अत्राद्ये पद्ये वहनधानभरणधारणानां द्वितीये इन्धनभानराजनलसनानां च वस्तुत ऐकरूप्यात्प्रतिवस्तूपमेयं मालारूपा ॥
इत्यलङ्कारमणिहारे प्रतिवस्तूपमासर एकोनविंशः
अथ दृष्टान्तसरः
बिम्बत्वप्रतिबिम्बत्वापन्नधर्मादिकं द्वयोः। |
बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मादिकं वाक्यार्थयोरार्थमौपम्यं दृष्टान्त इत्यर्थः । तदुक्तम्- ‘दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्' इति । सर्वेषां उपमादीनाम् । दृष्टः अन्तः निश्चयो यत्रेति यथार्थाभिधानोऽयं, दार्ष्टान्तिके सन्दिग्धस्यार्थस्यात्र निश्चयदर्शनात् ॥
यथा--
गणहीनाऽपि च कविता फणिगिरिपतिनाममसृणिता श्लाघ्या । योषा स्पृहणीया खलु भूषाही- नाऽपि पूर्णलावण्या ॥ ५९५ ॥
अत्र कवितायोषयोरुपमेयोपमानयोः श्लाघ्यत्वस्पृहणीयत्वयोर्धर्मयोरपि बिम्बप्रतिबिम्बभावः । अस्य चालंकारस्य प्रतिवस्तूपमाया भेदकमेतदेव-यतस्यां धर्मो न प्रतिबिम्बितः किंतु शुद्धसामान्यात्मनैव स्थितः, इह तु प्रतिबिम्बित इति ॥