो गगौ समे पादे जतजा गुरुकद्वयम् ॥ १,२१०.४ ॥

विपरीताख्यानकं स्याद्विषमे जस्तजौ गगौ ।
ततौ जगौ समे गः स्यात्पिङ्गलेन ह्युदाहृतम् ॥ १,२१०.५ ॥

पादेऽथ विषमे चैव पुष्पिताग्रा ननौ रयौ ।
समे नजौ जरौ गश्च वैतालीयं वदन्ति हि ।
वृत्तञ्चापरवक्त्राख्यमौपच्छन्दसिकं परम् ॥ १,२१०.६ ॥

वाङ्मती रजरा यः स्यादयुग्मे जरजा रगौ ॥ १,२१०.७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेर्ऽद्धसमवृत्तलक्षणादिनिरूपणं नाम दशोत्तरद्विशततमोऽध्यायः