पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः ११

← अध्यायः १० पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →

शौनक उवाच-
इदानीं श्रोतुमिच्छामि कथयस्व यथार्थतः ।
हरिस्वरूपिणा साक्षाद्वेदव्यासेन शासित १।
निरहंकार हे सूत लोकानुग्रहकारक ।
केन स्यात्सुभगा नारी पापिनी च सुदुर्भगा २।
पतिप्रियांग केन स्याद्रूपिता चक्षुषोः सुधा ।
केन वा जायते लक्ष्मीस्तन्मे ब्रूहि तपोधन ३।
सूत उवाच-
यदि पुण्यमिदं विप्र वृत्तं परमदुर्लभम् ।
शृणुष्व भोः समासेन कथयामि विधानतः ४।
आसीद्भद्रश्रवा राजा युगे द्वापरसंज्ञके ।
सौराष्ट्रदेशवासी च वेदवेदांगपारगः ५।
भार्या तस्य च संजाता नाम्ना सुरतिचंद्रिका ।
तस्यां बभूवुः श्रीराज्ञः सप्तपुत्रा मनोरमाः ६।
ततोऽभिजाता दुहिता सुंदरी सत्यवादिनी ।
श्यामबाला च विप्रेंद्र नाम्ना प्रीतिकरी पितुः ७।
अथैकदा श्यामबाला सुवर्णसिकतासु च ।
गूढैर्मनोहरै रत्नैः सखिभिः क्रीडितुं मुदा ८।
जगाम नीपवृक्षस्य तलं परमदुर्लभम् ।
एतस्मिन्नंतरे विप्र लक्ष्मीः संसारतारिणी ९।
लोकानां नीतिदा साथ समायाता स्वयं पुरः ।
धृत्वा च ब्राह्मणीरूपं पलितांगी च भूसुर १०।
अखिलानां च लोकानां शास्तू राज्ञः क्षयं विना ।
केषां क्षुद्रतराणां हि गृहे गच्छामि सांप्रतम् ११।
इति संचिंत्य मनसा गता राजनिकेतनम् ।
सुवर्णभित्तिभिर्युक्तं पताकाभिरलंकृतम् १२।
सिंहद्वारमतिक्रम्य प्राह दौवारिकीं ततः ।
द्वारं जहि हि भो द्वारि नियुक्ते शुभलक्षणे १३।
यामि वेगेन पश्यामि राज्ञीं सुरतिचंद्रिकाम् ।
तच्छ्रुत्वा वचनं तस्या रत्नदंडकरा च सा ।
कोकिलावाक्यवन्मुक्तं परमं हर्षमाययौ १४।
द्वारनियुक्तोवाच-
किं नाम वहसे वृद्धे कः पतिस्तावकः पुनः ।
आगतासि कथं किं ते कार्य्यं राज्ञ्याश्च दर्शने ।
कस्मात्किं ब्रूहि विप्रे त्वं श्रोतुं कौतुहलं हि मे १५।
वृद्धोवाच-
शृणु पोष्ये महाराज पत्न्या दंडकरे यदा ।
श्रोतुं कौतूहलं तेऽस्ति मदागमनकारणम् १६।
प्रसिद्धा कमला नाम्ना चाहं प्राणेश्वरो मम ।
भुवनेश इति ख्यातो नाम्ना द्वारवतीपुरी १७।
तस्यां वै वर्त्तते पोष्ये मम प्राणेश्वरस्ततः ।
आगताहं रत्नवेत्रकरे शृणु सकौतुकम् १८।
ममागमनकार्यं हि वच्मीदानीं तवाग्रतः ।
पुरासीद्वैश्यकुलजा राज्ञी तव च दुःखिनी १९।
एकस्मिन्दिवसे पोष्ये पतिना कलहः कृतः ।
तया नार्या च दुःखिन्या ततो वै भर्तृपीडिता २०।
बहिर्भूय द्रुतं गेहाद्रुदंती च पुनः पुनः ।
तस्याश्च रोदनं श्रुत्वा चागताहं समीपतः २१।
अपृच्छं सर्ववृत्तांतं कथितो वै यथार्थतः ।
तया ततो व्रतवरमुपदेशं ददाम्यहम् २२।
ममोपदेशतः सा वै चक्रे व्रतवरं मुदा ।
तस्य प्रसादाद्भो द्वाःस्थे संजाता सुखिता च सा २३।
कदाचिद्वैश्यकुलजा पत्या मृत्योर्वशं गता ।
समानेतुं ततस्तौ तु विहिताखिलघातकौ २४।
किंकरान्प्रेषयामास चंडाद्यान्धर्मराट्प्रभुः ।
यमाज्ञया समायाता यमदूता भयंकराः २५।
बद्ध्वा तौ चर्मपाशेन लोहमुद्गरपाणयः ।
उद्यमं चक्रिरे गंतुं यमस्य शरणं प्रति २६।
अत्रांतरे च लक्ष्म्यास्ते दूता विष्णुपरायणाः ।
समानेतुं समायाताः शंखचक्रगदाधराः २७।
दृष्ट्वा तथाविधांस्तांश्च यमदूताः पलायिताः ।
लक्ष्मीदूता महात्मानः स्वप्रकाशादयस्तथा २८।
पाशं छित्त्वा समारोप्य राजहंसयुते रथे ।
जग्मुर्लक्ष्मीपुरं सर्वे सहसाकाशवर्त्मना २९।
यावद्वारं व्रतवरं कृत्वा वैश्या च सा तदा ।
तावत्कल्पसहस्राणि तस्थतुः कमलापुरे ३०।
पुण्यशेषस्य भोगार्थं जातौ राजान्वयेऽधुना ।
व्रतं च विस्मृतौ द्वाःस्थे राजसंपत्तिगर्वितौ ।
तस्माच्च तव तस्यापि चोपदेशार्थमागता ३१।
द्वाःस्थोवाच-
केनैव तु विधानेन वृद्धे व्रतवरं कृतम् ।
कस्मिन्मासे व्रतं श्रेष्ठं देवता का च पूज्यते ३२।
एतन्मे पृच्छतो मातर्यथावद्वक्तुमर्हसि ।
कमलोवाच-
कार्त्तिके च व्यतिक्रांते मार्गशीर्षे समागते ।
तस्मिन्मासे च भो पोष्ये वासरे गुरुसंज्ञके ३३।
ततः पूर्वाह्णसमये सकलैर्व्रतिभिर्वृता ।
नारायणेन सहितां लक्ष्मीं संपूजयेत्ततः ३४।
मिष्टैः पायसयुक्तैश्च भुक्तैश्च खंडमिश्रितैः ।
लक्ष्मीं संतोषयेत्प्रेष्ये ततः संप्रार्थयेदिदम् ३५।
त्रैलोक्यपूजिते देवि कमले विष्णुवल्लभे ।
यथा त्वमचला कृष्णे तथा भव मयि स्थिता ३६।
ईश्वरी कमले देवि शरणं च भवानघे ।
नानोपहारद्रव्यैश्च लक्ष्मीमाज्ञाप्य तोषयेत् ३७।
शास्त्रैश्च पूजयेद्देवीं महोत्सवसमन्विताम् ।
ततो नैवेद्यशेषांश्च दत्वा ब्राह्मणसत्तमम् ३८।
आत्मानं स्वपतिं पुत्रान्पोष्येऽन्यानपि सेवकान् ।
द्वितीये तु गुरोर्वारे विशेषं शृणु सुंदरि ३९।
चित्रधूलीप्रशस्तैश्च भ्राष्ट्रैर्गोधूमनिर्मितैः ।
तोषयेत्कमलादेव्याः कुर्य्याद्वै भक्तिभावतः ४०।
तृतीये खंडसंयुक्तं दध्योदननिवेदनम् ।
शामाक शालि कासारैश्चतुर्थे पूजयेन्मुदा ४१।
लक्ष्मीदेवीं प्रयत्नेन रत्नदंडकरे ततः ।
लक्ष्मीदेवी प्रीतये तु ब्राह्मणान्पूजयेद्धनैः ४२।
वस्त्रालंकारभोज्यैश्च फलैर्नानाविधैस्तथा ।
पोष्योवाच-
अत्रैव तिष्ठ भो वृद्धे राज्ञीं सुरतिचंद्रिकाम् ४३।
विज्ञाप्य त्वां नयिष्यामि मा क्रोधं कुरु सत्तमे ।
इत्युक्त्वा सा तु चार्वंगी गता राज्ञीसमीपतः ४४।
शिरस्यंजलिमाधाय पोष्या ब्रह्मन्समूलतः ।
आरभ्य सांगपर्यंतं यदूचे कमलालया ४५।
तत्सर्वं कथयामास राज्ञीं सुरतिचंद्रिकाम् ।
द्वारपालीवचः श्रुत्वा राज्ञी सुरतिचंद्रिका ४६।
जगाम ब्राह्मणीपार्श्वं सगर्वा प्राह सुंदर ।
राज्ञ्युवाच-
वृद्धे ब्राह्मणि किं वृत्तं चोपदेशार्थमागता ४७।
कथयस्व चिरं मह्यं भयं त्यक्त्वा यथासुखम् ।
ब्राह्मण्युवाच-
तवानीतिमहं दृष्ट्वा गंतुमिच्छामि चंचला ४८।
कथयिष्यामि किं दुष्टे व्रतं परमदुर्लभम् ।
इंदिरावासरे चाद्य चांडालेन करोषि यत् ४९।
तद्दृष्टं मयि का दुष्टे तद्गेहे गर्वितेऽधुना ।
तच्छ्रुत्वा ब्राह्मणीवाक्यं क्रोधसंरक्तलोचना ५०।
जरंतीं ब्राह्मणीं चैव प्रहारं च चकार सा ।
ततः सा कमला वृद्धा क्रंदमाना पलायिता ५१।
क्रीडमाना ततः श्यामा ब्राह्मणीक्रन्दनध्वनिम् ।
आगतास्याः समीपं तु श्रुत्वा बाला तपोधना ५२।
श्यामाबालोवाच-
वृद्धे व्यथेदृशी केन दत्ता तुभ्यं वदस्व मे ।
तस्या वचनमाकर्ण्य शोकगद्गदया गिरा ५३।
कमला कथितं सर्वं वृत्तांतं द्विजसत्तम ।
श्यामाबाला ततः श्रुत्वा व्रतं परमदुर्ल्लभम् ५४।
शास्त्रोक्तविधिना चक्रे सश्रद्धं च सभक्तितः ।
त्रिवारे परिपूर्णे तु तुर्यवारे समागते ५५।
विवाहकर्मसंसिद्धं द्विजलक्ष्मीप्रसादतः ।
श्रीसिद्धेश्वरदेवस्य नृपतेर्भूपतेजसः ५६।
मालाधरो नाम सुतो गृहीत्वा तां गृहं गतः ।
अथ तस्यां गतायां तु ब्रह्मन्शृणुष्व कौतुकम् ५७।
राज्ञीगृहे च सर्वाणि स्थितानि सुबहूनि च ।
द्रव्याणि केन नीतानि न ज्ञातान्यपि भूसुर ५८।
निर्वित्ता बुद्धिहीना सा चान्नवस्त्रविवर्जिता ।
उपविष्टा च केनापि गंतुं च दुहितुर्गृहम् ५९।
प्रेषयामास भर्त्तारं किंचित्प्रार्थनहेतवे ।
तस्य मालाधरस्यापि ग्रामे च सरसीतटे ६०।
कालेन कियता विप्र प्रविवेश च कष्टतः ।
तस्माज्जलं समानेतुं तस्या दास्यः समागताः ।
तं दृष्ट्वा दुःखिनां श्रेष्ठं पप्रच्छुः सानुकंपिताः ६१।
दास्य ऊचुः-
कस्त्वं कुतः समायातो मांसरक्तविवर्ज्जितः ।
रूक्षांगो रूक्षकेशश्च तत्सर्वं कथयस्व नः ६२।
दरिद्र उवाच-
श्यामाबालापिता चाहं सौराष्ट्रनगरागतः ।
कथयध्वं च भो दास्यः श्यामाबालासमीपतः ६३।
तच्छ्रुत्वा वचनं तस्य कौतूहलसमन्विताः ।
परस्परमुखाः सर्वा जहसुः स्वपुरं गताः ६४।
श्यामाबाला च कथितं सर्वं वृत्तं च भो द्विज ।
श्रुत्वैतद्वचनं तासां प्रेषयामास सेवकान् ६५।
पुष्पतैलं दिव्यवस्त्रं चंदनं पर्णवीटिकाम् ।
घोटकं च तथा दत्वा पितरं प्रति सुंदरी ६६।
गत्वाथ सर्वे ते भृत्याः कृत्वा सुवेषमुत्तमम् ।
श्यामाबालागृहं निन्युर्देवराजगृहोपमम् ६७।
श्यामाबाला ततश्चैव पितरं दुखिनां वरम् ।
श्याल्यन्नं सघृतं चैव भोजयामास यत्नतः ६८।
तुर्येषु समतीतेषु दिवसेषु तपोधन ।
प्रेषयामास तं दत्वा गुप्तपात्रस्थितं धनम् ६९।
ततः प्रविश्य स्वगृहे धनं पात्रान्तरस्थितम् ।
ददर्शांगारनिचयं रुरोद भृशदुःखितः ७०।
दुहितुः सदनं यातुं निःससार गृहागतः ।
तत्रैव सरसीकूले प्रविवेश च दुःखिनी ७१।
तथैनां च समानीतां यथा स्याः प्राणवल्लभाम् ।
तथैव पूजयामास मातृस्नेहात्पतिव्रता ७२।
एतस्मिन्समये विप्र लक्ष्मीवासरमुत्तमम् ।
श्यामाबाला कारयितुं मनश्चक्रे च मातरम् ७३।
तस्या माता दरिद्राणि भुक्त्वा वैकांतिकेपि च ।
शावकानां तु चोच्छिष्टं लक्ष्मीकोपसमन्विता ७४।
इंदिरायास्तृतीयानि वासराणि गतान्यपि ।
चतुर्थवासरे तां तत्कारयामास सा दृढम् ७५।
आगता नगरं सा वै राज्ञी सुरतिचंद्रिका ।
दृष्ट्वा गृहं तथा दिव्यमिंदिरायाः प्रसादतः ७६।
श्यामाबाला च विप्रेंद्र कदाचित्समये पुनः ।
मातुर्गृहं गता चाथ ऐश्वर्यस्य दिदृक्षया ७७।
श्यामाबालां ततो दूराद्दृष्ट्वा संकुपिता च सा ।
न पश्यामि मुखं तस्या इत्युक्त्वालक्षिता स्थिता ७८।
गत्वा गृहांतरालं च गृहीत्वा सैंधवं च सा ।
आगता स्वगृहं किंचित्तूष्णीं लक्ष्मीसमाश्रितम् ७९।
राजा स्वामी च पप्रच्छ तां साध्वीं पतिदेवताम् ।
किमानीतं त्वया कांते कथयस्व ममाग्रतः ८०।
कांतोवाच-
राज्यसारं समानीतं दर्शयिष्यामि भोजने ।
इत्युक्त्वा सा तदा पाकं कृत्वा च लवणं विना ८१।
अन्नादिकं ततो दत्वा मालाधराय भूभुजे ।
ततो मालाधरो राजा व्यंजनं लवणवर्जितम् ८२।
भुक्त्वा वैगुण्यतां प्राप्तो राज्यसारं ददौ च सा ।
तदा हृष्टमना राजा भोजनं कृतवान्द्विज ८३।
प्रशशंस च तां नारीं धन्याधन्या इति ब्रुवन् ।
एतद्व्रतं च या नारी न करोति महादरात् ८४।
जन्मजन्मनि सा नारी दरिद्रा दुर्भगा भवेत् ।
इदं या शृणुयाद्भक्त्या पठेद्यो वा समाहितः ८५।
सर्वपापैर्विनिर्मुक्तो लक्ष्मीलोकं लभेच्च सः ।
इमां व्रतकथां या तु न श्रुत्वा क्रियते व्रतम् ।
तस्या व्रतफलं चैव नश्यत्येव न संशयः ८६।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे एकादशोऽध्यायः ११।