पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
नैषधीयचरिते

स ययौ धुतपक्षतिः क्षणं क्षणमूर्ध्वायनदुर्विभावनः ।
विततीकृतनिश्चलच्छदः क्षणमालोककदत्तकौतुकः ॥ ६८ ॥

 स इति ॥ स हंस एवंभूतः सन्ययौ। किंभूतः-क्षणं त्रिंशत्कलालक्षणं धुता कम्पिता पक्षतिः पक्षमूलं येन । तथा-क्षणमूर्ध्वमयनं गमनं तेन दुर्विभावनो दुर्लक्ष्यः। तथाक्षणं विततीकृतौ विस्तारितौ अत एव निश्चलौ निष्कम्पौ छदौ पक्षौ यस्य । सर्वापि पक्षिजातिः। अत एव आलोककानां पश्यतां जनानां दत्तं कौतुकं येन । एकत्र क्ष्यत्वादेव कौतूहलम् । आलोकयतेर्ण्वुल् ॥

तनुदीधितिधारया रयाद्गतया लोकविलोकनामसौ।
छदहेम कषन्निवालसत्कषपाषाणनिभे नभस्तले ॥ ६९ ॥

 तन्विति ॥ असौ हंसः अलसद्रराज । किं कुर्वन्निव-लोकविलोकनां जननयनगोचरं गतया प्राप्तया तनुदीधितिधारया शरीरदीप्तिधारया, गमनवेगात्तन्वी कृशा या दीधितिधारा तया वा कृत्वा कषपाषाणनिभे कषोपलतुल्ये गगने छदहेम पक्षसुवर्णं शुद्धमशुद्धं वेति परीक्षार्थं कषन्निव घर्षन्निव । निकषे सुवर्णलेखापि जनैर्विलोक्यते ॥

विनमद्भिरधःस्थितैः खगैर्झटिति श्येननिपातशङ्किभिः ।
स निरैक्षि दृशैकयोपरि स्यदझांकारितपत्रपद्धतिः॥ ७० ॥

 विनमद्भिरिति ॥ स हंसः स्वापेक्षयाधःस्थितैः खगैः पक्षिभिरेकया दृशा दृष्टया उपर्यर्ध्वं निरैक्षि दृष्टः । किंभूतैः-श्येनस्य निपातशङ्किभिः निपतनशङ्कनशीलैः। अत एवं झटिति विनमद्भिर्नम्रीभूतैः । किंभूतः-(श्येननिपातशङ्कायां हेतुः) स्यदेन वेगेन झांकारिता झाम् इत्याकारकशब्दं कुर्वती पत्रपद्धतिः पक्षसरणिर्य॑स्य । श्येनत्रस्तपक्षिजातिरियम् । झांकारितेति तारकादित्वादितच् । 'स्यदो जवे' इति निपातः ॥

ददृशे न जनेन यन्नसौं भुवि तच्छायमवेक्ष्य तत्क्षणात् ।
दिवि दिक्षु वितीर्णचक्षुषा पृथुवेगद्रुतमुक्तदृक्पथः ॥ ७१ ॥

 ददृश इति ॥ जनेन यन्गच्छन्नसौ हंसो न ददृशे न दृष्टः । किंभूतेन-भुवि भूम्यां तस्य हंसस्य छाया तच्छायमवेक्ष्य दृष्ट्वा तवलोकनार्थं तत्क्षणात्तस्मिन्नेव क्षणे दिवि गगने दिक्षु दिशासु च वितीर्णं दत्तं चक्षुर्येन। किंभूतः-(यतः) पृथुनातिशयेन वेगेन द्रुतं झटिति मुक्तस्त्यक्तः हक्पथो दृष्टिमार्गो येन । भुवि तच्छायां दृष्ट्वा तदवलोकनार्थं


१ 'अत्र दीपकजात्यलंकारसंकरः । यदुक्तं रुद्रटेन-संस्थानावस्थानक्रियादि यद्यस्य यादृशं भवति । लोके चिरप्रसिद्धं तत्कथनमनन्यथा जातिः । अत्र तिर्यग्जातिरुक्ता । अन्यमते तु स्वभावोक्तिरियम्' इति साहित्यविद्याधरी। २ 'अत्रोत्प्रेक्षोपमे अलंकारौ । व्यवहारसमारोपस्त्वाभ्यामलंकाराभ्यामेव । उपमा त्वत्रोत्प्रेक्षाया अङ्गभूता' इति साहित्यविद्याधरी। ३ 'अत्रापि जातिरलंकारः, काव्यलिङ्गं च' इति साहित्यविद्याधरी।