पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/९०

पुटमेतत् सुपुष्टितम्
80
अलंकारमणिहारे

असंहितावस्थायां आदेशात्पूर्वं अप्राप्तश्रवणमपि ओकारौकाराकारादि स्पष्टं श्रुतं भवति संहितायां विवक्षितायां प्राप्तश्रवणं भवति । यथा उप-- इन्द्र इति स्थिते गुणादेशविधानात्प्रागश्रुत एकारः तदादेशविधानानन्तरं श्रूयते । यथाच कृष्ण एकत्वमिति स्थिते अश्रूयमाण ऐकारो वृद्ध्यादेशविधानानन्तरं श्रूयते । यथा चात्रैव पद्ये येन अश्रुतमित्यवस्थायामश्रुत आकारः आदेशविधानानन्तरं श्रूयत इत्यादि द्रष्टव्यम् ॥

 यथावा--

 इह तत्पुरुषेऽजादावुत्तरपद एव सति सदाऽधिपतौ । अनुशासनेन भायात्कदधिपतिः कोः कदा देशे ॥ ८६३ ॥

 अत्र परमपुरुषस्य श्रीनिवासस्य प्रकृतस्य कदधिपतिरूपतत्पुरुषस्य चाप्रकृतस्य श्लेषः । तथाहि-- अजादौ अजस्य स्रष्टृतया प्रख्यातस्य ब्रह्मणोऽप्यादौ कारणभूते अधिपतौ ‘एष भूताधिपतिः’ इत्यादिश्रुते निरुपाधिकसर्वलोकेश्वरे । यद्वा-- अजादौ अधिपतौ चतुर्मुखादेरीश्वरे 'स्वामीश्वराधिपति' इत्यादिना अधिपतिशब्दयोगेन अजादावित्यत्र सप्तमी । स चासौ पुरुषश्च तत्पुरुषः । तस्मिन् ‘योऽस्याध्यक्षः परमे व्योमन्' इति श्रुतपरमव्योमनिलयतया प्रसिद्धे ‘पुरुष एवेद ्ँ सर्वम्' इति सर्वजगच्छरीरकतया श्रुते श्रीनिवासे इह अस्मिन् शेषाचलरूपे उत्तरपदे उत्तमे स्थाने सदा न तु यदाकदाचित् सत्येव विद्यमान एव कोः भुवः ‘गोत्रा कुः पृथिवी' इत्यमरः । देशे प्रदेशे कदधिपतिः कुत्सितोऽधिपतिः आकालिकापेक्षिकैश्वर्यवत्तया कुत्सनविषय ईश्वरंमन्योऽन्य इति भावः ।