दत्वा चास्मै स खङ्गं स्वं तुष्टः शापान्तकारिणे । सहसुराङ्गनादुःखभारेणादर्शनं ययौ ॥५८
सोऽथ सानुजया साकं श्रीदत्तो दैत्यकन्यया । बहिर्गतमिवानन्तं तद्विवेश पुरोत्तमम् ॥ ४९
अङ्गुलीयं विषघ्नं च सास्मै दैत्यसुता ददौ । ततः सोऽत्र स्थितस्तस्यां साभिलाषोऽभवद्युवा ॥ ५०
युक्त्या जगादैनं वाप्यां स्नानमितः कुरु । आदायैनं च मज्जेस्त्वं खी ग्राहभयापहम् ॥ ५१
तथेति वाघ्यां मग्नः सश्रीदत्तो जाह्नवीतटात् । तस्मादेव समुत्तस्थं यस्मात्पूर्वसवातरत् ॥ ५२
खङ्गडुलीयके पश्यन्पातालादुत्थितोऽथ सः । विषण्णो विस्मितश्चासीद्वञ्चितोऽसुरकन्यया ॥ ५३
ततस्तान्सुहृदोऽन्वेष्टुं स्वगृहाभिमुखं ययौ । गच्छन्निष्ठरकाख्यं च मित्रं सागं ददर्श सः॥ ५४
स चोपेत्य प्रणम्याथ नीत्वैकान्ते च सस्वरम् । तं पृष्ठंस्वजनोदन्तमेवं निष्ठकोऽब्रवीत् ॥ ५५
गङ्गान्तस्त्वां तदा मुनसन्विध्य दिवसान्बहून् । स्वशिरसि शुच छेत्तुमभूम वयमुद्यताः ॥ ५६
न पुत्राः साहसं कार्यं जीवन्नेष्यति वः सखा । इत्यन्तरिक्षद्वाणी नस्तमुद्योगं न्यवारयत् ॥ ५७
ततश्च त्वत्पितुः पार्श्वमस्माकं प्रतिगच्छताम् । मागें सत्वरमभ्येत्य पुमानेकोऽभ्रवीदिदम् ॥ ५८
नगरं न प्रवेष्टव्यं युष्माभिरिह सांप्रतम् । यतो बल्लभशक्तिः स विपन्नोऽश्र महीपतिः ॥ ५९
दत्तो विक्रमशक्तिश्च राज्ये संभूय मन्त्रिभिः। प्राप्तराज्यः स चान्येद्युः कालनेमेरगाढ़हम् ॥ ६०
श्रीदत्तः क्क स ते पुत्र इति चामर्षनिर्भरः । तमपृच्छस्स चाप्येनं नाहं वेशीयभाषत ॥ ६१
प्रच्छादितोऽमुना पुत्र इति तेन निपूदितः । कालनेमिः स शूलायां राज्ञा चौर इति क्रुधा ॥ ६२
तदृष्ट्वा तस्य भाययाः स्वयं हृदयमस्फुटत् । पापं पापान्तक्षेपी हिं क्रूरकर्मणाम् ॥ ६३
तेन चान्विष्यते हन्तुं सोऽपि विक्रमशक्तिना । श्रीदत्तस्तद्वयस्याश्च यूयं तद्भ्यतमितः ॥ ६४
इति तेनोदिताः पुंसा शोकार्तास्ते निज भुवम् । बाहुशाल्यायः पञ्च संमत्र्योज्जयिनीं गताः ॥ ६५
प्रच्छन्नः स्थापितश्चाहं त्वर्थमिह तैः सर्वे । तदेहि तावद्गच्छावस्तत्रैव सुहृदन्तिकम् ॥ ६६
एवं निष्टुरका छुवा पितरावनुशोच्य सः । निधे प्रतिकारास्थामिव खद्वे दृशं मुहुः ॥ ६७
कालं प्रतीक्षमाणोऽथ वीरो निष्टुकान्वितः । प्रतस्थे तान्सखीन्प्राप्तुं स तामुज्जयिनीं पुरीम् ॥ ६८
आमज्जनान्तं वृत्तान्तं सख्युस्सस्य च वर्णयन् । श्रीदत्तः स दसैंकां क्रोशन्तीमबलां पथि ॥ ६९
अबला भ्रष्टमार्गेहं माळवं प्रस्थितेति ताम् । क्षुबन्तीं यया सोऽथ सहप्रस्थायिनीं व्यधात् ॥ ७०
तया दयानुरोधाच स्त्रिया निष्टुकान्वितः कस्मिंश्चिच्छून्यनगरे दिने तस्मिखुवास सः॥ ७१
तत्र रात्रावकस्माच्च मुक्तनिद्रो ददर्श ताम् । स्त्रियं निष्षुरकं हत्वा हर्षात्तन्मांसमश्नतीम् ॥ ७२
उदतिष्ठत्समाकृष्य सोऽथ खङ्गं मृगाङ्ककम् । सापि स्त्री राक्षसीरूपं घोरं स्वं प्रत्यपद्यत ॥७३
स च केशेषु जग्राह निहन्तुं तां निशाचरीम्। तत्क्षणं दिव्यरूपत्वं संप्राप्ता तमुवाच सा ॥ ७४
सा मां वधीर्महाभाग मुञ्च नैवास्मि राक्षसी । अयमेवंविधः शपो ममाभूत्कौशिकान्मुनेः ॥ ७५
तपस्यतो हि तस्याहं धनाधिपतिनामुना । विनाय प्रेषिता पूर्वं तत्पदप्राप्तिकाङ्किणः ॥ ७६
ततः कान्तेन रूपेण तं क्षोभयितुमक्षम । लज्जित त्रासयन्त्यनमकार्यं भैरवं वपुः ॥ ७७
तदृष्ट्वा स मुनिः शापं सदृशं मय्यथो दधे । राक्षसी भव पापे त्वं निन्नन्ती मानुषानिति ॥ ७८
स्वतः केशग्रहे प्राप्ते शापान्तं मे स चाकरोत् । इत्यहं राक्षसीभावमिमं कष्टमुपागमम् ॥ ७९
मयैव नगरं चैतद्रस्तमद्य च से चिरात् । स्वया कृतः स शापान्त स्तद्वहणाधुना वरम् ॥। ८०
इति तस्या वचः श्रुत्वा श्रीदत्तः स द्रोऽभ्यधात् । किमन्येन वरेणाद्य जीवत्वेष सखा मम ॥ ८१
एवमस्त्विति सा चास्मै वरं दत्वा तिरोदधे । अक्षताङ्गः स चोत्तस्थौ जीवन्निषुरकः पुनः ॥ ८२
तेनैव सह च प्रातः प्रहृष्टो विस्मितश्च सः ततः प्रतस्थे श्रीदत्तः प्राप चोज्जयिनीं क्रमात्॥ ८३
तत्र संभावयामास सखीन्मागन्मुखान्स तान् । दर्शनेन यथायातो नीलकण्ठानिवाम्बुदः ॥ ८४
कृतातिथ्यविधिश्चासौ स्वगृहं बाहुशालिना। नीतोऽभूत्कथिताशेषनिजवृत्तान्तकौतुकः ॥ ८५
तत्रोपचर्यमाणः सन्पितृभ्यां बाहुशालिनः । स उघास समं मित्रैः श्रीदत्तः स्वगृहे यथा ॥ ८६
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
१०
आदितस्तरङ्गः