तथा च ग्रहयुद्धोपसंहारे ।
ताराग्रहाणां पञ्चानां युद्धान्युक्तानि योगतः ।
जयाः पराजयाश्चैव गर्गेण परिकीर्त्तिताः-इति॥
अथ भौमादीनां बुधादिभिः पराजयफलम् । तत्र वृद्धगर्गः ।
पीड्यन्ते चानेकनृपा भौमे बुधनिपीडिते ।
वराहसंहितायां तु ।
शशिजेन शूरसेनः कलिङ्गशाल्वाश्च पीड्यन्ते ।
गुरुणा जितेऽवनिसुते वाह्लीकाः यायिनोऽग्निवार्त्ताश्च ॥
वृद्धगर्गस्तु ।
यायिनः क्षत्रमुख्याश्च पीड्यन्ते चाग्निजीविनः ।
बृहस्पतिहते भौमे पार्वतीयाश्च पार्थिवाः ॥
वराहसंहितायां तु ।
कोष्ठागारम्लेच्छक्षत्रियतापश्च शुक्रजिते ।
वृद्धगर्गस्तु ।
शुक्रेण भौमे तु हते जयन्ते यायिनो नृपाः ।
कोष्ठागागणि म्लेच्छाश्च क्षत्रं च भुवि पीड्यते ॥
वराहसंहितायाम् ।
सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ।
वृद्धगर्गस्तु ।
सौरेणाभिहिते वक्रे क्षत्रं वध्यति दस्युभिः ।
प्रजाः सर्वाश्च सीदन्ति जयन्ते चापि नागराः ॥
वृद्धगर्गः ।
लोहिताङ्गे बुधहते नागराश्चापि पार्थिवाः ।
तापसाः सोमपा वृक्षाः सरितो दिक् तथोत्तरा ॥
पीड्यन्ते इति सम्बन्धः । हननं हतः । बुधस्य हननं यस्मात् कर्तृभूतात् स बुधहतः । बुधहतविलोहिताङ्गो भौमहतो बुध इत्यर्थः ।