पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सटीकभाष्योपेता।

असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।
तास्ते प्रेत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः ॥ ३ ॥


शा० भा०निवृत्तश्च विभावित इत्यादि पुत्रायं विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता । विभागं चानयोर्दर्शयिष्यामः ॥ २॥

 अथेदानीमविद्वन्निन्दार्थोऽयं मन्त्र आरभ्यते-असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुरास्तेषां च स्वभूता लोका असुर्यानाम । नामशब्दोऽनर्थको निपातः । ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि । अन्धेनादर्शनात्मकेनाज्ञानेन तमसाऽऽवृता आच्छादितास्तान्स्थावरान्तान्प्रेत्य त्यक्त्वेमं देहमभिगच्छन्ति यथाकर्म यथाश्रुतम् । ये के चाऽऽरमहनः । आत्मानं घनन्ती त्यात्महमः । के ते जना येऽविद्वांसः । कथं त आत्मानं नित्यं हिंसन्ति । अविद्यादोषेण विद्यमानस्याऽऽत्मनस्तिरस्करणात् । विद्यमानस्याऽऽत्मनो यत्कार्यं फलमजरामरत्वादिसंवेदनलक्षणं तद्धतस्येवतिरोभूतं भवतीति प्राकृतविद्वांसो जना आत्महन उच्यन्ते । तेन ह्यात्महननदोघेण संसन्ति ते ॥ ३॥


अ० टी० पुरस्तात्सृष्टिकालेऽनुनिष्क्रान्ततरौ भूतसृष्टिमनुप्रवृत्तौ भिन्नाधिकारिस्वादुभयोः संन्यास एवातिरिक्तः श्रेष्ठो भवति परमपुरुषार्थव्यवधानादित्यर्थः । व्यासवाक्यमपि संवादकमाह द्वाविमाविति ॥ २ ॥   आद्यमन्त्रार्थ प्रपञ्चयितुं प्रथममविद्वन्निन्दा क्रियत इत्याह-अथेति। ते लोका इति तच्छब्दो यच्छब्दार्थे । यथाश्रुतमिति । येने यादृशं प्रतिषिद्धं विहितं वा देवतादिज्ञानमनुष्ठितं स तदनुरूपामेव योनिमालेतीत्यर्थः । आत्महन्तृत्वस्योदरभेदिनि प्रसिद्धेः कथमविद्वांस आत्महन ईत्याह–कथं त इति । उदरभेर्दिनोऽ• ध्यात्माधिकारे प्रसङ्गाभावादशुद्धत्वाध्यासेन तिरस्कार एवाऽऽत्महन्तृत्वमित्याह‌-अविद्यादोषेणेति । यथा कस्यचिच्छुद्धस्य मिथ्याभिशापोऽशस्त्रवध उच्यतेतद्वदात्मनि पापिस्वाद्यध्यासोऽपि हिंसैवेत्यर्थः । अजरामरत्वादिलक्षणोऽहमिति संवेदनमभिधानं च यत्कार्यं तद्धतस्येव ने दृश्यत इति हननमुपचर्यत इत्याहविद्यमानस्येति । अस्याऽऽत्मघातस्य प्रायश्चित्तविधानादर्शनासंसरणमेव फैलमित्याह तेन हीति ॥ ३ ॥


१ क, ख. वृत्तौ च वि° । घ, ङ, च, टठ, वृत्तिश्च विभाषित । अ. अ. वृत्तौ चैव भाषित ३ ग. 'न्ति योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसर्पन्ति य°। ३ ज. इति शइते-क° । ४ ख. घ, ज, °नो ह्मात्मा” । ५ घ, ङ, छ, ज ठ, फलितमि° ।