विप्रलम्भशृङ्गारकरुणयोस्तु माधुर्यमेव प्रकर्षवत् । सहृदयहृदयावर्ज-
नातिशयनिमित्तत्वादिति ।
रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः । |
लोचनम्
विस्मयहासादिरागित्वं च त्यजतीत्यर्थः । अधिकमिति । क्रमेणेत्याशयः । तेन करु: णेऽपि सर्वथैव चित्तं द्रवतीत्युक्तं भवति । ननु करुणेऽपि यदि मधुरिमास्ति, तर्हि पूर्व- कारिकायां शृङ्गार एवेत्येवकारः किमर्थः। उच्यते-नानेन रसान्तरं व्यवच्छिंद्यते; अपि त्वात्मभूतस्य रसस्यैव परमार्थतो गुणा माधुर्यादयः, उपचारेण तु शब्दार्थयोरि- त्येवकारेण द्योत्यते । वृत्त्यार्थमाह-विप्रलम्भेति ॥ ८ ॥
रौद्रेत्यादि । आदिशब्दः प्रकारे । तेन वीरौद्भुतयोरपि ग्रहणम् । दीप्तिः प्रतिपत्तुर्हृदये विकासविस्तारप्रज्वलनस्वभावा । सा च मुख्यतया ओजश्शब्दवाच्या ।
बालप्रिया
त्यर्थः । विस्मयेति । रागित्वं रूषितत्वं विस्मयहासाद्याहितं विक्षेपमित्यर्थः । त्यज- तीति । तथा आद्रता नाम चित्तस्य शृङ्गारादिचर्वणाजन्यः काठिन्यादिपरित्यागः, तेन द्रुत्याख्यो वृत्तिविशेषो वेति भावः । स्पष्टमिदं काव्यप्रदीपोद्योते । क्रमेणेति । आर्द्र- तायाः क्रमेणाधिक्यमिति भावः । सर्वथैव अत्यधिकमेव । किमर्थ इति । किंशब्दः प्रश्ने । कः अर्थो यस्य सः । अन्ययोगव्यवच्छेदरूपार्थस्य बाधादिति भावः। प्रतिव- क्ति-उच्यत इत्यादि । एवकारश्शब्दतदर्थव्यवच्छेदपर इति भावः । वृत्तौ 'प्रकर्षव. देवेति योजना ॥ ८॥
प्रकार इति। सादृश्य इत्यर्थः, न तु प्राथम्ये । रौद्रानन्तरं वीरादेरेव पाठ इत्यत्रानियमादिति भावः। वीराद्भुतयोरिति । यद्यत्रादिपदेनाद्भुतं गृह्यते, तदा तस्य दीप्तिजनकत्वेन 'क्रोधादिदीप्तरूपत्वं विस्मयहासादीति पूर्वग्रन्थे क्रोधादीत्यादिपदेन विस्मयस्य ग्राह्यत्वात्पुनर्विस्मयेत्युक्तिरसरता स्यादतोऽत्र वीरबीभत्सयोरिति पाठेन भाव्यम् । उत्तरत्र "हास्यभयानकबीभत्सशान्तेष्वि"त्पत्र "बीभत्सेऽप्येवमिगत्यत्र च बीभत्सपदस्थाने अद्भतपदं च पठनीयं, तथा सति काव्यप्रकाशादिसंवादोऽपि भवति । तत्र शान्ते माधुर्यमात्र कथनं मतान्तराभिप्रायेण योज्यमिति प्रतिभाति । विकासेति । विकासरूपो यो विस्तारः तद्रूपं यत्प्रज्वलनं तत्स्वभावा तत्स्वरूपा दीप्तिर्नाम तथाविधा
१. अत्राद्भुतपदेन वीरविभावप्रभवत्यैवाद्भुतस्य प्रहणे न काचिच्छ कोदेतीति निपुणं निभालनीयम् ।