← कण्डिका ८१-९० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका ०९१-१००
[[लेखकः :|]]
कण्डिका १०१-११० →

अथैतौ सत्राजित्पृतनाजितौ। देवासुरा वै संवत्सरे प्रजापताव् अस्पर्धन्तैषु च लोकेषु। ते देवा अकामयन्त - जयेम पृतनाम् इति। त एतं पृतनाजितं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। ततो वै ते तां पृतनाम् अजयन्। यत् पृतनाम अजयंस् तत् पृतनाजितः पृतनाजित्त्वम्। जयति पृतनां द्विषन्तं भ्रातृव्यं य एवं वेद। स चतुर्विंशो भवति। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सराद् एवैनांस् तद् अजयन्। तस्य रथन्तरं पृष्ठं भवति। इदं वै रथन्तरम्। अस्माद् एवैनांस् तल् लोकाद् अजयन्। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। मासश एवैनांस् तत् संवत्सराद् अजयन्। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति। चतुर्विंशत्यर्धमासस् संवत्सरः। अर्धमासश एवैनांस् तत् संवत्सराद् अजयन्॥2.91॥


ते जिताः पञ्चविंशम् एव पितरं प्रजापतिं प्रापद्यन्तामुं च लोकम्। तान् अकामयन्तात एनान् सत्रा जयेमेति। त एतं सत्राजितं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। तत एनान् सत्राजयन्। यत् सत्राजयंस् तत् सत्राजितस् सत्राजित्त्वम्। सत्रा द्विषन्तं भ्रातृव्यं जयति य एवं वेद। स पञ्चविंशो भवति। चतुर्विंशत्यर्धमासस् संवत्सरः। प्रजापतिः पञ्चविंशः। संवत्सराद् एवैनांस् तत् प्रजापतेर् अजयन्। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। मासश एवैनांस् तत् संवत्सराद् अजयन्. तस्य चतुर्विंशति स्तुशस्त्राणि भवन्ति। चतुर्विंशत्यर्धमासस् संवत्सरः। अभि पूर्वम् एवैनांस् तद् अर्धमासशस् संवत्सराद् अजयन्। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥2.92॥


अथो आहुः प्रजाकाम एव प्रजापतिर् एतं पृतनाजितं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजतेति। तस्य द्वे अष्टाशीतिशते स्तोत्रिया भवन्ति। तन् न्यूनम्। न्यूनात् प्रजननम्। द्वे हि ते स्त्रिया ऊने यतः सा प्रजायते। तत् तत् प्रजननं क्रियते। स चतुर्विंशो भवति। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननं क्रियते। तस्य रथन्तरं पृष्ठं भवति। प्रजननं वै रथन्तरम्। तत् तत् प्रजननं क्रियते। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। संवत्सरः प्रजननम्। तत् तत् प्रजननं क्रियते। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरः प्रजननम्। तत् तद् अभिपूर्वं प्रजननं क्रियते। प्र प्रजया पशुभिर् जायते य एवं वेद। ताः प्रजन्याकामयतान्नवतीर् म इमाः प्रजा स्युर् इति। स एतं सत्राजितं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। स पञ्चविंशो भवति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अन्नाद्यं पञ्चविंशी। अन्नाद्यम् एवाभ्यस् तत् पञ्चविंश्या प्रायच्छत्। तस्य त्रीणि शतानि स्तोत्र्या भवन्ति। सा विराट्। अन्नं विराट्। एतद् एवाभ्यस् तद् अन्नाद्यं प्रायच्छत्। ता अस्यान्नवती प्रजा अभवन्। स यः कामयेत बहुभिः प्रजया पशुभिः प्रजायेयान्नवतीर् म इमाः प्रजा स्युर् इति, स एताभ्यां यजेत। बहुर् एव प्रजया पशुभिः प्रजायते ऽन्नवतीर् अस्य प्रजा भवन्ति॥2.93॥


अथैष विराट् स्वराजौ। भ्रातराव् एतेन यज्ञेन यजेयाताम्। यौ कामयेयातां राज्यं न्व् अन्यतरो गच्छेत् स्वाराज्यम् अन्यतर इति, स वा एष विराजं चानुष्टुभं चाभिसंपद्यते। एतद् ध वै राज्यं यद् विराट्। अथैतत् स्वाराज्यं यद् अनुष्टुप्। विराजैव कनीयान् राज्यं गच्छति, अनुष्टुभा ज्यायान् स्वाराज्यं लोकम् । तस्योभे बृहद्रथन्तरे सामनी भवतः। एतद् ध वै राज्यं यद् रथन्तरम्। अथैतत् स्वाराज्यं यद् बृहत्। रथन्तरेणैव कनीयान् राज्यं गच्छति। बृहता ज्यायान् स्वराज्यं लोकम्। तस्य त्रीणि त्रिवृन्ति स्तोत्राणि भवन्ति, त्रीणि पञ्चदशानि, त्रीणि सप्तदशानि, त्रीण्य् एकविंशानि। त्रिवृद्भिर् एव कनीयान् राज्यं गच्छति, पञ्चदशैर् ज्यायान् स्वाराज्यं लोकम्। सप्तदशैर् एव कनीयान् राज्यं गच्छत्य, एकविंशैर् ज्यायान् स्वाराज्यं लोकम्॥2.94॥


तद् आहुर् - भूतस्यैवैष यज्ञो न बुभूषतः। प्रजननी स्तोमो विराजं चानुष्टुभं चाभिसंपद्यते। संपन्नम् इव वा एतच् छन्दः पूर्णम् इव प्रजननं यद् विराट्। अन्त उ वा एष छन्दसां यत् अनुष्टुब् इति। तद् उ वा आहुर् - उभयोर् एवैष यज्ञो भूतस्य च बुभूषतश् चेति। तस्यैते त्रिवृत्पञ्चदशा स्तोमा भवन्ति सप्तदशैकविंशा ऊनातिरिक्ता मिथुनाः प्रजनयः। ऊनम् अन्यस्यातिरिक्तम् अन्यस्य। ऊनातिरिक्ताद् वि मिथुनात् प्रजाः पशवः प्रजायन्ते। त्रिवृच् च पञ्चदशश् च तन् मिथुनं प्रजननम्। सप्दशश् चैकविंशश् च तन् मिथुनं प्रजननम्। तद् यन् मिथुनं प्रजननं तन् मा प्रजनयाद् इति। अथो यद् उभे बृहद्रथन्तरे सामनी भवत - एतद् वै दैव्यं मिथुनं प्रजननं यद् उभे बृहद्रथन्तरे - तद् यद् दैव्यं मिथुनं प्रजननं तन् मा प्रजनयाद् इति। अनेन हत्वाप प्रजननतमो यद् विराजम् अभिसंपद्यते। अन्नं वै विराट्। अशिताद् वै रेतस् सिच्यते। रेतसः प्रजाः प्रजायन्ते। अथो यद् अनुष्टुभम् अभिसंपद्यत - आनुष्टुभो वै प्रजापतिः, प्रजापतिः प्रजननं - स यः प्रजननं स मा प्रजनयाद् इति॥95॥


तस्य युवं हि स्थ स्वःपती इत्य् एषो प्रतिपत् कार्या। एषा वै द्वयोस् संयजमानयोः प्रतिपत्। तद् उ वा आहुः पवस्व वाचो अग्रिय, उपास्मै गायता नर इत्य् एते एव प्रतिपदौ कार्ये। एते वाव द्वयोः प्रतिपदौ कार्ये इति। तस्मिन्न् एतानि सामान्य् अवकल्पयन्ति गौषूक्ताश्वसूक्ते हाविष्मत - हाविष्कृते। ये द्वे द्वे सामनी यानि द्वयोस् संयजमानयोस् सामानि तानि। तस्य विराट् - स्वराजम् आर्भवस्य पवमानस्यानुष्टुभि कुर्वन्ति। विराट्- स्वराजो ह्य् एष यज्ञः। स्तोमम् एव समृद्धयन्ति॥2.96॥


अथैष ज्येष्ठयज्ञः। यो ज्यैष्ठ्यकाम स्यात् स एतेन यजेत। स वा एषो ऽष्टाव् एकविंशान् अभिसंपद्यते। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एष उ ह वा अग्रं ज्यैष्ठ्यम्। स यो ऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठ्यं गमयाद् इति। तस्य सप्तदशाः पवमाना भवन्ति। प्रजापतिर् वै सप्तदशः। प्रजापतिर् वा अग्रं ज्यैष्ठ्यम्। सो यो ऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठयं गमयाद् इति। तस्योत्तरावन्ति स्तोत्राणि भवन्ति। उत्तरावतीम् एवैनं तच् छ्रियम् उत्तरावन्तं स्वर्गं लोकं गमयन्ति। तस्य बृहत् पृष्ठं भवति। श्रीर् वै बृहज् ज्यैष्ठ्यम्। अदो वै बृहद् अदो वै ज्यैष्ठ्यम्। तद् एनं तच् छ्रियाम् एव मध्यतो ज्यैष्ठ्ये प्रतिष्ठापयन्ति। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः । संवत्सरो वा अग्रं ज्यैष्ठ्यम्। स यो ऽग्रं ज्यैष्ठ्यं स माग्रं ज्यैष्ठ्यं गमयाद् इति। तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति। चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरो वा अग्रं ज्यैष्ठ्यम्। स यो ऽग्रं ज्यैष्ठ्यं गमयाद् इति। स यो ज्येष्ठो ज्यैष्ठिनेयस् समग्रिय स्यात्, स एतेन यजेत गच्छति ज्यैष्ठ्यं, न ज्यैष्ठ्याद् अवरोहति ॥2.97॥


अथैष दुराशः। पौर्णमासेन हविषेष्ट्वा आदित्याय चरुं निर्वपति। तस्मिञ् छतमानं हिरण्यं ददाति सुवर्णं चन्द्रमसे ऽपराह्णे। तस्मिञ् छतमानं हिरण्यं ददाति रजतम्। स एवम् एतौ पूर्वाह्णापराह्णाव् एतम् अपरपक्षं यजते। तस्याम् अमावास्यायां दीक्षोपरिष्टात् सुत्या। तद् वा एतत् सूर्याचन्द्रमसोर् एवायनम्। सूर्याचन्द्रमसौ वा अकामयेताम्। समानेन यज्ञेन समानीम् ऋद्धिम् ऋद्धनुयाव। अहर् एव नाव् अन्यतरो ऽभिजयेद्, रात्रिम् अन्यतर इति। ताव् एतं यज्ञम् अपश्यताम्। तम् आहरताम। तेनायजेताम्। ततो वै तौ समानेन यज्ञेन समानीम् ऋद्धिम् आर्ध्नुताम्। अहर् एवैनयोर् अन्यतरो ऽभ्यजयद्, रात्रिम् अन्यतरः। एषा ह वा एनयोः समान्य् ऋद्धिर्, यत् समाने लोके पूर्वाह्णापराह्णौ यजते। अहर् वै पूर्वपक्षो, रात्रिर् अपरपक्षो - ऽहोरात्रयोर् एवाभिजित्यै। बृहद्रथन्तरे भवतः। अहर् वै बृहद्, रात्री रथन्तरम् - अहोरात्रयोर् एवाभिजित्यै। रजतसुवर्णे भवतः। अहर् वै सुवर्णं, रात्री रजतम् - अहोरात्रयोर् एवाभिजित्यै। शतमाने भवतः। शतायुर् वै पुरुषः शतेन्द्रियः शतवीर्यस् -- तस्यैवेन्द्रियस्य वीर्यस्यावरुद्ध्यै॥2.98॥


सप्तदश स्तोमो भवति। प्रजापतिर् वै सप्तदश। प्रजापति स्वर्गस्य लोकस्याभिनयिता। स मा स्वर्गं लोकम् अभिनयाद् इति। तस्य शतम् अनड्वाहो दक्षिणा भवन्ति। शतायुर् वै पुरुषः शतेन्द्रियः शतवीर्यस् - तस्यैवेन्द्रियस्य वीर्यस्यावरुद्ध्यै। सर्वे वह्नयो भवन्ति। वह्निना हि तत्र गच्छति यत्र जिगमिषति। सर्वे वरा भवन्ति। वर इव वै स्वर्गो लोक स्वर्गस्यैव लोकस्यर्द्ध्यै। एतद् अन्यद् दद्याद् अन्यथान्य स्तोत्रे स्तोत्रे सप्तदश सप्तदश निष्कान् दद्यात्। देवासुरा यज्ञे ऽस्पर्धन्त। ते यद् यद् एव देवा यज्ञे ऽकुर्वत, तत् तद् व् एवासुरा अन्वकुर्वत। ते देवा अब्रुवन् - यद् द् वाव वयं यज्ञे कुर्महे, तत् तन् नो ऽसुरा अनुकुर्वते। एत, हिरण्यसोमेन यजामहा इति। अथ ह तर्हि देवेष्व् एव हिरण्यम् आस, नासुरेषु। संवृक्तं ह देवैर् असुराणां हिरण्यम् आस। ते हिरण्यसोमेनायजन्त। ते स्तोत्रे स्तोत्रे सप्तदश सप्तदश निष्कान् अददुः। तद् एषाम् असुरा नोदाश्नुवत। ते ऽब्रुवन् -- दुराशं बतेदं देवा अक्रतेति। तद् एव दुराशस्य दुराशत्वम्। ततो वै देवा अभवन्, परासुराः। भवत्य् आत्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद। तस्य शुक्रचन्द्रे आदिष्टसामनी पवमानयोर् भवतः। सूर्याचन्द्रमसोर् ह्य् एष यज्ञः। स्तोमम् एव तद्रूपेण समर्धयन्ति॥2.99॥


अथैषो ऽपचितिः। प्रजापतिः प्रजा असृजत। ता एनं सृष्टा नापाचायन्। सो ऽकामत - अपचितिम् आसु प्रजासु गच्छेयम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै तं ता अपाचायन्। इन्द्रम् उ वै देवा नापाचायन्। स प्रजापतिम् उपाधावत् - न वै मेमे देवा अपचायन्तीति। तस्मा एतम् अपचितिं यज्ञं व्यदधात्। तम् आहरत्। तेनायजत। ततो वै तं देवा अपाचायन्। दर्भम् उ ह वै शातानीकिं पाञ्चाला राजानं सन्तं नापचायांचक्रुः। अपि ह स्मैनं कुमारा दर्भ दर्भेति ह्वयन्ति। तस्य हैतौ ब्राह्मणाव् आसतुर् अहीना आश्वत्थिः केशी सात्यकामिर् इति। तौ हैनम् उपसमेयतुः। स ह ध्यायन् निषसाद। तं होचतुः। किं नु राजन्यो ध्यायतीति। स होवाच - न हि मे ध्येयम्। पाञ्चाला वै मेमे राजानं सन्तं नापचायन्त्य्, अपि मा कुमारा दर्भ दर्भेति ह्वयन्ति। तद् एवैतद् ध्यायामीति। तं होचतुर् - अपचितिर् इति वा अयं यज्ञक्रतुर् अस्ति, तेन त्वा याजयावेति। तथेति। तेन हैनं याजयांचक्रतुः। स हैषु तथामात्रम् अपिचितिं जगाम, यद् अप्य् एतर्हि पाञ्चाला दर्भान् कुशा इत्य् एवाचक्षते॥2.100॥