पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
[ सर्गः १
कुमारसंभवे

त्तथोक्तम् । 'सोमस्य राज्ञः कुरङ्ग इन्दोः शृङ्गी समुद्रस्य शिशुमारो हिमवतो हस्ती' इति श्रुतेरिति भावः । शैलानामाधिपत्यमधिपतित्वम् । 'पत्यन्तपुरोहितादिभ्यो यक्' (पा. ५३१११२८) इति यक्प्रत्ययः । अन्वतिष्ठत् , ददाति स्मेत्यर्थः । उक्तं च ब्रह्माण्डपुराणे- 'शैलानां हिमवन्तं च नदीनां चैव सागरम् । गन्धर्वाणामधि- पतिं चक्रे चित्ररथं विधिः' इति ॥ १७ ॥

 संप्रति कथां प्रस्तौति-

स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनामपि माननीयामात्मानुरूपां विधिनोपयेमे ॥१८॥

 स इति ॥ मेरोः सवा मेरुसग्वः । बन्धुसंपन्न इति भावः । स्थितिजोमर्यादाभिज्ञः । अनेन श्रुतसंपत्तिः सूच्यते । स हिमवान्पितॄणां मानसीं मन:संकल्पजन्यां मुनीनामपि माननीयाम् । योगिब्रह्मवादिभ्यां पूज्यामित्यर्थः । उक्तं च विष्णुपुराणे (१:१०,१८-१९)---'तेभ्यः शुभास्पदं जज्ञे मेनका हरिणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ॥' इति । आत्मानुरूपां कुलशीलसौन्दर्यादिभिः सदृशीं मेनां मेनकादेवीति नामवतीं कन्यां कुलस्य स्थितये प्रतिष्ठायै विधिना यथाशास्त्रेणोपयेमे परिणीतवान् । 'उपाद्यमः स्वीकरणे' (पा. १।३।५६) इत्यात्मनेपदम् । तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते ॥” इति ब्रह्माण्डपुराणात् ॥ १८ ॥

कालक्रमेणाथ तयोः प्रवृत्ते स्वरूपयोग्ये सुरतप्रसङ्गे ।
मनोरमं यौवनमुद्वहन्त्या गर्भोऽभवद्भूधरराजपत्न्या ॥ १९ ॥

 कालक्रमेणेति ॥ अथ कालक्रमेण, गच्छता कालेनेत्यर्थः । तयोर्मेनकाहिमवतोः स्वरूपयोग्ये सौन्दर्यानुगुणे। यद्वा, रूप्यते निश्चीयतेऽनेनेति रूपं ज्ञानं तद्योग्ये, शास्त्रानुसारिणीत्यर्थः । सुरतप्रसङ्गे सुरतकर्मणि प्रवृत्ते सति मनोरमं यौवनमुद्वहन्त्या भूधरराजपल्या मेनकाया गर्भोऽभवत् ॥ १९ ॥

असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् ।
क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम् ॥२०॥

 असूतेति ॥ सा मेना नागवधूपभोग्यम्, नागकन्यापरिणेतारमित्यर्थः ।