ग्रामे पुरे वा यदि वन्यसत्त्वा रात्रौ प्रविष्टा दिवसे च दृष्टाः ।
तदा तदाशु ज्वरतामुपैति स्युर्मृत्यवे तत्र मृतप्रसूताः ॥
गृहागता गेहपतेर्भयाय पुरस्य रोधाय तु गोपुरस्थाः ।
स्युर्वन्यसत्त्वाः शकुनानि चैषामुद्भावनीयान्यपराणि चैव ॥
वृद्धगर्गस्तु ।
धावन्तो यत्र वाशन्ति सूर्यप्रतिमुखा मृगाः ।
शीघ्रं तत्र पलायीत दृष्ट्वा तत्र भयं भवेत् ॥
अवतीर्य नदीकूलं जलनिम्नसरांसि च ।
मृगा नदन्ति वर्षासु तद्भयोत्पातलक्षणम् ॥
अरण्ये भैरवं घोरं नन्दित्वा प्रविशेत् पुरम् ।
गोचतुष्पदपीडा स्याच्छस्त्रोत्पातं विनिर्दिशेत् ॥
रात्रिं दिवं संप्रदीप्ता दिक्षु सर्वासु सर्वशः ।
व्याहरन्ति मृगा घोरं विद्रवाय भयाय वा ॥
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।
अशिवं चापि वाशन्ति सन्ध्ययोर्मृगपक्षिणः ।
श्येना गृध्रा बलाका वा चार्कमण्डलचारिणः ॥
वाशन्ते भैरवं यत्र तदप्याशु विनश्यति ।
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
“दीप्ता वाशन्ति सन्ध्यासु मण्डलानि च कुर्वते ।
वाशन्ति विस्वरं यत्र तत्राप्येतत् फलं भवेत्”[१]
वराहसंहितायां च ।
सन्ध्याद्वयेऽपि मण्डलमाबध्नन्तो मृगा विहङ्गा
दीप्तायां दिश्यथ वा क्रोशन्तः संहता भयदाः
- ↑ मत्स्यपुराणे २३७ अ, ४ श्लो. ।