चकात्पक्षिनिषेधकाच्च च्वौ 'अस्य च्वौ' इतीकारः । पक्षिनिषेधकादशकुनिशब्दाद्द्वौ
'च्वौ च' इति दीर्घा वा । भावी [१]गम्यादिः॥
हंसोऽप्यसौ हंसगतेः सुदत्याः पुरःपुरश्चारु चलन्बभासे ।
वैलक्ष्यहेतोगतिमेतदीयामग्रेऽनुकृत्योपहसन्निवोच्चैः ॥१०॥
हंस इति ॥ न केवलं ताभिरेव हसिता, किं तु असौ हंसोऽपि वैलक्ष्यहेतोभैमील-
क्ष्योत्पादनमेव हेतुस्तस्य एतदीयां भैमीसंबन्धिनी गतिमस्या एवाग्रे अनुकृत्यानुसृत्य
उच्चैरतिशयेनोपहसन्निवोपहासं कुर्वन्निव बभासे शुशुभे । किं कुर्वन्-हंसवद्गतिर्ग-
मनं यस्यास्तस्याः सुदत्या भैम्याः पुरःपुरः अग्रेऽग्रे चारु रमणीयं चलन्गच्छन् । परिहा-
सकोऽपि वेषाद्यनुकरणेनान्यान्हेपयति । सुदत्याः, वैलक्ष्यहेतोरिति च ’षष्टयतसर्थ-'
इति 'षष्ठी हेतुप्रयोगे' इति [२]षष्ट्यौ॥
पदेपदे भाविनि भाविनि तं यथा करप्राप्यमवैति नूनम्।
तथा सखेलं चलता लतासु प्रतार्य तेनाचकृषे कृशाङ्गी ॥११॥
पद इति ॥ भावो हंसग्रहणानुसंधानं तद्वती सा भैमी भाविनि भविष्यति पदेपदे
चरणविन्यासे तं हंसं करप्राप्यं हस्तप्राप्यं नूनं निश्चयेन यथावैति जानाति उत्तरस्मि-
न्पदेऽवश्यमेतं धारयिष्यामीति यथा जानाति तथा सखेलं सक्रीडं चलता गच्छता
तेन हंसेन प्रतार्य वञ्चयित्वा सा कृशाङ्गी लतासु वल्लीसमीपे आचकृषे आकृष्टा ।
भाविनीयमिति पाठे भाविनि पदविशेषणम् । भामिनीति पाठे हस्ताप्राप्तेः कोपनेत्यर्थः।
कृशाङ्गीति विरहपीडा सूच्यते । प्राप्यं 'कृत्याश्च' इत्यावश्यके कृत्यैः[३]॥
रुषा निषिद्धालिजनां यदैनां छायाद्वितीयां कलयांचकार ।
तदा श्रमाम्भःकणभूषिताङ्गी स कीरवन्मानुषवागवादीत ॥१२॥
रुषेति ॥ कीरवच्छुकवन्मानुषी वाग्यस्य यथा शुको मनुष्यवाचा वदति तथा स
हंसो रुषा क्रोधेन निषिद्ध आलिजनः सखीसमूहो यया अत एव छायैव द्वितीया सह-
चरी यस्यास्तामेकाकिनीम् , तथा श्रमाम्भःकणैः श्रमजनितधर्मोदकबिन्दुभिः भूषित-
मङ्गं यस्यास्तां यदा कलयांचकार ज्ञातवान्, तदा तां प्रत्यवादीदुवाच । छायाद्वितीया-
मित्यनेन दूत्यावसरः सूचितः। श्रमाम्भ इत्यनेन श्रान्तेयमतः परं नागमिष्यतीति दूत्यं
कर्तुमशक्यं, तस्मादत्रैव स्थातव्यं मयोति सूचितम् । भूषितपदेन श्रमबिन्दूनां मुक्ता-
साम्यं सूचितम् । छायया कान्त्या अद्वितीयामविद्यमानप्रतिभटां, रुषा निषिद्धालिजनां,
श्रमाम्भःकणभूषिताङ्गी च यदा ज्ञातवानिति वा । मानुषस्य वागिव वाग्यस्येति वा[४] ॥
१ ‘अत्रापश्रुतिर्वक्रोक्तिश्चालंकारः' इति साहित्यविद्याधरी । २ 'अत्रोत्प्रेक्षालंकारः । यदुक्तं काव्यप्रकाशे-'संभावनमथोत्प्रेक्षा प्रकृतिश्च परेण यत्' । 'हंसगतेः' इति लुप्तोपमा' इति साहित्य- विद्याधरी। ३ 'छेकानुप्रासो जातिश्चालंकारः' इति साहित्यविद्याधरी। ४ 'अत्रोपमा रूपकं चा- लंकारः' इति साहित्यविद्याधरी।