लोचनम
स प्रियासङ्गमोत्कण्ठां सासह्यां मनसः शुचम् ॥ इति । |
अत्राप्युत्तरोत्तरजन्यत्वेऽप्युपमानोपमेयभावस्य सुकल्पत्वात् । न हि क्रमिकाणां नोपमानोपमेयभावः । तथा हि-
राम इव दशरथोऽभूद्दशरथ इव रघुरजोऽपि रघुसदृशः । |
इति न न भवति । तस्मात्क्रमिकत्वं समं वा प्राकरणिकत्वमुपमा निरुणद्धीति
कोऽयं त्रास इत्यलं गर्दभीदोहानुवर्तनेन । सङ्करालङ्कारेऽपीति ।
विरुद्धालंक्रियोल्लेखे समं तद्वृत्यसम्भवे । |
इति लक्षणादेकः प्रकारः । यथा ममैव-
शशिवदनासितसरसिजनयना सितकुन्ददशनपङ्क्तिरियम् । |
अत्र शशी वदनमस्याः तद्वद्वा वदनमस्या इति रूपकोपमोल्लेखाद्युगपद्वयास- म्भवादेकतरपक्षत्यागग्रहणे प्रमाणाभावात्सङ्कर इति व्यङ्गयवाच्यताया एवानिश्चयात्का ध्वनिसम्भावना । योऽपि द्वितीयः प्रकारः-शब्दार्थालङ्काराणामेकत्रभाव इति तत्रापि प्रतीयमानस्य का शङ्का । यथा-स्मर स्मरमिव प्रियं रमयसे यमालिङ्गनात् इति ।
बालप्रिया
नङ्गविशेषणम् । उत्तरेति । उत्तरोत्तरस्य पूर्वपूर्वजन्यत्वेऽपीत्यर्थः । अनेन क्रमिक- त्वमुक्तम् । उपमानेति । मनोविकार जनकत्वेन तेषां साम्यस्य कल्पयितुं शक्यत्वा- दित्यर्थः । क्रमिकाणामुपमानोपमेयभावं दर्शयति-राम इवेति । अत्र गुणविशेष- वत्वेन साम्यं बोध्यम् । न न भवतीति । भवत्येवेत्यर्थः । सोपहासमुपसंहरति- तस्मादित्यादि । सङ्करश्चतुर्विधः-सन्देहसङ्करादिभेदादिति; तेषां लक्षणानि भट्टोद्भट. मतानुरोधेन दर्शयति-विरुद्धेति । विरुद्धयोरलक्रिययोः उल्लेखः उल्लासः तस्मिन् सति । समं युगपत् । तद्वृत्यसम्भव इति । तयोर्वर्तनस्यासम्भव इत्यर्थः । एकस्य ग्रहे तयोरेकस्यान्यत्यागेन ग्रहणे । न्यायः साधकं मानम् । दोषः बाधकम् । शशीति । 'शशिवदनेत्यादि विशेषणत्रयं क्रमेण 'गगनेत्यादेरुपपाद- कम् । एकेति । एकतरस्य पक्षस्य त्यागे ग्रहणे चेत्यर्थः । इतीति हेतौ । व्यङ्गये. त्यादि। को व्यङ्गयः को वाच्य इत्यनिश्चयावयङ्ग यप्राधान्यकृतध्वनित्वसम्भावनापि
१. सन्देहसङ्कर इत्यर्थः।
२. 'असितसरसिजनयने ति पदच्छेदः 'इन्दीवरेण नयन' इति महाकविकालि. दासोक्तः।
३. एकवाचकानुप्रवेशरूपः । वाचकत्वं चात्र बोधकत्वम् ।
१६