उपर्यादिषु शब्देषु सामीप्ये द्विरुक्तेषु 'उपर्यध्यधसः सामीप्य' इत्यनेन 'उपर्यादिषु त्रिषु द्वितीयाम्रेडितान्तेषु' इति द्वितीया । वीप्सायां तु द्विरुक्तेषु षष्ठ्येव भवति-- 'उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः ।'
मन्दं मन्दमित्यप्रकारार्थत्वे ॥ ८६ ॥
'मन्दं मन्दं नुदति पवनः' इत्यत्र मन्दं मन्दमिति अप्रकारार्थत्वे भवति । प्रकारार्थत्वे तु 'प्रकारे गुणवचनस्य इति द्विवचने कृते कर्मधारयवद्भावे च मन्दमन्दमिति प्रयोगः । मन्दं, मन्दमित्यत्र तु 'नित्यवीप्सयोः' इति द्विर्वचनम् । अनेकभावात्मकस्य नुदेर्यदा सर्वे भावा मन्दत्वेन व्याप्तुमिष्टा भवन्ति तदा वीप्सेति ।
न निद्राद्रुगिति भष्भावप्राप्तेः ॥ ८७ ॥
'निद्राद्रुक्काद्रवेयच्छविरुपरिलसद्धर्धरो वारिवाहः' इत्यत्र निद्राद्रुगिति न युक्तः, 'एकाचो वशो भष्-' इति भष्भावप्राप्तेः । अनुप्रासप्रियैस्त्वपभ्रंशः कृतः।
निष्पन्द इति षत्वं चिन्त्यम् ॥ ८८ ॥
षष्ठीविभक्तिर्भवतीति व्यवस्थामाह- उपर्यादिष्विति । क्रियागुणाभ्यां युगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा।
मन्दं मन्दमिति । वीप्साप्रकारार्थयोः प्रयोगद्वयव्यवस्थां प्रतिपादयितुमाह-- मन्दं मन्दं नुदतीति । कर्मधारयवद्भावे चेति । 'कर्मधारयवदुत्तरेषु' इत्यनेन कर्मधारयवद्भावे सुलोपादिर्भवति । अनेकभावविषया व्याप्तुमिच्छा येति वीप्सा; तां दर्शयति- अनेकभावेति ।
न निद्रेति । निद्राघ्रुगिति वक्तव्ये निद्राद्रुगित्यपभ्रंश इत्याह----निद्राद्रुक्काद्रवेय इति ।
निष्पन्द इति । अत्र षत्वप्राप्तावनुशासनादर्शनात् सुषामादिष्वपि पाठा-