( 116 ) चतुरिके, अर्धलिखितमेतद्विनोदस्थानमस्माभिः । गच्छ, वर्तिकां तावदानय । चतुरिका-आर्य माढव्य, अवलम्बस्व चित्रफलकं यावदागच्छामि। राजा--अहमेवैतदवलम्बे । (इति यथोक्तं करोति ।) (निष्क्रन्ता चेटी।) राजा--अहं हि- साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहु मन्यमानः । स्रोतोवहां पथि निकामजलामतीत्य जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥ १६ ॥ विदूषकः-(आत्मगतम् ) एषोऽत्रमवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः । भोः, अपरं किमत्र लिखितव्यम् ? सानुमती-यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालिखितव्यम् । राजा--श्रूयताम् । कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः । शाखालम्बितवल्कलस्य च तरोनिर्मातुमिच्छाम्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥१७॥ विदूषकः--(आत्मगतम् ) यथाहं पश्यामि तथा पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः ।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१२२
एतत् पृष्ठम् परिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/1/16/%E0%A4%95%E0%A4%BE%E0%A4%B2%E0%A4%BF%E0%A4%A6%E0%A4%BE%E0%A4%B8%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%AE%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A5%82%E0%A4%B7%E0%A4%BE.djvu/page122-857px-%E0%A4%95%E0%A4%BE%E0%A4%B2%E0%A4%BF%E0%A4%A6%E0%A4%BE%E0%A4%B8%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%AE%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A5%82%E0%A4%B7%E0%A4%BE.djvu.jpg)