स्वर्गाभिसंधिना स्वर्गोद्देशेन यत्सुकृतं ज्योतिष्टोमाद्यनुष्ठानं तत्स्वर्गाभिसंधिसुकृतं वञ्चनां प्रतारणामिव मेनिरे, हिमवन्नगरमवेक्ष्य स्वर्गस्य पुण्यफलत्वं वदता वेदेन वयं विप्रलब्धा इत्यर्थः । स्वर्गादतिरमणीयमिति भावः ॥ ४७ ॥ ते सद्मनि गिरेर्वेंगादुन्मुखद्वाःस्थवीक्षिताः । अवतेरुजटाभारैलिखितानलनिश्चलैः ॥ ४८ ॥
त इति ॥ लिखितानलनिश्चलैः । चित्रगतज्वलननिष्पन्दैरिति वेगप्रकर्षोक्तिः।
जटाभारैरुपलक्षितास्ते मुनयः । द्वारि तिष्ठन्तीति द्वाःस्था द्वारपालकाः
'प्रतीहारे द्वारपालद्वाःस्थद्वाःस्थितदर्शकाः' इत्यमरः । उन्मुखैरूर्ध्वमुखैर्वीक्षिताः सन्तः न तु विनिवारिता इत्यर्थः । गिरेर्हिमवतः सद्मनि वेगादवतेरुरवतीर्णवन्तः॥ ४८॥
गगनादवतीर्णा सा यथावृद्धपुरस्सरा । तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ॥ ४९ ॥</poem>}}
गगनादिति ॥ गगनादवतीर्णावरूढा यथावृद्धं वृद्धानुक्रमेण स्थिताः पुरःसरा
अग्रेसरा यस्यां सा तथोक्ता। अनुपसर्जनाधिकारान्न ङीप् । सा मुनिपरम्परा
परम्परा मुनिपंक्तिस्तोयान्तस्तोयाभ्यन्तरे भास्कराली प्रतिबिम्बितार्कपङ्रिक्तिरेव रेजे। एतेन मुनीनां तेजस्वित्वेऽपि सुखसंदर्शनं सूचयति । भास्कराणां भूयिष्टत्वसंभावनार्थ
तोयान्तरित्युक्तम् । अत एव बहुत्वसिद्धिश्च ॥ ४९ ॥
तानार्घनर्घ्य॑मादाय दूरात्प्रत्युद्ययौ गिरिः । नमयन्सारगुरुभिः पादन्यासैवसुन्धराम् ।। ५०॥ तानिति ॥ गिरिहिमवानव्य॑मर्धाथ जलमादाय सारगुरुभिरन्तःसारदुर्भरैः पादन्यासैर्वसुंधरां नमयन्नधः प्रापयन् । अर्घमर्हन्तीत्यान्पूज्यान् । दण्डादित्वाद्यत्प्रत्ययः ।
तान्मुनीन्दूरात्प्रत्युद्ययौ ॥ ५० ॥
संप्रति हिमवन्तमेव जंगमस्थावररूपद्वयसाधारणैर्विशिनष्टि- धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः । प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति ॥५१॥
धात्विति ॥ धातुवत्ताम्रोऽधरो यस्य स तथोक्तः । अन्यत्र धातुरेव ताम्रो
पाठा०-१ निश्चलाः.