एतत् पृष्ठम् परिष्कृतम् अस्ति
३५४
[ सर्गः १७
कुमारसंभवे
अतो युद्धकरणपक्षे शस्त्रं कृपाणादिकं गृहाणादत्स्व । कार्मुकं धनुराततज्यं विस्तृत- मौर्वीकं कुरु । युद्धार्थं शस्त्रसंधानेन सज्जो भवेति वाच्यार्थः ॥ १७ ॥
इत्युक्तवन्तमवदन्त्रिपुरारिपुत्रं दैत्यः कुधौष्ठमधरं किल निर्विभिद्य । युद्धार्थमुद्भटभुजाबलदर्पितोऽसि बाणान्सहस्व मम सादितशत्रुपृष्ठान् ॥ १८ ॥
इतीति ॥ इत्युक्तवन्तं निगदितवन्तं त्रिपुरारिपुत्रं कुमारं कर्म । दैत्यस्तारकः कुधा निमित्तेनाधरं नीचैरोष्टम् , अधरोष्टमित्यर्थः । निर्विभिद्य दन्तैश्चर्वयित्वा । रे बाल! सादितं विभिन्नं शत्रुपृष्टं यैर्नतु मुखम् । मदीयबाणानां तदुद्देशेनाभिगच्छतां प्रहृतिसहनासमर्थतया पलायमानत्वात् । एवंभूतान्मम बाणान्सहस्व, अपि तु त्वया न सहिप्यन्त इति ध्वन्यते । ननु बालत्वात्कथमहं सहे इत्याह-यतस्त्वं युद्धार्थं युद्धकरणायोभ्दटे विपरीतलक्षणयानुभ्दटे ये भुजे बाहू तयोर्बलं वीर्यं तेन दर्पितोऽसि संजातगर्वोऽसि । विपरीतलक्षणापन्नभुजानुद्भटत्वमेव न सहिष्यन्त इति व्यङ्गये हेतुः । अतो मया सह कथंचिदपि त्वया न योद्धव्यमिति फलितोऽर्थः । 'द्वौ परौ द्वयोः । भुजबाहू' इत्यमरः ॥ १८ ॥
दुःप्रेक्षणीयमरिभिर्धनुराततज्यं सद्यो विधाय विषमान्विशिखान्न्यधत्त । स क्रोधभीमभुजगेन्द्रनिभं स्वचापं चण्डं ग्रपञ्चयति जैत्रशरैः कुमारे ॥ १९ ॥
दुरिति ॥ स तारकः कुमारे क्रोधेन भीमो यो भुजगेन्द्रस्तेन निभं सदृशम् । अत एव चण्डं प्रचण्डं स्वचापमात्मधनु्र्जै्त्रशरैर्जयसाधनबाणैः प्रपञ्चयति संदधति सति । अरिभिर्वैरिभिर्दुःप्रेक्षणीयं दुरवलोकनीयं धनुः सद्यः सपद्याततज्यं विस्तृत- प्रत्यञ्चं विधाय कृत्वा विषमानतितीक्ष्णान्विशिखान्बाणाभ्यधत्त निदधे । कुमारं सज्जमवलोक्य स्वयमपि तथाभूदिति भावः ॥ १९ ॥
पाठा०-१ निर्विभुज्य. २ भुजावलिदर्पितः. ३ शातितशत्रुपृष्टान् ; शोणि-
तरक्तपृष्टान्. ४ चण्डं ग्रपञ्चयति जैत्रशरे कुमारे; चण्डप्रभं यशसि जैत्रशरं कुमारः.