पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०३६

← अध्यायः ३५ पद्मपुराणम्
अध्यायः ३६
वेदव्यासः
अध्यायः ३७ →

सुनीथोवाच-
सत्यमुक्तं त्वया भद्रे एवमेतत्करोम्यहम् ।
अनया विद्यया विप्रं मोहयिष्यामि नान्यथा १।
साहाय्यं देहि मे पुण्यं येन गच्छामि सांप्रतम् ।
एवमुक्ता तया रंभा तामुवाच मनस्विनीम् २।
कीदृग्ददामि साहाय्यं तत्त्वं कथय भामिनि ।
दूतत्वं गच्छ मे भद्रे एतं प्रति सुसांप्रतम् ३।
एवमुक्तं तया तां तु रंभां प्रति सुलोचनाम् ।
एवमेव प्रतिज्ञातं रंभया देवयोषिता ४।
करिष्ये तव साहाय्यमादेशो मम दीयताम् ।
सद्भावेन विशालाक्षी रूपयौवनशालिनी ५।
मायया दिव्यरूपा सा संबभूव वरानना ।
रूपेणाप्रतिमालोके मोहयंती जगत्त्रयम् ६।
मेरोश्चैव महापुण्ये शिखरे चारुकंदरे ।
नानाधातुसमाकीर्णे नानारत्नोपशोभिते ७।
देववृक्षैः समाकीर्णे बहुपुष्पोपशोभिते ।
देववृंदसमाकीर्णे गंधर्वाप्सरसेविते ८।
मनोहरे सुरम्ये च शीतच्छायासमाकुले ।
चंदनानामशोकानां तरूणां चारुहासिनी ९।
दोलायां सा समारूढा सर्वशृङ्गारशोभिता ।
कौशेयेन सुनीलेन राजमाना वरानना १०।
बंधूकपुष्पवर्णेन कंचुकेन द्विजोत्तम ।
सर्वांगसुंदरी बाला वीणातालकराविला ११।
गायमाना वरं गीतं सुस्वरं विश्वमोहनम् ।
ताभिः परिवृता बाला सखीभिः सुमनोहरा १२।
अंगस्तु कंदरे पुण्ये एकांते ध्यानमास्थितः ।
कामक्रोधविहीनस्तु ध्यायमानो जनार्दनम् १३।
स श्रुत्वा सुस्वरं गीतं मधुरं सुमनोहरम् ।
तालमानक्रियोपेतं सर्वसत्वविकर्षणम् १४।
ध्यानाच्चचाल तेजस्वी मायागीतेन मोहितः ।
समुत्थायासनात्तूर्णं वीक्षमाणो मुहुर्मुहुः १५।
जगाम तत्र वेगेन मायाचलितमानसः ।
दोलासंस्थां विलोक्यैव वीणादंडकराविलाम् १६।
हसमानां सुगायंतीं पूर्णचंद्रनिभाननाम् ।
मोहितस्तेन गीतेन रूपेणापि महायशाः १७।
तस्या लावण्यभावेन मन्मथस्य शराहतः ।
आकुलव्याकुलज्ञान ऋषिपुत्रो द्विजोत्तमः १८।
प्रलपत्यतिमोहेन जृंभते च पुनः पुनः ।
स्वेदः कंपोथ संतापस्तस्याजायत तत्क्षणात् १९।
मुह्यन्निव महामोहैर्ग्लानश्चलितमानसः ।
वेपमानस्ततस्त्वंगो दूयमानः समागतः २०।
तामालोक्य विशालाक्षीं मृत्युकन्यां यशस्विनीम् ।
अथोवाच महात्मा स सुनीथां चारुहासिनीम् २१।
का त्वं कस्य वरारोहे सखीभिः परिवारिता ।
केन कार्येण संप्राप्ता केन त्वं प्रेषिता वनम् २२।
तवांगं सुंदरं सर्वमत्र भाति महावने ।
समाचक्ष्व ममाद्यैव प्रसादसुमुखी भव २३।
मायामोहेन संमुग्धस्तस्याः कर्म न विंदति ।
मार्गणैर्मन्मथस्यापि परिविद्धो महामुनिः २४।
एवंविधं महद्वाक्यं समाकर्ण्य महामतेः ।
नोवाच किंचित्सा विप्रं समालोक्य सखीमुखम् २५।
रंभां च प्रेरयामास सुनीथा संज्ञया सखीम् ।
समुवाच ततो रंभा सादरं तं द्विजं प्रति २६।
इयं कन्या महाभागा मृत्योश्चापि महात्मनः ।
सुनीथाख्या प्रसिद्धेयं सर्वलक्षणसंपदा २७।
पतिमन्विच्छती बाला धर्मवंतं तपोनिधिम् ।
शांतं दांतं महाप्राज्ञं वेदविद्याविशारदम् २८।
एवंविधं महद्वाक्यं समाकर्ण्य महामुनिः ।
तामुवाच ततस्त्वंगो रंभामप्सरसां वराम् २९।
मया चाराधितो विष्णुः सर्वविश्वमयो हरिः ।
तेन दत्तो वरो मह्यं पुत्राख्यः सर्वसिद्धिदः ३०।
तन्निमित्तमहं भद्रे सुतार्थं नित्यमेव च ।
कस्यचित्पुण्यवीर्यस्य कन्यामेकां प्रचिंतये ३१।
सदैवाहं न पश्यामि सुभार्यां सत्यमीदृशीम् ।
इयं धर्मस्य वै कन्या धर्माचारा वरानना ३२।
मामेवं हि भजत्वेषा यदि कान्तमिहेच्छति ।
यं यमिच्छेदियं बाला तं ददामि न संशयः ३३।
अदेयं देयमित्याह अस्याः संगमकारणात् ।
एकमेवं त्वया देयं श्रूयतां द्विजसत्तम ३४।
रंभोवाच-
विप्रेंद्र त्वं शृणुष्वेह प्रतिज्ञां वच्मि सांप्रतम् ।
एषा नैव त्वया त्याज्या धर्मपत्नी तवैव हि ३५।
अस्या दोषो गुणो नैव ग्राह्य एव त्वया कदा ।
इत्यर्थे प्रत्ययं विप्र प्रत्यक्षं परिदर्शय ३६।
स्वहस्तं देहि विप्रेंद्र सत्यप्रत्ययकारकम् ।
एवमस्तु मया दत्तो ह्यस्या हस्तो न संशयः ३७।
सूत उवाच-
एवं संबधिकं कृत्वा सत्यप्रत्ययकारकम् ।
गांधर्वेण विवाहेन सुनीथामुपयेमिवान् ३८।
तस्मै दत्वा सुनीथां तां रंभा हृष्टेन चेतसा ।
सा तां चामंत्रयित्वा वै गता गेहं स्वकं पुनः ३९।
प्रहृष्टचेतसः सख्यः स्वस्थानं परिजग्मिरे ।
गतासु तासु सर्वासु सखीषु द्विजसत्तमः ४०।
रेमे त्वंगस्तया सार्धं प्रियया भार्यया सह ।
तस्यामुत्पाद्य तनयं सर्वलक्षणसंयुतम् ४१।
चकार नाम तस्यैव वेनाख्यं तनयस्य हि ।
ववृधे स महातेजाः सुनीथातनयस्तदा ४२।
वेदशास्त्रमधीत्यैव धनुर्वेदं गुणान्वितम् ।
सर्वासामपि मेधावी विद्यानां पारमेयिवान् ४३।
अंगस्य तनयो वेनः शिष्टाचारेण वर्तते ।
स वेनो ब्राह्मणश्रेष्ठः क्षत्त्राचारपरोऽभवत् ४४।
दिवि चेंद्रो यथा भाति सर्वतेजःसमन्वितः ।
भात्येवं तु महाप्राज्ञः स्वबलेन पराक्रमैः ४५।
चाक्षुषस्यांतरे प्राप्ते वैवस्वतसमागते ।
प्रजापालं विना लोके प्रजाः सीदंति सर्वदा ४६।
ऋषयो धर्मतत्त्वज्ञाः प्रजाहेतोस्तपोधनाः ।
व्यचिंतयन्महीपालं धर्मज्ञं सत्यपंडितम् ४७।
तं वेनमेव ददृशुः संपन्नं लक्षणैर्युतम् ।
प्राजापत्ये पदे पुण्ये अभ्यषिंचन्द्विजोत्तमाः ४८।
अभिषिक्ते महाभागे त्वंगपुत्रे तदा नृपे ।
ते प्रजापतयः सर्वे जग्मुश्चैव तपोवनम् ४९।
गतेषु तेषु सर्वेषु वेनो राज्यमकारयत् ।
सूत उवाच-
सा सुनीथा सुतं दृष्ट्वा सर्वराज्यप्रसाधकम् ५०।
विशंकते प्रभावेण शापात्तस्य महात्मनः ।
मम पुत्रो महाभागो धर्मत्राता भविष्यति ५१।
इत्येवं चिंतयेन्नित्यं पूर्वपापाद्विशंकिता ।
धर्मांगानि सुपुण्यानि सुताग्रे परिदर्शयेत् ५२।
सत्यभावादि कान्पुण्यान्गुणान्सा वै प्रकाशयेत् ।
इत्युवाच सुतं सा हि अहं धर्मसुता सुत ५३।
पिता ते धर्मतत्त्वज्ञस्तस्माद्धर्मं समाचर ।
इत्येवं बोधयेन्नित्यं पुत्रं वेनं तदा सती ५४।
मातापित्रोस्तयोर्वाक्यं प्रजायुक्तं प्रपालयेत् ।
एवं वेनः प्रजापालः संजातःक्षितिमंडले ५५।
सुखेन जीवते लोकःप्रजाधर्मेणरंजिताः ।
एवं राज्यप्रभावं तु वेनस्यापि महात्मनः ५६।
धर्मभावाः प्रवर्तंते तस्मिञ्छासति पार्थिवे ५७।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने षट्त्रिंशोऽध्यायः ३६