आपस्तम्बीये श्रौतसूत्रे | पुनीमा एकमेव यजेतेति । उभयोमप्येकाममभ्यस्तामेव यजेत् न तु देडे इत्यर्थः । वैकल्पिको उभ्यास इत्युकं भवति ॥ इति चतुर्दशी कण्डिका इति चतुर्थः पटलः ॥ यसरेख पटलेज दर्शपूर्णमामयोर्नित्यान्कान्यांञ्चानुनिवप्यान् गुण- विकारांश्वोपदिशति ।। संस्थाप्य पौर्णमासीमिन्द्राय वैधाय पुरोडाशमे- कादशकपालमनुनिर्धपति । १ । पौर्णमासीमनु निर्वतीति वचनात् । समुदायाङ्गं वैटधः तेन पौर्ण- मामविकारेषु न भवति । श्रमावास्यं त्वस्थ तन्त्रमैन्द्रामविकारत्वात् ॥ समानतन्त्रमेके समामनन्ति । २ । तस्य याथाकामी प्रक्रमे | प्रक्रमात्तु नियम्यते | ३ | तस्य वैध प्रक्रमे यायाकाम्यं दर्शपूर्णमासारम्भदशायामेवारभ्यते न वा। श्रयं तु विशेष: प्रक्रमान्नियम्यत इति । किमुकं भवति । यद्यारभ्यते न कदाचित्त्यज्यते यदि नारम्यते न कदाचिद्गृह्यत इत्यर्थः॥ तथा च देहधं प्रत्याह कात्यायन: तं यदा निर्वपेन्न तत ऊर्ध्वं विरमेदिति । भारद्वाजवाद नित्यवदेके समामनन्ति काम्यवदेक
पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१८३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f5/%E0%A4%86%E0%A4%AA%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8D%E0%A4%AC-%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D%28%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83%29_Apastamba_Srauta_Sutram.pdf/page183-818px-%E0%A4%86%E0%A4%AA%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8D%E0%A4%AC-%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D%28%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83%29_Apastamba_Srauta_Sutram.pdf.jpg)