एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
शूलिन्यधिकारः] पूर्वार्धे पञ्चविंशः पटलः । देवीमेवंविधां ध्यात्वा हृदयाः वार्कमण्डलात् ।
मूलेनावाह्य चाडगैः स्वरुपचारेस्तु पूजयेत् ।। ६९ ॥ देव्याश्चतुर्दिशं दूतश्चितस्रः पीठगा यजेत् ।
पीतां शङ्खारिगदिनोमुद्यतैककरां जयाम् ॥ ७० ॥ पाशदण्डधरां याम्ये सस्फोटां विजयां सिताम् ।
सुभद्रां पश्चिमे श्यामां शङ्खाद्यष्टभुजान्विताम् ॥ ७१ ॥
शूलकात्यायनी शुक्लां धृतकुम्भद्वयामृताम् ।
सिञ्चन्तीममृताम्भोभेर्दैवीं कुम्भपरिच्युतैः ।। ७२ ॥
निर्माल्यधारिणीमैशे सिंहिकां चाभिपूजयेत् ।
अथाकृतौ - नित्यविधानतस्तु कुसुमैः सुगन्धवरधूपदीपचरूभिः___ र्भक्तिभरावनम्रशिरसा प्रणम्य कुरुते स्म पूजनविधिम् । मद्रकगतिवाद्यमधुरैश्च नृत्तवलिभिः शिवाचरणयो
र्यस्त्विह साधयेन्मनुमिमं न तस्य भुवनेऽस्ति वस्त्वसुलभम्। मद्रकम् । पूजाधिकारः। उत्कृतिलक्षकं जपति चेज्जगत् स निखिलं वशे स्म कुरुते यक्षपिशाचभूतभुजगानभीष्टमिह कारयेद् वचनतः ।
मत्तगजाश्वयोधबहुलं च सैन्यमपि वारयेद् युाधे जयेद्
यत्र निधिर्निधानमवनौ स पश्यति सुखेन तच्च लभते ॥ प्राग्वत् । स्वैक्यतः शूलिनी ध्यात्वा स्वस्थावेशो भज्जपात् ॥ ७५ ॥
विषग्रहामयादींश्च मोचयेद् दर्शनादपि ।
सिताम्बरे लिखेद् देवी दुर्गा साष्टभुजायुधाम् ॥ ७६ ॥
वामनाभिर्जयाधाभिर्युक्तां तां पूजयेज्जपेत् ।
शीघ्र सिध्यति मन्त्रोऽयमथ बाणेऽर्चयेदिमाम् ॥ ७७ ॥ १. 'कपरा' ग. पाठ