पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२९३

पुटमेतत् सुपुष्टितम्
261
षष्ठः प्रश्नः
स एव ज्वरः ।
७४
 
धातुक्षयो भवति ।
७५
 
पित्तो ह्यूष्मा ज्वरो नास्त्यूष्मणा विना ।
७६
 
कषायतिक्तमधुराः पित्तनिवर्तकाः ।
७७
 
[१]यद्वह्निस्स्वस्थाने ज्वलितो[२] भवति तदाहारो धातुप्रदो भवति तदानलस्स्वस्थः ।
७८
 
तदाहारविहारौ धातुपोषकौ ।
७९
 
रसासृक्स्वादुमांसाम्लमेदोलवणोऽस्थि तिक्तमज्जोषणशुक्लकषायाः प्रतिपक्षकाः ।
८०
 
शुक्ले स्वादु मज्जाम्लः लवणमेदस्तिक्तमांसोषणकषायरसा रसासृग्धातुप्रबर्धकाः ।
८१
 
दोषप्रकोपहेतूद्भवदोष एव विकारः ।
८२
 
यदा विकारमङ्गे पश्यति तदाऽविकारकरणं कुर्यात् ।
८३
 
आप्यं तापहारि ।
८४
 
धातुधारणस्वादुरसवद्द्रव्यं अनिलजातानलामयभेषजम् ।
८५
 
यद्रसाधिक्यभूतोऽस्ति तद्रसाधिक्यरसो गुणदायकः ।
८३
 
प्रातः पीत्वाऽम्बु आमाशयस्थरोगं विशोधयत् सर्वरोगहारकम् ।
८७
 
पयः पित्तकफपवनस्पन्दहरं श्वासखासज्वरविनाशनम् ।
८८
 
गव्यं धातुविवर्धनम् ।
८९
 
आजं श्वासकासजित् ।
९०
 
औष्ट्रकं कफपित्तनुत्[३]
९१
 
मानुष्यं सर्वदोषघ्नं सन्निपातज्वरनिवारणम् ।
९२
 


  1. यो वह्नि--A.
  2. ज्वरो--A.
  3. नैतत् A. कोशेऽस्ति.