पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शंकरानन्दकृता

त्मज्ञानशून्यान ये श्ववसूकरादिदेहरूपास्ते लोकाः कर्मफलरूपा देहविशेपा अन्धेन तमसा क्लेशचतुष्टयानुविद्धेन पञ्चमेनान्धतामिस्रणाहंममामिनिवेशरूपेणाऽऽवृताः संवृताः । तानुक्ताँल्लोकांस्ते धनाभिलाषेणेश्वरज्ञानगुन्याः प्रेत्येदमधिकारिशरीरं परित्यज्याभिगच्छन्ति सर्वतः प्राप्नुवन्ति । तच्छब्दार्थमाह-ये के चाऽऽत्महन आत्मानमीशं सर्वतः परिपूर्णं चिदानन्दं परेण धनरूपेण घ्नन्ति तिरस्कुर्वन्ति ये त आत्महन इदं सर्वमहमेवेति ज्ञानशून्या इत्यर्थः । जनाः संसारचक्रे पुनः पुनः प्रादुर्भाववन्तः ॥ ३ ॥

  ईद्शब्दार्थमाह-अनेजत् । कम्पनमकुर्वदनेन वायुप्राणौ निराकृतौ ।एकं देहादिभेदेन मेद्शून्यम् । इदमित्थं चेत्स्यान्मनसा प्राप्यमित्यत आह-मनसो जवीयो मनसोऽपि वेगवत्तरम् । मनसा साक्षादनाप्यानामपि रूपादीनां चक्षुरादिमिराप्यत्वदर्शनादिदमपि तथाऽस्त्वित्यत आहनैनदिति । नैनदीश्वरस्वरूपं देवाश्चक्षुरादय आप्नुवन्नधिगतवन्तो मनसे- न्द्रियैश्चानाप्यत्वेन । परिच्छेदशङ्क प्राप्त वारयति-पूर्वं प्रथममर्शदुतवत्सर्वतो गतमित्यर्थः । सर्वतोगतत्वे हेतुः–तदीश्वरस्वरूपं धावतो गतिं कुर्वतोऽन्यान्कालवाय्वादीनत्येत्यतीत्य गच्छति । तर्सेष्वेव किंचिदतिवे-गवदित्यत आह-तिष्ठद्गतिमकुर्वत् । इदानीमसाधारणलक्षणभाह-तस्मि-न्सर्वगत एकस्मिन्मनसेन्द्रियैश्चाप्राप्ये सर्वाधिक गतिशून्ये निश्चलेऽपःकमण्यध्यात्माद्याश्रयाणि शरीरारम्मादिकारणानि मातरिश्वा मातर्या-काशेऽव्याकृते स्वसिति सत्तां प्राप्नोति सूत्रात्मा स जीवसंघो यः समातरिश्वा प्रथमं कार्यं ज्ञानक्रियाशक्तिरित्यर्थः । दधाति विधारयतिसूत्रात्मजनकत्वेन जगत्कारणं भवतीत्यर्थः ॥ ४ ॥

 एवं मूर्तमूर्तविलक्षणमीशशब्दार्थमुक्त्वा प्रथमपदार्थमाह—तदीश-स्वरूपमेजति मूर्तरूपेण कम्पते तदीश्वरस्वरूप नैजति नैजत्याकाशादिरूपेण तदीशस्वरूपं दूर एकस्य मूर्तस्यापेक्षया मूर्तान्तरेण रूपेणतद् ईश्वरस्वरूपमेवान्तिके सर्वस्यापि समीपे । तदीश्वरस्वरूपमन्तर्म-ध्येऽस्य जगतः सर्वस्य निखिलस्य तदु सर्वस्यास्य व्याख्यातं बाह्यतोबहिरपि ॥ ५ ॥

 तृतीयपदार्थमाह-यस्तु । तुशब्दोजगद्दृष्टिनिवारणार्थः। यो विरक्तो मुमुक्षुः सर्वाणि भूतानि स्पष्टम् । आत्मन्येवास्मिन्नीशस्वरूप आनन्दात्मनि


१ क, वसग यः । २ क, ख, फिमिल