पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०५८

विष्णुरुवाच-
क्रीडाप्रयुक्तासु वनं प्रविष्टा वैश्यस्य भार्या सुकला सुतन्वी ।
ददर्श सर्वं गहनं मनोरमं तामेव पप्रच्छ सखीं सती सा १।
अरण्यमेतत्प्रवरं सुपुण्यं दिव्यं सखे कस्य मनोभिरामम् ।
सिद्धंसुकामैः प्रवरैः समस्तैः पप्रच्छ हर्षात्सुकला सखीं ताम् २।
क्रीडोवाच-
एतद्वनं दिव्यगुणैः प्रयुक्तं सिद्धस्वभावैः परिभावनेन ।
पुष्पाकुलं कामफलोपयुक्तं विपश्य सर्वं मकरध्वजस्य ३।
एवं वाक्यं ततः श्रुत्वा हर्षेण महतान्विता ।
समालोक्य महद्वृत्तं कामस्य च दुरात्मनः ४।
वायुना नीयमानं तं समाघ्राति न सौरभम् ।
वाति वायुः स्वभावेन सौरभेण समन्वितः ५।
तद्बाणो विशतेनासां यथा तथा सुलीलया ।
सा गंधं नैव गृह्णाति पुष्पाणां च वरानना ६।
न चास्वादयते सा तु सुरसान्सा महासती ।
स सखा कामदेवस्य रममाणो विनिर्जितः ७।
लज्जितः पराङ्मुखो भूत्वा भूं पपात लवच्छदैः ।
फलेभ्यो हि सुपक्वेभ्यः पुष्पमंजरिसंस्कृतः ८।
लवरूपोपतद्भूमौ रसस्त्वेष तया जितः ।
मकरंदः सुदीनात्मा फलाद्भूमिं ततः पुनः ९।
भक्ष्यते मक्षिकाभिश्च यथामृतो रणे तथा ।
मक्षिकाभक्ष्यमाणस्तु प्रवाहेन प्रयाति सः १०।
मंदंमंदं प्रयात्येव तं हसंति च पक्षिणः ।
नानारुतैः प्रचलंति सुखमानंदनिर्भरैः ११।
प्रीत्या शकुनयस्तत्र वनमध्यनगस्थिताः ।
सुकलया जितो ह्येष निम्नं पंथानमाश्रितः १२।
प्रीत्या समेता रतिः कामभार्या गत्वाब्रवीत्सा सुकलां विहस्य ।
स्वस्त्यस्तु ते स्वागतमेव भद्रे रमस्व प्रीत्या नयनाभिरामम् १३।
ते रूपमिष्टममलमिंद्रस्यापि महात्मनः ।
यदेष्टं ते तदा ब्रूहि समानेष्ये न संशयः १४।
सूत उवाच-
वदंत्यौ ते स्त्रियौ दृष्ट्वा श्रुत्वोवाच सुभाषितम् ।
रतिं प्रतिगृहीत्वा मे गतो भर्त्ता महामतिः १५।
यत्र मे तिष्ठते भर्त्ता तत्राहं पतिसंयुता ।
तत्र कामश्च मे प्रीतिरयं कायो निराश्रयः १६।
द्वे अप्युक्तं समाकर्ण्य रतिप्रीती विलज्जिते ।
व्रीडमाने गते ते द्वे यत्र कामो महाबलः १७।
ऊचतुस्तं महावीरमिंद्रकाय समाश्रितम् ।
चापमाकर्षमाणं तं नेत्रलक्ष्यं महाबलम् १८।
दुर्जयेयं महाप्राज्ञ त्यज पौरुषमात्मनः ।
पतिकामा महाभागा पतिव्रता सदैव सा १९।
काम उवाच-
अनया लोक्यते रूपमिंद्रस्यास्य महात्मनः ।
यदि देवि तदा चाहं हनिष्यामि न संशयः २०।
अथ वेषधरो देवो महारूपः सुराधिपः ।
स तयानुगतस्तूर्णं परया लीलया तदा २१।
सर्वभोगसमाकीर्णः सर्वाभरणशोभितः ।
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः २२।
तया रत्या समायातो यत्रास्ते पतिदेवता ।
प्रत्युवाच महाभागां सुकलां सत्यचारिणीम् २३।
पूर्वं दूती समक्षं ते प्रीत्या च प्रहिता मया ।
कस्मान्न मन्यसे भद्रे भजंतं त्वामिहागतम् २४।
सुकलोवाच-
रक्षायुक्तास्मि भद्रं ते भर्तुः पुत्रैर्महात्मभिः ।
एकाकिनीसहायैश्च नैव कस्य भयं मम २५।
शूरैश्च पुरुषाकारैः सर्वत्र परिरक्षिता ।
नाति प्रस्तावये वक्तुं व्यग्रा कर्मणि तस्य च २६।
यावत्प्रस्यंदते नेत्रं तावत्कालं महामते ।
भवान्न लज्जते कस्माद्रममाणो मया सह २७।
भवान्को हि समायातो निर्भयो मरणादपि ।
इंद्र उवाच-
त्वामेवं हि प्रपश्यामि वनमध्ये समागताम् २८।
समाख्यातास्त्वया शूरा भर्तुश्च तनयाः पुनः ।
कथं पश्याम्यहं तावद्दर्शयस्व ममाग्रतः २९।
सुकलोवाच-
सनिजसकलवर्गस्याधिपत्ये निवेश्य धृतिमतिगतिबुद्ध्य्ख्यैस्तु संन्यस्य सत्यम् ।
अचलसकलधर्मो नित्ययुक्तो महात्मा मदनसबलधर्मात्मा सदामां जुगोप ३०।
मामेवं परिरक्षते दमगुणैः शौचैस्तु धर्मः सदा सत्यं पश्य समागतं मम पुरः शांतिक्षमाभ्यांयुतम् ।
बोधश्चातिमहाबलः पृथुयशा यो मां न मुंचेत्कदा बद्धाहं दृढबंधनैः स्वगुणजैः सांनिध्यमेवं गतः ३१।
रक्षायुक्ताः कृताः सर्वे सत्याद्या मम सांप्रतम् ।
धर्मलाभादिकाः सर्वे दमबुद्धिपराक्रमाः ३२।
मामेवं हि प्ररक्षंति किं मां प्रार्थयसे बलात् ।
को भवान्निर्भयो भूत्वा दूत्या सार्धं समागतः ३३।
सत्यं धर्मस्तथा पुण्यं ज्ञानाद्याः प्रबलास्तथा ।
मम भर्तुः सहायाश्च ते मां रक्षंति वेश्मनि ३४।
अहं रक्षायुता नित्यं दमशांतिपरायणा ।
न मां जेतुं समर्थश्च अपि साक्षाच्छचीपतिः ३५।
यदि वा मन्मथो वापि समागच्छति वीर्यवान् ।
दंशिताहं सदा सत्यं सत्यकेनैव नान्यथा ३६।
निरर्थकास्तस्य बाणा भविष्यंति न संशयः ।
त्वामेवं हि हनिष्यंति धर्मादयो महाभटाः ३७।
दूरं गच्छ पलायत्वमत्र मा तिष्ठ सांप्रतम् ।
वार्यमाणो यदा तिष्ठेर्भस्मीभूतो भविष्यसि ३८।
भर्त्रा विना निरीक्षेत मम रूपं यदा भवान् ।
यथा दारु दहेदग्निस्तथा धक्ष्यामि नान्यथा ३९।
एवं श्रुत्वा सहस्राक्षो मन्मथस्यापि सम्मुखम् ।
पश्य पौरुषमेतस्या युध्यस्व निजपौरुषैः ४०।
यथागतास्तथा सर्वे महाशापभयातुराः ।
स्वंस्वं स्थानं महाराज इंद्राद्याः प्रययुस्तदा ४१।
गतेषु तेषु सर्वेषु सुकला सा पतिव्रता ।
स्वगृहं पुण्यसंयुक्ता पतिध्यानेन चागता ४२।
स्वगृहं पुण्यसंयुक्तं सर्वतीर्थमयं तदा ।
सर्वयज्ञमयं राजन्संप्राप्ता पतिदेवता ४३।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रेष्टपंचाशत्तमोऽध्यायः ५८ ।