पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२८

← अध्यायः २२७ पद्मपुराणम्
अध्यायः २२८
वेदव्यासः
अध्यायः २२९ →

श्रीमहादेव उवाच-
त्रिपाद्विभूतेर्लोकास्तु असंख्याताः प्रकीर्तिताः ।
शुद्धसत्वमयाः सर्वे ब्रह्मानंदसुखाह्वयाः १।
सर्वे नित्या निर्विकारा हेयरागादिवर्जिताः ।
सर्वे हिरण्मयाश्शुद्धाः कोटिसूर्य्यसमप्रभाः २।
सर्वे वेदमयार्दिव्याः काम क्रोधविवर्जिताः ।
नारायणपदांभोज भक्त्येकरससेविताः ३।
निरंतरं सामगानपरिपूर्णसुखं श्रिताः ।
सर्वे पंचोपनिषद स्वरूपा वेदवर्चसः ४।
सर्वे वेदमयैर्दिव्यैःपुरुषैः स्त्रीभिरावृताः ।
वेदैकरसतोयाढ्यैस्सरोभिरुपशोभिताः ५।
श्रुतिस्मृतिपुराणादि रूपस्थावरसंयुताः ।
सर्वं वर्णयितुं शक्यं न मया लोकविस्तृतम् ६।
विरजा परमव्योम्नोरंतरंकेवलं स्मृतम् ।
तत्स्थानमुपभोक्तव्यमव्यक्तब्रह्मसेविनाम् ७।
स्वात्मानुभवजानंदसुखदं केवलं पदम् ।
निःश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते ८।
श्रीशांघ्रिभक्तिसेवैकरसभोगविवर्धिताः तम् ।
तदिच्छन्त्यल्पमतयो मोक्षं सुखविवर्जितम् ।
महात्मानो महाभागा भगवत्पादसेवकाः ९।
तद्विष्णोः परमं धाम यांति ब्रह्मसुखप्रदम् ।
नानाजनपदाकीर्णं वैकुंठं तद्धरेः पदम् १०।
प्राकारैश्च विमानैश्च सौधैरत्नमयैर्वृतम् ।
तन्मध्ये नगरी दिव्या साऽयोध्येति प्रकीर्तिता ११।
मणिकांचनचित्राढ्य प्राकारैस्तोरणैर्वृता ।
चतुर्द्वारसमायुक्ता रत्नगोपुरसंवृता १२।
चंडादिद्वारपालैश्च कुमुदाद्यैश्च रक्षिता ।
चंडप्रचंडौ प्राग्द्वार याम्ये भद्रसुभद्रकौ १३।
वारुण्यां जयविजयौ सौम्ये धातृविधातरौ ।
कुमुदः कुमुदाक्षश्च पुंडरीकोऽथ वामनः १४।
शंकुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ।
एते दिक्पतयः प्रोक्ताः पुर्य्यामत्र शुभानने १५।
कोटिवैश्वानरप्रख्य गृहपंक्तिभिरावृता ।
आरूढयौवनैर्नित्यैर्दिव्यनारीनरैर्युता १६।
अन्तःपुरं तु देवस्य मध्ये पुर्याम्मनोहरम् ।
मणिप्राकारसंयुक्तं रत्नतोरणशोभितम् १७।
विमानैर्गृहमुख्यैश्च प्रासादैर्बहुभिर्युतम् ।
दिव्याप्सरोगणैः स्त्रीभिस्सर्वतस्समलंकृतम् १८।
मध्ये तु मंडपं दिव्यं राजस्थानं महोच्छ्रयम् ।
माणिक्यस्तंभसाहस्रजुष्टं रत्नमयं शुभम् १९।
दिव्यैर्मुक्तैः समाकीर्णं सामगानोपशोभितम् ।
मध्ये सिंहासनं रम्यं सर्ववेदमयं शुभम् २०।
धर्मादिदैवतैर्नित्यैर्वृंतवैदमयात्मकैः ।
धर्म्मज्ञानमहैश्वर्यवैराग्यैः पादविग्रहैः २१।
ऋग्यजुःसामचाथर्वैरूपैर्नित्यं वृतं क्रमात् ।
शक्तिराधारशक्तिश्च चिच्छक्तिश्च सदाशिवा २२।
धर्मादिदेवतानां च शक्तयः परिकीर्तिताः ।
वसंति मध्यमे तत्र वह्निसूर्यसुधांशवः २३।
कूर्मश्च नागराजश्च वैनतेयस्त्रयीश्वरः ।
छंदासि सर्वमंत्राश्च पीठरूपत्वमास्थिताः २४।
सर्वाक्षरमयं दिव्यं योगपीठमिति स्मृतम् ।
तन्मध्येऽष्टदलं पद्ममुदयार्कसमप्रभम् २५।
तन्मध्ये कर्णिकायां तु सावित्र्यां शुभदर्शने ।
ईश्वर्य्या सह देवेशस्तत्रासीनः परः पुमान् २६।
इंदीवरदलश्यामः कोटिसूर्यप्रकाशवान् ।
युवाकुमारः स्निग्धश्च कोमलावयवैर्वृतः २७।
फुल्लरक्तांबुजनिभः कोमलांघ्रिसरोजवान् ।
प्रबुद्धः पुंडरीकाक्षः सुभ्रू लतायुगाङ्कितः २८।
सुनासस्सुकपोलाढ्यस्सुश्रोत्रमुखपंकजः ।
मुक्ताफलाभदन्ताढ्यः सस्मिताधरविद्रुमः २९।
परिपूर्णेदुसंकाशः सुस्मिताननपंकजः ।
तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विराजितः ३०।
सस्निग्धनीलकुटिलकुन्तलैरुपशोभितः ।
मन्दारपारिजाताढ्य कबरीकृतकेशवान् ३१।
प्रातरुद्यत्सहस्रांशुनिभकौस्तुभशोभितः ।
हारस्वर्णस्रगासक्त कम्बुग्रीवो विराजितः ३२।
सिंहस्कंधनिभैः प्रोच्चैः पीनैरंसैर्विराजितः ।
पीनवृत्तायतभुजैश्चतुर्भिरुपशोभितः ३३।
अङ्गुलीयैश्च कटकैः केयूरैः परिमण्डितः ।
बालार्ककोटिसंकाशैः कौस्तुभाद्यैः सुभूषणैः ३४।
विराजितमहावक्षो वनमालाविभूषितः ।
विधातृजननस्थान नाभिपङ्कजशोभितः ३५।
बालातपनिभश्लक्ष्ण पीतवस्त्रसमन्वितः ।
नानारत्नविचित्रांघ्रिः कटकाभ्यां विराजितः ३६।
सज्योत्स्नचंद्रप्रतिम नखपंक्तिसमन्वितः ।
कोटिकंदर्पलावण्य सौंदर्य्यनिधिरच्युतः ३७।
दिव्यचंदनलिप्तांगो दिव्यमालाविभूषितः ।
गृहीतशंखचक्राभ्यामुद्बाहुभ्यां विराजितः ३८।
वरदाभयहस्ताभ्यामितराभ्यां तथैव च ।
वामाङ्के संस्थिता देवी महालक्ष्मीर्महेश्वरी ३९।
हिरण्यवर्णा हरिणी सुवर्णरजतस्रजा ।
सर्वलक्षणसंपन्ना यौवनारंभविग्रहा ४०।
रत्नकुंडलसंयुक्ता नीला कुंचितशीर्षजा ।
दिव्यचंदनलिप्तांगी दिव्यपुष्पोपशोभिता ४१।
मंदारकेतकी जाती पुष्पाञ्चितसुकुंतला ।
सुभ्रूस्सुनासा सुश्रोणी पीनोन्नतपयोधरा ४२।
परिपूंर्णेंदुसंकाशा सुस्मिताननपंकजा ।
तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विराजिता ४३।
तप्तकांचनवर्णाभा तप्तकांचनभूषणा ।
हस्तैश्चतुर्भिः संयुक्ता कनकांबुजभूषिता ४४।
नानाविचित्ररत्नाढ्या कनकांबुजमालया ।
हारकेयूरकटकैरंगुलीयैश्च शोभिता ४५।
भुजद्वयघृतोदग्र पद्मयुग्मोपशोभिता ।
गृहीतमातुलुंगाख्य जांबूनदकराञ्चिता ४६।
एवं नित्यानपायिन्या महालक्ष्म्या महेश्वरः ।
मोदते परमे व्योम्नि शाश्वते सर्वदा प्रभुः ४७।
पार्श्वयोर्धरणी नीले समासीने शुभासने ।
अष्टदिक्षु दलाग्रेषु विमलाद्याश्च शक्तयः ४८।
विमलोत्कर्षिणी ज्ञानाक्रियायोगा तथैव च ।
प्रह्वी सत्या तथेशाना शक्तयः परमात्मनः ४९।
गृहीत्वा चामरान्दिव्यान्सुधाकरसमप्रभान् ।
सर्वलक्षणसंपन्ना मोदंते पतिमच्युतम् ५०।
दिव्याप्सरोगणाः पंच शतसंख्याश्च योषितः ।
अंतःपुरनिवासिन्यः सर्वाभरणभूषिताः ५१।
पद्महस्ताश्च ताः सर्वाः कोटिवैश्वानरप्रभाः ।
सर्वलक्षणसंपन्नाः शीतांशुसदृशाननाः ५२।
ताभिः परिवृतो राजा शुशुभे परमः पुमान् ।
अनंतविहगाधीश सेनान्याद्यैस्सुरेश्वरे ५३।
अन्यैः परिजनैर्नित्यैर्मुक्तैश्च परिसंवृतः ।
मोदते रमया सार्द्धं भोगैश्वर्यरतः पुमान् ५४।
एवं वैकुंठनाथोऽसौ राजते परमे पदे ।
तद्व्यूहभेदाँल्लोकांश्च वक्ष्यामि गिरिजे शुभे ५५।
प्राच्यां वैकुंठलोकस्य वासुदेवस्य मंदिरम् ।
आग्नेय्यां लक्ष्म्यालोकस्तु याम्यां संकर्षणालयः ५६।
सारस्वतस्तु नैरृत्या प्राद्युम्नः पश्चिमे तथा ।
रतिलोकस्तु वायव्यामुदीच्यामनिरुद्धभूः ५७।
ऐशान्यां शांतिलोकः स्यात्प्रथमावरणं स्मृतम् ।
केशवादिचतुर्विंशत्यमी लोकास्ततः क्रमात् ५८।
द्वितीयावरणं प्रोक्तं वैकुंठस्य शुभाह्वयम् ।
मत्स्यकूर्मादिलोकास्तु तृतीयावरणं शुभम् ५९।
सत्याच्युतानंत दुर्गा विष्वक्सेन गजाननाः ।
शंखपद्मनिधीलोकाश्चतुर्थावरणं शुभम् ६०।
ऋग्यजुः सामाथर्वाणो लोका दिक्षु महत्सु च ।
सावित्र्या विहगेशस्य धर्मस्य च मखस्य च ६१।
पंचमावरणं प्रोक्तमक्षयं सर्ववाङ्मयम् ।
शंखचक्रगदापद्मखड्गशार्ङ्गहलं तथा ६२।
मौशलं च तथा लोकाः सर्वशस्त्रास्त्रसंयुताः ।
षष्ठमावरणं प्रोक्तं मंत्रास्त्रमयमक्षरम् ६३।
ऐंद्र पावकयाम्यानि नैरृतं वारुणं तथा ।
वायव्यं सौम्यमैशानं सप्तमं मुनिभिः स्मृतम् ६४।
साध्या मरुद्गणाश्चैव विश्वेदेवास्तथैव च ।
नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः ६५।
ते वै प्राकृतलोकेस्मिन्न नित्यास्त्रिदशेश्वराः ।
ते ह नाकं महिमानः सचंत इति वै श्रुतिः ६६।
एवं परं पदं नित्यैर्मुक्तैर्भोगपरायणैः ।
दिव्याभिर्महिषीभिश्च राजते विभुरीश्वरः ६७।
न तद्भासयते सूर्यो न शंशांको न पावकः ।
यद्गत्वा न निवर्त्तंते योगिनः संशितव्रताः ६८।
द्वयैकमंत्रनिष्ठा ये ते वै यांति तदव्ययम् ।
न वेदयज्ञाध्ययनैर्न दानैर्न व्रतैः शुभैः ६९।
न तपोभिर्निराहारैर्न च साधनकर्मभिः ।
एकेन द्वयमंत्रेण तथा भक्त्या त्वनन्यथा ७०।
तद्गम्यं शाश्वतं स्थानं प्रपत्त्या वै सनातनम् ।
पार्वत्युवाच-
साधूक्तं परमं स्वर्गस्वरूपं भवता प्रभो ७१।
परव्योम्नि स्थितो नित्यं कथं प्रकृतिमण्डले ।
स्थितवान्किं निमित्तेन लीलया किं प्रयोजनम् ७२।
शुद्धसत्वमये लोके संस्थितः परमेश्वरः ।
कथं रजस्तमोमिश्र विभूत्या स्थिवान्प्रभुः ७३।
रुद्र उवाच-
त्रिपाद्विभूतौ भगवानीश्वर्य्या परमेश्वरः ।
नित्यमुक्त्यैकभोग्योऽसौ मोदते सततं विभुः ७४।
तमीश्वरं महामाया प्रकृतिर्जगदाश्रया ।
कृतांजलिपुटा भूत्वा तुष्टाव परमेश्वरम् ७५।
महामायोवाच-।
नमस्ते त्रिजगद्धाम्ने नमस्ते विश्वरूपिणे ।
पुराणाय नमस्तुभ्यं जगदुत्पत्तिहेतवे ७६।
श्रीभूलीलाधिपतये नमो नारायणाय च ।
नमो भगवते तुभ्यं वासुदेवाय शार्ङ्गिणे ७७।
सर्वदेवस्वरूपाय विष्णवे जिष्णवे नमः ।
सहस्रमूर्तये तुभ्यमनंताय नमोस्तु ते ७८।
अच्युताय विकाराय शुद्धसत्त्वस्वरूपिणे ।
अदिमध्यांतरहित स्वरूपाय नमो नमः ७९।
नमो हिरण्यगर्भाय ज्ञानाय परमात्मने ।
सर्वभूतात्मने तुभ्यं सर्वभूताश्रयाय च ८०।
ब्रह्मणे ज्योतिषे तुभ्यं नमस्ते विश्वरूपिणे ।
नमः शुचिषदे तुभ्यं हंसाय परमाय च ८१।
संकर्षणाय रुद्राय सर्वभूतधराय च ।
हयग्रीवाय दीप्ताय कालाय हरये नमः ।
नमस्ते यज्ञपुरुष हव्यकव्यस्वरूपिणे ८२।
नमः प्रजापतये तस्मै सूर्याय शुभवर्चसे ।
अग्नये हव्यभोक्त्रे च तस्मै यज्ञात्मने नमः ८३।
नमस्ते प्रसवित्रे च सर्गस्थित्यंतहेतवे ।
नमो वेदांतवेद्याय चतुरात्मस्वरूपिणे ८४।
ब्रह्मणे विष्णवे तुभ्यं नमस्ते शंकाराय च ।
त्रिगुणाय नमस्तुभ्यं सर्गस्थित्यंतहेतवे ८५।
निर्गुणाय नमस्तुभ्यं सर्वात्मान्तरवर्तिने ।
अव्यक्ताय नमस्तस्मै विष्णवे लोकसाक्षिणे ८६।
नारायणाय श्रीशाय पूर्णषाड्गुण्यमूर्त्तये ।
अनंतगुणपूर्णाय नमः सर्वार्थदायिने ८७।
नमस्ते वासुदेवाय पंचावस्थस्वरूपिणे ।
नमः पंचनवव्यूह भेदरूपाय ते नमः ८८।
नमो यज्ञवराहाय गोविंदाय नमो नमः ।
अविकाराय शुद्धाय हेयप्रतिभटाय च ८९।
नमो रामाय कृष्णाय नरसिंहाय ते नमः ।
केशवाय नमस्तुभ्यं जगतां क्लेशहारिणे ९०।
त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः ।
प्रसीद देवदेवेश सर्वलोकहिताय वै ९१।
मत्संस्थाश्चेतनास्सर्वे निराधारा निराश्रयाः ।
हीनदेहा निराकाराः सर्वेन्द्रियविवर्जिताः ९२।
सर्वानुष्ठानरहिताः सततं दुःखभोगिनः ।
तेषां लोकांश्च देहांश्च दातुमर्हसि केशव ९३।
लीलाविभूतिं सर्वज्ञ यथापूर्वं प्रकल्पय ।
चेतनाचेतनं कृत्स्नं जगत्स्थावरजंगमम् ९४।
मया संमोहितं पश्य लीलार्थंपरमेश्वर ।
प्राकृताण्डं मया सार्धं सृजस्व पुरुषोत्तम ९५।
धर्म्माधर्म्मौ सुखं दुःखं तस्मिन्निक्षिप्य संसृतौ ।
मामधिष्ठाय लीलां वै कर्तुमर्हसि मा चिरम् ९६।
श्रीमहादेव उवाच-
एवमुक्तस्तया देव्या मायया परमेश्वरः ।
तस्यां निवेश्य मायायां जगत्स्रष्टुं प्रचक्रमे ९७।
योऽसौ प्रकृतिपुरुषः प्रोच्यते स इहाच्युतः ।
स एव भगवान्विष्णुः प्रकृत्यां प्रविवेश ह ९८।
असृजत्प्रकृतौ ब्रह्मभूतादिमहदाश्रयम् ।
महतः पुरुषादस्मादहंकारोऽभ्यजायत ९९।
अहंकारात्तु वै तस्माद्गुणत्रयमजायत ।
त्रिभ्यो गुणेभ्यस्तन्मात्रामसृजद्विश्वभावनः १००।
तन्मात्रेभ्योभ्यजायंत महाभूतानि तत्क्षणात् ।
ॐकारः प्रथमं जातो ब्रह्मणस्त्रिगुणात्मनः १०१।
आकाशादभवद्वायुर्वायोरग्निरजायत ।
अग्नेरापः समुद्भूता अद्भ्यश्च पृथिवी मता १०२।
आकाशादीनि भूतानि सृष्टान्येकोत्तराणि वै ।
शब्दस्पर्शश्च रूपं च रसो गंधश्च तद्गुणाः १०३।
एकोत्तरगुणान्सृष्ट्वा तानादाय महाप्रभुः ।
तेषां विमिश्रणं कृत्वा जगदंडं महत्तरम् ।
असृजत्तत्रलान्वै संख्यया ये चतुर्दश १०४।
ब्रह्मादित्रिदशांस्तस्मिन्नसृजत्पुरुषोत्तमः ।
दैवतिर्य्यक्तथा मर्त्यं स्थावरं च चतुर्व्विधम् १०५।
तथा सृष्टो महासर्गन्तेन वै जलजेक्षणे।
तत्र कर्मानुरूपेण त्रिदशादिषु योनिषु १०६।
संस्थिताः प्रकृतौ पूर्व आत्मनः प्रभवंति हि १०७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे परमव्योमादिवर्णनंनाम अष्टाविंशत्यधिकद्विशततमोऽध्यायः २२८ ।