पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
[ सर्गः १४
कुमारसंभवे

च्छत्राणि तैरुज्ज्वलाः, कान्तिमत्य इत्यर्थः । चलन्तो ये घना मेघास्त इव ये स्यन्दना स्थास्तेषां घोषेणारवेण भीषणा भयानकाः । तथा करीन्द्राणां मत्तद्विपानां संबन्धीनि घण्टारवाः, चण्डानि भीषणानि चीत्कृतानि च यासु । चीत्कृतेति शब्दानुकृतिः, तथा स्फुरन्ति सर्वतः प्रसरन्ति विचित्राण्यनेकवर्णान्यायुधसंबन्धिनीनां कान्तीनां द्युतीनां मण्डलानि वलयानि तैः कृत्वोद्द्योतितमुच्चैः शोभितमाशावलयं दिङ्म्ण्डलमम्बरान्तरमाकाशमध्यं च याभिः । 'अम्बरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च' इति मेदिनी । एवंविधा दिवौकसां देवानां महाचमूर्महितीः सेना अनु पश्चाद्वहन्सन् ययौ, जगामेत्यर्थः ॥ १४-१५ ॥

 कोलाहलेनोच्चलतां दिवौकसां महाचमूनां गुरुभिर्ध्वजव्रजैः ।
 घनैर्निरुच्छ्वासमभूदनन्तरं दिङ्मण्डलं व्योमतलं महीतलम् ॥१६॥

 कोलाहलेनेति ।। उत्प्लुत्योड्डीय चलताम्, रोषवशादिति भावः । दिवौकसा देवानां कोलाहलेन घोरघोषेण । तथा महाचमूनां गुरुभिर्विशालैर्घनैः सघनैः । पुष्टैरिति यावत् । ध्वजव्रजैर्ध्वजसमूहैश्च कृत्वा निरुच्छ्वासं निरुद्धश्वासं निरोधहेतुकव्याप्तिमद्दिशां मण्डलं व्योमतलं महीतलमनन्तरमनुद्भासमानभेदमभूत् । 'एकमेवाद्वितीयं ब्रह्म' ( छा० ६।२।१ ) इत्यद्वैतवादिनां ब्रह्मणोऽद्वैतत्वप्रतिपादने निदर्शनमभूदिति भावः ॥ १६ ॥

 सुरारिलक्ष्मीपरिकम्पहेतवो दिक्चक्रवालप्रतिनादमेदुराः ।
 नभोन्तकुक्षिंभरयो घनाः स्वना निहन्यमानैः पटहैर्वितेनिरे ॥१७॥

 सुरारीति ॥ निहन्यमानैस्ताड्यमानैः पटहैः कर्तृभिः । 'पटहो ना समारम्भ आनके पुंनपुंसकम्' इति मेदिनी। 'आनकः पटहोऽस्त्री स्यात्' इत्यमरश्च । सुरारिलक्ष्म्यास्तारकसंपदः संबन्धिनि परिकम्पे हेतवो निदानम् । दिशां चक्रवाले मण्डले । 'चक्रवालं तु मण्डलम्' इत्यमरः । यः प्रतिनादः प्रतिध्वनिस्तेन मेदुराः पुष्टाः। तथा नभोन्तेनाकाशप्रान्तेन, प्रान्तपर्यन्तेनेस्यर्थः । कुक्षिं भरन्ति पिपुरन्ति नभोन्तकुक्षिंभरयः, सर्वं नभो व्याप्नुवन्त इत्यर्थः । 'फलेग्रहिरात्मंभरिश्च' (पा. ३।१२।२६ ) इत्यत्र चात्कुक्षेरपि समावेशात्कुक्षिंभरिरिति

पाठा०-१ उच्छलता. २ ध्वजाग्रैः ३ अलंतराम्. ४ घनस्वनाः.