पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २१-२८]
२११
शिवेन पार्वत्याः प्रसादनम्

यया तथोक्तां मुक्ताफलहार एव वल्ली तां न्यधत्त निदधे । या मुक्ताफलहारवल्ली मेरुद्वितयस्य मूर्ध्नि स्थितस्य गङ्गाया ओघयोः प्रवाहयोर्युगस्य लक्ष्मीं शोभां प्राप, तद्वच्छुशुभ इत्यर्थः । अभूतोपमा ॥ २४ ॥

 नखव्रणश्रेणिवरे१ बबन्ध नितम्बबिम्बे रशनाकलापम् ।
 २चलस्वचेतोमृगबन्धनाय मनोभुवः पाशमिव स्मरारिः ॥२५॥

 नखेति ॥ स्मरारिर्हरः नखव्रणश्रेणिभिरात्मप्रयुक्ताभिर्वरे मनोहरे तस्या नितम्बबिम्बे रशनाकलापम् । चलं स्वं चेत एव मृगस्तस्य बन्धनाय मनोभुवः संबन्धिनं पाशमिव बबन्ध, मनोभूरस्यात्मनश्चेतो मृगस्य रशनाकलापरूपजालेन बन्धनं करिष्यति, अतो हरः स्वयमेव तत्र तं निदधावित्यर्थः । न हि कामलुब्ध आत्मनीनं गणयतीति भावः ॥ २५ ॥

 भालेक्षणाग्नौ स्वयमञ्जनं स ३भङ्क्त्वा दृशोः साधु निवेश्य तस्याः ।
 नवोत्पलाक्ष्याः पुलकोपगूढे४ कण्टे ५विनीलेऽङ्गुलिमुञ्जघर्ष ॥२६॥

 भालेक्षणेति ॥ स हरो भाले यदीक्षणं नेत्रं तदेवाग्निः, दीपकरूप इत्यर्थः । तत्राञ्जनं स्वयं भङ्क्त्वा पातयित्वा । अथ च नवोत्पलाक्ष्यास्तस्याः पार्वत्या दृशोः साधु निवेश्य सम्यगञ्जयित्वा । अथ च पुलकै रोमाञ्चैरुपगूढे व्याप्ते विनीले श्यामले कण्टे, स्वीय इति शेषः । अङ्गुलिमुज्जघर्ष घृष्टवान् । यथान्योऽपि दीपकोपर्यङ्गुल्यैव कज्जलं पातयित्वा स्वस्त्रीनेत्रयोर्निवेश्य कुत्रचिदङ्गुलिमुद्धर्षति तद्वत् , अङ्गुलिलग्नकज्जलनिवारणार्थमिति भावः । स्वभावोक्तिरलंकारः ॥ २६ ॥

 अलक्तकं पादसरोरुहाग्रे सरोरुहाक्ष्याः किल संनिवेश्य ।
 स्वमौलिगङ्गासलिलेन हस्तारुणत्वमक्षालयदिन्दुचूडः६ ।। २७ ।।

 अलक्तकमिति ॥ इन्दुचूडो हरः सरोरुहाक्ष्याः पार्वत्या पादसरोरुहाग्रेऽल- क्तकं संनिवेश्यानुलिप्य, करेणेति शेषः । स्वस्य मौलौ यद्गङ्गासलिलं तेन कृत्वा हस्तस्यारुणत्वमक्षालयन् ममार्ज ॥ २७ ॥

 भस्मानुलिप्ते वपुषि स्वकीये सहेलमादर्शतलं विमृज्य ।
 नेपथ्यलक्ष्म्याः७ परिभावनार्थमदर्शयञ्जीवितवल्लभां सः ॥२८॥

पाठा०-१ श्रेणिकरे. २ चलत्. ३ न्यक्त्वा. ४ उपगूढः, ५विनी-

लाङ्गुलिम्. ६ इन्दुमौलिः. ७ लक्ष्मी.