एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
[मन्त्रपादः ७२. ईशानशिवगुरुदेवपद्धतौ
विद्मशब्दश्च हे चान्ते वाग्विशुद्धाय धीमहि । तन्नःपदान्ते रुद्रः स्यात् प्रकारान्ते तु चोदयात् ॥ ९ ॥
त्रयोदशस्वराढ्यं तु जलं वायुसमन्वितम् । षष्ठान्तं चोद्धरेदस्य पदस्यादौ च तारकम् ॥ १० ॥
व्योमशब्दश्चतुर्थ्यन्तं विद्मशब्दश्च हेयुतम् ।
शुक्लं षष्ठस्वरयुतमन्त्यं षष्ठान्त्यिसंयुतम् ॥ ११ ।।
सूक्ष्मशब्दश्चतुर्थ्यन्तं धीमहीत्यादिकं तथा । प्राग्वत् समुद्धृत्य भवेत् सावित्री शिवसंज्ञिता ॥ १२ ॥
अनयोविनियोगस्तु शिवपूजाविधौ स्मृतः ।
सावित्री-
मन्त्रं व्योमव्यापिसंज्ञं तु वक्ष्ये व्यक्तस्त्वेकाशीतिसंख्यैः पर्दैर्यः । वर्णानां चाप्यष्टषष्टयुत्तराणि त्रीण्येवास्मिन् संख्यया वै शतानि ॥ १३ ॥ ...
प्रथमं तु पदं तारं सप्तमान्त्यं त्वगन्वितम् ।। १४ ॥
त्रयोदशस्वरोपेतमुद्धृत्यैवं तथा पुनः ।
षष्ठान्तं व्यापिने चेति द्वितीयं पञ्चवर्णकम् ॥ १५ ॥
व्योमशब्दश्च रूपाय सर्वव्यापिन इत्यपि ।
पञ्चाक्षरे पदे प्रोक्ते शिवायेति त्रियक्षरम् ॥ १६ ॥ अनन्तानाथशब्दैस्तं चतुथ्ध्या चतुरक्षरे ।
पदेऽथानाश्रितायेति पञ्चाङ्णैरष्टमं पदम् ॥ १७ ॥ त्रिचतुर्वर्णकपदे चतुर्थ्यां ध्रुवशाश्वते । योगपीठसंस्थिताय नित्ययोगिन इत्यपि ॥ १८ ।।
वसुवाणाक्षरे ध्यानाहाराय शरवर्णकम् । पञ्चाक्षरं तु तारादिर्मुख्यः षड्वर्णकं पदम् ॥ १९ ॥ सर्वप्रभव इत्यर्णैः पञ्चभिः स्यात् पदं ततः ।
शिवायेति त्रिवर्णः स्यादथेशानादिपञ्चकम् ॥ २० ॥
१. 'क' ख. पाठः, २. ' ग. पाठः,