पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०४

← अध्यायः ०३ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०४
वेदव्यासः
अध्यायः ०५ →

जैमिनिरुवाच-
गङ्गाद्वारस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया ।
प्रयागस्य च माहात्म्यमिदानीं श्रोतुमिष्यसे १।
गङ्गाब्धिसङ्गमस्यापि माहात्म्यं कथ्यतां मुने ।
न सम्यक्कथितुं कोऽपि शक्नोति त्वदृते क्षितौ २।
व्यास उवाच-
प्रयागस्य फलं वत्स गङ्गाब्धिसङ्गमस्य च ।
सम्यग्वक्तुं न शक्नोमि संक्षेपाच्छ्रूयतां द्विज ३।
कोटिब्रह्माण्डमध्येषु यानि तीर्थानि वै मुने ।
प्रयांति तानि सर्वाणि प्रयागप्रतिमां तु किम् ४।
गङ्गाया यमुनायाश्च सरस्वत्याश्च सङ्गमे ।
प्रशंसंति सुराः सर्वे ब्रह्मविष्णुशिवादयः ५।
मकरस्थे रवौ माघे स्नानं ये तत्र कुर्वते ।
तेषामागमनं नास्ति विष्णुलोकात्कदाचन ६।
गवां कोटिसहस्राणि वाजिमेधमुखाध्वराः ।
मेरुतुल्यसुवर्णानि दानान्यन्यानि च द्विज ७।
कुरुक्षेत्रे पुष्करे च प्रभासे च गयासु च ।
हुत्वा दत्वा च विप्रेभ्यो यत्फलं प्राप्यते बुधैः ८।
माघे स्नात्वा प्रयागे तु तस्मात्कोटिगुणं भवेत् ।
तस्मात्समस्ततीर्थानां प्रयागः परमः स्मृतः ९।
सिंहराशिस्थिते सूर्ये गोदावर्यां द्विजोत्तम ।
चिरमुग्रतपस्तप्त्वा स्नानदानव्रतादिभिः १०।
वेदागमपुराणोक्तं यत्पुण्यमक्षयं भवेत् ।
माघे स्नात्वा प्रयागे तु तत्पुण्यं नात्र संशयः ११।
फाल्गुने कृष्णपक्षे तु चतुर्दश्यामुपोषितः ।
काश्यां यत्फलमाप्नोति तन्मे निगदतः शृणु १२।
कोटिजन्मार्जितैः पापैर्विमुक्तः सर्वरूपधृक् ।
उद्धृत्य कोटिपुरुषाञ्छिवेन सह मोदते १३।
माघेमासे प्रयागे तु स्नात्वा सकृदपि द्विजः ।
कल्पकोटिशतं विष्णुं संपूज्यान्यत्र यत्फलम् १४।
एकाहमपि संपूज्य मकरस्थे दिवाकरे ।
सत्यं सत्यमहं वच्मि सर्वमेवाक्षयं भवेत् १५।
यावद्दिनं माघमासे तत्र तिष्ठति मानवः ।
तावत्कल्पशतं विप्र मोदते विष्णुना सह १६।
गङ्गायमुनयोस्तोये स्नानं येन कृतं सकृत् ।
सद्यस्तद्दर्शनात्पापैर्मुच्यते सर्वपातकैः १७।
तर्तुं यदीच्छंति जनाः संसाराब्धिं सुदुस्तरम् ।
गङ्गायमुनयोः स्नात्वा भक्त्या पश्यंतु माधवम् १८।
यजंति मानवास्तत्र यद्यदिष्ट्वा कलेवरम् ।
सद्यो लभंते विप्रर्षे तत्तदेव न संशयः १९।
इतिहासमिहैवाहं कथयामि निशामय ।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः २०।
प्रणिधिर्नाम तत्रासीद्वैश्य एको महाधनी ।
देवतातिथिपूजासु विप्रभक्त्येकतत्परः २१।
तस्य पद्मावती नाम धर्मपत्नी पतिव्रता ।
चार्वङ्गी शीलयुक्ता च कुलजा प्रियवादिनी २२।
स्त्रीणां योग्या गुणा ये ये सृष्टाः श्रीपरमेष्ठिना ।
तच्छरीरे गुणास्ते ते निवसंति द्विजोत्तम २३।
अथासौप्रणिधिर्वैश्यः समादायधनं बहु ।
वाणिज्यार्थे गतो विप्र शुभे लग्ने शुभे तिथौ २४।
धनाद्धर्मः प्रभवति धनाच्च विपुलं यशः ।
धनात्कुलमवाप्नोति भवेत्किं वा धनादृते २५।
धनहीनं जनं दृष्ट्वा सखापि वा पलायते ।
मेघःशरद्यंबुहीनः खंडं खंडं नयेन्महत् २६।
खादितुं प्राप्यते यावत्तावदेव हि बांधवाः ।
धनं यस्य कुलं तस्य बुद्धिस्तस्य स पंडितः २७।
अर्थैर्विहीनः पुरुषो जीवन्नपि मृतोपमः ।
धर्मार्थविद्यार्जनतो मतिर्यस्य नि वर्तते २८।
ज्ञेयः स मूर्खः सुतरामधिकस्याधिकं फलम् ।
कर्त्तव्यः सततं धर्मश्चार्जितव्यं सदाधनम् २९।
शिक्षितव्या सदा विद्या पुंभिरेव विचक्षणैः ।
दानाद्धनं च विद्या च वर्द्धते प्रतिवासरम् ३०।
धर्मस्तु वर्द्धते नैव रक्षतेन विना नृणाम् ।
काष्ठं तृणं तुषं वापि संप्राप्य न परित्यजेत् ३१।
पुमान्संचयशीलोऽपि कदाचिन्नावसीदति ।
ततोऽसौ प्रणिधिर्वैश्यो नियोज्य स्त्रियमालये ३२।
गृहव्यापारनिष्णातो वाणिज्येन जगाम ह ।
अथैकदा तस्य पत्नी गृहीत्वोद्वर्तनादिकम् ३३।
सखीभिः सह विप्रर्षे जगाम स्नानहेतवे ।
ततो धनुर्ध्वजो नाम स्वयं च पातकाश्रयः ३४।
निजेच्छया प्रकुर्वंतीं स्नानकर्म ददर्श ताम् ।
विकसत्स्वर्णपुष्पाढ्यां प्रफुल्लकमलाननाम् ३५।
मृगशावदृशं चारु पीनोन्नतपयोधराम् ।
तां वैश्यपत्नीमालोक्य श्वपचोऽसौ स्मरातुरः ३६।
उवाच प्रहसन्वाणीं निजमूर्तिमचिंतयन् ।
धनुर्ध्वज उवाच-
कासि कल्याणि सुश्रोणि चारुहासिनि सुन्दरि ३७।
मनो हरसि मे कस्मात्सुयौवनरसैः प्रिये ।
विशालजघने तन्वि मया गुणवता सह ३८।
गुणवत्या त्वया सर्वं सुखमत्यनुभूयताम् ।
धनुर्ध्वजवचः श्रुत्वा तस्याः सख्यस्ततो द्विज ३९।
ऊचुर्वाक्यं तथा क्रुद्धाः संदष्टदशनच्छदाः ।
सख्य ऊचुः-
अरे मूढ दुराचार दुराचारकुलोद्भव ४०।
पादनिष्प्रेक्षणमपि नैतस्यास्ते प्रदीयते ।
इयं पतिव्रता नारी धर्मकर्मपरायणा ४१।
आत्मानं सुखमिच्छद्भिः पापदृष्ट्या न दृश्यते ।
परस्त्रीमुखसौंदर्यं परद्रव्यं च सर्वदा ४२।
दृष्ट्वा कामाग्निसंखिन्ना दह्यंते मूढमानसाः ।
याहि पापमते दूरं मा वदोक्तिं सुदुःसहाम् ४३।
वयमेव भवंतं न स्पृशामश्चरणैरपि ।
धनुर्ध्वज उवाच-
धिगस्त्वमुं जातिशब्दं संजानन्नखिलं गुणम् ४४।
संभावितो न युष्माभिः श्वपचत्वे यतोऽधुना ।
कनकं मदिरापूर्णं कलशाभ्यंतरस्थितम् ४५।
संप्राप्य को न गृह्णाति तद्गुणग्रामवित्पुमान् ।
अतोऽहं युवतीमेनां यथा प्राप्नोमि सांप्रतम् ४६।
तथा कुरुत हे सख्यः शरणं भो गतोस्मि यत् ।
इति ब्रुवंतं तं मूढं भूयोभूयो द्विजोत्तम ४७।
ऊचुर्वाक्यमिदं तास्तु जातात्यंतकुतूहलाः ।
सख्य ऊचुः-
यद्येतां रमणीं नूनमिच्छसि त्वं सुदुर्म्मते ४८।
गङ्गायमुनयोः शीघ्रं शरीरं संगमे त्यज ।
मिथःकृतमुखालोका हसंत्यस्तास्ततो द्विज ४९।
तां साधुपत्नीमादाय ययुर्निजगृहांतरम् ।
ततोऽसौ श्वपचो मोहाद्ब्रह्महत्यासहस्रकृत् ५० 7.4.50।
गंगायमुनयोस्तोये तामिष्ट्वा पंचतां गतः ।
तत्स्वामिसदृशाकारः समस्तगुणवान्बली ५१।
स च एव श्वपाकोऽसौ स्ववृत्तांतं स्मरन्नभूत् ।
ततोऽसौ प्रणिधिर्वैश्यस्तस्मिन्नेव दिने शुभे ५२।
कृत्वा वाणिज्यमायातः स्वकीयं निलयं प्रति ।
श्वपाकोऽपि ततो विप्रस्तस्या वासं विवेश ह ५३।
प्रणिधेः सदृशो रूपैर्वयोभिश्च गुणैरपि ।
एकाकारौ समालोक्य पुरःस्थौ तौ गुणाकरौ ५४।
कस्याहं दयिता को वा मम भर्त्तेत्यचिंतयत् ।
ततः सा विस्मिता साध्वी विलोक्य तत्पतिद्वयम् ५५।
तुष्टाव माधवं देवं वचनैः कोमलाक्षरैः ५६।
पद्मावत्युवाच-
नमामि गोविन्दमनन्तमूर्तिं शक्रादिदेवार्चितपादपद्मम् ।
योगेश्वरं योगविदां निरीहं योगप्रदं योगिभिरर्चनीयम् ५७।
नमोऽस्तु ते कैटभमर्द्दनाय नमो मधुध्वंसकराय तुभ्यम् ।
नमोऽस्तु कंसासुरनाशनाय नमोऽस्तु चाणूरनिपातनाय ५८।
नमोऽस्तु वेदोद्धरणाग्रनित्यं नमोऽस्तु भूम्युद्धरणाय तुभ्यम् ।
नमोस्तु पृथ्वीधरणक्षमाय नमोस्तु दैत्यांतकराय तुभ्यम् ५९।
गङ्गांबुधौ तांघ्रियुगाय तुभ्यं नमोस्तु राजन्यकुलांतकाय ।
नमोस्तु ते रावणवंशहंत्रे अलं च दैत्यांतकराय तुभ्यम् ६०।
नमोस्तु ते चाध्वरनिंदकाय नमोस्तु ते म्लेच्छकुलांतकाय ।
नमोऽस्तु ते हृत्कमलासनाय नमोऽस्तु ते सर्वरिपुध्वजाय ६१।
प्रसीद गोपीजनवल्लभ प्रभो धृतैकहस्ताचलदेवदेव ।
प्रसीद लक्ष्मीमुखपद्मभृंग प्रसीद विष्णो सततं नमस्ते ६२।
प्रसीद पद्मेक्षणचक्रपाणे कौमोदकीहस्तगदाधर त्वम् ।
प्रसीद विष्णो धृतपांचजन्य नमोस्तु ते पद्मधराय नित्यम् ६३।
संसारकौतुहलमंदिरे ते मोहांधकारे च विवेकदीपे ।
संमोहिता केशव मायया हि त्वदीयया नित्यमहं भ्रमामि ६४।
विरञ्चि सेन्द्रार्कमुखाः सुरेन्द्रा मायां न जानन्ति तवासुरारे ।
मानुष्यहं किं तव वेद्मि मायां पुरोभ्रमं मे हरसानुकंपम् ६५।
व्यास उवाच-
तस्याः स्तवं समाकर्ण्य भगवान्माधवः प्रभुः ।
समालोक्य जगन्नाथश्चतुर्वर्गफलप्रदः ६६।
आविर्बभूव सहसा सूर्यकोटिसमप्रभः ।
सा मूर्ध्ना भूमिमालोक्य ववंदे तत्पदद्वयम् ६७।
नमस्ते कमलाकान्त भुक्तिमुक्तिफलप्रद ।
हर मे ज्ञानहीनायाः स्वकीय मतिविभ्रमम् ६८।
श्रीभगवानुवाच-
भ्रमं जहीहि चार्वंगि द्वावेतौ हि पती तव ।
एकभावेन सुश्रोणि कुरु सेवां तयोः सदा ६९।
यश्च ते प्रणिधिः स्वामी मद्भक्तस्तरुणः सुधीः ।
भोक्तुं सुखफलं साध्वि सोऽभवद्द्विविधः स्वयम् ७०।
अनन्तरूपिणी लक्ष्मीर्यथा क्रीडे मया सह ।
तथा त्वमपि सुश्रोणि भुंक्ष्व ताभ्यां सुखं सदा ७१।
पद्मावत्युवाच-
एकस्या द्वौ पती देव न प्रशंसन्ति मानवाः ।
मग्नां लज्जाब्धिकल्लोले मामुद्धर दयामय ७२।
श्रीभगवानुवाच-
यदापकीर्तितः साध्वि बिभेषि त्वं ध्रुवं भुवि ।
तदा मत्पुरमागच्छ ताभ्यां सह वरानने ७३।
विमानमागतं सद्यस्ततो भगवदाज्ञया ।
तौ समादाय वैकुण्ठं सा गंतुमुपचक्रमे ७४।
अथ सा पथिगच्छन्ती भर्तृभ्यां सह जैमिने ।
ददर्शैकं महात्मानं रथस्थं स्त्रीसमन्वितम् ७५।
धृतं कमलपत्राक्षैरतसीकुसुमप्रभैः ।
चतुर्भुजैर्दूतगणैरासीनैर्गरुडोपरि ७६।
विष्णुदूतांस्ततस्तांस्तु विष्णुरूपान्वरांगना ।
कोऽयं रथस्थः पुरुष इति पप्रच्छ सा सती ७७।
के वा यूयं महात्मानः पुण्डरीकनिभेक्षणाः ।
सर्वेपि विष्णुसदृशाः शङ्खचक्रादिपाणयः ७८।
ततस्ते भगवद्दूता विष्णुतुल्यपराक्रमाः ।
विहस्योचुर्मुहुः सर्वे परमामोदसंयुताः ७९।
विष्णुदूता ऊचुः ।
विष्णुदूता वयं साध्वि पुण्यात्मानमिमंजनम् ।
समादाय पदं याम उदारं लोकमुत्तमम् ८०।
पद्मावत्युवाच-
केन पुण्यप्रभावेन गतोऽयमीदृशीं गतिम् ।
विष्णुदूता महात्मानः कथ्यतामित्यहो मम ८१।
विष्णुदूता ऊचुः -
अयं बृहद्ध्वजो नाम राक्षसो लोकशोककृत् ।
अरण्यादिनिवासी च महाबलपराक्रमः ८२।
परदारपरद्रव्यहारको रिपुकोद्यतः ।
गोमांसाशी निष्ठुरोक्तिभाषी च देवनिन्दकः ८३।
यद्यत्पापरतं कर्म्म तदनेन कृतं सदा ।
स्वप्नेऽपि न कृतं कर्म शुभं न च पतिव्रते ८४।
अयं रथं समारुह्य सततं कामपीडितः ।
परस्त्रीहरणार्थाय सुश्रोणि नभसि भ्रमन् ८५।
यां यां सुयौवनां नारीं यत्र यत्रायमीक्षते ।
बलाच्चालिङ्गितस्तां तु तत्र तत्र स्मरातुरः ८६।
अथैकदा भीमकेश नाम्नो नरपतेः प्रियाम् ।
ददर्श क्रीडामध्यस्थां सुंदरीं नवयौवनाम् ८७।
अथासौ तां समालोक्य सुवर्णकुसुमप्रभाम् ।
इत्युवाच वचः प्रेम्णा का त्वमत्र करोषि किम् ८८।
सैवोवाच ततः कांता भीमकेशस्य भूपतेः ।
अहं सुरतशास्त्रज्ञा केशिनी नाम भूषिता ८९।
अयि सर्वगुणज्ञां मां प्रेमहृष्टां न भूपतिः ।
स्ववंशजां दोषहीनां पश्यति क्षणमप्यसौ ९०।
स्थीयते नित्यमत्रैव भर्त्राखंडितचर्चया ।
मया स्वकर्मशोचंत्या विरहानलतप्तया ९१।
कस्त्वं कथमिदं प्राप्तमुद्यानं प्रतिसत्तम ।
समायातोऽसि तत्सर्वं प्रसन्नो वक्तुमर्हसि ९२।
अथायमित्याह वचः पूर्णचन्द्र निभानने ।
मायावी राक्षसोऽहं त्वामालिङ्गितुमिहागतः ९३।
जहीहि रुष्टभर्तारं सर्वदा दोषदर्शिनम् ।
तन्वि मां भज सर्वं ते दास्यामि सुखमुत्तमम् ९४।
ततो विहस्य साध्वीयं राक्षसेन्द्रमिमं मुदा ।
बबंध बाहुलतया विन्यस्य वदने मुखम् ९५।
स तामालिंग्य युवतीं विवेकोद्वेगविह्वलाम् ।
अनया सह सुश्रोणि दिव्यमारूढवान्रथम् ९६।
दंपतीभावमाश्रित्य तौ जातावतिकौतुकम् ।
वायुवेगरथारूढौ यातौ गगनवर्त्मनि ९७।
अथैनामयमित्याह पश्यतन्विवरानने ।
त्वद्भर्तृदेशादायातौ गङ्गासागरसङ्गमे ९८।
ततो रथस्थनारीयमधिगङ्गाब्धिसङ्गमम् ।
जगाम पंचतां सद्यः संदृश्यात्यंतसाध्वसैः ९९।
विलप्य बहुधा साध्वीं तत्रायमपि राक्षसः ।
गतप्राणां समालोक्य सद्यो मृत्युं जगाम ह १०० 7.4.100।
वैनतेयध्वजादेशादिमौ गलितकल्मषौ ।
नयामः पुण्यकर्माणौ वैकुण्ठं प्रति संप्रति १०१।
जलेस्थले चांतरिक्षे गङ्गासागरसङ्गमे ।
देहं संत्यज्य गच्छन्ति पापिनो हि परां गतिम् १०२।
त्रैलोक्यदुर्लभं तीर्थं गङ्गासागरसंगमे ।
माघे तपसि शुक्लायामेकादश्यामुपोषितः १०३।
तत्र शुद्धिमवाप्नोति ब्रह्महापि न संशयः ।
गङ्गाब्धिसङ्गमे स्नात्वा हरिं दृष्ट्वा च माधवम् १०४।
कार्तिकेयमुखं दृष्ट्वा पुनर्जन्म न विद्यते ।
कार्तिकेयो हरिः साक्षादित्यभेदः कृतः सदा १०५।
ये कार्तिंकेयं पश्यंति ते सर्वे मोक्षगामिनः ।
सर्वतीर्थाधिकं तीर्थं गङ्गाब्धिसङ्गमं शृणु १०६।
जले स्थले चांतरिक्षे मृतो मोक्षमवाप्नुयात् ।
व्यास उवाच-
इत्युक्त्वा विष्णुदूतास्ते तौ समादाय जैमिने १०७।
जग्मुर्विष्णुगृहं सर्वे सह साकाशवर्त्मनि ।
या च पद्मावती साध्वी भर्तृद्वयसमन्विता १०८।
गता सारूप्यतां विष्णोश्चतुर्वर्गप्रदायिनः ।
तत्र भुक्त्वाखिलान्भोगान्दुर्ल्लभान्द्विजसत्तम १०९।
परमं ज्ञानमासाद्य ययुः सारूप्यतां हरेः ।
सर्वतीर्थमयी गङ्गा सर्वतीर्थमयो हरिः ११०।
गङ्गायाश्च हरेश्चैव तस्माद्भक्तिर्विधीयते ।
गङ्गाब्धिसंगमे पूर्वं माधवो नाम भूभुजः १११।
तप्त्वा तपश्चिरं तत्र सदारो मोक्षमाप्तवान् ११२।
जैमिनिरुवाच-
त्वयोक्तो माधवः कोऽसौ किं कर्म स चकार ह ।
कथं तेपे तपस्तन्मे सर्वं कथय सत्तम ११३।
व्यास उवाच-
चरितं तस्य विप्रर्षे माधवस्य महात्मनः ।
आकर्णय प्रवक्ष्यामि समासेन महामते ११४।
इति श्रीपद्मपुराणे क्रियायोगसारे व्यासजैमिनिसंवादे प्रयागवर्णनंनाम चतुर्थोऽध्यायः ४ ।