पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०५६

← अध्यायः ०५५ पद्मपुराणम्
अध्यायः ०५६
वेदव्यासः
अध्यायः ०५७ →

शेष उवाच।
प्रातर्नित्यं विधायासौ ब्राह्मणान्वेदवित्तमान् ।
हिरण्यदानैः संतर्प्य विधिवत्संसदं ययौ १।
लोकाः सर्वे नमस्कर्तुं रघुनाथं महीपतिम् ।
पुत्रवत्स्वप्रजाः सर्वाः पालयंतं ययुः सभाम् २।
लक्ष्मणेनातपत्रं तु धृतं मूर्धनि भूपतेः ।
तदा भरतशत्रुघ्नौ चामरद्वंद्व धारिणौ ३।
वसिष्ठप्रमुखास्तत्र मुनयः पर्युपासत ।
सुमंत्रप्रमुखास्तत्र मंत्रिणो न्यायकर्तृकाः ४।
एवं प्रवृत्ते समये षट्चारास्ते स्वलंकृताः ।
समाजग्मुर्नरपतिं नमस्कर्तुं सभास्थितम् ५।
तान्वक्तुकामान्संवीक्ष्य चारान्नृपतिसत्तमः ।
सभायामंतरावेश्म रहः प्राविशदुत्सुकः ६।
एकांते तांश्चरान्सर्वान्पप्रच्छ सुमतिर्नृपः ।
कथयंतु चरा मह्यं यथातथ्यमरिंदमाः ७।
लोका ब्रुवंति मां कीदृग्भार्याया मम कीदृशम् ।
मंत्रिणां कीदृशं लोका वदंति चरितं कथम् ८।
इति वाक्यं समाकर्ण्य चारा राममथाब्रुवन् ।
मेघगंभीरया वाचा पृच्छंतं रघुनायकम् ९।
चारा ऊचुः।
नाथ कीर्तिर्जनान्सर्वान्पावयत्यधुना भुवि ।
गृहेगृहे श्रुतास्माभिः पुरुषैः स्त्रीभिरीडिता १०।
विवस्वतो महान्वंशो भवता परमेष्ठिना ।
अलंकर्तुं गतं भूमौ कीर्तिर्विस्तारिता बहुः ११।
अनेके सगराद्याश्च कीर्तिमंतो महाबलाः ।
अभवंस्तादृशी कीर्तिस्तेषां नाभूद्यथा तव १२।
त्वया नाथेन सकलाः कृतार्थाश्च प्रजाः कृताः ।
यासां नाकालमरणं न च रागाद्युपद्रुतिः १३।
यादृशश्चंद्रमालोके यादृशी जाह्नवी सरित् ।
तादृक्तव च सत्कीर्तिः प्रकाशयति भूतलम् १४।
ब्रह्मादिका भवत्कीर्तिमाकर्ण्य त्रपिता भृशम् ।
नाथ सर्वत्र ते कीर्तिः पावयत्यधुना जनान् १५।
वयं धन्यतमाः सर्वे ये चारास्तव भूपते ।
क्षणेक्षणे तव मुखं लोकयाम मनोहरम् १६।
इत्यादिवाक्यं चाराणां पंचानां वीक्ष्य राघवः ।
षष्ठं पप्रच्छ चारं तं विलक्षणमुखांकितम् १७।
राम उवाच।
सत्यं वद महाबुद्धे यच्छ्रुतं लोकसंकरे ।
तादृक्प्रशंस मे सर्वमन्यथा पातकादिकृत् १८।
पुनः पुनश्च तं रामः पप्रच्छाशु सविस्तरम् ।
तथापि न ब्रवीत्येव रामं लौकिकभाषितम् १९।
तदा रामः प्रत्यवोचच्चारं मुखविलक्षितम् ।
शपामि त्वां तु सत्येन शंस सर्वं यथातथम् २०।
तदा रामं प्रत्युवाच चारो वाक्यं शनैः शनैः ।
अकथ्यमपि ते वाच्यं वाक्यं कारुजनोदितम् २१।
चार उवाच।
स्वामिन्सर्वत्र ते कीर्तिर्दशाननवधादिका ।
अन्यत्र राक्षसगृहे स्थितायास्ते स्त्रिया अहो २२।
कारुरेकस्तु रजको निशीथे महिलां स्वकाम् ।
अन्यगेहोषितां दृष्ट्वा धिक्कुर्वन्समताडयत् २३।
तन्माता प्रत्युवाचेमां कथं ताडयसेऽनघाम् ।
गृहाण मा कृथा निंदां स्त्रियं मद्वाक्यमाचर २४।
तदावोचत्स रजको नाहं रामो महीपतिः ।
यद्राक्षसगृहेध्युष्टां सीतामंगीचकार सः २५।
सर्वं राज्ञः कृतं कर्म नीतिमद्भवति प्रभो ।
अन्येषां पुण्यकर्तॄणामपि कृत्यमनीतिमत् २६।
पुनः पुनरुवाचासौ नाहं रामो महीपतिः ।
चुक्रुधे समये राजन्मया वाक्यं तव स्मृतम् २७।
तदानीं शिर आच्छिद्य पातयामि महीतले।
कृतः पुनर्विचारोमे क्व रामो रजकः क्व नु २८।
अयं दुष्टोऽनृतं वक्ति न हीदं तथ्यमुच्यते ।
आज्ञापयसि चेद्राम सांप्रतं मारयामि तम् २९।
अवाच्यमपि ते प्रोक्तं त्वदाग्रहत उन्नयम् ।
राजा प्रमाणमत्रेदं विचारयतु संगतम् ३०।
शेष उवाच।
इति वाक्यं समाकर्ण्य महावज्रनिभाक्षरम् ।
निःश्वसन्मुहुरुच्छ्वासमाचरन्मूर्च्छितोऽपतत् ३१।
तं मूर्च्छितं नृपं दृष्ट्वा चारा दुःखसमन्विताः ।
वीजयामासुर्वासोग्रैर्दुःखापनय हेतवे ३२।
स लब्धसंज्ञो नृपतिर्मुहूर्तेन जगाद तान् ।
गच्छंतु भरतं शीघ्रं प्रेषयंतु च मां प्रति ३३।
ते दुःखिताश्चरास्तूर्णं भरतस्य गृहं गताः ।
कथयामासु रामस्य संदेशं नयहारकाः ३४।
भरतो रामसंदेशं श्रुत्वा धीमान्ययौ सदः ।
रामं प्रति रहःसंस्थं श्रुत्वा तं त्वरया युतः ३५।
आगत्य तं प्रतीहारं प्रत्युवाच महामनाः ।
कुत्रास्ते रामभद्रोऽसौ मम भ्राता कृपानिधिः ३६।
तन्निर्दिष्टं गृहं वीरो ययौ रत्नमनोहरम् ।
रामं विलोक्य विक्लांतं भयमाप स मानसे ३७।
किं वासौ कुपितो रामः किं वा दुःखमिदं विभोः ।
तदा प्रोवाच नृपतिं निःश्वसंतं मुहुर्मुहुः ३८।
स्वामिन्सुखसमाराध्यं वक्त्रं ते कथमानतम् ।
अश्रुभिर्लक्ष्यते राहुग्रस्तदेहः शशीव ते ३९।
सर्वं मे कारणं तथ्यं ब्रूहि मां किं करोमि ते ।
त्यज दुःखं महाराज कथं दुःखस्य भाजनम् ४०।
एवं भ्रात्रा प्रोच्यमानो गद्गदस्वरया गिरा ।
प्रोवाच भ्रातरं वीरो रामचंद्रश्च धार्मिकः ४१।
शृणु भ्रातर्वचो मह्यं मम दुःखस्य कारणम् ।
तन्मार्जनं कुरुष्वाद्य भ्रातः प्रातर्महामते ४२।
वंशे वैवस्वते राजा न कश्चिदयशः क्षतः ।
मत्कीर्तिरद्य कलुषा गंगायमुनया गता ४३।
येषां यशो नृणां भूमौ तेषामेव सुजीवितम् ।
अपकीर्तिक्षतानां तु जीवितं मृतकैः समम् ४४।
येषां यशो भवेद्भूमौ तेषां लोकाः सनातनाः ।
अपकीर्त्युरगी दष्टास्तेषां भूयादधोगतिः ४५।
अद्य मे कलुषा कीर्तिः स्वर्धुनी लोकविश्रुता ।
तच्छृणुष्व वचो मेऽद्य रजकेन यथोदितम् ४६।
अस्मिन्पुरेऽद्य रजक उक्तवाञ्जानकीभवम् ।
किंचिद्वाच्यं ततो भ्रातः किं करोमि महीतले ४७।
किमात्मानं जहाम्यद्य किमेनां जानकीं स्त्रियम् ।
उभयोः किं मया कार्यं तत्तथ्यं ब्रूहि मे भवान् ४८।
इत्युक्त्वा निर्गलद्बाष्पो वेपथु क्षुभितांगकः ।
पपात भूमौ विरजो धार्मिकाणां शिरोमणिः ४९।
भ्रातरं पतितं दृष्ट्वा भरतो दुःखसंयुतः ।
संवीक्ष्य शनकै रामं प्राप्तसंज्ञं चकार सः ५०।
संज्ञां प्राप्तं तु संवीक्ष्य रामचंद्रं सुदुःखितम् ।
उवाच दुःखनाशाय वाक्यं तु सुमनोहरम् ५१।
कोऽयं वै रजकः किंतु वाच्यं वाक्यं यथाब्रवीत् ।
जिह्वाच्छेदं करिष्यामि जानकीवाच्यकारिणः ५२।
तदा रामोऽब्रवीद्वाक्यं रजकस्य मुखोद्गतम् ।
श्रुतं चारेण तत्सर्वं भरताय महात्मने ५३।
तच्छ्रुत्वा भरतः प्राह भ्रातरं दुःखशोकिनम् ।
जानकीवह्निशुद्धाभूल्लंकायां वीरपूजिता ५४।
ब्रह्माब्रवीदियं शुद्धा पिता दशरथस्तव ।
कथं सा रजकोक्तित्वाद्धातव्या लोकपूजिता ५५।
ब्रह्मादिसंस्तुता कीर्तिस्तवलोकान्पुनाति हि ।
सा कथं रजकोक्त्या वै कलुषाद्य भविष्यति ५६।
तस्मात्त्यज महादुःखं सीतावाच्यसमुद्भवम् ।
कुरु राज्यं तया सार्धमंतर्वत्न्या सुभाग्यया ५७।
त्वं कथं स्वशरीरं तु हातुमिच्छसि शोभनम् ।
वयं हताः स्म सर्वेऽद्य त्वां विना दुःखनाशकम् ५८।
क्षणं सीता न जीवेत त्वां विना सुमहोदया ।
तस्मात्पतिव्रता साकं भुनक्तु विपुलां श्रियम् ५९।
इति वाक्यं समाकर्ण्य भरतस्य च धार्मिकः ।
पुनरेव जगादेमं वाक्यं वाक्यविदां वरः ६०।
यत्त्वं कथयसि भ्रातस्तत्सर्वं धर्मसंयुतम् ।
परं यद्वच्म्यहं वाक्यं तत्कुरुष्व ममाज्ञया ६१।
जानाम्येनां वह्निशुद्धां पवित्रां लोकपूजिताम् ।
लोकापवादाद्भीतोऽहं त्यजामि स्वां तु जानकीम् ६२।
तस्मात्करे शितं धृत्वा करवालं सुदारुणम् ।
शिरश्छिंध्यथवा जायां जानकीं मुंच वै वने ६३।
इति वाक्यं समाकर्ण्य रामस्य भरतोऽपतत् ।
मूर्च्छितः सन्क्षितौ देहे कंपयुक्तः सबाष्पकः ६४।
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे भरतवाक्यंनाम षट्पंचाशत्तमोऽध्यायः ५६।