पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ५ ।]
७१
ल वाणक्लबकः ३

ततस्तं सह देवीभ्यां सचिवैश्च तपःस्थितम् । त्रिरात्रोपोषितं भूपं शिवः स्वप्ने समादिशत् ॥ ६

तुष्टोऽस्मि ते तदुत्तिष्ठ निर्विघ्नं जयमाप्स्यसि । सर्वविद्याधराधीशं पुत्रं चैवाचिरादिति ॥ ७

ततः स बुबुधे राजा तत्प्रसादहृतक्लमः । अकशुरचिताप्यायः प्रतिपच्चन्द्रमा इव ॥ ८

आनन्यच्च सचिवान्प्रातः स्वप्नेन तेन सः । व्रतोपवासलान्ते च देव्यौ द्वे पुष्पकोमये ॥ ९

तत्स्वप्नवर्णनेनैव श्रोत्रपेयेन तृप्तयोः । तयोश्च विभवायैव जातः स्याद्धौषधक्रमः ॥ १०

लेभे स राजा तपसा प्रभावं पूर्वजैः समम् । पुण्यां पतिव्रतानां च तपनयौ कीर्तिमापतुः ॥ ११

उत्सवव्यप्रपौरे च विहिते व्रतपारणे । यौगन्धरायणोऽन्येद्युरिति राजानमब्रवीत् ॥ १२

धन्यस्त्वं यस्य चैवेत्थं प्रसन्नो भगवान्हरः। तदिदानीं रिपूञ्जित्वा भज लक्ष्मीं भूजार्जिताम् ॥ १३

हि स्वधर्मसंभूता भूभृतामन्वये स्थिरा । निजधर्मार्जितानां हि विनाशो नास्ति संपदाम् ॥ १४

तथा च चिरभूमिष्ठो निधिः पूर्वजसंश्रुतः । प्रणष्टो भवता प्राप्तः किं चात्रैतां कथां शृणु ॥ १५

बभूव देवदासाख्यः पुरे पाटलिपुत्रके । पुरा कोऽपि वणिक्पुत्रो महाधनकुलोद्गतः ॥ १६

अभवत्तस्य भार्या च नगरात्पौण्ड्रवर्धनात् । परिणीता समृद्धस्य कस्यापि वणिजः सुता ॥ १७

गते पितरि पञ्चत्वं क्रमेण व्यसनन्वितः । स देव सो घृतेन सर्वे धनमहारथत् ॥ १८

ततश्च तस्य सा भार्या दुःखदारिद्यदुःस्थिता । पत्य नीता निजं गेहं स्वपित्रा पौण्ड्रवर्धनम् ॥ १९

शनैः सोऽपि विपत्खिन्नः स्थातुमिच्छन्स्वकर्मणि । मूल्यार्थं देवदासस्तं श्वशुरं याचितुं ययौ ॥ २०

प्राप्तश्च संध्यासमये तत्पुरं पौण्ड्रवर्धनम् । रजोरूक्षे विवस्त्रं च वीक्ष्यास्मानमचिन्तयत् ॥ २१

ईदृशः प्रविशामीह कथं श्वशुरवेश्मनि । वरं हि मानिनो मृत्युर्न दैन्यं स्वजनाग्रतः ॥ २२

इत्यालोच्यापणे गत्वा स कापि विपणेर्बहिः। नक्तं संकुचितस्तस्थौ तत्कालं कमलोपमः ॥ २३

क्षणाच्च तस्यां विपणौ प्रविशन्तं व्यलोकयत् । युवानं वणिजं कंचिदुद्धाटितकवाटकम् ॥ २४

क्षणान्तरे च तत्रैव निःशब्दपदमागताम्। द्रुतमन्तः प्रविष्टां च स्त्रियमेकां ददर्श सः ॥ २५

ज्वलत्प्रदीपे यावच्च ददौ दृष्टिं तदन्तरे । प्रत्यभिज्ञातवांस्तावत्तां निजमेव गेहिनीम् ॥ २६

ततः सोऽर्गलितद्वारां भार्यां तामन्यगामिनीम् । दृष्टा दुःखशनिहतो देवदास व्यचिन्तयत् ॥ २७

धनहीनेन देहोऽपि हार्यते स्त्रीषु का कथा । निसर्गनियतं यासां विद्युतामिव चापलम् ॥ २८

तदियं सा विपत्पुंसां व्यसनार्णवपातिनम्। गतिः सेयं स्वतत्रायाः स्त्रियः पितृगृहे स्थितेः ॥ २९

इति संचिन्तयंस्तस्या भार्यायाः स बहिः स्थितः । रतान्तविस्रम्भजुषः कथालापमिवाश्शृणोत् ॥ ३०

उपेत्य च ददौ द्वारि स कर्ण सापि तत्क्षणम् । इत्यब्रवीदुपपतिं पापा तं वणिजं रहः ॥ ३१

ण्बिदं कथयाम्यद्य रहस्यं तेऽनुरागिणी। मद्भर्तुर्वारबर्माख्यः पुराभूप्रपितामहः ॥ ३२

स्वगृहस्याङ्गणे तेन चत्वारः स्वर्णपूरिताः। कुम्भाश्चतुर्मु कोणेषु निगूढाः स्थापिता भुवि॥ ३३

तदेकस्याः स्वभार्यायाः स चक्रे विदितं तदा । तद्भार्या चान्तकाले सा स्नुषायै तद्बोचत ॥ ३४

सापि स्नुषायै मच्छवै मच्छूशुव्रबीच मे । इत्ययं मत्पतिकुले श्वशुक्रममुखागमः ॥ ३५

स्वभर्तुस्तच न मया दरिद्रस्यापि वर्णितम् । स हि यूतरतो द्वेष्यस्त्वं तु मे परमः प्रियः ॥ ३६

तत्तत्र गत्वा मद्धर्तुः सकाशातह्रदं धनैः। क्रीत्वा तत्प्राप्य च स्वर्णमिहैय भज मां सुखम् ॥ ३७

एवमुक्तः कुटिलया स तयोपपतिर्वणिङ् । तुतोष तस्यै सन्यानो निधिं लब्धमयत्नतः ॥ ३८

देवदासोऽपि कुवधूवाक्शल्यैस्तैर्बहिर्गतः। कीलितामित्र तत्कालं धनाशां हृदये दधौ ॥ ३९

जगाम च ततः सद्यः पुरं पाटलिपुत्रकम् । प्राप्य च स्वगृहं लब्ध्वा निधानं स्वीचकार तत् ॥ ४०

अथाजगाम स वणिक्तद्भार्याछन्नकामुकः। तमेव देशं वाणिज्यव्यजेन निधिलोलुपः ॥ ४१

देवदाससकाशाच क्रीणाति स्म स तद्रुहम् । देवदासोऽपि मूल्येन भूयसा तस्य तद्ददौ ॥ ४२

ततो गृहस्थितिं कृत्वा युक्या श्वशुर वेश्मनः । स देवदासः शीघी तामानिनाय स्वगेहिनीम् ॥ ४३

एवं कृते च तद्भार्याकामुकः स वणिक्शठः। अछब्धनिधिरभ्येत्य देवदासमुवाच तम् ॥ ४४