पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/५६

पुटमेतत् सुपुष्टितम्
24
आयुर्वेदसूत्रे

भवन्तीत्यर्थः । अजीर्णाज्जातज्वरस्तु अष्टधा उपहूयत इति यत्तदयुक्तम्, भेदजनकसामग्र्यभावादित्यस्वरसादाह-- याद्दशा इति ।

 यादृशा दोषास्तादृशानिलप्रकोपजातानलास्तादृशा ज्वराः ॥ ५३ ॥

 ये दोषप्रकोपहेतुकास्तद्विरुद्धरसजातास्तज्जन्यदोषाः पाचकपित्तादिपञ्चप्रकाराः ते स्वस्थानच्युता बहुविधरूपा भवन्तीत्यर्थः । तत्र वचनं--

विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते ॥[१]

तद्विरुद्धलक्षणज्ञापकहेतुभेदप्रदर्शनेन सत्यवच्छेदके ज्ञाते सति एक एव ज्वरः कार्यभेदेन नानारूपो भवतीति वक्तुं शक्यते । तल्लक्षणं ज्ञातं सत् तत्तद्भेदोऽपि ज्ञातुं शक्यत इत्यस्वरसादाह-- अक्षीति ।

 अक्षिकर्णनासाशिरोरुग्विदाहजिह्वास्यशोषकुक्ष्यो ज्वलयन् ज्वलति ॥ ५४ ॥

 अक्षिकर्णानासादिषु, तथा शिरोव्यथा, जिह्वाया विदाहः, आस्यशोषः । कुक्ष्य इति अन्तस्तापः । आपादमस्कं ज्वलनात् ज्वलति स ज्वर इत्यर्थः । तत्र निदानवचनं--

तस्य प्राग्रूपमालस्यमरतिर्गात्रगौरवम् ।
आस्यवैरस्यमरुचिर्जृम्भा सास्राकुलाक्षता ॥
अङ्गामर्दोऽविपाकोऽल्पप्राणता बहुनिद्रता ।
रोमहर्षो विनमनं पिण्डिकोद्वेष्टनं क्लमः ॥
हितोपदेशेष्वक्षान्तिः प्रीतिरम्लषटूषणे ।


  1. अष्टाङ्गनिदानम्. II; 2.